________________
. 'नयास्तव स्यात्पदलाञ्छना इमे
रसोपविद्धा इव लोहधातवः ।
२भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः' ।।१।। इति तञ्च द्विविधम्-प्रत्यक्षं परोक्षं च । तत्र प्रत्यक्षं द्विधा-सांव्यावहारिकं पारमार्थिकं च । सांव्यावहारिकं द्विविधम्-इन्द्रियाऽनिन्द्रियनिमित्तभेदात् । 'तद् द्वितयम्-अवग्रहहाऽवायधारणाभेदाद् एकशश्चतुर्विकल्पम् ।।६।।' अवग्रहादीनां स्वरूपं सुप्रतीतत्वाद् नं प्रतन्यते । "पारमार्थिकं पुनरुत्पत्तौ आत्ममात्राऽपेक्षम् ।।१८।।' तद् द्विविधम्-क्षायोपशमिकं क्षायिकं च । आद्यम्-अवधिमनःपर्यायभेदाद् द्विधा । क्षायिकं तु केवलज्ञानमिति । ___परोक्षं च स्मृति-प्रत्यभिज्ञानो-हाऽनुमानाऽऽ-गमभेदात् पञ्चप्रकारम् । "तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मृतिः ।।३।। 'तत् तीर्थकरबिम्बमिति यथा ॥४॥ अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्याऽऽदिगोचरं संकलनाऽऽत्मकं ज्ञानं प्रत्यभिज्ञानम् ।।५।। यथा तज्जातीय एवाऽयं गोपिण्डः, गोसदृशो गवयः, स एवाऽयं जिनदत्त इत्यादि ।।६।। उपलम्भाऽनुपलम्भसंम्भवं त्रिकालीकलितसाध्यसाधन -सम्बन्धाद्याऽऽलम्बनं-इदमस्मिन्
१. 'सत्यलाञ्छना' इति बृहत्स्वयंभुस्तोत्रावल्यामुपलभ्यते । २. 'गुणा' इति बृहत्स्वयंभुस्तोत्रावल्यामुपलभ्यते । ३. प्र. न. लो. परि. २ सू. १, २, ३, ४, ५.. ४. एतत्स्वरूपं प्रमाणनयतत्त्वालोकालङ्कारे द्वितीयपरिच्छेदे सू. ५।६ इत्यत्र द्रष्टव्यम् । ५. प्र. न. लो. परि. २ सू. १८.. ६. - क्षयेणोदयप्राप्तकर्मणो विनाशेन सहोपशमे विष्कम्भितोदयत्वं क्षयोपशमः । ७. एतल्लक्षणं भेदानि च प्र. न. लो. परि. ३ सू. १।२ ८. प्र. न. लो. परि. ३ सू. ३ ९. प्र. न. लो. परि. ३ सू. ४।
(१९६) kakakakakirakshakti स्याद्वादमञ्जरी)