________________
न 'चाकाशं न द्रव्यम् ।
लौकिकानामपि घटाकाशं पटाकाशमिति व्यवहारप्रसिद्धराकाशस्य नित्यानित्यत्वम् । घटकाशमपि हि यदा घटापगमे, पटेनाक्रान्तं, तदा पटाकाशमिति व्यवहारः । न चायमौपचारिकत्वादप्रमाणमेव । उपचारस्यापि किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाणं, तत् तदाधेयघटपटादिसम्बन्धि- नियतपरिमाणवशात् कल्पितभेदं सत् प्रतिनियतदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादितत्तद्व्यपदेशनिबन्धनं भवति । तत्तद्घटादिसम्बन्धे च व्यापकत्वेनावस्थितस्य व्योम्नोऽवस्थान्तरापत्तिः, ततश्चावस्थाभेदेऽवस्थावतोऽपि भेदः । तासां ततोऽविष्वग्भावात् । इति सिद्धं नित्यानित्यत्वं व्योम्नः ।
'स्वायंभुवा अपि हि नित्यानित्यमेव वस्तु प्रपन्नाः । तथा चाहुस्ते 'त्रिविधः खल्वयं धर्मिणः परिणामो धर्मलक्षणावस्थारूप: । सुवर्णधर्मि, तस्य धर्मपरिणामो वर्धमानरुचकादिः, धर्मस्य तु लक्षणपरिणामोऽनागतत्वादिः यदा खल्वयं हेमकारो वर्धमानकं भक्त्वा रुचकमारचयति तदा वर्धमानको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते, रुचकस्तु अनागततालक्षणं हित्वा वर्तमानतालक्षणमापद्यते; वर्तमानतापन्न एव तु रुचको नवपुराणभावमापद्य-मानोऽवस्थापरिणामवान् भवतिः, सोऽयं त्रिविधः परिणामो धर्मिणः । धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिन्नाश्च । तथा च धर्म्यभेदात् तन्नित्यत्वेन नित्याः; भेदायोत्पत्तिविनाशविषयत्वम् : इत्युभयमुपपन्नमिति ।'
अथोत्तरार्धं विव्रियते-एवं चोत्पादव्ययध्रौव्यात्मकत्वे सर्वभावानां सिद्धेऽपि तद्वस्तु एकमाकाशात्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेव; इत्येवकारोऽत्रापि सम्बध्यते । इत्थं हि "दुर्नयवादापत्तिः । अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादि १. एकद्वाक्यं ख. पुस्तके नास्ति । २. स्वायंभुवा:- पातञ्जलयोगानुसारिणः । ३. 'प्रतिपन्नाः' इति क. पुस्तके पाठः । ४. पातञ्जलयोगसूत्र ३।१३ इत्यत्रैतदर्थक वाक्यजातम् । ५. निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां । वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासंगिनः ।।
औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया चेदेकांशकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ।।१।। स्याद्वादमञ्जरी Milankar १७)