________________
एवं नया अन्योऽन्यं वैरायमाणा-अपि 'सर्वज्ञशासनमुपेत्य स्याच्छब्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः परस्परमत्यन्तं 'सुहब्रूयाऽवतिष्ठन्ते । एवं च सर्वनयाऽत्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद् दर्शनानाम् । न च वाच्यं तर्हि भगवत्समयस्तेषु कथं नोपलभ्यते इति । समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तासु अनुपलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनादिवाकरपादाः. '३उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः' ॥१॥
अन्ये त्वेवं व्याचक्षते-तथा अन्योऽन्यपक्षप्रतिपक्षभावात् परे प्रवाहा मत्सरिणस्तथा तव समयः सर्वनयानू मध्यस्थतयाऽङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः, पक्षपातीपक्षमेकपक्षाऽभिनिवेशम्, पातयति तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम्, पूर्वस्मिंश्च पक्षपातीति विशेषः । अत्र च क्लिष्टाऽक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः । इति काव्यार्थः ।।३०॥
इत्थङ्कारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यं गुणमभिष्टुत्य समग्रवचनाऽतिशयव्यावर्णने स्वस्याऽसामर्थ्यं दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भङ्ग्यन्तरतिरोहितं “स्वाऽभिधानं च प्रकाशयन् निगमनमाह
१. 'सार्वज्यं शासनम्' इति क. ख. पं. रा. पुस्तकेषु पाठः । २. 'सुहृद्रूपतया' इति घ. रा. पुस्तकयोः पाठः । ३. द्वात्रिंशद्वात्रिंशिकास्तोत्रे चतुर्थद्वात्रिंशिकायां १५ श्लोकः । ४. जीवनाश-संपूर्णतयेत्यर्थः । रागस्येत्यारभ्य नष्टत्वादित्यन्तं ख. पुस्तके नास्ति । ५. 'स्वाभिधानं च प्रकाशयन्' इति प्रक्षिप्तमिव भाति । यत: 'वहेम' इति शब्दान्तर्गतहेमशब्दग्रहणं
न सुसंगतम् । किंच स्याद्वादमञ्जरीकृद्भिः स्वयं तथा व्याख्यानं न कृतम् । स्याद्वादमञ्जरी M
A A २०३)