________________
एकस्मिन्नेव स्थूलावयविनि चलाऽचलरक्ताऽरक्तवृताऽनावृतादिविरुद्धाऽवयवानामुपलब्धेः ।अपिच असौतेषुवर्तमानः कात्स्न्येन एकदेशेन वा वर्तते । कात्येन वृत्तावेकस्मिन्नेवाऽवयवे परिसमाप्तत्वादनेकाऽवयववृत्तित्वं न स्यात् प्रत्यवयवं कात्स्येन वृत्तौ चावयविबहुत्वाऽऽपत्तेः । एकदेशेन वृत्तौ च तस्य निरंशत्वाभ्युपगमविरोधः । सांशत्वे वा तेंऽशास्ततो भिन्नाः, अभिन्ना वा । भिन्नत्वे पुनरप्यनेकांशवृत्तेरेकस्य कात्स्यैकदेशविकल्पा- ऽनतिक्रमादनवस्था । अभिन्नत्वे न केचिदंशाः स्युः । इति नास्ति बाह्योऽर्थः कश्चित् । किन्तु ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रतिभाति, बाह्यार्थस्य जडत्वेन प्रतिभासायोगात् । यथोक्तम् ‘स्वाऽऽकारबुद्धिजनका दृश्या नेन्द्रियगोचराः' । २अलङ्कारकारेणाप्युक्तम्-. .... 'यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत् संवेद्यते नीलं कथं बाह्यं तदुच्यते ? ॥'. .
यदि बाह्योऽर्थो नास्ति, किंविषयस्तयं घटपटादिप्रतिभासः इति चेत् । ननु निरालम्बन एवायमनादिवितथवासनाप्रवर्तितः, निर्विषयत्वात्, आकाशकेशज्ञानवत्, स्वप्नज्ञानवद् वेति । अत एवोक्तम्
'नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । गाह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ।।१।। बाह्यो न विद्यते गर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाऽऽभासे प्रवर्तते' ।।२।। इति ।
तदेतत्सर्वमवद्यम्, ज्ञानमिति हि क्रियाशब्दः, ततो ज्ञायतेऽनेनेति ज्ञानं, ज्ञप्तिर्वा ज्ञानमिति । अस्य च कर्मणा भाव्यं, निर्विषयाया ज्ञप्तेरघटनात् । न चाऽकाशकेशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यम् । तस्याप्येकान्तेन निर्विषयत्वाऽभावात् । न हि सर्वथाऽगृहीतसत्यकेशज्ञानस्य तत्प्रतीतिः ।
१. 'बाधः' इति ख. घ. रा. पुस्तकेषु पाठः ।। २. प्रज्ञाकरगुप्तकृत; प्रमाणवार्तिकालङ्कारोख्यो बौद्धग्रन्थोऽस्ति । . स्याद्वादमञ्जरी indian १९९)