________________
जातिरायुर्भोगः' इति । अक्षपादोऽप्याह-'न 'प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य' इति । एवं विभङ्गज्ञानिशिवराजर्षिमताऽनुसारिणो दूषयित्वा उत्तरार्द्धन भगवदुपज्ञमपरिमिताऽऽत्मवादं निर्दोषतया स्तौति-षड्जीवेत्यादि । त्वं तु हे नाथ ! तथा तेन प्रकारेण, अनन्तसङ्ख्यमनन्ताख्यसङ्ख्याविशेषयुक्तं षड्जीवकायम् । अजीवन्, जीवन्ति, जीविष्यन्ति चेति जीवा इन्द्रियाऽऽदिज्ञानाऽऽदिद्रव्यभावप्राणधारणयुक्ताः, तेषां सोऽनूचे' इति चिनोतेपनि आदेश्च कत्वे कायः समूहः जीवकायः पृथिव्यादिः । षण्णां जीवकायानां समाहारः षड्जीवकायम्, पात्रादिदर्शनाद् नपुंसकत्वम् । अथवा षण्णां जीवानां कायः प्रत्येक सङ्घात: षड्जीवकायस्तं षड्जीवकायम्, पृथिव्यप्-तेजो-वायु-वनस्पति- त्रसलंक्षणषड्जीवनिकायम् । तथा तेन प्रकारेण, आख्यः मर्यादया प्ररूपितवान्, यथा येन प्रकारेण, न दोषो दूषणमिति जात्यपेक्षमेकवचनम्-प्रागुक्तदोषद्वयजातीया अन्येऽपि दोषा यथा न प्रादुःष्यन्ति तथा त्वं जीवाऽऽनन्त्यमुपदिष्टवानित्यर्थः । आख्यः इति आपूर्वस्य ख्यातेरेङि सिद्धिः । त्वमित्येकवचनं चेदं ज्ञापयति-यद् जगद्गुरोरेव एकस्य ईदृक्प्ररूपणसामर्थ्य, न तीर्थाऽन्तरशास्तृणामिति ।
पृथिव्यादीनां पुनर्जीवत्वमिथं साधनीयम्-यथा, साऽऽत्मिका विद्रुमशिलाऽऽदिरूपा पृथिवी । छेदे समानधातूत्थानाद्, 'अर्शोऽङ्कुरवत् । भौममम्भोऽपि साऽऽत्मकम्, क्षतभूसजातीयस्य स्वभावस्य सम्भवात्, शालूरवत् । आन्तरिक्षमपि साऽऽत्मकम्, अभ्रादिविकारे स्वतः सम्भूय पातात्, मत्स्याऽऽदिवत् । तेजोऽपि साऽऽत्मकम्, आहारोपादानेन वृद्धयाऽऽदिविकारोपलम्भात्, पुरुषाङ्गवत् । वायुरपि साऽऽत्मकः, अपरप्रेरितत्वे तिर्यग्गतिमत्वाद् गोवत् । वनस्पतिरपि
१. गौतमसूत्रे ४।१।६४ २. हैमसूत्रे ५।३।८० ३. 'पात्राद्यन्तस्य न' का. वा. ४. 'शास्त्यसूवक्तिख्यातेरङ्' इति हैमसूत्रे ३।४।६० ५. अर्शः-दुर्नामपर्यायो रोगविशेषः । तदङ्करे छिन्नेऽपि पुनः स प्ररोहति । अत्र 'दर्भाङ्करवत्' इति रा.
घ. पुस्तकयोः पाठः । ६. भौम-भूमिगतम् । ७. शालूरः-मण्डूकः । स्याद्वादमञ्जरीnabatikari १९९)