________________
वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेद् महनीयमुख्य !| लोम जङ्घालतया समुद्र वहेम चन्द्रद्युतिपानतृष्णाम् ।।३१।। विभव एव वैभवं 'प्रज्ञादित्वात् स्वार्थेऽण, विभोर्भावः कर्म चेति वा वैभवम् । वाचां वैभवं वाग्वैभवं वचनसंपत्प्रकर्षम्, विभोर्भाव इति पक्षे तु सर्वनयव्यापकत्वम् । विभुशब्दस्य 'व्यापकपर्यायतया रूढत्वात् । ते तव संबन्धिनं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेद् यदि वयमाशास्महे इच्छामः । हे महनीयमुख्य ! महनीयाः पूज्याः पञ्चपरमेष्ठिनस्तेषु मुख्यः प्रधानभूतः, आद्यत्वात्, तस्य संबोधनम् । ननु सिद्धेभ्यो हीनगुणत्वाद् अर्हतां कथं वागतिशयशालिनामपि तेषां मुख्यत्वम्, न च हीनगुणत्वमसिद्धम्। प्रव्रज्याउंवसरे सिद्धेभ्यस्तेषां नमस्कारकरणश्रवणात्*काऊण नमुक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे' इति श्रुतकेवलिवचनात् । मैवम्-अर्हदुपदेशेनैव सिद्धानामपि परिज्ञानात् । तथा चार्षम्-'"अरहन्तुवएसेणं सिद्धा नजंति तेण अरहाऽऽई' इति । ततः सिद्धं भगवत एव मुख्यत्वम् । यदि तव वाग्वैभवं निखिलं विवेक्तुमाशास्महे ततः किमित्याह-लङ्घम इत्यादि । तदा इत्यध्याहार्यम् । तदा जङ्घालतया जाङ्घिकतया वेगवत्तया, समुद्रं लवेम किल समुद्रमिव अतिक्रमामः । तथा वहेम धारयेम, चन्द्रद्युतीनां चन्द्रमरीचीनां पानं चन्द्रद्युतिपांनम्, तंत्र तृष्णा तर्षोऽभिलाष इति यावत् । चन्द्रद्युतिपानंतृष्णा, ताम् । उभयत्राऽपि सम्भावने. सप्तमी । यथा कश्चिञ्चरणचंक्रम- वेगवत्तया यानपात्रादि अन्तरेणापि समुद्रं लवितुमीहते, यथा च कश्चिश्चन्द्रमरीचीरमृतमयी: श्रुत्वा चुलुकादिना पातुमिच्छति, न चैतद् द्वयमपि शक्यसाधनम्। तथा 'न्यक्षेण
१. 'प्रज्ञादिभ्योऽण्' इति हैमसूत्रम् ७।२।१६५. २. 'पर्यायरूपतया' इति घ. रा. पुस्तकयोः पाठः । ३. कृत्वा नमस्कारं सिद्धेभ्योऽभिग्रहं तु सोऽग्रहीत् । इति छाया ।। ४. अर्हदुपदेशेन सिद्धा ज्ञायन्ते तेनार्हदादिः ।। इति छाया विशेषावश्यकमभाष्यगाथा ३२१३ ।। ५. पूर्णतयां । (२०४६ niskrit स्याद्वादमञ्जरी