________________
वा । यदि सत्यं तर्हि तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्याद्, अद्वैतवादप्राकारे 'खण्डिपातात् । अथासत्यम्, तर्हि न किञ्चित् तेन साधयितुं शक्यम्, अवस्तुत्वात् । अभिन्नं चेत्, प्रपञ्चस्वभावतया तस्याऽपि मिथ्यारूपत्वाऽऽत्तिः । मिथ्यारूपं च तत् कथं स्वसाध्यसाधनायालम् । एवं च प्रपञ्चस्यापि मिथ्यारूपत्वासिद्धेः कथं परमब्रह्मणस्तात्त्विकत्वं स्यात् ? यतो बाह्याऽर्थाऽभावो भवेदिति ।
२ अथवा प्रकाराऽन्तरेण सन्मात्रलक्षणस्य परमब्रह्मणः साधनं दूषणं चोपन्यस्यते । ननु परमब्रह्मण एवैकस्य परमार्थसतो विधिरुपस्य विद्यमानत्वात् प्रमाणविषयत्वम् । अपरस्य द्वितीयस्य कस्यचिदप्यभावात् । तथाहि प्रत्यक्षं तदावेदकमस्ति । *प्रत्यक्षं द्विधा भिद्यते-निर्विकल्पकसविकल्पकभेदात् । ततश्च निर्विकल्पकप्रत्यक्षात् सन्मात्रविषयात् तस्यैकस्यैव सिद्धिः । तथा चोक्तम्
" अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकाऽऽदिविज्ञानसदृशं शुद्धवस्तुजम् ।।१।।
न च विधिवत् परस्परव्यावृत्तिरप्यध्यक्ष एव प्रतीयते इति द्वैतसिद्धिः । तस्य निषेधाऽविषयत्वात् । 'आहुर्विधातृ प्रत्यक्षं न निषेद्धृ' इत्यादिवचनात् । यच्च सविकल्पप्रत्यक्षं घटपटाऽऽदिभेदसाधकं तदपि सत्तारूपेणान्वितानामेव तेषां प्रकाशकत्वात् सत्ताऽद्वैतस्यैव साधकम् । सत्तायाश्च परमब्रह्मरूपत्वात् । तदुक्तम्-‘यदद्वैतं तद् ब्रह्मणो रूपम्' इति ।
,
अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि - विधिरेव तत्त्वं, प्रमेयत्वात् यतः प्रमाणविषयभूतोऽर्थः प्रमेयः । प्रमाणानां च प्रत्यक्षाऽनुमानाऽगमोप
१. 'खङ्गपातात्' इति रा. पुस्तके पाठः ।
२. इदं च वादस्थलं काव्याऽर्थव्याख्याऽनुरोधेन नियन्त्रितमेवोपन्यस्तं सांप्रतमुक्तलक्षणमेवोपन्यस्यामः । ३. 'द्वितीयस्य' इति ख. पुस्तके नास्ति ।
४. 'प्रत्यक्षं हि' इति क पुस्तके पाठः ।
५. मीसांसालोकवार्तिकसूत्र ४ प्रत्यक्षसूत्रे श्लोक. ११२ ।
६. 'अपि प्रत्यक्षात्' इति क पुस्तके पाठः । तदग्रे 'एव' इति ख. पुस्तके नास्ति ।
(स्याद्वादमञ्जरी
ॐ ॐ ॐ ॐ ॐ ८७