Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
Catalog link: https://jainqq.org/explore/002276/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आहतमतप्रभाकरस्य तृ तीयो मयूखः) कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता अन्ययोगव्यवच्छेदिका - तद्व्याख्या च 'श्रीमल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी ANI ७PR . . पुण्यपत्तनस्थ ओसवालवणिग्वंशजश्रेष्ठिलाधाजीतनूजमोतीलाल इत्येतैः ____ टिप्पणीभिरुपोद्धातेन च परिष्कृत्य संशोधिता। वीरसंवत् २४५२ प्रथमेयमङ्कनोवृत्तिः Page #2 -------------------------------------------------------------------------- ________________ इदं पुस्तकं 'मोतीलाल.लाधाजी' इत्येतैः पुण्यपत्तने ( १९६ भवानी पेठ) प्रकाशितम् । (अस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः।) तच्च 'जैन प्रिंटिंग वर्क्स' मुद्रणालये 'शांतिलाल भगवानजी' इत्येतैः पुण्यपत्तने (२१ सोमवार) मुद्रितम् । Page #3 -------------------------------------------------------------------------- ________________ आहेतमतप्रभाकरपरिचयः। अयि श्रेष्टा विद्वांसः सज्जनवरेण्याश्च । शासनदेवकृपाकटाक्षवशात् अल्पमतेरपि मम बाल्यादेव स्वामान्याध्ययने मतिरभूत् । ततो मया यावच्छक्यं साधनान्युपयुज्य सपरिश्रममध्ययनमारभ्यत । तदानीं प्रतिपदमनुभूतिपदमारूढं यत् संस्कृतप्राकृतजेनग्रन्थानां दौलभ्यम् । केचन ग्रन्था अद्यावधि न मुद्रिताः केचन मुद्रिता अपि दुर्लभाः । सुलभा अपि मुद्रिताः केचित् न विद्यार्थिन उपकुर्वन्ति विषयवैशद्यबोधकटिप्पनीपाठान्तरादिरहितत्वात् । तदेतदाकलय्य मनसि किंचिदिव पूर्वोक्तत्रुटीरपाकर्तुं 'आहेतमतप्रभाकर नाम्नी संस्थामस्थापयम । संस्थया चानया जैनसंस्कृतप्राकृतभाषामया न्यायव्याकरणाध्यात्मिकागमादिग्रन्था मुद्रणीया वक्ष्यमाणरीत्या । १ अधुना सर्वसंमता पुस्तकाकृतिरालम्बनीया ग्रन्थानाम् । पुस्तकानि च घनचिक्कगपत्रात्मकानि (डेमी अष्टपेजी) भवेयुः। २ अधोभागे विषयार्थबोधिन्यष्टिप्प-यो मुद्रणीयाः ३ ग्रन्थकृदुध्दतानि सर्वाणि वचांसि ग्रन्थनामस्थलादिनिर्देशपूर्वकं दर्शनीयानि टिप्पन्याम। ४ यावच्छक्यं प्राचीनपुस्तकानि तालादिपत्रलिखितानि समुच्चित्यार्थभेददर्शकानि पाठान्तराणि संग्राह्याणि । ५ आदी सविस्तरमुपोद्भातः संस्कृतभाषया निबन्धनीयो यत्र च ग्रन्थस्यान्तरङ्गबहिरङगपरीक्षण ग्रन्थकृच्चरितमैतिहासिकदृष्टयाऽन्ये च तदुपयुक्ताः समयान्तरीयशास्त्रीयनिर्देशाः संग्रथनीयाः । ६ एतस्मिन् सवेस्मिन गुणजाते द्रव्यादिव्ययमविगणय्य संपादितेऽपि यावच्छक्य ग्रन्थानां मूल्याल्पता संपादनीया । एतत्कायं विना विदुषां करुणकपक्षपातिनां साहाय्यं न सेत्स्यतीति दृढं प्रत्येमि तदर्थं सर्वे विद्वांसः संप्राथ्येन्ते यावच्छक्यं लिखितग्रन्थापणन संशोधनेन च तैरुपकृतिः संपादनीयति । अधुना शासनदेवकृपया प्राच्यविद्याविशारदानां नव्यसंस्कारमंस्कृतानां पण्डितानां च साहाय्यमलम्भि मया। तत्साहाय्येनैव १ प्रमाणमीमांसा २ सभाष्यतत्त्वार्थसूत्राणि ३ स्याद्वादमञ्जरी ४ औपपातिकसूत्रााण इति ग्रन्थचतुष्कं आहृतमतप्रभाकरमयूखचतुष्करूपं प्राकाशि। अतः परं १ धर्मसंग्रहणी २ स्याद्वादरत्नाकरः ३ हैमव्याकरणम् ४ छन्दोऽनुशासनम् ५ मूत्रकृताङ्गम् । इत्यादयो ग्रन्थाः प्रकाशनीया इति संकल्पः । अत्र विद्वद्भिः साहाय्यदानेनानुग्राह्योऽहमिति साञ्जलिबन्धं सप्रश्रयं संप्रार्थकःआईतमतप्रभाकरकार्यालयः । विद्वद्वशंवदः भवानीपेठ घ. नं. १९६ पना. मोतीलाल लाधाजी Page #4 -------------------------------------------------------------------------- ________________ वैक्रम १२९४ मिते संवत्सरे तालपत्रोपरि चित्रितमूर्तिप्रतिकृतिः । AT - - कलिकालसर्वज्ञो भगवान् परमाईतश्रीहेमचन्द्रसूरीश्वरः। श्रीकुमारपालभूपालः । इत्थं श्रीजिनशासनाभ्रतरणेः श्रीहेमचन्द्रप्रभो... रज्ञानान्धतमःप्रवाहहरणं मात्रादृशां मादृशाम् । विद्यापङ्कजिनीविकाशविदितं राज्ञोऽतिवृष्ट्ये स्फुरत् वृत्तं विश्वविबोधनाय भवताद् दुःकर्मभेदाय च ॥१८५॥ -प्रभावकचरिते श्रीहेमचंद्रसूरिप्रबन्धे । Page #5 -------------------------------------------------------------------------- ________________ श्रीः वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः। वीरात्तीर्थपिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्रीधृतिकार्तिकान्तिनिचयः श्रीवीर! भद्रं दिश॥१॥ . प्रास्तविकं किंचित् । १ अन्ययोगव्यवच्छेदद्वात्रिंशिका । अयि श्रेष्ठा विद्वांसः !. आर्हतमतप्रभाकरसंस्थायाः परिचये प्रतिश्रु. तानुसारं तृतीयोऽयं किरणः 'स्यादादमञ्जरी' इत्याख्यः प्रकाश्य श्रीमत्सविधे प्रेष्यते । एतस्याः स्याद्वादमञ्जर्या व्याख्याया मूलं 'अन्ययोगव्यवच्छेदद्वात्रिंशिका । कलिकालसर्वज्ञश्रीहमचन्द्राचायावरचितेषु प्रबन्धेषु १ अयोगव्यवच्छेदिका २ अन्ययोगव्यवच्छेदिका इति द्वात्रिंशिकाद्वयं व रीवति । तत्रायोगव्यवच्छेदिकायामाहतमतं सविस्तरं प्रतिपादितम् । अन्ययोगव्यवच्छेदिकायां तु मतान्तरखण्डनपूर्वकं तत् प्रतिपादितम् । एतस्या अन्ययोगव्यवच्छेदिकायाः स्याद्वादमञ्जरी श्रीमल्लिषेणविरचितां विरय्य नान्या टीका तत्प्राक्कालीना तदुत्तरकालीना वोपलभ्यते । स्याद्वादमञ्जर्याः प्रणेतृभिरयोगव्यवच्छेदिका न व्याख्याता सुखोन्नेयत्वात् तथाच-(पृ. २) 'तत्र च प्रथमद्वाविंशिकायाः सुखान्नेयत्वात् तद्व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्था निःशेषदुवादिपरिपदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिबीजप्रबोधविधिविधीयते'। अन्ययोगव्यवच्छेदवाात्राशकाया विषयास्तु श्लोकक्रमेण वक्ष्यन्ते । श्लो. १ मङ्गलाचरणम् । स्तुतिप्रतिज्ञा च । श्लो. २ औद्धत्यपरिहारः । श्लो. ३ कुतीयैस्तत्त्वविचारः कर्तव्य इति कथनम् । श्लो. ४ औलूक्य( वैशेषिक ) मते योग( नैयायिक )मते च यः सामान्यविशेषवादस्तत्खण्डनम् । श्लो. ५ एकान्तनित्यानित्यपक्षयोर्दूषणम् । श्लो. ६ ईश्वरैकत्वादिगुणानां जगत्कर्तृत्वस्य च खण्डनम् । श्लो. ७ धर्मधर्मिभे Page #6 -------------------------------------------------------------------------- ________________ (२) दस्य समवायस्य च खण्डनम् । श्लो. ८ सत्तापदार्थस्य, आत्मव्यतिरिक्तज्ञानगुणस्य आत्मावशेषगुणोच्छेदरूपाया मुक्तश्च खण्डनम् । श्लो. ९ देहादतिरिक्तात्मनः खण्डनम् । श्ला. १० अक्षपादगृहीतपदार्थानां खण्डनम् । श्लो. ११ यज्ञियहिंसायाः खण्डनम् । श्लो. १२ नित्यपरोक्षज्ञानवादिनां मी. मांसकानां, एकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां नैयायिकानां च मतस्य खण्डनम् । श्लो. १३ मायावादखण्डनम् । श्लो. १४ स्वमतप्रतिपादनपुरःसरं मतान्तरप्रकल्पितसामान्यविशेषवाच्यवाचकभावखण्डनम् । श्लो. १५ सांख्याभिमतप्रकृतिपुरुषवादखण्डनम् । श्लो. १६ प्रमाणाभिन्न प्रमाणफलं, बाह्यार्थो नास्ति केवलं ज्ञानाद्वैतमेवास्तीति बौद्धमतस्य खण्डनम् श्लो. १७ शून्यवादिमतस्य खण्डनम् । श्लो. १८ क्षणिकवादिमतस्य खण्डनम्। श्लो. १९ बौद्धाभिमतवासनायाः खण्डनम । श्लो. २० चार्वाकमतस्य खण्डनम् । श्लो. २१ एकान्तवादिमतस्यं खण्डनम् । श्लो. २२-२७ स्याद्वादस्थापना । श्लो. २८ दुर्नयनिराकरणपूर्वकं प्रमाणनयनिरूपणम् । श्लो. २९ जीवानन्त्यवादस्थापनम् । श्लो. ३०-३२ श्रीवर्द्धमानस्तुतिः । एवं दुर्गमविषया अपि श्लोकैः श्रीहेमचन्द्राचार्यैः सरलसरससरण्या प्रतिपादितास्तेन सहृदयैः कोऽप्यमन्दानन्दोऽनुभूयते । तत्र मध्ये मध्ये प्रतिवाद्युपहासोऽपि तथैव सरण्या प्रतिपादितो यथा नारुन्तुदो भवति । किं च वासनाखण्डनप्रसंगे १९ तमे श्लोके ' तटादर्शिशकुन्तपोतन्यायात्' इत्यादिप्रतिपादनं तु विशेषतो हृद्यम् । एतस्याः प्रणेतृणां कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणां चरितं प्रबन्धाः प्रबन्धप्रणयनयोग्यतादिकं चास्माभिः 'आहतमतप्रभाकरस्य' प्रथमकिरणभूतायां प्रमाणमीमांसायां सविस्तरमुपपादितम् । तेनात्र पुनरुक्तिभयान्न लिख्यते । दिदृक्षुभिस्तत एवालोचनीयम्। २ स्याद्वादमञ्जरी। अयमद्वितीयो ग्रन्थः 'अन्ययोगव्यवच्छेदिकाया' व्याख्यारूपः । इयं व्याख्या मूलग्रन्थानन्तरं संवत्सरशतद्वये समभूत् । यतः श्रीहेमचन्द्राचार्याणां सूरिपदप्रातिसमयः शालिवाहनशकः १०३१ श्रीमल्लिषेणानां ग्रन्थसमाप्तिसमयः शालिवाहनशकः १२१४ । एतादृशग्रन्थस्य व्याख्या न साधारणपाण्डित्यसुलभा यतोऽत्र बहूनां तत्तच्छास्त्रसमयानां खण्डनम् । Page #7 -------------------------------------------------------------------------- ________________ तदर्थमपेक्ष्यत व्याख्यातुः सकलशास्त्रीयपाण्डित्यं परमतसहिष्णुतया प्रतिपादनशैली च । तदुभयमप्यत्र स्याद्वादमञ्जरीव्याख्यायां वरीवर्ति । यतः सर्वपरसमयादिप्रतिपादनं यावच्छक्यं याथातथ्येन ग्रन्थनामनिर्देशपुरःसरं प्रत्यपादि व्याख्यायामस्याम् । एतस्याः स्याद्वादमञ्जर्याः प्रणेतृणां श्रीमल्लिपेणमुरीणां जन्मकालादिवृत्तं न ग्रन्थकृदन्तरवदनुमेयमिति महदेव सौभाग्यम् । यत एभिरेव सूरिभिः स्वयमेव ग्रन्थान्ते प्रशस्तिकायां न्यबन्धि तत्सर्वम् । तथाहिनागेन्द्रगच्छगोविन्दवक्षोऽलङ्कारकौस्तुभाः। ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरियं मनुराविमित (१२१४) शाकाब्दे दीपमहसि शनौ ॥ श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा। . श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ॥ श्लोकत्रयेणानेनैतत्प्रतीयते यत्-श्रीमाल्लषेणमूरयः शालिवाहनशाके १२१४ मिते वत्सरे दीपावलिदिने शनिवासरे ग्रन्थमिमं समापयामासुः । एते च नागेन्द्रगच्छीय उदयप्रभसूरिशष्या आसन् । श्रीजिनप्रभसूरीणां साहाय्येन चायं ग्रन्थो व्यरचीति । अत्र उदयप्रभमूरीणां जिनप्रभसूरीणां च परिचयार्थं किंचिन्निर्दिश्यते । उदयप्रभमूरिभिः १ आरम्भसिद्धिः २ धर्माभ्युदयमहाकाव्यम् । ३ उपदेशमालाकर्णिकात्तिः। इत्यादयो ग्रन्थाः प्रणीताः । नागेन्द्रगच्छीयाचार्याणां श्रीमल्लिषेणमूरिसम्बद्धानां या परम्परास्माभिर्लब्धा मात्र प्राप्तकालेति निर्दिश्यते । तथाहि१ श्रीशीलगुणसूरयः । तच्छिष्याः २ श्रीदेवचन्द्रमूरयः । तच्छिष्यदयम् । ३ (१) श्रीशलिरुद्रगणयः (२) श्रीपार्श्वलगणयः तदुभयशिष्याः ४ श्रीमहेन्द्रसूरयः। तच्छिष्याः ५ श्रीशान्तिसूरयः। तच्छिष्यद्वयम् ६ (१) श्रीआनन्दसूरयः । (२) श्रीअमरचन्द्रसूरयश्च । श्रीआनन्दसूरि Page #8 -------------------------------------------------------------------------- ________________ (४) शिष्याः ७ कलिकालगौतमविरुदधारकश्रीहरिभद्रसूरयः । तच्छिष्याः ८ श्रीविजयसेनसूरयः। तच्छिष्यत्रयम ९ (१) श्रीउदयसेनसूरयः (२) श्रीउदयप्रभसूरयः। (३) श्रीयशोदेवसूरयः। तत्र श्रीउदयप्रभसूरिशिष्याः १०श्रीमल्लिषेणमूरयः । जिनप्रभमूरिभिस्तु तर्थिकल्पाजितशान्तिस्तववृत्त्यादयो ग्रन्थाः प्रणीताः । एतर्जिनप्रभसूरिभिः स्वसमयः आजतशान्तिस्तववृत्तौ स्वयमेव दार्शतः । तथाच संवद्विक्रमभूपतेः शरऋतूदर्चिः शशांकर्मिते ( वै. १३६५ शा. श. १२३० ) __पौषस्यासितपक्षभाजि शनिना युक्ते द्वितीयातिथौ। . श्रीमान् श्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पन्धयः ___ पुर्यां दाशरथर्जिनप्रभगुरुर्जग्रन्थ टीकामिमाम् ॥ १ ॥ अनेन समयनिर्देशेन सुधीभिः स्पष्टमेव प्रतीयेत श्रीमल्लिषेणजिनप्रभयोः समानकालिकत्वम् । प्रशस्तिकायां श्रीमाल्लषेणसरिभिः शाकवत्सरस्य निर्देशः कृतस्तेनैतत्प्रतीयते यदेते सूरयो ग्रन्थसमाप्तिसमये नर्मदाधः प्रदेशे कुत्रापि न्यवसन्निति यतः शालिवाहनशकस्य नर्मदाया दक्षिणप्रदेश एव लेखप्रचारः । नर्मदोत्तरभागे वैक्रमसंवत्सरस्य लेखप्रचार इति । इयं व्याख्या सहस्रत्रयग्रंथसंख्यापरिमिता । श्रीमल्लिषेणमूरिभिः परमतं खण्डनार्थं यदा यदोघृतं तदा तदा तत्तन्मतस्थानां प्राचीनपण्डितानां ग्रन्थनिर्देशः कृतः । तथापि बहुषु स्थलेषु विस्तरभयात्केवलमेतदमुकग्रन्थेषु द्रष्टव्यमिति ग्रन्थानां नामनिर्देशः कृतः । ते च ग्रन्था अस्माभिः परिशिष्टे दर्शिताः। श्रीमल्लिषेणसूरीणां वश्यवाक्त्वं विशेषतः प्रशस्यं यतस्तत्र तत्र व्याख्यायां तैः स्वविषयः सारल्यतया बहुभिदृष्टान्तैः सर्वजनावर्जकैलौकिकैायैश्च प्रतिपादितः । किं चार्थजिज्ञासूनां सौकर्याय प्रतिश्लोकं संक्षिप्तार्थो विस्तरार्थश्च प्रतिपादितः । यदा पूर्वग्रन्थानामुपयोगस्तैरभिलषितस्तदा प्रायस्तैरेवाक्षरैस्तत्संग्रहः कृतः । यथा पृ. २० पंक्ति ५ मीमारभ्य श्रीहेमचन्द्राचार्यकृतायाः प्रमाणमीमांसाया (१-१-३३) निर्देशः । Page #9 -------------------------------------------------------------------------- ________________ ३ प्रकाशनपरिचयः। आहेतमतप्रभाकरपरिचयद्वारा यथा प्रतिश्रुतं तदनुसारमेतस्याः स्याद्वादमञ्जयोः प्रकाशनं यावच्छक्ति कृतम् । तथाच-अत्र प्रथममन्ययोगव्यवच्छेदिकाया अन्तरङ्गबहिरङ्गपरीक्षणं प्राकाशि । __ अथ च स्याद्वादमञ्जयां पूर्वपक्षत्वेन गृहीतानि न्यायादिमतानि सविस्तरं ग्रन्थनामनिर्देशपुरःसरं परिशिष्टे दर्शितानि । तथाधोभागेऽर्थदशिकाः, तत्तन्न्याय-विवरणात्मिकाः, ग्रन्थस्थलनिर्देशात्मिकाश्च टिप्पन्यो मुद्रिता येन ग्रन्थार्थजिज्ञासूनां विशेषतः सौकर्यं स्यात् । तथा टिप्पन्यां स्याद्वादमञ्जरीगृहीतानामाचाराङ्गादिग्रन्थानां पारिभाषिकशब्दानां च परिचयो दर्शितः। किं च पठितृसौकर्यार्थं स्याद्वादमञ्जर्यामुद्धतानि ग्रन्थान्तरगतवाक्यानि ग्रन्थग्रन्थकृन्नामानि च स्थूलाक्षरैर्मुद्रितानि । अत्र नव परिशिष्टानि सन्ति । तथाहि१ पूर्वपक्षाः ( विशेषतः श्रीमाल्लषेणभूरिनिर्दिष्टग्रन्थस्थाः) २ उपलब्धवाक्यानि । . ) ग्रन्थमुद्रणसमाप्तिपर्यन्तं यान्युपलब्धानि ३ अनुपलब्धवाक्यानि । तान्यपि उपलब्धोपलब्धसमपरिशिष्टयोर्द४. उपलब्धसमानि। र्शितानि । ५ स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थाः । ६ स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थकृतः । ७ स्याद्वादमञ्जरीनिर्दिष्टा न्यायाः । ८ टिप्पन्यां पूर्वपक्षप्रदर्शने चोपयोजिता ग्रन्थाः । ९ मुद्रणार्थमुपयोजितानि पुस्तकानि । बौद्धग्रन्था यत्र लब्धास्तत्र तन्निर्देशः कृतः । तथापि मतान्तरापेक्षया बौद्धग्रन्था दुर्लभा इत्यस्माभिरनुभूतम् । मागधीभाषाविषये सर्वत्र संस्कृतछाया निर्दिष्टा । विशेषस्थले टीकादिकमपि यथायथं प्रादर्शि । एतन्मुद्रणेऽस्माभिः अष्ट पुस्तकानि संगृहीतानि