________________
यदोद्धृतं तदा तत्तन्मतस्थानां प्राचीनपण्डितानां ग्रन्थनिर्देशः कृतः । तथापि बहुषु स्थलेषु विस्तरभयात्केवलमेतदमुकग्रन्थेषु द्रष्टव्यमिति ग्रन्थानां नामनिर्देशः कृतः । ते च ग्रन्था अस्माभिः परिशिष्टे दर्शिताः ।
श्रीमल्लिषेणसूरीणां वश्यवाक्त्वं विशेषतः प्रशस्यं यतस्तत्र तत्र व्याख्यायां तैः स्वविषयः सारल्यतया बहुभिर्दृष्टान्तैः सर्वजनावर्जकैर्लोकिकैर्न्यायैश्च प्रतिपादितः । किं चार्थजिज्ञासूनां सौकर्याय प्रतिश्लोकं संक्षिप्तार्थो विस्तरार्थश्च प्रतिपादितः । यदा पूर्वग्रन्थानामुपयोगस्तैरभिलषितस्तदा प्रायस्तैरेवाक्षरैस्तत्संग्रहः कृतः ।
३. प्रकाशनपरिचयः ।
आर्हतमतप्रभाकरपरिचयद्वारा यथा प्रतिश्रुतं तदनुसारमेतस्याः स्याद्वादमञ्जर्याः प्रकाशनं यावच्छक्ति कृतम् । तथाच-अत्र प्रथममन्ययोगव्यवच्छेदिकाया अन्तरङ्गबहिरङ्गपरीक्षणं प्राकाशि
अथ च स्याद्वादमञ्जर्या पूर्वपक्षत्वेन गृहीतानि न्यायादिमतानि सविस्तरं ग्रन्थनामनिर्देशपुरःसरं परिशिष्टे दर्शितानि । तथाधोभागेऽर्थदर्शिकाः, तत्तन्न्यायविवरणात्मिकाः ग्रन्थस्थलनिर्देशात्मिकाश्च टिप्पन्यो मुद्रिता येन ग्रन्थार्थजिज्ञासूनां विशेषतः सौकर्यं स्यात् । तथा टिप्पन्यां स्याद्वादमञ्जरीगृहीतानामाचाराङ्गादिग्रन्थानां पारिभाषिकशब्दानां च परिचयो दर्शितः । अत्र नव परिशिष्टानि सन्ति । तथाहि
१. पूर्वपक्षाः (विशेषतः श्रीमल्लिषेणसूरिनिर्दिष्टग्रन्थस्थाः )
२. उपलब्धवाक्यानि ।
7 ग्रन्थमुद्रणसमाप्तिपर्यन्तं यान्युपलब्धानि
. तान्यपि उपलब्धोपलब्धसमपरिशिष्टयोर्द
शितानि ।
३. अनुपब्धवाक्यानि ।
४. उपलब्धसमानि ।
५. स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थाः ।
६. स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थकृतः ।
७. स्याद्वादमञ्जरीनिर्दिष्टा न्यायाः ।
८. टिप्पन्यां पूर्वपक्षप्रदर्शने चोपयोजिता ग्रन्थाः ।
९. मुद्रणार्थमुपयोजितानि पुस्तकानि ।
स्याद्वादमञ्जरी