________________
तदृष्टान्तेन सेत्स्यतीत्यत आह
शब्दलिङ्गविशेषाद्विशेषलिङ्गाऽभावाच ।। २-१-३० ॥ .
तत्त्वमाकाशस्य सिद्धमित्यर्थः । वैभवे सति सर्वेषां शब्दानां तदेकांश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां कल्पनागौरवप्रसङ्गः । अन्यदपि यदाकाशं कल्पनीयम् । तत्राऽपि शब्द एव लिङ्गम् । तञ्चाऽविशिष्टम् । न च विशेषसाधकं भेदसाधकं लिङ्गान्तरमस्ति । आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेव लिङ्ग तथापि व्यवस्थातो लिङ्गान्तरादात्मनानात्वसिद्धिरिति वक्ष्यते (३-२-१९) ।।३०।।
नन्वाकाशस्य एकत्वं तावदस्तु, वैभवात्परममहत्त्वमप्यस्तु, शब्दासमवायिकारणत्वात् संयोगविभागावपि स्याताम् एकपृथक्त्वं कथमत आह
तदनुविधानादेकपृथक्त्वं चेति ।। २-१-३१ ॥
नियमेनैकपृथक्त्वमेकत्वमनुविधत्ते इत्येकपृथक्त्वसिद्धिः । इतिराहिकपरिसमाप्तौ । मानसप्रत्यक्षाविषयविशेषगुणवद्रव्यलक्षणमाह्निकार्थः । तेन पृथिव्यप्तेजोवाय्वाकाशानां प्रसङ्गत ईश्वरात्मनश्च लक्षणमस्मिन्नाह्निके । तेन चतुर्दशगुणवती पृथिवी, ते च गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वाऽपरत्वगुरुत्वद्रवत्वसंस्काराः । तावन्त एव गन्धमपास्य स्नेहेन सहाऽपाम् । एत एव रसगन्धस्नेहगुरुत्वान्यापास्य तेजसः। गन्धरसरूपगुरुत्वस्नेहद्रवत्वान्यपास्य वायोः । शब्देन सह सङ्ख्यादिपञ्चगुण- वत्त्वमाकाशस्य। सङ्ख्याऽऽदिपञ्चकमात्रं दिक्कालयोः । परत्वाऽपरत्ववेगसहितं सङ्ख्याऽऽदिपञ्चकं मनसः । सङ्ख्यादिपञ्चकं ज्ञानेच्छाप्रयत्नाश्चेश्वरस्य ।।३।। ___ तत्रैव स्याद्वादमञ्जर्यां 'स्वायंभुवा अपि हि' इत्यनेन पातञ्जलमतखण्डनं तदर्थं तद्विषयकस्य पातञ्जलमतस्य निर्देशः ।
पातञ्जलयोगसूत्रभाष्येस्याद्वादमञ्जरी AAAAAAAAAMANANA २३)