________________
श्लोकत्रयेणानेनैतत्प्रतीयते यत्-श्रीमल्लिषेणसूरयः शालिवाहनशाके १२१४ मिते वत्सरे दीपावलिदिने शनिवासरे ग्रन्थमिमं समापयामासुः । एते च नागेन्द्रगच्छीयउदयप्रभसूरिशिष्या आसन् । श्रीजिनप्रभसूरीणां साहाय्येन चायं ग्रन्थो व्यरचीति । अत्र उदयप्रभसूरीणां जिनप्रभसूरीणां च परिचयार्थ किंचिनिर्दिश्यते । श्री उदयप्रभसूरिभिः १ आरम्भसिद्धिः २ धर्माभ्युदयमहाकाव्यम् ३ उपदेशमालाकर्णिकावृत्तिः, इत्यादयो ग्रन्थाः प्रणीताः । नागेन्द्रगच्छीयाचार्याणां श्रीमल्लिषेणसूरिसम्बध्दानां या परम्परांऽस्माभिर्लब्धा साऽत्र प्राप्तकालेति निर्दिश्यते । .
तथाहि- १ श्रीशीलगुणसूरयः । तच्छिष्याः २ श्रीदेवचन्द्रसूरयः । तच्छिष्यद्वयम् । ३ (१) श्रीशीलरुद्रगणयः (२) श्रीपार्श्वलगणयः तदुभयशिष्याः ४ श्रीमहेन्द्रसूरयः । तच्छिष्याः ५ श्रीशान्तिसूरयः । तच्छिष्यद्वयम् ६ (१) श्रीआनन्दसूरयः। (२) श्रीअमरचन्द्रसूरयश्च । श्रीआनन्दसूरिशिष्याः ७ कलिकालगौतमबिरुदधारक - श्रीहरिभद्रसूरयः । तच्छिष्याः ८ श्रीविजयसेनसूरयः । तच्छिष्यत्रयम् ९ (१) श्रीउदयसेनसूरयः (२) श्रीउदयप्रभसूरयः । (३) श्रीयशोदेवसूरयः । तत्र श्रीउदयप्रभसूरिशिष्याः १० श्रीमल्लिषेणसूरयः । जिनप्रभसूरिभिस्तु तीर्थकल्पाजितशान्तिस्तववृत्त्यादयो ग्रन्थाः प्रणीताः । एतैर्जिनप्रभसूरिभिः स्वसमयः अजितशान्तिस्तववृत्तौ स्वयमेव दर्शितः । तथाच
संवद्विक्रमभूपतेः शरदऋतूदर्चिः शशांकैर्मिते (वै. १३६५ शा. श. १२३०) पौषस्यासितपक्षभाजि शनिना युक्ते द्वितीयातिथौ ।। श्रीमान् श्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पन्धयः . पुर्यां दाशरथेर्जिनप्रभगुरुर्जग्रन्थ टीकामिमाम् ।।१।।
अनेन समयनिर्देशेन सुधीभिः स्पष्टमेव प्रतीयेत श्रीमल्लिषेणजिनप्रभयोः समानकालिकत्वम्। प्रशस्तिकायां श्रीमल्लिषेणसूरिभिः शाकवत्सरस्य निर्देशः कृतस्तेनैतत्प्रतीयते यदेते सूरयो ग्रन्थसमाप्तिसमये नर्मदाधःप्रदेशे कुत्रापि न्यवसनिति। यतः शालिवाहनशकस्य नर्मदाया दक्षिणप्रदेश एव लेखप्रचारः । नर्मदोत्तरभागे वैक्रमसंवत्सरस्य लेखप्रचार इति ।
इयं व्याख्या सहस्रग्रंथसंख्यापरिमिता । श्रीमल्लिषेणसूरिभिः परमतं खण्डनार्थं यदा स्याद्वादमञ्जरी
7)