________________
त्वमन्योऽन्यपक्षप्रतिपक्षभावस्तस्मात् । तथा हि-य एव मीमांसकानां नित्यः शब्द इति पक्षः, स एव सौगतानां प्रतिपक्षः, तन्मते शब्दस्याऽनित्यत्वात् । य एव सौगतानामनित्यः शब्द इति पक्षः, स एवमीमांसकानां प्रतिपक्षः । एवं सर्वप्रयोगेषु योज्यम् । तथा तेन प्रकारेण,ते तव सम्यक् एति गच्छति शब्दोऽर्थमनेन इति 'पुनाम्नि घः ।' समयः संकेतः, यद्वा सम्यग् अवैपरीत्येन अय्यन्ते ज्ञायन्ते जीवाऽ-ज़ीवादयोऽर्था अनेन, इति समयः, सिद्धान्तः । अथवा सम्यग् अयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन् इति समय आगमःन पक्षपाती नैकपक्षाऽनुरागी । पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषु उक्तम् । त्वत्समयस्य च मत्सरित्वाऽभावाद् न पक्षपातित्वम् । पक्षपातित्वं हि मत्सरित्वेन व्याप्तम्, 'व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयति' इति मत्सरित्वे निवर्तमाने पक्षपातित्वमपि निवर्तत इति भावः । तव समय इति वाच्यवाचकभावलक्षणे सम्बन्धे षष्ठी । सूत्राऽपेक्षया गणधरकर्तृकत्वेऽपि समयस्य अर्थाऽपेक्षया भगवत्कर्तृकत्वाद् वाच्यवाचकभावो न विरुध्यते अत्थंभासइअरहा सुत्तं गंथंति गणहरा णिउणं' इति वचनात्, अथवा उत्पाद-व्यय-ध्रौव्यप्रपञ्चः समयः । तेषां च भगवता
साक्षान्मातृकापदरूपतयाऽभिधानात् । तथा चार्षम्- "उपनेइ वा, विगमेइ वा धुवेइ वा' इत्यदोषः । मत्सरित्वाऽभावमेव विशेषणद्वारेण समर्थयति-नयानशेषानविशेषमिच्छन् इति । अशेषान् समस्तान् नंयान् नैगमादीन् अविशेषं निर्विशेषं यथा भवति एवम् इच्छन् आकाङ्क्षन्, सर्वनयात्मकत्वाद् अनेकान्तवादस्य । यथा विशकलितानां मुक्तार्मणी- नामेकसूत्राऽनुस्यूतानां हारव्यपदेशः, एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणेकसूत्रप्रोतानां श्रुताऽऽख्यप्रमाणव्यपदेश इति । ननु प्रत्येकं नयानां विरुद्धत्वे कथं समुदितानां निर्विरोधिता । उच्यते । यथा हि समीचीनं मध्यस्थं न्यायंनिर्णेतारमासाद्य परस्परं विवदमाना अपि वादिनो विवादाद् विरमन्ति,
१. हैमसूत्रम् ५।३।१३०. २. विशेषावश्यकभाष्य गाथा १११९। अर्थ भाषतेऽर्हन् सूत्रं ग्रनन्ति गणधरा निपुणम् । इति
छाया । . ३. मातृका-लिपिमूलाक्षराणि ।। ४. उत्पद्यते वा विगच्छति (नश्यति) वा ध्रुवयति वा । इति छाया । (२०२ initiaidikissss स्याद्वादमञ्जरी