________________
सत्येव भवतीत्याद्याकारं 'संवेदनमूहस्तर्कापरपर्यायः ।। ७।। यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येवेति वा ।।८।। अनुमानं द्विधा स्वार्थ परार्थं च ।। ९ ।। तत्रान्यथानुपपत्त्येकलक्षणहेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् । । १० ।। ३पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ।।२३ ।। आप्तवचनाद् आविर्भूतमर्थसंवेदनमागमः ।।१।। उपचाराद् आप्तवचनं च । । २ । । इति । स्मृत्यादीनां च विशेषस्वरूपं स्याद्वादरत्नाकरात् साक्षेपपरिहारं ज्ञेयमिति ।
प्रमाणान्तराणां पुनरर्थाऽऽपत्त्युपमानसंभवप्रातिभैतिह्यादीनामत्रैव अन्तर्भावः । सन्निकर्षादीऽऽनां तु जडत्वाद् एव न प्रामाण्यमिति । तदेवंविधेन नयप्रमाणोपन्यासेन दुर्नयमार्गस्त्वया "खिलीकृतः । इति काव्यार्थः ।। २८ ।
इदानीं सप्तद्वीपसमुद्रमात्रो लोक इति वावदूकानां तन्मात्रलोके परिमिप्तानामेव सत्त्वानां संभवात् । परिमितात्मवादिनां दोषदर्शनमुखेन भगवत्प्रणीतं जीवाऽऽनन्त्यवादं निर्दोषतयाऽभिष्टुवन्नाह
मुक्तोऽपि वाऽभ्येतु भवं भवो वा
भवस्थशून्योऽस्तु मिताऽऽत्मवादे | षड्जीवकायं त्वमनन्तसंख्य
माख्यस्तथा नाथ ! यथा न दोषः ||२९||
१. 'ऊहापरनामा तर्क' इति ह पुस्तके पाठः ।
२. ' तत्र हेतुग्रहणसम्बन्धस्मरणकारकं साध्यविज्ञानं स्वार्थम्' इति प्र. न. लो. परि. ३ सू. १०
३.
प्र. न. श्लो. परि. ३ सू. २३.
४. प्र. न. श्लो. परि. ४ सू. १।२
५. रुद्धः ।
६. वावदूक:- अतिवक्ता ।
(स्याद्वादमञ्जरी
ॐ ॐ ॐ ॐ ॐ ॐ ४ १९७