SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ स्वप्नज्ञानमप्यनुभूतदृष्टाद्यर्थविषयत्वान्न निरालम्बनम् । तथा च 'महाभाष्यकार: ''अणुहूयदिठ्ठचिंतियसुयपयइवियारदेवयाणूवा । सुमिणस्य निमित्ताइं पुण्णं पावं च णाभावो' । ।१॥ यश्च ज्ञानविषयः स बाह्योऽर्थः । भ्रान्तिरियमिति चेत् । चिरं जीव, भ्रान्तिर्हि मुख्येऽर्थे क्वचिद् दृष्टे सति करणाऽपाटवादिनाऽन्यत्र विपर्यस्तग्रहणे प्रसिद्धा, यथा शुक्तौ रजतभ्रान्तिः । अर्थक्रियासमर्थेऽपि वस्तुनि यदि भ्रान्तिरुच्यते, तर्हि प्रलीना भ्रान्ताऽभ्रान्तव्यवस्था । तथा च सत्यमेतद्वच: 'आशामोदकतृप्ता ये ये चाऽऽस्वादितमोदकाः । रसवीर्यविपाकादि तुल्यं तेषां प्रसज्यते ' ॥ १ ॥ । न चामून्यर्थदूषणानि स्याद्वादवादिनां बाधां विदधते । परमाणुरूपस्य, स्थूलावयविरुपस्य चार्थस्याऽङ्गीकृतत्वात् । यच्च परमाणुपक्षखण्डनेऽभिहितंप्रमाणाभावादिति । तदसत्, तत्कार्याणां घटादीनां प्रत्यक्षत्वे तेषामपि कथञ्चित् प्रत्यक्षत्वं, योगिप्रत्यक्षेण च साक्षात्प्रत्यक्षत्वमवसेयम् । अनुपलब्धिस्तु सौक्ष्म्यात् । अनुमानादपि तत्सिद्धिः । यथा सन्ति परमाणवः, स्थूलावयविनिष्पत्त्यन्यथानुपपत्तेः, इत्यन्तर्व्याप्तिः । न चाणुभ्यः स्थूलोत्पाद इत्येकान्तः ३, स्थूलादपि सूत्रपटलादे: स्थूलस्य पटादेः प्रादुर्भावविभावनात्। आत्माकाशादेर ४पुद्गलत्वकक्षीकाराञ्च । यत्र पुनरणुभ्यस्तदुत्पत्तिस्तत्र तत्कालादिसामग्रीस - १. इमे महाभाष्यकाराः युगप्रधानाचार्याः श्रीजिनभद्रगणिक्षमाश्रमणपादाः । एतै आवश्यकसूत्रस्य सामायिकांख्यस्य प्रथमाध्ययनस्य मूलसूत्रोपरि तदेव विशेषावश्यकसंज्ञकं गाथात्मकं भाष्यं रचितमस्ति । तत् महाभाष्यमभिधीयते तत्रेयं १७०३ परिमिता गाथा । २. छाया - अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदैविकाऽनूपाः वा । स्वप्रस्य निमित्तानि पुण्यं पापं च नाऽभावः ।।१७०३।। ३. एकान्तः - नियमः । ४. 'पुद्गलकार्यत्व' इति ह. पुस्तके पाठः । १२० ॐॐॐॐॐॐॐॐॐॐॐॐ स्याद्वादमञ्जरी
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy