________________
भित्त्वान्यथा क्रियमाणस्य भावाऽन्यथात्वं भवति न सुवर्णाऽन्यथात्वमिति । .
अपर (एकान्तवादी बौद्धः) आह-धर्माऽनभ्यधिको धर्मी पूर्वतत्त्वाऽनतिक्रमात् पूर्वाऽपराऽवस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति ।
अयमदोषः । कस्मात् । एकान्तताऽनभ्युपगमात् । तदेतत्त्रैलोक्यं व्यक्तेरपैति । नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति । विनाशप्रतिषेधात् । संसर्गाचाऽस्य सौक्ष्म्यं सौक्ष्म्याचाऽनुपलब्धिरिति । ..
लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः । तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानाऽतीताभ्यां लक्षणाभ्यामवियुक्तः। तथा वर्तमानो वर्तमानलक्षणोयुक्तोऽतीताऽनागताभ्यां लक्षणभ्यामवियुक्त इति । तथा पुरुष एकस्यां स्त्रियं रक्तो न शेषासु विरक्तो भवतीति । अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करः प्राप्नोतीति परैर्दोषश्चोद्यत इति । तस्य परिहारः-धर्माणां धर्मत्वमप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवाऽस्य धर्मत्वम् । एवं हि न चित्तं रागधर्मकं स्यात्क्रोधकाले रागस्याऽसमुदाचारादिति ।
किं च, त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति सम्भवः । क्रमेण तु स्वव्यञ्जकाऽञ्जनस्य भावे भवेदिति । उक्तं च रूपाऽतिशया वृत्त्यातिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । तस्मादसङ्करः । यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राऽभावः । किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः । तथा लक्षणस्येति । ___न धर्मी त्र्यध्वा । धर्मास्तु त्र्यध्वानः ते लक्षिता अलक्षिताः । तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थाऽन्तरतो न द्रव्याऽन्तरतः । यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति ।
स्याद्वादमञ्जरी Kumaniumika
२१५)