________________
ध्वस्तात्यन्तकुतर्कतंत्रतिमिराः स्वत्वावकाशत्विषा ये जैनागमतत्त्वलाभललिताः संसारपारैषिणः । भूयासुर्भुवि हेमचन्द्रगुरवस्ते द्वादशांगीद्विषां : पापोल्लापजुषामशेषमसतां मूकत्वजीवातवः ।।
दिशतु दयितधर्मध्यानसंतानशर्म त्रिभुवनमुकुटाईत्पादपूजापरीतम् । समयनयगमार्थज्ञानगाथाभिरूच्चैः कुमतमथनमल्लो मल्लिषेणो मुनीन्द्रः ।