________________
श्लो. १९ बौद्धानां वासना खण्डिता तदर्थं बोधिचर्याऽवतारपञ्जिकाया नवमे प्रज्ञापारमिताऽऽख्ये परिच्छेदे श्लो. ३२-३३ (सटीको) निर्दिश्यते । 'एतत्परिजिहीर्षनाह । अप्रहीणा हि तदित्यादि । अप्रहीणा हि तत्कर्तुज्ञेयसंक्लेशवासना । तदृष्टिकाले तस्याऽतो दुर्बला शून्यवासना ।।३२।।
हिर्यस्मादर्थे । नैतदूषणमस्माकमासज्जते । यस्मादप्रहीणा निवृत्ता । तत्कर्तुर्मायास्त्रीनिर्मातुः । किमप्रहीणा ज्ञेयसंक्लेशवासना । ज्ञेयसंक्लेशः सस्वभावतासमारोपादासङ्गादिः वस्तुतासमारोपो वा । ज्ञेयावरणं यावत् । तस्य वासना। अनादिसंसारजन्मपरम्पराऽभ्यस्तमिथ्याविकल्पजनिततद्वीजभूतचित्तसन्ततिसंस्काराऽऽधानम्। तस्य अप्रहीणत्वात् ।
नन्वेतत्समानं विज्ञानवादिनोऽपि प्रतिविधानम् । तस्याप्यद्वयतत्त्वस्य सत्त्वेऽपि । आगन्तुकसंक्लेशवासनाया अप्रहीणत्वात् । न सर्वे तथागता भवन्ति ।। नैतत्समानं । यस्मादभावाऽऽत्मनो मला: कार्यकलाविकला नाऽऽव्ररणं भवितुमर्हन्ति । इत्युक्तमेव । अस्माकं तु निःस्वभावमेव जन्यं जनकं चेति न समानम् ।
सा यस्माद्ग्रहीणा । अतोऽस्माद्कारणात् । तदृष्टिकाले । तस्या ज्ञेयस्वभावताया दृष्टिरूपलब्धिः तस्याः काले । तस्या वा मायास्त्रिया दृष्टिकाल उपलम्भकाले । तस्येति अप्रहीणसंक्लेशवासनस्य द्रष्टुः । दुर्बला शून्यवासनेति । शून्यस्य शून्यतत्त्वस्य शून्यताया वेति विग्रहः । छन्दोनुऽरोधाद्भवप्रत्यस्य लोपं कृत्वा शून्येतिनिर्देशः । वासना संस्काराऽऽधानम्। सा दुर्बला सामर्थ्यविकला । आरोपितस्य दर्शनात ।। अतस्तदा भाववासना बलवती। कथं तर्हि सा निवर्तत इत्याह । शून्यतेत्यादि ।
शून्यतावासनाऽऽधानाद्धीयते भाववासना ।
शून्यताया मायास्वभावनिःस्वभावताया वासना । तस्या आधानम् आवेधः । अभ्यासेन दृढीकरणमिति यावत् । तस्माद्विरुद्धप्रत्ययात् । हीयते निवर्तते । स्याद्वादमञ्जरी
२५७)