________________
शून्यः शून्यवादी प्रमाणं प्रत्यक्षाऽऽदिकं विना अन्तरेण स्वपक्षसिद्धेः स्वाभ्युपगत- शून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाश्रुवीत न प्राप्नुयात् । किंवत्, परवत-इतरप्रामाणिकवत् । वैधयेणाऽयं दृष्टान्तः । यथा इतरे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिमश्रुवते, एवं नायम् । अस्य मते प्रमाणप्रमेयाऽदिव्यवहारस्याऽपारमार्थिकत्वात् 'सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्याऽऽरूढेन धर्मधर्मिभावेन न बहिःसदसत्त्वमपेक्षते' इत्यादिवचनात् । अप्रमाणकश्च शून्यवादाऽभ्युपगमः कथमिव प्रेक्षावतामुपादेयो भविष्यति । प्रेक्षावत्त्वव्याहतिप्रसंगात् । अथ चेत् स्वपक्षसंसिद्धये किमपि प्रमाणमयमङ्गीकुरुते, तत्रायमुपालम्भः-कुप्येदित्यादि, प्रमाणं प्रत्यक्षाद्यन्यतमत् स्पृशते आश्रयमाणाय, प्रकरणादस्मै शून्यवादिने, कृतान्तस्तत्सिद्धान्तः तत्कोपं कुर्यात् सिद्धान्तबाधः स्यादित्यर्थः । यथा किल सेवकस्य विरुद्धवृत्त्या कुंपितो नृपतिः सर्वस्वमपहरति, एवं तत्सिद्धान्तोऽपि शून्यवादविरुद्धं प्रमाणव्यवहारमङ्गीकुर्वाणस्य तस्य सर्वस्वभूतं सम्यग्वादित्वमपहरति । . . . ___किञ्च, स्वागमोपदेशेनैव तेन वादिना शून्यवादः प्ररूप्यते, इति स्वीकृतमागमस्य प्रामाण्यमिति कुतस्तस्य स्वपक्षसिद्धिः, प्रमाणाऽङ्गीकरणात् । किञ्च, प्रमाणं प्रमेयं विना न भवतीति प्रमाणानङ्गीकरणे प्रमेयमपि विशीर्णम् । ततश्चाऽस्य मूकतैव युक्ता, न पुनः शून्यवादोपन्यासाय 'तुण्डताण्डवाडम्बरं, शून्यवादस्याऽपि प्रमेयत्वात् । अत्र च स्पृशिधातुं कृतान्तशब्दं च प्रयुआनस्य सूरेरयमभिप्रायःयद्यसौ शून्यवादी दूरे प्रमाणस्य सर्वथाऽङ्गीकारो यावत् प्रमाणस्पर्शमात्रमपि विधत्ते, तदा तस्मै कृतान्तो यमराजः कुप्येत्, तत्कोपो हि मरणफलः । ततश्च स्वसिद्धान्तविरुद्धामसौ प्रमाणयन् निग्रहस्थानाऽऽपनत्वाद् मृत एवेति ।
एवं सति ।अहो इत्युपहासप्रशंसायाम् । तुभ्यमसूयन्ति गणेषु दोषानाविष्कुर्वन्तीत्येवं शीलास्त्वदसूयिनस्तत्रान्तरीयास्तैदृष्टंमत्यज्ञानचक्षुषा निरीक्षितमहो । सुदृष्टं-साधु दृष्टम् । विपरीतलक्षणयोपहासान सम्यग् दृष्टमित्यर्थः । अत्राऽसूयधातोस्ताच्छीलिकणक्प्राप्तावपि बाहुलकाण्णिन् । असूयाऽस्त्येषामित्यसूयिनस्त्वय्यसूयिनस्त्वदसूयिन इति मत्वर्थीयाऽन्तं वा । त्वदसूयुदृष्टमिति पाठेऽपि न किञ्चिदचारु, असूयुशब्दस्योदन्तस्योदयनाद्यैायतात्पर्यपरिशुद्ध्यादौ मत्सरिणि प्रयोगादिति ।
१. तुण्डं-आननम् । ताण्डवं-नर्तनम् । आडम्बरम्-आटोपः । . (१२४) TAAR
स्याद्वादमञ्जरी