यद्विषयको निर्देशो नवमपरिशिष्टे । तत्र 'अ' पुस्तकस्थः पाठो मुद्रणार्थमाहतः । यतस्तदेव पुस्तकमतीव प्राचीनं शुद्धं च । पुस्तकान्तरात् शुद्धा अर्थवैशिष्टयबोधका एव पाठाः संगृ. होता न सर्वे । Page #10 -------------------------------------------------------------------------- ________________ एवंरीत्या संमुय विदुषां पुरतो निधीयते पुस्तकमेतत् शासनदेवकूपया। संप्रार्थ्यन्ते च सुधियो यदालोच्य सर्व त्रुटयो ज्ञाप्यास्तैर्येन संस्करणान्तरे प्रयतिष्ये तज्ज्ञापनानुसारम् । प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकं तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाटकोपनामश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात्साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थबोधकटिप्पनीयुतं प्रास्ताविकं सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्यतेति निर्दिशनहमल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किं च 'ओसवालवणिग्वंशज श्रेष्ठि शान्तिलाल भगवानजी ' ( कार्याधिपो जैन प्रिंटिंग वर्क्स ) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यमानान् दोषान्विज्ञाप्यानुप्राह्योऽयं जन इति संप्रार्थकः। । पुण्यपत्तनम् विद्वद्वशवंदः आश्विनाष्टाह्निकम् वीरसंवत् २४५२. . मोतीलाल लाधाजी Page #11 -------------------------------------------------------------------------- ________________ परिशिष्टम् १ पूर्वपक्षाः अथाधुना तीर्थान्तरीयमतानि स्याद्वादमञ्जर्यां येन क्रमेण खण्डि तानि तत्क्रमानुसारं तानि प्रदर्श्यन्ते । यतः तत्प्रदर्शनमन्तरा खण्डनं न बुद्धिपथमारोहेद्यथायथम्-तत्र प्रथममौलूक्यमतं वैशेषिकापरपर्यायमङ्गीकृतम् । तत्र चतुर्थश्लोके- . __सामान्यविशषयोः खण्डनं तदर्थ सामान्यविशेषयोः स्वरूपं वैशेषिकसूत्रभाष्यानुसारं दर्शयामः वैशेषिकसूत्रभाष्ये सामान्यनिरूपणम् । (पृ. ४) 'सामान्यं द्विविधं परमपरं चानुवृत्तिप्रत्ययकारणम्। तत्र परं सत्ता महाविषयत्वात् सा चानुवृत्तरेव हेतुत्वात्सामान्यमेव । द्रव्यत्वाद्यपरमल्पविषयत्वात् तच्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाल्यामपि लभते ॥ .. (पृ. १६४) 'सामान्यं द्विविधं परमपरं च स्वविषयसर्वगतमभिः मात्मकमनेकवृत्ति । एकद्विबहुष्वात्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् । कथम् ? प्रतिपिण्डं सामान्यापेक्षं प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणात् यदनुगतमस्ति तत्सामान्यमिति' ॥ - वैशेषिकसूत्रभाष्ये-विशेषनिरूपणम्। (पृ. ४) 'नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एव ॥' (पृ. १६८) 'अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः । विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथाऽस्मदादीनां गवादिध्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा गौः शुक्लः शीघ्रगतिः पीनककुद्मान महाघण्ट इति । तथाऽस्मद्विशिष्टानां Page #12 -------------------------------------------------------------------------- ________________ योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च अन्यनिमित्तासम्भवात् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः । देशकालविप्रकर्षे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषाः॥' तत्र पञ्चमश्लोके सामान्यस्यैकान्तनित्यत्वम् । .... वैशेषिकसूत्रभाष्ये(पृ. १६६) 'लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वं सिद्धम्। अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वम् । प्रत्येकं स्वाश्रयेषु लक्षणाविशेषाद्विशेषलक्षणाभावाच्चैकत्वम । यद्यप्यपरिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात् . कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति।।' . ___ तत्रैव स्याद्वादमञ्जर्यां तमसश्चाक्षुषत्वमुक्तं तद्विषये वैशेषिकमतम्। वैशेषिकसूत्रोपस्कारे (पृ. १४१ ) 'ननु तमसोऽपि द्रव्यस्य कर्म दृश्यते चलति छायेतिप्रत्ययात, तत्र न प्रयत्नो न वा नोदनाभिघातौ न वा गुरुत्वद्रवत्वे न वा संस्कारस्तथा च निमित्तान्तरं वक्तव्यं तच्च नानुभूयमानमित्यत आह द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ॥ ५-२-१९।। - एतेन नवैव द्रव्याणीत्यवधारणमप्युपपादितम् । द्रव्यनिष्पत्तिस्तावत् स्पर्शवद्व्याधीना । न च तमसि स्पर्शोऽनुभूयते । न चानुद्भूत एव स्पर्शः, रूपोद्भवे स्पर्शोद्भवस्यावश्यकत्वात् । पृथिव्यामयं नियमः । तमस्तु दशमं द्रव्यमिति चेन्न द्रव्यान्तरस्य नीलरूपानधिकरणत्वात् । नीलरूपस्य च गुरुत्वनान्तरीयकत्वात्, रसगन्धनान्तरीयकत्वाच्च । यथाकाशं शब्दमात्रविशेषगुणं तथा तमोऽपि नीलरूपमात्रविशेषगुणं स्यादिति चेन्न चाक्षुषत्वविरोधात् । यदि हि नीलरूपवन्नीलं रूपमेव वा तमः स्यात् बाह्यालोकप्रग्रहमन्तरेण चक्षुषा न गृह्येत ॥