________________
निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि' ।१।।
ततः सिद्धे सामान्यविशेषात्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमब्रह्मणः प्रमाणविषयत्वम् । यच्च प्रमेयत्वादित्यनुमानमुक्तम्, तदप्येतेनैवाऽपास्तं बोद्धव्यम् । पक्षस्य प्रत्यक्षबाधितत्वेन हेतोः कालाऽत्ययाऽपदिष्टत्वात् । यञ्च तत्सिद्धौ प्रतिभासमानत्वसाधनमुक्तम्, तदपि साधनाभासत्वेन न प्रकृतसाध्यसाधनायालम् । प्रतिभासमानत्वं हि निखिलभावानां स्वतः परतो वा । न तावत् स्वतः । घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनाऽसिद्धेः । परतः प्रतिभासमानत्वं च-परं विना नोपपद्यते इति ।
यञ्च परमब्रह्मविवर्तवर्तित्वमखिलभेदानामित्युक्तम् । तदप्यत्र स्थलेऽन्वीयमानद्वया- विनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नात्येव । न च घटादीनां चैतन्याऽन्वयोऽप्यस्ति । मृदाद्यन्वयस्यैव तत्र दर्शनात् । ततो न किञ्चिदेतदपि । अतोऽनुमानादपि न तत्सिद्धिः । ..
किञ्च, पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्नाः, अभिन्ना वा । भेदे द्वैतसिद्धिः । अभेदे त्वेकरूपताऽऽपत्तिः । तत् कथ-मेतेभ्योऽनुमानमात्मानमासादयति । यदि च हेतुमन्तरेणाऽपि साध्यसिद्धिः स्यात्, तर्हि द्वैतस्यापि वाङ्मात्रतः कथं न सिद्धिः । तदुक्तम्
हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद् हेतुसाध्ययोः । हेतुना चेद् विना सिद्धिद्वैतं वाङ्मावतो न किम् ॥१॥ 'पुरुष' एवेदं सर्वम्' इत्यादेः, "सर्व वै खल्विदं ब्रह्म'
१. मीमांसा श्लोकवार्तिकसूत्र ५ आकृतिवादे-'निर्विशेषं न सामान्यं भवेच्छशविषाणवत् ।
सामान्यरहितत्वाञ्च विशेषास्तद्वदेव हि' ।।१०।। इति । २. आप्तमीमांसा, द्वितीयपरिच्छेदे श्लो. २६ । ३. ऋग्वेदे पुरुषसूक्ते । ४. छां. उ. ३-१४ । । (९०
unit स्याद्वादमञ्जरी