________________
इह शून्यवादिनामयमभिसंधिः-प्रमाता, प्रमेयं, प्रमाणं, प्रमितिरिति तत्त्वचतुष्टयं परपरिकल्पतमवस्त्वेव, विचाराऽसहत्वात्, तुरङ्गशृङ्गवत् । तत्र प्रमाता तावदात्मा, तस्य च प्रमाणग्राह्यत्वाभावादभावः । तथाहि न प्रत्यक्षेण तत्सिद्धिः, इन्द्रियगोचरातिक्रान्तत्वात्। यत्तु अहङ्कारप्रत्ययेन तस्य मानसप्रत्यक्षत्वसाधनम्, तदप्यनैकान्तिकम्, तस्याऽहं गौरः, श्यामो वेत्यादौ शरीराऽऽश्रयतयाप्युपपत्तेः । किञ्च, यद्ययमहङ्कारप्रत्यय आत्मगोचरः स्यात् तदा न कादाचित्कः स्यात् आत्मनः सदा सन्निहितत्वात्, कादाचित्कं हि ज्ञानं, कादाचित्ककारणपूर्वकं दृष्टम् । यथा
सौदामिनीज्ञानमिति । नाप्यनुमानेन, अव्यभिचारिलिङ्गग्रहणात्-। आगमानां च परस्परविरुद्धार्थवादिनां नास्त्येव प्रामाण्यम् । तथाहि एकेन कथमपि कश्चिदर्थो व्यवस्थापितः, अभियुक्ततरेणाऽपरेण स एवान्यथा व्यवस्थाप्यते, स्वयमव्यवस्थितप्रामाण्यानां च तेषां कथमन्यव्यवस्थापने सामर्थ्यम्, इति नास्ति प्रमाता ।
प्रमेयं च बाह्योऽर्थः, स चाऽनन्तरमेव बाह्याऽर्थप्रतिक्षेपक्षणे निर्लोठितः । प्रमाणं च स्वपराऽवभासि ज्ञानम्, तञ्च प्रमेयाऽभावे कस्य ग्राहकमस्तु, निर्विषयत्वात् । किं च, एतत् अर्थसमकालम्, तद्भिन्नकालं वा तद्ग्राहकं कल्प्येत । आद्यपक्षे, त्रिभुवनवर्तिनोऽपि पदार्थास्तत्रावभासेरन् । समकालत्वाविशेषात् । "द्वितीये तु, निराकारम्, साकारम्, वा तत्स्यात् । प्रथमे, प्रतिनियतपदार्थपरिच्छेदाऽनुपपत्तिः । द्वितीये तु, किमयमाकारो व्यतिरिक्तः, अव्यतिरिक्तो वा "ज्ञानात् । अव्यतिरेके, ज्ञानमेवाऽयम्, तथा च निराकारपक्षदोषः । व्यतिरेके, यद्ययं चिद्रूपस्तदानीमाकारोऽपि वेदक: स्यात्तथा. चायमपि निराकारः साकारो वा तद्वेदको भवेत् इत्यावर्त्तनेनाऽनवस्था । अथ, अचिद्रूपः, किमज्ञातः, ज्ञातो वा तज्ज्ञापक: स्यात् । प्राचीने विकल्पे, चैत्रस्येव मैत्रस्यापि तज्ज्ञापकोऽसौ स्यात् । तदुत्तरे तु, निराकारेण, साकारेण वा ज्ञानेन, तस्याऽपि ज्ञानं स्यात्, इत्याद्यावृत्तावनस्थैवेति ।
१. अभिसंधिः-समाधानम् । २. 'वेत्यादि' इति ह. पुस्तके पाठ: । । ३. सौदामिनी-विद्युत् । ४. द्वितीयेऽपि' इति क. पुस्तके पाठः । ५. 'स्यात्' इति घ. पुस्तके पाठ: । स्याद्वादमञ्जरी
ruin
१२५)