________________
यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भित्रकाला:
शब्दा भिन्नमेव अर्थमभिदधति भित्रकालशब्दत्वात्
__ तादृक्सिद्धाऽन्यशब्दवद् इत्यादिः ।।३५।। पर्यायशब्देषु निरुक्तभेदेन भिन्नमर्थं समभिरोहन समभिरूढः ।।३६।। इन्दनाद् इन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।।३७।। पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।।३८।।
यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाऽभिधेया एवं भिन्नशब्दत्वात् करि-कुरङ्ग-तुरङ्गशब्दवद् इत्यादिः ।।३९॥
उदाहरन्ति
यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः . . शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः ।।३५।। ।
अनेन हि तथाविधपरामर्शोत्थेन वचनेन कालादिभेदादिनस्यैवार्थस्याभिधायकत्वं शब्दानांव्यञ्जितम्। एतञ्च प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाभासत्वम् । आदिशब्देन करोति क्रियते कट इत्यादिशब्दनयाभासोदाहरणं सूचितम् ।।३५।।
समभिरुढनयं वर्णयन्तिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः ।।६।। शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रैति समभिरूढस्तु पर्यायभेदे भिन्नानर्थानमिमन्यते, अभेदं
त्वर्थगतं पर्यायशब्दानामुपेक्षत इति ।।३६।। . .. उदाहरन्ति
इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।।३७।। इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थं समभिरोहनभिप्रायविशेषः समभिरूढस्तथान्येष्वपि
घटकुटकुम्भादिषु द्रष्टव्यः ।।३७।। एतदाभासमाभाषन्ते
पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।।३८॥ .
तदाभासः समभिरूढाभासः ।।३८।। उदाहरन्ति
यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भित्रशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥३९॥
स्याद्वादमञ्जरी Maharashtrian १९१)