________________
परमाणुषु मुक्ताऽऽत्ममनस्सु च अन्यनिमित्तसम्भवात् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः । देशकालविप्रकर्षे च परमाणौ स एवाऽयमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषाः ।।'
तत्र पञ्चमश्लोके सामान्यस्यैकान्तनित्यत्वम् । वैशेषिकसूत्रभाष्ये'लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थाऽन्तरत्वं सिद्धम् । अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच परस्परतश्चाऽन्यत्वम् । प्रत्येक स्वाऽऽश्रयेषु लक्षणाऽविशेषाद्विशेषलक्षणाऽभावाच्चैकत्वम् । यद्यप्यपरिमिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाञ्च स्वविषयसर्वगतानि अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति ।।'
तत्रैव स्याद्वादमञ्जर्यां तमसश्चाक्षुषत्वमुक्तं तद्विषये वैशेषिकमतम् । वैशेषिकसूत्रोपस्कारेकार .
. 'ननु तमसोऽपि द्रव्यस्य कर्म दृश्यते चलति छायेतिप्रत्ययात्, तत्र न प्रयत्नो न वा नोदनाऽभिघातौ न वा गुरुत्वद्रवत्वे न वा संस्कारस्तथा च निमित्ताऽन्तरं वक्तव्यं तच नाऽनुभूयमानमित्यत आह
द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ।।५-२-१९ ।।
एतेन नवैव द्रव्याणीत्यवधारणमप्युपपादितम् । द्रव्यनिष्पत्तिस्तावत् स्पर्शवव्याधीना। न च तमसि स्पर्शोऽनुभूयते । न चाऽनुद्भूत एव स्पर्शः रूपोद्भवे स्पर्शोद्भवस्याऽऽवश्कत्वात्। पृथिव्यामयं नियमः । तमस्तु दशमं द्रव्यमिति चेन्न । द्रव्यान्तरस्य नीलरूपाऽनधिकरणत्वात्। नीलरूपस्य च गुरुत्वनान्तरीयक
स्याद्वादमञ्जरी
AnsaniKARNA २११)