________________
खेदे विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः । अन्धं करोतीत्यन्धयति, अन्धयतीत्यन्धं तञ्च तत्तमश्चेत्यन्धतमसम् 'समवान्धात् 'तमस' इत्यत्प्रत्ययः, तस्मिन् अन्धतमसे । कथंभूतेऽन्धतमसे इति द्रव्याऽन्धकारव्यवच्छेदाऽर्थमाहतत्त्वातत्त्वव्यतिकरकराले । तत्त्वंऽ चाऽतत्त्वं च तत्त्वाऽतत्त्वे तयोर्व्यतिकरो व्यतिकीर्णता व्यामिश्रता स्वभावविनिमयस्तत्त्वाऽतत्त्वव्यतिकरस्तेन कराले भयङ्करे । यत्राऽन्धतमसे तत्त्वेऽतत्त्वाभिनिवेशः । अतत्त्वे च तत्त्वाऽभिनिवेश इत्येवंरूपो व्यतिकरः संजायत इत्यर्थः । अनेन च विशेषणेन परमार्थतो मिथ्यात्वमोहनीयमेव अन्धतमसम्, तस्यैव ईदृक्षलक्षणत्वात् । तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः'अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात्' ।।१।।
ततोऽयमर्थः । यथा किल ऐन्द्रजालिकास्तथाविधसुशिक्षितपरव्यामोहनकलाप्रपञ्चाः तथाविधमौषधीमन्त्रहस्तलाघवाऽऽदिप्रायं किञ्चित्प्रयुज्य परिषज्जनं मायामये तमसि मज्जयन्ति । तथा. परतीथिकैरपि तादृक्प्रकारदुरधीतकुतर्कयुक्ती
रुपदिश्य जगदिदं व्यामोहमहान्धकारे निक्षिप्तमिति । तद्- जगत्, उद्धर्तुं मोहमहान्धकारोप्लवात् क्रष्टुम् । नियतं निश्चितम्, त्वमेव, नान्यः शक्तः समर्थः । किमर्थमित्यमेकस्यैव भगवतः सामर्थ्यमुपवर्ण्यते, इति विशेषणद्वारेण कारणमाह । अविसंवादिवचनः । कष-च्छेद-तापलक्षणपरीक्षात्रयविशुद्धत्वेन फलप्राप्तौ न विसंवदतीत्येवशीलमविसंवादि, तथाभूतं वचनमुपदेशो यस्याऽसावविसंवादवचनः अव्यभिचारिवागित्यर्थः । यथा च पारमेश्वरी वाग् न विसंवादमासादयति यथा तत्र तत्र स्याद्वादसाधने दर्शितम् । कषाऽऽदिस्वरूपं चेत्थमाचक्षते प्रावचनिकाः१. हैमसूत्रम् ७।३।८० २. हेमचन्द्रकृतयोगशास्त्रे द्वितीयप्रकाशे तृतीयः श्लोकः । ३. 'उपदर्श्य' इति ह. पुस्तके पाठः । (२०६
स्याद्वादमञ्जरी