________________
T
बौद्धग्रन्था यत्र लब्धास्तत्र तन्निर्देशः कृतः । तथापि मतान्तरापेक्षया बौद्धग्रन्था दुर्लभा इत्यस्माभिरनुभूतम् । मागधीभाषाविषये सर्वत्र संस्कृतच्छाया निर्दिष्टा । विशेषस्थले टीकादिकमपि यथायथं प्रादर्शि । एतन्मुद्रणेऽस्माभिः अष्ट पुस्तकानि संगृहीतानि यद्विषयको निर्देशो नवमपरिशिष्टे । तत्र 'अ' पुस्तकस्थः पाठो मुद्रणार्थमादृतः । यतस्तदेव पुस्तकमतीव प्राचीनं शुद्धं च । पुस्तकान्तरात् शुद्धा अर्थवैशिष्ट्यबोधका एव पाठाः संगृहीता न सर्वे ।
एवंरीत्या संमुद्र्य विदुषां पुरतो निधीयते पुस्तकमेतत् शासनदेवकृपया । संप्रार्थ्यन्ते च सुधियो यदालोच्य सर्वत्रुट्यो ज्ञाप्यास्तैर्येन संस्करणान्तरे प्रयतिष्ये तज्ज्ञापनानुसारम् ।
प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकम् । तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाठकोपनामश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात्साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थबोधक टिप्पनीयुतं प्रास्ताविकं सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्येतेति निर्दिशन्नह मल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किं च ' ओसवालवणिग्वंशज श्रेष्ठ शान्तिलाल भगवानजी' (कार्याधिपो जैन प्रिंटिंग वर्क्स) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यामानान् दोषान्विज्ञाप्यानुग्राह्योऽयं जन इति संप्रार्थकः ।
पुण्यपत्तनम्.
आश्विनाष्टाह्निकम् वीरसंवत् २४५२
विद्वद्वशंवदः
मोतीलाल लाधाजी
स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ७