________________
मानाऽर्थाऽपत्तिसंज्ञकानां भावविषयत्वेनैव प्रवृत्तेः । तथा चोक्तम्
"प्रत्यक्षाद्यवतारः स्याद् भावांशो गृह्यते यदा। । व्यापारस्तदनुत्पत्तेरभावांशे 'जिघृक्षिते' ।।१।।
यञ्चाऽभावाऽऽख्यं प्रमाणं । तस्य प्रामाण्याऽऽभावाद्-न तत् प्रमाणम् । तद्विषयस्य कस्यचिदप्यभावात् । यस्तु प्रमाणपञ्चकविषयः स विधिरेव । तेनैव च प्रमेयत्वस्य व्याप्तत्वात् । सिद्धं प्रमेयत्वेन विधिरेव तत्त्वम्, यत्तु न विधिरूपं, तद् न प्रमेयम्, यथा खरविषाणम्, प्रमेयं चेदं निखिलं वस्तुतत्त्वम्, तस्माद् विधिरूपमेव ।
__ अतो वा तत्सिद्धिःग्रामाऽऽरामाऽऽदयः पदार्थाः प्रतिभासान्तःप्रविष्टाः, प्रतिभासमानत्वात्, यत्प्रतिभासते तत्प्रतिभासान्तःप्रविष्टम्, यथा प्रतिभासस्वरुपम्, प्रतिभासन्ते च ग्रामाऽऽरामाऽऽदयः पदार्थाः, तस्मात् प्रतिभासान्तःप्रविष्टाः ।
आगमोऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते-'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उताऽमृतत्वस्येशानो यदन्नेनाऽतिरोहति ।' यदेजति, यत्रैजति, यद् दूरे, यदन्तिके । यदन्तरस्य सर्वस्य यदु सर्वस्याऽस्य बाह्यतः' इत्यादि । श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिवेदवाक्यैरपि तत्सिद्धेः । कृत्रिमेणाऽपि आगमेन तस्यैव प्रतिपादनात् । उक्तं च'सर्व वै खल्विदं ब्रह्म नेह नानाऽस्ति किञ्चन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन' ।।१।। इति
१. 'प्रत्यक्षाद्यवतारस्तु भावांशो गृह्यते यदा । व्यापारस्तदनुत्पत्तिरभावांशे जिघृक्षिते' ।।१७।। ___ इति मीमांसालोकवार्तिकसूत्र ५ अभावपरिच्छेदः । २. गृहीतुमिष्टे । ३. ऋग्वेद पुरुषसूक्ते । ४. ईशावास्योपनिषदि । . ५. अत्र ‘श्रोतव्योऽयमात्मा मन्तव्यो निदिध्यासितव्योऽनुमन्तव्य' इति विकृतः पाठो बहुषु
स्याद्वादमञ्जरीपुस्तकेषूपलभ्यते । परं वेदवाक्यं तथा नास्ति । इदं बृ. उपनिषदि ।
(CORAKARANAMANA स्याद्वादमञ्जरी