________________
विषयवैशद्यार्थ प्रस्तुता । 'एतावता प्रमाणतत्त्वं व्यवस्थाप्येदानी नयतत्त्वं व्यवस्थापयन्तिनीयते येन श्रुताख्यप्रमाणविषयीकृतस्याऽर्थस्यांशस्तदिरांशी दासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ।।१।। अत्रैकवचनमतन्त्रं तेनांशावंशा वा, येन परामर्शविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्याऽपेक्षया स नयोऽभिधीयते । तदितरांशाऽप्रतिक्षेपे तु तदाभासता भणिष्यते । प्रत्यपादयाम च स्तुतिद्वात्रिंशति
अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपत्ते ! .
स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षाऽपेक्षाणां कथयसि नयानां सुनयतां ..
विपक्षक्षेतृणां पुनरिह विभो ! दुष्टनयताम् ।।१।। पञ्चाशति च
निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां
__ वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । . .. औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया
श्चेदेकान्तकलङ्कपङ्ककलुषास्त स्युस्तदा दुर्नयाः ।।१।। ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तम् । स्वार्थव्यवसायात्मकत्वेन तस्य प्रेमाणस्वरूपत्वात्। तथाहि-नयः प्रमाणमेव, स्वार्थव्यवसायकत्वादिष्टप्रमाणवत् स्वार्थव्यवसायकस्याप्यस्य प्रमाणाऽत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् । तदसत् । नयस्य स्वार्थकदेशनिर्णातिलक्षणत्वेन स्वार्थव्यवसायकत्वाऽसिद्धेः । ननु नयविषयतया संमतोऽथैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी नयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य । स न चेद्वस्तु तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात्, तस्याऽवस्तुविषयत्वलक्षणत्वादिति चेत् । तदवद्यम् । अथैकदेशस्य वस्तुत्वाऽवस्तुत्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात् । तथा चावाचि
नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ।।१।। । तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । ..
समुद्रबहुता वा स्यात् तत्त्वे क्वाऽस्तु समुद्रवित् ? ।।२।। यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसङ्गात् समुद्रबहुत्वापत्तेर्वा; तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रत्वे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् क्वचिदपि समुद्रव्यवहारायोगात् । समुद्रांशः समुद्रांश एवोच्यते, तथा स्वार्थकदेशो नयस्य न वस्तु स्वार्थकदेशान्तराणामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषक्तेर्वाः । नाप्यवस्तु, शेषांशानामप्यवस्तुत्वे क्वचिदपि वस्तुव्यवस्थाऽनुपपत्तेः । किं तर्हि वस्त्वंश एवासौ तादृक्प्रतीतेर्बाधकाऽभावात् ? ततो वस्त्वंशे प्रवर्तमानो नयः स्वार्थेकदेशव्यवसायलक्षणो न प्रमाणं नापि मिथ्याज्ञानमिति ।।१।।
स्याद्वादमञ्जरी
i ndiaditik १८३)