________________
भवदीयवाग्वैभववर्णनाऽऽकाङ्क्षापि अशक्याऽऽरम्भप्रवृत्तितुल्या । आस्तां तावत् तावकीनवचनविभवानां सामस्त्येन विवेचनविधानम् । तद्विषयाऽऽकाङ्क्षापि महत् साहसमिति भावार्थः ।
अथवा "लघु शोषणे, इति धातोर्लङ्गेम शोषयेम, समुद्रं जङ्घालतया अतिरंहसा, अतिक्रमणार्थलङ्घस्तु प्रयोगे दुर्लभं परस्मैपदमनित्यं वा आत्मनेपदमिति । अत्र च औद्धत्यपरिहारेऽधिकृतेऽपि यद् ' आशास्महे' इत्यात्मनि बहुवचनमाचार्यः प्रयुक्तवांस्तदिति सूचयति यद् विद्यन्ते जगति मादृशा मन्दमेधसो भूयांसः स्तोतारः, इति बहुवचनमात्रेण न खलु ' अहङ्कारः स्तोतरि प्रभौ शङ्कनीयः । प्रत्युत निरभिमानताप्रसादोपरि पताकारोप एवाऽवधारणीयः । इति काव्यार्थः ।।३१।। एषु एकत्रिंशति वृत्तेषु उपजातिच्छन्दः ।
एवं विप्रतारकैः परतीर्थिकैर्व्यामोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणेऽव्यभिचारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्यं दर्शयन् तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयतिइदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिच हतपरैर्हा विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन स्त्वमेवाऽतस्त्रातस्त्वयि कृतसपर्या : कृतधियः ||३२||
इदं प्रत्यक्षोपलभ्यमानं जगद् विश्वम् - उपचाराद् जगद्वर्ती जनः । हतपरै:हता अधमा ये परे तीर्थाऽन्तरीया हतपरे, तैर्मायाकारैरिव ऐन्द्रजालिकैरिवशाम्बरीयप्रयोगनिपुणैरिव इति यावत् । अन्धतमसे निबिडाऽन्धकारे, हा इति
१. हैमधातुषारायणे भ्वादिगणे धा. ९८.
२. 'अहंकारविकारः प्रढौकनीयः' इति क पुस्तके पाठः ।
३. इन्द्रवज्रोपेन्द्रवज्रयोः संकरोऽन्योऽन्यपादमीलनमुपजातिः ।
स्याद्वादमञ्जरी
ॐ ॐ ४ २०५