________________
तथाहि-प्रदीपपर्यायापन्नास्तेजसाः परमाणवः स्वरसतस्तैलक्षयाद् वाताभिघाताद्वा ज्योतिष्पर्यायं परित्यज्य तमोरूपं पर्यायान्तरमा श्रयन्तोऽपि नैकान्तेनानित्याः पुद्गलद्रव्यरूपतयावस्थितत्वात् तेषाम् । नह्येतावतैवानित्यत्वंयावता पूर्वपर्यायस्य विनाशः, उत्तरपर्यायस्य चोत्पादः । न खलु मृद्रव्यं
स्थासक-कोश-कुशूल-शिवक-घटाद्यवस्थान्तराण्यापद्यमानमप्येकान्ततो विनष्टम्; तेषु मृद्रव्यानुगमस्याबालगोपालं प्रतीतत्वात् । न च तमसः पौद्गलि कत्वमसिद्धम्; चाक्षुषत्वान्यथानुपपत्तेः । प्रदीपालोकवत् । .
अथ यञ्चाक्षुषं, तत्सर्वं स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमः, तत्कथं चाक्षुषम् ? । नैवम् । उलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् ।। यस्त्वस्मदादिभिरन्यञ्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते, तैरपि तिमिरमालोकयिष्यते; विचित्रत्वाद् भावानाम् । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकपेक्षदर्शनाः प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षाः ? । इति सिद्धं तमश्चाक्षुषम् । ...
रूपवत्त्वाञ्च स्पर्शवत्त्वमपि प्रतीयते; शीतस्पर्शप्रत्ययजनकत्वात् । यानि त्वनिबिडावयवत्वमप्रतिघातित्वमनुद्भूतस्पर्शविशेषत्वप्रतीयमानखण्डावयविद्रव्यप्रविभागत्वमित्यादीनि तमसः पौद्गलिकत्वनिषेधाय परैः साधनान्युपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि; तुल्ययोग क्षेमत्वात् ।
न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त इति ? पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्यापि दर्शनात् । दृष्टो ह्याद्रंन्धनसंयोगवशाद् भास्वररुपस्यापि वढेरभास्वररुपधूमरुपकार्योत्पादः । इति सिद्धो नित्यानित्यः प्रदीपः । यदापि निर्वाणादर्वाग् देदीप्यमानो दीपस्तदापि नवनवपर्यायोत्पादविनाशभाक्त्वात्, प्रदीपत्वान्वयाञ्च नित्यानित्य एव । १. 'आसादयन्तोऽपि' इति ह. पुस्तके पाठः ।। २. स्थानककोशादयो घटस्योत्पत्तेः प्राक् मृद एवावस्थाः । ३. 'शबक' इति क. पुस्तके पाठः । ४. अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेम इति । स्याद्वादमञ्जरी AnandA १५)