________________
'अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् । ब्रह्माण्डलोकजीवानामनन्तत्वाद् अशून्यता ।।१॥ . अत्यन्यूनातिरिक्तत्वैर्युज्यते परिणामवत् । वस्तुन्यपरिमेये तु नूनं तेषामसम्भवः ।।२।।' इति काव्यार्थः ।।२९।।
अधुना परदर्शनानां परस्परविरुद्धाऽर्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्याऽन्योऽन्याऽनुगतसर्वनय' मयतया मात्सर्याऽभावमाविर्भावयति
अन्योऽन्यपक्षप्रतिपक्षभावाद् । यथा परे मत्सरिण: प्रवादाः । नयानशेषानविशेषमिच्छन् । न पक्षपाती समयस्तथा ते ।।३०।।
प्रकर्षेण उद्यते प्रतिपाद्यते स्वाऽभ्युपगतोऽर्थो यैरिति प्रवादाः । यथा येन प्रकारेण, परे भवच्छासनाद् अन्ये, प्रवादा दर्शनानि, मत्सरिणः-३अतिशायने मत्वर्थीयविधानात् सातिशयासहनताशालिनः क्रोधकषायकलुषिताऽन्तःकरणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनप्रवणा वर्तन्ते । कस्माद् हेतोर्मत्सरिणः, इत्याह-अन्योऽन्यपक्षप्रतिपक्षभावात् । पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्ट्येन हेत्वादिभिरिति पक्षः-कक्षीकृतधर्मप्रतिष्ठापनाय साधनोपन्यासः । तस्य प्रतिकूल: पक्षः प्रतिपक्षः-पक्षस्य प्रतिपक्षो विरोधी पक्षः, तस्य भावः पक्षप्रतिपक्षभावः । अन्योऽन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्ष
१. सर्वनयस्वरूपयुक्ततयेत्यर्थः । २. 'परदर्शनानि' इति क. ख. पुस्तकयोः पाठः । ३. भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः । इत्युक्तेः ।
स्याद्वादमञ्जरी) NARASANNARARRANA २०९)