________________
बहिर्मुखतयाऽर्थप्रतीतिः साक्षादनुभूयते सा न घटते इत्युपस्कारः । एतच्चाऽनन्तरमेव भावितम् । एवं च स्थिते सति किमित्याह-विलूनशीर्णं सुगतेन्द्रजालम् इति । सुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातम इन्द्रजालमिवेन्द्रजालं, मितव्यामोहविधातृत्वात्, सुगतेन्द्रजालं सर्वमिदं विलूनशीर्णम्-पूर्व विलून पश्चात् शीर्णं विलूनशीर्णम् । यथा किञ्चित् तृणस्तम्बादि विलूनमेव शीर्यते विनश्यति, एवं तत्कल्पितमिदमिन्द्रजालं तृणप्रायं धारायुक्तिशत्रिकया छिन्नं सद् विशीर्यत इति । अथवा यथा निपुणेन्द्रजालिक-कल्पितमिन्द्रजालमवास्तव तत्तद्वस्त्वद्भुततोपदर्शनेन तथाविधं बुद्धिदुर्विदग्धंजनं विप्रतार्य पश्चादिन्द्रधनुरिव निरवयवं विलूनशीर्णतां कलयति, तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्कालाभेदक्षणक्षयज्ञानार्थहेतुकत्वाऽज्ञानाद्वैताऽभ्युपगमाऽऽदि सर्वं प्रमाणानभिज्ञं लोकं व्यामोहयमानमपि युक्या विचार्यमाणं "विशरारुतामेव सेवत इति । अत्र च सुगतशब्द उपहासाऽर्थः । सौगता हि शोभनं गतं ज्ञानमस्येति सुगत इत्युशन्ति । ततश्चाऽहो ? तस्य शोभनज्ञानता, येनेत्थमयुक्तियुक्तमुक्तम् । इति काव्यार्थः ।।१६।। .. .. .
अथ तत्त्वव्यवस्थापकप्रमाप्पाऽऽदिचतुष्टव्यवहारापलापिनः शून्यवादिनः सौगत- जातीयांस्तत्कक्षीकृतपक्षसाधकस्य प्रमाणस्याऽङ्गीकारानङ्गीकारलक्षणे पक्षद्वयेऽपि तदभिमताऽर्थाऽसिद्धिप्रदर्शनपूर्वकमुपहसन्नाह
विना प्रमाणं परवन्न शून्या स्वपक्षसिद्धेः पदमश्नुवीत | कुप्येत्कृतान्त: स्पृशते प्रमाण महो ! सुदृष्टं त्वदसूयिदृष्टम् ।।१७।।
१. 'विधायित्वात्' इति क. ह. पुस्तकयोः पाठः । २. तीक्ष्णधारायुक्तशस्त्रिका । बरच्छीति भाषायाम् । ३. 'दुर्विदग्ध' इति ह. पुस्तके पाठः । ४. विशरारुता-विशीर्णशीलता । . ५. उशन्ति-इच्छन्ति स्याद्वादमञ्जरीnindi
१२३)