SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभासः ।।१७।। यथा सत्तैव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् ।।१८।। द्रव्यत्वादीनि अवान्तरसामान्यानि मन्वानस्तद्भेदेषु . गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ।।१९॥ . धर्माऽधर्माऽऽकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदात् इत्यादिर्यथा ।।२०।। एतदाभासमाहुःसत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ।।१७।। अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः संग्रहाख्यां लभते, न चायं तथेति तदाभासः ।।१७।। उदाहरन्तियथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ।।१८॥ अद्वैतवादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् । अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ।।१८।।। अथापरसंग्रहमाहुःद्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्धेदेषु गजनिमीलिकामवलम्बमानः । पुनरपरसंग्रहः ।।१९।। द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अंवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपेक्षाम् ।।१९।। उदाहरन्ति- . धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामेक्यं द्रव्यत्वाभेदादित्यादिर्यथा ।।२०।। अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाचेतनाचेतनपर्यायाणां सर्वेषामेकत्वम्। पर्यायत्वाविशेषादित्यादि दृश्यम् ।।२०।। एतदाभासमाः स्याद्वादमञ्जरी iritualitarian ९८७)
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy