________________
इत्यादेश्चागमादपि न तत्सिद्धिः । तस्याऽपि द्वैताऽविनाभावित्वेन अद्वैतं प्रति प्रामाण्याऽसम्भवात् । वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्राऽपि दर्शनात् । तदुक्तम्
'कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते ।
विद्या विद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा' । ।१ ॥
ततः कथमागमादपि तत्सिद्धिः । ततो न पुरुषाऽद्वैतलक्षणमेकमेव प्रमाणस्य विषयः । इति सुव्यवस्थितः प्रपञ्चः । इति काव्यार्थः ।। १३ ।।
अथ स्वाऽभिमतसामान्यविशेषोभयाऽऽत्मकवाच्यवाचकभावसमर्थनपुरःसरं
'तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचक भावनिरासद्वारेण तेषां
प्रतिभावैभवाऽभावमाह
अनेकमेकात्मकमेव वाच्यं
द्वयात्मकं वाचकमप्यवश्यम् 1 अतोऽन्यथा वाचकवाच्यक्र्लृप्तावतावकानां प्रतिभाप्रमादः || १४ ।।
वाच्यम्-अभिधेयं, चेतनमचेतनं च वस्तु एवकारस्याऽप्यर्थत्वात् सामान्यरूपतया एकात्मकमपि व्यक्तिभेदेनानेकंम् - अनेकरूपम् । अथवाऽनेकरूपमपि एकात्मकम् । अन्योऽन्यं संवलितत्त्वादित्यमपि व्याख्याने न दोषः । तथा च वाचकम्-अभिधायकं, शब्दरुपम् । तदप्यवश्यम् - - निश्चितं । द्वयात्मकं सामान्यविशेषोभयाऽऽत्मकत्वाद्एकाऽनेकात्मकमित्यर्थः । उभयत्र वाच्यलिङ्गत्वेऽप्यव्यक्तत्वाद् नपुंसकत्वम् । अवश्यमितिपदं वाच्यवाचकयोरुभयोरप्येकाऽनेकाऽऽत्मकत्वं निश्चिन्वत् तदेकान्तं व्यवच्छिनत्ति । अतः - उपदर्शितप्रकारात्, अन्यथासामान्यविशेषैकान्तरूपेण प्रकारेण, वाचकवाच्यक्लृप्तौ वाच्यवाचकभावकल्पनायाम्,
१. आप्तमीमांसा द्वितीयपरिच्छेदे श्लो. २५ ।
२. मतान्तरीयवादिप्रकल्पितम् ।
३. 'व्याख्याते' इति ख. पुस्तके पाठः ।
स्याद्वादमञ्जरी न
bh
ॐ ॐ ॐ ४ ९१