________________
पलम्भनियमोऽस्ति, अभेदश्च नास्ति । इति सहोपलम्भनियमरूपस्य हेतोर्विपक्षाद् व्यावृत्तेः संदिग्धत्वात् संदिग्धाऽनैकान्तिकत्वम् । __ असिद्धश्च सहोपलम्भनियमः 'नीलमेतत्' इति बहिर्मुखतयाऽर्थेनाऽनुभूयमाने तदानी- मेवाऽन्तरस्य नीलाऽनुभवस्याऽननुभावात् । इति कथं प्रत्यक्षस्याऽनुमानेन ज्ञानार्थयोरभेदसिद्ध्या भ्रान्तत्वम् । अपि च, प्रत्यक्षस्य भ्रान्तत्वेनाऽबाधितविषयत्वादनुमानस्याऽऽत्मलाभः, लब्धात्मके चाऽनुमाने प्रत्यक्षस्य भ्रान्तत्वम्, इत्यन्योन्याश्रयदोषोऽपि दुर्निवारः । अर्थाऽभावे च नियतदेशाऽधिकरणा प्रतीतिः कुतः । न हि तत्र विवक्षितदेशेऽयमारोपयितव्यो नान्यत्रेत्यस्ति नियमहेतुः । वासनानियमात्तदारोपनियम इति चेत् । न,तस्या अपि तद्देशनियम- कारणाभावात्। सति ह्यर्थसद्भावे यद्देशोऽर्थस्तद्देशोऽनुभवः तद्देशा च तत्पूर्विका वासना । बाह्यार्थाऽभावे तु तस्याः किंकृतो देशनियमः । अथाऽस्ति तावदारोपनियमः । न च कारणविशेषमन्तरेण कार्यविशेषो घटते । बाह्यश्चाथो नास्ति । तेन वासनानामेव वैचित्र्यं तत्र हेतुरिति चेत् तासनावैचित्र्यं बोधाऽऽकारादन्यत्, अनन्यद्वा । अनन्यचेत् । बोधाऽऽकारस्यैक- त्वात्कस्तासां परस्परतो विशेषः ।
अन्यचेत् । अर्थे कः प्रद्वेषः, येन सर्वलोकप्रतीतिरपह्वयते । तदेवं सिद्धो ज्ञानार्थयोर्भेदः। तथा च प्रयोग:-विवादाऽध्यासितं नीलादि ज्ञानाव्यतिरिक्तं, विरुद्धधर्माऽध्यस्तत्वात् । विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः, अर्थस्य च बहिः । ज्ञानस्याऽपरकाले, अर्थस्य च पूर्वकाले वृत्तिमत्त्वात् । ज्ञानस्यात्मनः सकाशात्, अर्थस्य च स्वकारणेभ्य उत्पत्तेः । ज्ञानस्य प्रकाशरूपत्वात्, अर्थस्य च जडरूपत्वादिति । अतो न ज्ञानाऽद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमानाऽर्थप्रतीतिः कथमपि 'सङ्गतिमङ्गति । न च दृष्टमपह्नोतुं शक्यमिति । अत एवाऽह स्तुतिकार:-न संविदद्वैतपथेऽर्थसंवित् इति । सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तु-स्वरूपमनयेति संवित् । स्वसंवेदनपक्षेतु संवेदनं संवित् ज्ञानम्, तस्या अद्वैतम्, द्वयोर्भावो द्विता, द्वितैव द्वैतं, प्रज्ञादित्वात् स्वार्थिकेऽणि, न द्वैतमद्वैतम्, बाह्यार्थप्रतिक्षेपादेकत्वं संविदद्वैतं ज्ञानमेवैकं तात्त्विकं न बाह्योऽर्थ इत्यभ्युपगम्यत इत्यर्थः, तस्य पन्था मार्गः संविदद्वैतपथस्तस्मिन् ज्ञानाद्वैतवादपक्ष इति यावत् । किमित्याह नार्थसंवित् । येयं
१. अङ्गति-प्राप्नोति । २. 'प्रज्ञादिभ्योऽण्' हैमसूत्र ७-२-१६५ । (९२२) ardhakikat
स्याद्वादमञ्जरी