________________
त्वात्, रसगन्धाऽनान्तरीकत्वाच्च । यथाऽऽकाशं शब्दमात्रविशेषगुणं तथा तमोऽपि नीलरूपमात्रविशेषगुणं स्यादिति चेन्न । चाक्षुषत्वविरोधात् । यदि हि नीलरूपवन्नीलं रूपमेव वा तमः स्यात् बाह्यलोकप्रग्रहमन्तरेण चक्षुषा न गृह्येत ।।१९।। '
तत्रैव स्याद्वादमञ्जर्यां- व्योमाऽपि नित्यानित्यमेव । तदर्थं व्योमस्वरूपं वैशेषिकगृहीतं प्रदर्श्यते
वैशेषिकसूत्रोपस्कारे ।
'यदर्थमयं परिशेषस्तदाह- परिशेषाल्लिङ्गमाकाशस्य ।। २-१-२७ ।।
शब्द इति शेषः । अत्राऽपिशब्दः क्वचिदाश्रितोगुणत्वाद्रूपादिवदिति सामान्यतो दृष्टाऽदृष्टद्रव्याऽतिरिक्तद्रव्यसिद्धिः । गुणश्चाऽयं बाह्यैकैन्द्रियग्राह्यजातीयत्वात् रूपादिवद् । अनित्यत्वे सति विभुसमवेतत्वात् ज्ञानादिवत् । अनित्यत्वं च साधयिष्यते (अग्रिमसूत्रे) । परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणभावाऽन्नित्यत्वं सर्वत्र शब्दोपलब्धेर्विभुत्वम् ।।२७।।
शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाह
द्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। २-१-२८ ।।
अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाऽऽकाशस्याऽपि, गुणवत्त्वात् । यथा वायोर्द्रव्यत्वं तथाऽऽकाशस्याऽपीत्यर्थः ।।२८।
तत्
किं बहून्याकाशानि एकमेव वेत्यत आह
तत्त्वम्भावेन ।। २-१ - २९ ।।
व्याख्यातमिति विपरीतेनाऽन्वयः । भावः सत्ता सा यथैका तथाऽऽकाशमप्ये
कमेवेत्यर्थः ।।२९।।
नन्वनुगतप्रत्ययमहिम्ना सत्ताया एकत्वं सिद्धम् । आकाशे कथमेकत्वं
२१२ कि
ॐॐॐ स्याद्वादमञ्जरी