________________
इत्थं प्रमाणाऽभावे तत्फलरूपा प्रमितिः कुतस्तनी, इति सर्वशून्यतैव परं तत्त्वमिति । तथा च पठन्ति
'यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा ।
यदेतद् स्वयमर्थेभ्यो रोचते तत्र के वयम्' ।।१।। इति पूर्वपक्ष: ।
विस्तरतस्तु प्रमाणखण्डनं तत्त्वोपप्लवसिंहादवलोकनीयम् ।
अत्र प्रतिविधीयते ननु यदिदं शून्यवादव्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तम्। तत् शून्यम्, अशून्यम् वा ? । शून्यं चेत् । सर्वोपाख्याविरहितत्वात् खपुष्पेणेव नाऽनेन किञ्चित्साध्यते, निषिध्यते वा । ततश्च निष्प्रतिपक्षा प्रमाणादितत्त्वचतुष्टयीव्यवस्था । अशून्यं चेत् । प्रलीनस्तपस्वी शून्यवादः । भवद्वचनेनैव सर्वशून्यताया व्यभिचारात्, तत्राऽपि निष्कण्टकैव सा भगवती । तथापि प्रामाणिकसमयपरिपालनार्थ किञ्चित् तत्साधनं दूष्यते । तत्र यत्तावदुक्तम् प्रमातुः प्रत्यक्षेण न सिद्धिः, इन्द्रियगोचराऽतिक्रान्तत्वादिति, तत्सिद्धसाधनम्। यत्पुनः, अहंप्रत्ययेन तस्य मानसप्रत्यक्षत्वमनैकान्तिकमित्युक्तम् । तदसिद्धम् । ‘अहं सुखी' ‘अहं दुःखी' इति - अन्तर्मुखस्य प्रत्ययस्य आत्माऽलम्बनतयैवोपपत्तेः । तथा चाऽऽहु:
'सुखादि' 'चेत्यमानं हि स्वतन्त्रं नाऽनुभूयते । मतुबंर्थाऽनुवेनुधात्तु सिद्धं ग्रहणमात्मनः । । १ । । इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ।।२ । । '
यत्पुनः ‘अहं गौरः, अहं श्यामः' इत्यादिबहिर्मुखः प्रत्ययः, स खल्वात्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते । यथा-प्रियभृत्येऽहमितिव्यपदेशः ।
१. अयं ग्रन्थः केन प्रणीत इति न ज्ञायते ।
२. चेत्यमानम्-ज्ञायमानम् ।
१२६ॐॐॐॐॐॐॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ स्याद्वादमञ्जरी