________________
नयवाक्यमपि स्वविषये प्रवर्तमानं विधि-प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥५३।। इति ।
विशेषाऽर्थिना नयानां नामाऽन्वर्थविशेषलक्षणाऽऽक्षेप- परिहारादिचर्चस्तु भाष्यमहोदधि-गन्धहस्तिटीका- न्यायावताराऽऽदि-ग्रन्थेभ्यो निरीक्षणीयः । प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकम्, स्याच्छब्दलाञ्छितानां नयानामेव प्रमाण- व्यपदेशभाक्त्वात् । तथा च श्रीविमलनाथस्तवे श्रीसमन्तभद्रः
अथ यथा नयवाक्यं प्रवर्त्तते तथा प्रकाशयन्तिनयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ।।५३।।
नयवाक्यं प्राकलक्षितविकलादेशस्वरूपं, न केवलं सकलादेशस्वभावं प्रमाणवाक्यमित्यपि शब्दार्थः । स्वविषये । स्वाभिधेये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनय-युग्म'समुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति । प्रमाणसप्तभङ्गीवदेतद्विचारः कर्त्तव्यः । नयसप्तभङ्गीष्वपि प्रतिभङ्गस्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्गया विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी संपूर्णवस्तुस्वरूप-प्ररूपकत्वादिति ।।५३ ।। १. 'विशेषार्थिनयानाम्' इति क. पुस्तके पाठः । . , २. तत्त्वार्थाधिगमभाष्यम् । तदेव गन्धहस्तिटीका । ग्रन्थसंख्या ८४००० । इयं
श्रीसमन्तभद्राचार्यकृता । एतन्मङ्गलं सपादशतश्लोकात्मकं तदेव केवलमधुनोपलभ्यते न संपूर्णो ग्रन्थः । अयमेव मङ्गलग्रंथ आप्तमीमांसा देवागमस्तोत्रं वेत्यभिधीयते । अत्र श्रीमदकलंकदेवविरचिता अष्टशती । श्रीमद्विद्यानन्दस्वामिविरचिता-अष्टसहस्री चास्ति । न्यायावतारः-श्रीसिद्धसेनदिवाकरकृतः । अनेन द्वात्रिंशद्वात्रिंशिकारूपः स्तुतिसंग्रह कृतः । तत्र प्रत्येकं द्वात्रिंशत्श्लोकाः । तत्रैव न्यायावतारनाम्नयेका द्वात्रिंशिका । अत्र श्रीसिद्धर्षिगणिकृत
व्याख्या श्रीराजशेखरसूरिविरचिता टिप्पनी चास्ति । ३. बृहत्स्वयंभुस्तोत्रावल्यां श्रीसमन्तभद्रकृतायां श्रीविमलनाथस्तवे श्लो. ६५ ।
स्याद्वादमञ्जरी in
s
istindi १९५)