________________
धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ।।११।। तथा आत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ।।१२।।
सामान्यमात्रग्राही परामर्शः संग्रहः ।।१३।।
अयमुभयविकल्पः परोऽपरश्च ।।१४।। अशेषविशेषेषु औदासीन्यं भजमान: शुद्धद्रव्यं
सन्मात्रमभिमन्यमानः परसंग्रहः ।।१५।। विश्वमेकं सदविशेषादिति यथा ।।१६।।
अथ नैगमाभासमाहुःधर्मद्वयादीनामेकान्तिकपार्थक्याभिसन्धिर्नेगमाभासः ।।११।।
आदिशब्दाद् धर्मिद्वयधर्मिद्वययोः परिग्रहः । ऐकान्तिकपार्थक्याभिसन्धिरैकान्तिकभेदाभिप्रायो नैगमाभासो नैगमदुर्नय इत्यर्थः ।।११।। .
अत्रोदाहरन्तियथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ।।१२।।
आदिशब्दाद्वस्त्वाख्यपर्यायवद्रव्याख्ययोधर्मिणोः सुखजीवलक्षणयोर्धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम् । नैयायिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम् ।।१२।।
अथ संग्रहस्वरूपमुपवर्णयन्ति- . . . .
सामान्यमात्रग्राही परामर्शः संग्रहः ।।१३।। ' ___सामान्यमात्रशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः, समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रहः ।। अयमर्थः स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स संग्रह इतिं ।।१३।।
अमुं भेदतों दर्शयन्तिअयमुभयविकल्पः परोऽपरश्च ।।१४।।
तत्र परसंग्रहमाहुःअशेषविशेषेष्वोदासीन्यं भज़मानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ।।१५।। परामर्श इत्यग्रेतनेऽपि योजनीयम् ।।१५।।
उदाहरन्तिविश्वमेकं सदविशेषादिति यथा ।।१६।।
अस्मिन् उक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां संगृह्यते ।।१६।। .
(१८६
स्याद्वादमञ्जरी