SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ।।६।। धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः ।।७।। सत् चैतन्यमात्मनीति धर्मयोः ।।८॥ वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ।।९।। क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ।।१०।। आद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ।।६।। आद्यो द्रव्यार्थिकः ।।६।। तत्र नैगमं प्ररूपयन्ति धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ।।७।। पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा बोधमार्गा यस्यासी नैगमो नाम नयो ज्ञेयः ।।७।। अथास्योदाहरणाय सूत्रत्रयीमाहुः- .. . सबैतन्यमात्मनीति धर्मयोः ।।८।। प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् । विशेष्यत्वाद् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन । तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ।।८।। वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ।।९॥ - अत्र हि पर्यायवद् द्रव्यं वस्तु वर्त्तत इति विवक्षायां पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा । किं वस्तु पर्यायवद्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम्, पर्यायवद् द्रव्यस्य तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ।।९।। क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ।।१०।। अत्र हि विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात्, सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्मधालम्बनोऽयं नैगमस्य तृतीयो भेदः । न चास्यैवं प्रमाणात्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसंभवात् तयोरन्यतर एव हि नैगमनयेन प्रधानतयानुभूयते । प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवाद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान स्याद्वादमञ्जरी AddakarAAAAAAAAR८५)
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy