________________
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् । घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवद् इत्यादि ।।४३।। एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वाद् अर्थनयाः ।।४४।।
शेषास्तु त्रयः शब्दवाच्याऽर्थगोचरतया शब्दनयाः ।।४५।। पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।।४६॥ . सन्मात्रगोचरात् संग्रहाद् नैगमो भावाऽभावभूतिकत्वाद्
भूमविषयः ।।४७॥ सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहो
___ पदर्शकत्वाद् बहुविषयः ।।४८।।
उदाहरन्ति
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तितिमित्तभूतक्रियाशून्यत्वात्
पटवदित्यादिः ॥४३॥ , अनेन हि वचसा क्रियानाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च । प्रमाणबाधित इति तद्वचनमेवंभूतनयाभासोदाहरणतयोक्तम् ।।४३।।
के पुनरेषु नयेष्वर्थप्रधानाः के च शब्दनया इति दर्शयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः ।।४४ ।। शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ।।४५।। कः पुनरत्र बहुविषयः को वाल्पविषयो नय इति विवेचयन्तिपूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।।४६।। .
तत्र नैगमसंग्रहयोस्तावन्न संग्रहों बहुविषयो नैगमात्परः किं तर्हि नैगम एव संग्रहात्पूर्व इत्याहु:
सन्मात्रगोचरात्संग्रहात्रैगमो भावाभावभूमिकत्वाद् भूमविषयः ।।४७।। भावभावभूमिकत्वाद्भावाभावविषयत्वात्, भूमविषयो बहुविषयः ।।४७।। संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकाद्व्यवहारतः संग्रहः समस्तसमूहोपदर्शकत्वात् ।
बहुविषयः ।।४८॥ व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकलसत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ।।४८ ।। स्याद्वादमञ्जरी A
n iruddhi १९३)