________________
व्यपेक्षक्रियावशात् प्रादुर्भूतं संयोगाऽतिशयमपेक्ष्येयमवितथैव' । यदपि किञ्चाऽयमनेकाऽवयवाऽऽधार इत्यादि न्यगादि, तत्राऽपि कथञ्चिद्विरोध्यनेकाऽवयवाऽविष्वग्भूतवृत्तिरवयव्यभिधीयते । तत्र च यद्विरोध्यनेकाऽवयवाधारतायां विरुद्ध धर्माध्यासनमभिहितं तत्कथञ्चिदु पेयत एव । तावदवयवाऽऽत्मकस्य तस्याऽपि कथञ्चिदनेकरूपत्वात् । यचोपन्यस्तम्अपिच, असौ तेषु वर्तमानः कात्स्येनैकदेशेन वा वर्तेतेत्यादि । तत्रापि विकल्पद्वयानभ्युपगम एवोत्तरम् । अविष्वग्भावेनाऽवयविनोऽवयवेषु वृत्तेः स्वीकारात् । किञ्च, यदि बाह्योऽर्थो नास्ति, किमिदानीं नियताऽऽकारं प्रतीयते नीलमेतत्, इति । विज्ञानाऽऽकारोऽयमिति चेत् । न, ज्ञानाद् बहिर्भूतस्य संवेदनात् । ज्ञानाऽऽकारत्वे तु 'अहं नीलम्' इति प्रतीतिः स्यान तु 'इदं नीलम्' इति । ज्ञानानां प्रत्येकमाकारभेदात् कस्यचिद् ‘अहम्' इति प्रतिभासः, कस्यचिद् 'नीलमेतत्' इति चेत् । नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्वाभावात् । तथा च यदेकेनाहमीति प्रतीयते तदेवाऽपरेण त्वमिति प्रतीयते । नीलाद्याकारस्तु व्यवस्थितः, सर्वैरप्येकरूपतया ग्रहणात् । भक्षितहत्पूरादिभिस्तु यद्यपि नीलादिकं पीतादितया गृह्यते, तथापि तेन न व्यभिचारः, तस्य भ्रान्तत्वात् । स्वयं स्वस्य संवेदनेऽहमिति प्रतिभास इति चेत् । ननु किं परस्याऽपि संवेदनमस्ति, कथमन्यथा स्वशब्दस्य प्रयोगः, प्रतियोगिशब्दो ह्ययं परमपेक्षमाण एव प्रवर्तते । स्वरूपस्याऽपि भ्रान्त्या भेदप्रतीतिरिति चेत् । हन्त ! प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः । भ्रान्तं प्रत्यक्षमिति चेत् । ननु कुत एतत् । अनुमानेन ज्ञानाऽर्थयोरभेदसिद्धेरिति चेत् । किं तदनुमानमिति पृच्छामः । यद्येन सह नियमेनोपलभ्यते तत् ततो न भिद्यते, यथा सञ्चन्द्राद सञ्चन्द्रः, नियमेनोपलभ्यते च ज्ञानेन सहाऽर्थः, इति व्यापकानुपलब्धिः प्रतिषेध्यस्य ज्ञानार्थयोर्भेदस्य व्यापकः सहोपलम्भाऽनियमस्तस्यानुपलब्धिः भिन्नयोर्नीलपीतयोर्युगपदुपलम्भनियमाऽभावात्, इत्यनुमानेन तयोरभेदसिद्धिरिति चेत् । न, संदिग्धानकान्तिकत्वेनास्यानुमानाऽऽभासत्वात् । ज्ञानं हि स्वपरसंवेदनम्, तत्परसंवेदनतामात्रेणैव नीलं गृह्णाति, स्वसंवेदनतामात्रेणैव च नीलबुद्धिम् । तदेवमनयोर्युगपदग्रहणात्सहो१. 'अविरुद्धैव' इति क. पुस्तके पाठः ।। २. हत्पूरः पित्तरोगकरः फलविशेषस्तद्भक्षणेन पित्तपीतिम्ना सर्वे पदार्थाः पीता इव भासन्ते । स्याद्वादमञ्जरी randik
i nititi १२१)