________________
मितात्मवादे संख्यातानामात्मनामभ्युपगमे, दूषणद्वयमुपतिष्ठते, तत्क्रमेण दर्शयति-मुक्तोऽपि वाभ्येतु भवमिति मुक्तो निवृतिमाप्तः, सोऽपि वा अर्पिविस्मये, वाशब्द उत्तरदोषाऽपेक्षया समुच्चयाऽर्थः यथा देवो वा दानवो वेति भवमभ्येतु संसारमभ्यांगच्छतु, इत्येको दोषप्रसङ्गः । भवो वा भवस्थशून्योऽस्तु-भवः संसारः, सं वा भवस्थशून्यः संसारिभिर्जीवैर्विरहितोऽस्तु भवतु । इति द्वितीयो दोषप्रसङ्गः ।
इदमत्र आकूतम् । यदि परिमिता एव आत्मानो मन्यन्ते तदा तत्त्वज्ञानाऽभ्यासप्रकर्षादिक्रमेणाऽपवर्गं गच्छत्सु तेषु संभाव्यते खलु स कश्चित्कालो यत्र तेषां सर्वेषां निर्वृतिः । कालस्याऽनादिनिधनत्वाद् आत्मनां च परिमितत्वात् संसारस्य रिक्तता भवन्ती केन वार्यताम् । समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनाऽतपनजनोदञ्चनादिना कालान्तरे रिक्ता । न चायमर्थः प्रामाणिकस्य कस्यचिद् प्रसिद्धः, संसारस्य स्वरूपहानिप्रसङ्गात् । तत्स्वरूपं हि एतद्-यत्र कर्मवशवर्तिनः, प्राणिनः संसरन्ति, समासार्षुः, संसरिष्यन्ति चेति । सर्वेषां च निर्वृतत्वे संसारस्य वा रिक्तत्वं हठादभ्युपगन्तव्यम् । मुक्तैर्वा पुनर्भवे आगन्तव्यम् । न च क्षीणकर्मणां भवाधिकारः
'दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः । । '
इति वच ।
आह च पतञ्जलिः ''सति मूले तद्विपाको जात्याऽऽयुर्भोगाः' इति । एतट्टीका. च - 'सत्सु क्लेशेषु कर्माऽऽशयो विपाकारम्भीभवति नोच्छिन्नक्लेशमूलः । यथा तुषावनद्धा शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति, नाऽपनीतलुषा दग्धबीजभावा वा । तथा क्लेशाऽवनद्धः कर्माऽऽशयो विपाकप्ररोही भवति । नाऽपनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधो
१. जनोदञ्चनं-लोकैर्जलाहरणम् ।
२. पातञ्जलसूत्रम् २।१३
३. वात्स्यायनभाष्यम् ।२।१३
१९८ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐॐॐॐॐॐ स्याद्वादमञ्जरी