________________
प्रमाणतस्तस्यैव सिद्धेः परमपुरुष एक एव तत्त्वम्, सकलभेदानां तद्विवर्तत्वात्। तथा हि-सर्वे भावा ब्रह्मविवर्ताः, सत्त्वैकरूपेणाऽन्वितत्वात् । यद् यद्रूपेणाऽन्वितं तत् तदात्मकमेव । यथा-घटघटीशरावोदञ्चनादयो मृद्रूपेणैकेनाऽन्विता मृद्विवर्ताः, सत्त्वैकरूपेणाऽन्वितं च सकलं वस्तु, इति सिद्धं ब्रह्मविवर्तित्वं निखिलभेदानामिति ।
तदेतत् सर्वं मदिरारसाऽऽस्वादगद्गदोद्गीतमिवाऽभासते, विचारासहत्वात् । ... सर्वं हि वस्तु प्रमाणसिद्धं, न तु वाङ्मात्रेण । अद्वैत्तमते च. प्रमाणमेव नास्ति, तत् सद्भावे द्वैतप्रसङ्गात् । अद्वैतसाधकस्य प्रमाणस्य द्वितीयस्य सद्भावात् । अथ मतम्, लोकप्रत्यायनाय तदपेक्षया प्रमाणमप्यभ्युपगम्यते । तदसत् । तन्मते लोकस्यैवाऽसम्भवात्, एकस्यैव नित्यनिरंशस्यं परब्रह्मण एव सत्त्वात् । - अथाऽस्तु यथा कथञ्चित् प्रमाणमपि । तत्किं प्रत्यक्षमनुमानमागमो वा तत्साधकं प्रमाणमुररीक्रियते । न तावत् प्रत्यक्षम् । तस्य समस्तवस्तुजातगतभेदस्यैव प्रकाशकत्वात् । आबालगोपालं तथैव प्रतिभासनात् । यञ्च 'निर्विल्पकं प्रत्यक्षं तदावेदकम्' इत्युक्तम्। तदपि न सम्यक् । तस्य. प्रामाण्याऽनभ्युपगमात् । सर्वस्याऽपि प्रमाणतत्त्वस्य व्यवसायाऽऽत्मकस्यैवाऽविसंवादकत्वेन प्रामाण्योपपत्तेः । सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परमब्रह्मणः स्वप्नेऽप्यप्रतिभासनात् ।
यदप्युक्तं-'आहुर्विधातृ प्रत्यक्षम्' इत्यादि । तदपि न पेशलम् । प्रत्यक्षेण ह्यनुवृत्तव्यावृत्ताऽऽकाराऽऽत्मकवस्तुन एव प्रकाशनात् । एतच्च प्रागेव क्षुण्णम् । न ह्यनुस्यूतमेकमखण्डं सत्तामात्रं विशेषनिरपेक्षं सामान्यं प्रतिभासते । येन 'यदद्वैतं तद्ब्रह्मणो रूपम्' इत्याद्युक्तं शोभते । विशेषनिरपेक्षस्य सामान्यस्य खरविषाणवदप्रतिभासनात् । तदुक्तम्
१. 'सिद्धः' इति. ख. पुस्तके पाठः । २. विचारपूर्वं खण्डितम् । ३. 'शोभेत' इति रा. क. ख. घ. ह. पुस्तकेषु पाठः । स्याद्वादमञ्जरी anandhan )