SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ यः पुनरपारमार्थिकद्रव्य-पर्यायविभागमभिप्रेति स व्यवहाराऽऽभासः ।।२५।। यथा चार्वाकदर्शनम् ।।२६।। पर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः शब्दः समभिरूढः एवंभूतश्च ।।२७।। ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्त्रभिप्राय ऋजुसूत्रः ।।२८।। यथा सुखविवर्तः सम्प्रति अस्तीत्यादिः ।।२९॥ .. एतदाभासं वर्णयन्तियः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ।।२५॥ यः पुनः परामर्शविशेषः कल्पनारोपितद्रव्यपर्यायप्रविवेकं मन्यते सोऽत्र व्यवहारदुर्नयः प्रत्येयः ।।२५।। उदाहरन्तियथा चार्वाकदर्शनम् ।।२६।। . चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापहृते, अविचारितरमणीयं भूतचतुष्टप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्यस्य दर्शनं व्यवहारनयाभासतयोपदर्शितम् ।।२६।। द्रव्यार्थिकं त्रेधाभिधाय पर्यायार्थिकं प्रपञ्चयन्ति- .. पर्यायर्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ।।२७॥ एषु ऋजुत्रं तावद्वितन्वन्ति- - ऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयत्रभिप्राय ऋजुसूत्रः ।।२८॥ ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राञ्जलम् । अयं हि द्रव्यं सदपिगुणीभावान्नार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ।।२८।। उदाहरन्ति यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ।।२९।। अनेन हि वाक्येन क्षणस्थायिसुखाख्यं पर्यायमात्र प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्प्यते । आदिशब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् ।।२९।। स्याद्वादमञ्जरी ARRRRRRRRRRRRRAR९)
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy