________________
एवं व्योमापि-उत्पादव्ययध्रौव्यात्मकत्वाद् नित्यानित्यमेव । तथाहि अवगाह कानां जीवपुद्ग लानामवगाह दानोपग्रह' एव तल्लक्षणम् 'अवकाशदमाकाशम्' इति वचनात्। यदा चावगाहका जीवपुद्गला: प्रयोगतो 'विलसातो वा एकस्मानभःप्रदेशात् प्रदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकै; सममेकस्मिन् प्रदेशे विभागः उत्तरस्मिंश्च प्रदेश संयोगः । संयोगविभागौ च परस्परं विरुद्धौ धर्मो, तद्भेदे चावश्यं धर्मिणो भेदः। तथा चाहुः'अयमेव हि भेदो, भेदहेतुर्वा यद्विरुद्धधर्माध्यासः, कारणभेदश्चेति' । ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्त्या विनष्टम्, उत्तरसंयोगोत्पादाख्यपरिणामानुभवाञ्चोत्पन्नम् । उभयत्राकाशद्रव्यस्यानुगतत्वाञ्चोत्पादव्ययोरेकाधिकरणत्वम् ।
तथाच यद्‘अप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम्' इति नित्यलक्षणमाचक्षते । तदपास्तम् । एवंविधस्य, कस्यचिद्वस्तुनोऽभावात् । तद्भावाव्ययं नित्यम्' इति तु सत्यं नित्यलक्षणम्; उत्पादविनाशयोः सद्भावेऽपि तद्भावाद्-अन्वयिरूपाद् यन्न व्येति तन्नित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते, तदोत्पादव्ययोनिराधारत्वप्रसङ्गः, न च तयोर्योगे नित्यत्वहानिः ;
'द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । 'क्व कदा केन किंरूपा दृष्टा मानेन केन वा ?' ॥१॥ इति वचनात् ।
१. उपग्रहः-उपकार इति तत्त्वार्थभाष्ये । २. उत्तराध्ययनसूत्रे अध्ययने २८ गाथा ९ । अत्र वृत्तौ महोपाध्यायश्रीमद्भावविजयगणिकृतायामि.. दमुपलभ्यते । ३. प्रयोगत:-पुरूषशक्त्या ! ४. विस्रसातः-स्वभावेन । ५. 'च' इति क. पुस्तके नास्ति । ६. वस्तूनि द्विविधानि लक्षणमेदात्कारणभेदाच्च घटो जलाहरणादिगुणवान् पटश्च शतित्राणादिगुणवान्।
तथा घटस्य कारणं मृत्पिण्डादि । पटस्य कारणं तन्त्वादि । ७. तत्त्वार्थसूत्रम् अ, ५ सू. ३० । ८. एकदर्थिका गाथा-संमतितकें प्रथमकाण्डे दृश्यते-'दव्वं पज्जवविज्जुअं दव्वविउत्ता य पज्जवा
नत्थि' ।।१२।। (१६)AAAAAAAAAAAAAA स्याद्वादमञ्जरी