१९॥' : तत्रैव स्याद्वादमञ्जर्यां-व्योमापि नित्यानित्यमेव। तदर्थं व्योमस्वरूपं वैशेषिकगृहीतं प्रदर्श्यते Page #13 -------------------------------------------------------------------------- ________________ वैशेषिकसत्रोपस्कारे। (पृ. ६६ ) यदर्थमयं परिशेषस्तदाहपरिशेषाल्लिङ्गमाकाशस्य ॥ २-१-२७ ।। शब्द इति शेषः । अत्रापि शब्दः क्वचिदाश्रितो गुणत्वाद्रूपादिवदिति सामान्यतो दृष्टादष्टद्रव्यातिरिक्तद्रव्यसिद्धिः । गुणश्चायं बायैकेन्द्रियग्राह्यजातीयत्वात् रूपादिवत् । अनित्यत्वे सति विभुसमवेतत्वात् ज्ञानादिवत् । अनित्यत्वं च साधयिष्यते ( अग्रिमसूत्रे) । परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणाभावान्नित्यत्वं सर्वत्र शब्दोपलब्धेर्विभुत्वम् ।। २७ ॥ शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाहद्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। २-१-२८॥ अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाकाशस्यापि, गुणवत्त्वात् । यथा वायोर्द्रव्यत्वं तथाकाशस्यापीत्यर्थः ॥ २८ ॥ तत् किं बहून्याकाशानि एकमेव वेत्यत आहतत्त्वम्भावेन ।। २-१-२९॥ व्याख्यातमिति विपरीतेनान्वयः । भावः सत्ता सा यथैका तथाकारामप्येकमेवेत्यर्थः ॥ २९॥ नन्वनुगतप्रत्ययमहिम्ना सत्ताया एकत्वं सिद्धम् । आकाशे कथमेकत्वं तद्दष्टान्तेन सेत्स्यतीत्यत आह.---- शब्दलिङ्गविशेषाद्विशेषलिङ्गाभावाच्च ।। २-१-३० ॥ - तत्त्वमाकाशस्य सिद्धमित्यर्थः । वैभवे सति सर्वेषां शब्दानां तदेकाश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां कल्पनागौरवप्रसङ्गः । अन्यदपि यदाकाशं कल्पनीयम् । तत्रापि शब्द एव लिङ्गम् । तच्चाविशिष्टम न च विशेषसाधकं भेदसाधकं लिङ्गान्तरमस्ति । आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेव लिङ्गं तथापि व्यवस्थातो लिङ्गान्तरादात्मनानात्वसिद्धिरिति वक्ष्यते (३-२-१९) ॥ ३० ॥ नान्वाकाशस्य एकत्वं तावदस्तु, वैभवात्परममहत्त्वमप्यस्तु, शब्दासमवायिकारणत्वात् संयोगविभागावपि स्याताम् एकपृथक्त्वं कथमत आह --- Page #14 -------------------------------------------------------------------------- ________________ (१०) तदनुविधानादेकपृथक्त्वं चेति ॥ २-१-३१ ॥ नियमेनैकपृथक्त्वमेकत्वमनुविधत्ते इत्येकपृथक्त्वसिद्धिः । इतिराहिकपरिसमाप्तौ मानसप्रत्यक्षाविषयविशेषगुणवद्रव्यलक्षणमाह्निकार्थः। तेन पृथिव्यप्तेजोवाय्वाकाशानां प्रसङ्गत ईश्वरात्मनश्च लक्षणमस्मिन्नाह्निके । तेन चतुर्दशगुणवती पृथिवी, ते च गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्काराः । तावन्त एव गन्धमपास्य स्नेहेन सहापाम् । एत एव रसगन्धस्नेहगुरुत्वान्यपास्य तेजसः । गन्धरसरूपगुरुत्वस्नेहद्रवत्वान्यपास्य वायोः । शब्देन सह सङ्ख्यादिपञ्चगुणवत्त्वमाकाशस्य । सङ्ख्यादिपञ्चकमात्रं दिकालयोः। परत्वापरत्ववेगसहितं सङ्ख्यादिपञ्चकं मनसः। सङ्ख्यादिपञ्चकं ज्ञानेच्छाप्रयत्नाश्वेश्वरस्य ॥ ३१ ॥ तत्रैव स्याद्वादमञ्जर्यां (पृ. १८) 'स्वायंभुवा अपि हि' इत्यनेन पातञ्जलमतखण्डनं तदर्थं तद्विषयकस्य पातञ्जलमतस्य निर्देशः । पातञ्जलयोगसूत्रभाष्ये (पृ. १२६) एतेन भूतेन्द्रियेषु र्धमलक्षणावस्थापरिणामा व्याख्याताः॥ ३-.१३॥ . 'एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोर्धमयोरभिभवप्रादुर्भावौ धर्भिणि धर्मपरिणामः । लक्षणपरिणामश्च निरोधस्त्रिलक्षणनिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः । यत्रास्य स्वरूपेणाभिव्याक्तिः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । ____ तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम् । एषोऽस्म द्वितीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् । एवं पुनर्युत्थानमुपसम्पद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्ती सत्यां ब्यापारः । एषोऽस्य द्वितीयोऽध्वा। न चाती. Page #15 -------------------------------------------------------------------------- ________________ (११) तानागताभ्यां लक्षणाभ्यां वियुक्तमिति । एवं पुनर्निरोध एवं पुनर्व्युत्थानमिति ं। तथावस्थापरिणामः । तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति ॥ दुर्बला व्युत्थानसंस्कारा इति । एष धर्माणामवस्थापरिणामः । तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति । एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानामिति । एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्त्रिविधः परिणामो वेदितव्यः । परमार्थतस्त्वेक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मो धर्मविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वान्यथा क्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति । अपर (एकान्तवादी बौद्धः ) आह- धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति । अयमदोषः । कस्मात् । एकान्ततानभ्युपगमात् । तदेतत्त्रैलोक्यं व्यरपैति । नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति । विनाशप्रतिषेधात् । संसर्गाच्चास्य सौक्ष्म्यं सौक्ष्म्याच्चानुपलब्धिरिति । लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः । तथानागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः । तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणभ्यामवियुक्त इति । तथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति । अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करः प्राप्नोतीति परैर्दोषश्चोद्यत इति । तस्य परिहारः- धर्माणां धर्मत्वमप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम् । एवं हि न चित्तं रागधर्मकं स्यात्क्रोधकाले रागस्यासमुदाचारादिति । किं च, त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति सम्भवः । क्रमेण तु स्वव्यञ्जकाब्ज़नस्य भावो भवेदिति । उक्तं च रूपातिशया Page #16 -------------------------------------------------------------------------- ________________ ( १२ ) वृत्त्यातिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । तस्मादसङ्करः । यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राभावः । किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः । तथा लक्षणस्येति । न धर्मी त्र्यध्वा । धर्मस्तु त्र्यध्वानः ते लक्षितां अलक्षिताः । तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति । अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तः । कथम । अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदानागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदातीत इत्येवं धर्मधर्मिणोलक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते । 1 नासौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र् यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्याविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति । तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः । सर्वानमून्विशेषानभिप्लवते | अथ कोऽयं परिणामः । अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति ' ॥ १३ ॥ तत्रैव स्याद्वादमञ्जर्याम् (पृ. २१ ) नापि समवाय इत्यादिखण्डनंतदर्थं समवायस्वरूपम् । वैशेषिकसूत्रप्रशस्तपादभाष्ये पृ.१७१–१७५ ‘अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्यय Page #17 -------------------------------------------------------------------------- ________________ (१३) हेतुःस समवायः । द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्य कारणाभूतानां वाऽयुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमितिबु. द्धिर्यतो भवति यतश्चासर्वगतानामधिगतान्यत्वानामविष्वग्भावः स समवा. याख्यः सम्बन्धः । कथम् ? यथेह कुण्डे दधीतिप्रत्ययः सम्बन्धे सति दृष्टस्तथेह तन्तुषु पटः, इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम् , इह गुणे गुणत्वम् , इह कर्मणि कर्मत्वम् , इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते ॥ न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वात् अन्यतरकर्मादिनिमित्तासम्भवात् विभागान्तत्वादर्शनादधिकरणांधिकर्तव्ययोरेव भावादिति ॥ स च द्रव्यादिभ्यः पदार्थान्तरं भाववल्लक्षणभेदात्। यथा भावस्य द्रव्यत्वादीनां स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः तथा समवायस्यापि पञ्चसु पदार्थेष्विहेतिप्रत्ययदर्शनात् तेभ्यः पदार्थान्तरत्वमिति । न च संयोगवन्नानात्वं भाववल्लिङ्गविशेषात् विशेषलिङ्गाभावाच्च तस्माद्भाववत्सर्वत्रैकः समवाय इति ।। ननु यद्येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न आधाराधेयनियमांन् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः तथाप्याधाराधेयनियमोऽस्ति कथम ? द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमिति । एवमादि कस्मात् ? अन्वयव्यतिरेकदर्शनात्। इहेति समवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात् सवत्रैकः समवाय, इति गम्यते । द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते । यथा कुण्डदध्नोः संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः । तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयनियम इति ॥ सम्बन्ध्यनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात् । यथा प्रमाणतः कारणानुपलब्धेर्नित्यो भाव इत्युक्तम् । तथा समवायोऽपीति । न प्रस्य किञ्चित्कारणं प्रमाणत उपलभ्यत इति । कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते न संयोगः सम्भवति तस्य गुणत्वेन द्रव्याश्रितत्वात् । नापि समवायस्तस्यैकत्वात् न चान्या वृत्तिरस्तीति । न तादात्म्यात् । यथा . Page #18 -------------------------------------------------------------------------- ________________ (१४) द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति । एवमविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात् स्वात्मवृत्तिः अत एवातीन्द्रियः सत्तादीनामेव प्रत्यक्षेषु वृत्त्यभावात् स्वात्मगतसंवेदनाभावाच्च । तस्मादिहबुध्द्यनुमेयः समवाय इति' ॥ __ श्लो. ६ स्याद्वादमञ्जर्यां च ईश्वरकर्तृकत्वादि खण्ड्यते तदर्थं तद्विषयकं वैशेषिकमतं प्रदर्श्यते कणादसूत्रे (अ. २-१,१८,१९.) उपस्कारसहिते। . 'संज्ञा कर्म त्वस्माद्वाशष्टानां लिङ्गम् ॥ २-१-१८ ॥ तुशब्दः स्पर्शादिलिङ्गव्यवच्छेदार्थः संज्ञा-नाम, कर्म- कार्य मित्यादि, तदुभयमस्मद्विशिष्टानाम् ईश्वर-महर्षीणां सत्त्वेऽपि लिङ्गम् ॥ १८॥ कथमेतदित्यत आह- . प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ॥ २-१-१९ ॥ अत्रापि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्तुर्जगत्कर्तुश्चाभेदसूचनार्थः । तथाहि यस्य स्वर्गापूर्वादयः प्रत्यक्षाः स एव तत्र स्वर्गापूर्वादिसंज्ञाः कर्तुमीष्टे प्रत्यक्षे चैत्रमैत्रादिपिण्डे पित्रादेश्चैत्रमैत्रादिसंज्ञानिवेशनवत् । एवञ्च : घटपटादिसंज्ञानिवेशनमपि ईश्वरसङ्केताधीनमेव यः शब्दो यत्रेश्वरेण संकेतितः स तत्र साधुः यथा या काचिदोषधिर्नकुलदंष्ट्राग्रस्पृष्टा सा सर्वापि सर्पविषं हन्तीत्येताहशी संज्ञा अस्मदादिविशिष्टानां लिङ्गमनुमापकं यापि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते सापि 'द्वादशेऽहनि पिता नाम कुर्यात् ' इत्यादिविधिना नूनमीश्वरप्रयुक्तैव । तथा च सिद्धं संज्ञाया ईश्वरलिङ्गत्वम् । एवं कर्मापि। कार्यमपीश्वरे लिङ्गम् । तथाहि क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति । अत्र यद्यपि शरीराजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वास. कर्तृकत्वेन विवादाध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् विवादसन्देहयोश्वातिप्रसक्तत्वेन पक्षसानवच्छेदकत्वात् , किञ्च सकर्तृकत्वमपि यदि कृतिमज्जन्यत्वं तदास्मदादिना सिद्धसाधनम् । अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात् , उपादानगोचरकृतिमज्जन्यत्वेऽपि तथास्मदादिकृतेरपि Page #19 -------------------------------------------------------------------------- ________________ (१५) किञ्चिदुपादानगोचरत्वातू ,कार्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वसे व्यभिचार इति । तथापि क्षितिः सकर्तृका कार्यत्वात् । अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्यत्वं च प्रागभावावच्छिन्नसत्ताप्रतियोगित्वम् । न चाकुरादौ सन्दिग्धानकान्तिकत्वम् । साध्याभावनिश्चये हेतुसदसत्त्वसन्देहे सन्दिग्धानैकान्तिकत्वस्य दोषत्वात् , अन्यथा सकलानुमानोच्छेदप्रसङ्गात् । न च पक्षातिरिक्ते दोषोऽयमिति वाच्यं राजाज्ञापत्तेः । नहि दोषस्यायं महिमा यत् पक्षं नाकामति। तस्मादकुरस्फुरणदशायां निश्चितव्याप्तिकेन हेतुना तत्र साध्यसिद्धेरप्रत्यूहत्वात् । क सन्दिग्धानकान्तिकता तदस्फुरणदशायां तु सुतरामिति संक्षेपः” ॥ १९ ॥ ___एवमेव नैयायिकमतम्-गौतमसूत्रवात्स्यायनभाष्ये न्यायवार्तिके अ. ४-१-१९,४-१-२०, ४-१-२१ । 'अपर इदानीमाह'- .. 'ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥४-१-१९॥ ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् । पुरुषोऽयं समीहमानो नावश्यं समीहाफलमाप्नोति तेनावगम्यते पराधीनं पुरुषस्य कर्मफलाराधनमिति । निरपेक्षश्चेत् पुरुषः कर्मफलभोगे समर्थः स्यात् न कस्यचिदफला क्रियां भवेत् । न कश्चिदुःखं कुर्यादिति । उभयं च दृष्टं तस्मादीश्वरः • कारणमिति ॥ १९॥ नं पुरुषकर्माभावे फलानिष्पत्तेः ॥४-१-२० ॥ न पुरुषकर्माभावे फलानिष्पत्तरिति । ईश्वरश्चेत कारणं स्यात् पुरुषकर्मान्तरेणापि सुखदुःखोपभोगौ स्याताम् । ततश्च कर्मलोपोऽनिर्मोक्षश्च । ईश्वरस्यैकरूपत्वादेकरूपा क्रियेति । अथेश्वरः कारणभेदानुविधानेन कार्य निवर्तयति यदपेक्षते तन्न करोतीति प्राप्तम् । नहि कुलालो दण्डादि करोति। एवं कर्मसापेक्षश्चेदीश्वरो जगदुत्पत्तिकारणं स्यात् कर्मणीश्वरोऽनीश्वरः स्यात् ।। २० ॥ तत्कारितत्वादहेतुः ॥४-१-२१॥ .. तलारितत्वादहेतुः । न ब्रूमः कर्माद्यनपेक्ष ईश्वरः कारणमिति । अपितु पुरुषकर्म ईश्वरोऽनुगृहाति । कोऽनुप्रहार्थः ? यद्यथाभूतं यस्य च अदा Page #20 -------------------------------------------------------------------------- ________________ (१६) विपाककालः तत्तथा तदा विनियुक्त इति । यः पुनरीश्वरं कर्मानपेक्षं कारणत्वेन प्रतिपद्यते तस्यानिर्मोक्षत्वादिदोषः । सापेक्षे त्वीश्वरे यथोक्तो न दोषः । शेष भाष्ये । ( वात्स्यायनभाष्यम् -' पुरुषकारमीश्वरोऽनुगृह्णाति फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति । यदा न सम्पादयति तदा पुरुषकर्माफलं भवतीति । तस्मादीश्वरकारितत्वादहेतुः पुरुषकर्माभावे फलानिष्पत्तरिति । गुणविशिष्टमात्मान्तरमीश्वरः । तस्यात्मकल्पात्कल्पान्तरानुपपत्तिः । अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टमात्मान्तरमीश्वरः । तस्य च धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम् । सङ्कल्पाविधायी चास्य धर्मः प्रत्यात्मवृत्तीधर्माधर्मसञ्चयान्पृथिव्यादीनि च भूतानि प्रवर्तयति । एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम् । आत्मकल्पश्चायं यथा पितापत्यानां तथा पितृभूत ईश्वरो भूतानाम् । न चात्मकल्पादन्यः कल्पः सम्भवति । न तावदस्य बुद्धिं विना कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम् । आगमाच्च द्रष्टा, बोद्धा, सर्वज्ञाता, ईश्वर इति । बुध्दयादिभिश्वात्मलिङ्गैनिरूपाख्यमीश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् । स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यंदुक्तं प्रतिषेधजातमकर्मनिमित्ते शरीरस तत्सर्वं प्रसज्यत इति ।।२१।।')(वार्तिकं पूर्वतोऽनुवृत्तम् ) तत्कारितत्वादित्येवं ब्रुवता निमित्तकारणमीश्वरः इत्युपगतं भवति । यच्च निमिततदितरयोःसमवायिकारणासमवायिकारणयोरनुग्राहकम् , यथा तुर्यादितन्तूनां तत्संयोगानां चेति । ईश्वरश्चेजगतो निमित्तं जगतः साक्षादुपादानकारणं किम् । उक्तं पृथिव्यादि परमसूक्ष्मं परमाणुसज्ज्ञितं द्रव्य(व्यक्त) मिति । व्यक्तकारणाभ्युपगमे तु सति निमित्तविशेषविप्रतिपत्तौ ईश्वरप्रक्रिया-यस्मानिमित्तकारणे विप्रतिपद्यन्ते केचित् कालं केचिदीश्वरं केचित्प्रकृतिमिति तदेवं निमित्तविशेषविप्रतिपत्तौ किं न्याय्यमिति । ईश्वर इति न्याय्यं तत्र हि प्रमाणानि अविघातेन प्रवर्तन्त इति । अस्तित्वासिद्विरिति चेत् ? अथ मन्यसे सिद्ध ईश्वरस्यास्तित्वे कारणान्तरनिराकरणं निमित्तकारणाभावश्च साध्येत, तत्त्वसिद्धं तस्मादयुक्तमिति ? न, अत एव तदुत्पत्तेः इति-येनैव न्यायेन ईश्वरस्य कारणत्वं सिध्यति तेनैवास्तित्वमिति, न विद्यमानं कारणमिति । कः पुनरीश्वरस्य कारणत्वे न्यायः ? अयं Page #21 -------------------------------------------------------------------------- ________________ (१७) न्यायोऽभिधीयते प्रधानपरमाणुकर्माणि प्राक्प्रवृत्तेबुद्धिमत्कारणाधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्यादिवदिति-यथा वास्यादि बुद्धिमता तक्ष्णा अधिष्ठितमचेतनत्वात् प्रवर्तते तथा प्रधानपरमाणुकर्माणि अचेतनानि प्रवर्तन्ते तस्मात् तान्यपि बुद्धिमत्कारणाधिष्ठितानीति । तत्र प्रधानकारणिकास्तावत् पुरुषार्थमधिष्ठायकं प्रधानस्य वर्णयन्ति-पुरुषार्थेन प्रयुक्तं प्रधान प्रवर्तते, पुरुषार्थश्च द्वेधा भवति शब्दाद्युपलब्धिर्गुणपुरुषान्तरदर्शनं चेति तदुभयं प्रधानप्रवृत्तेविना न भवतीति? न, प्राक्प्रवृत्तेस्तदभावात्-यावत्प्रधानं महदादिभावेन न परिणमते तावन्न शब्दाद्युपलब्धिरस्ति न गुणपुरुषान्तरोपलब्धिरिति हेत्वभावात् प्रधानप्रवृत्तिरयुक्ता । अथास्ति, नासदात्मानं लभते न सन्निरुध्द्यत इति ? एवं च सति विद्यमानः पुरुषार्थः प्रधानं प्रवर्तयतीति न पुरुषार्था. (य) प्रधानस्य प्रवृत्तिः-न हि लोके यद्यस्य भवति स तदर्थं पुनर्यतत इति । सततं च प्रवृत्तिः प्राप्नोति कारणस्य सन्निहितत्वादिति-पुरुषार्थः प्रवृत्तेः कारणमिति पुरुषार्थस्य नित्यत्वात् सततं प्रवृत्त्या भवितव्यमिति । अथ विद्यमानोऽपि न प्रवर्तयति ? न तर्हि पुरुषार्थः कारणमिति यस्याभावात् प्रधानं न प्रवर्तते यस्य च भावात् प्रवर्तते तत्कारणमिति । अथ विद्यमानः प्रतिबन्धान प्रवर्तयति ? प्रतिबन्धापगमस्याशक्यत्वात् सततमप्रवृत्तिः-यत्तत्र प्रतिबन्धकारणं पुरुषार्थस्य तस्यापगमः कर्तुमशक्यः न सदात्मानं जहातीति प्रतिबन्धकस्य नित्यत्वान्नित्यमप्रवृत्त्या भवितव्यम् । यदा भवन्तः सत्त्वरजस्तमसां साम्यावस्थां प्रकृति वर्णयन्ति सा कुतो निवर्तत इति वक्तव्यम् ? न चानिवृत्तायां साम्यावस्थायां वैषम्येण शक्यं भवितुम् । अथाङ्गाङ्गिभावस्यानियमाद्वैषम्यं भवतीति ? अत्रापि भवन्तं पर्यनुयुक्ष्महे कथं साम्येनावस्थितमधिकं हीनं च भवति ? नापूर्वोपचये विद्यते न पूर्वहानमस्तीति । यांश्च शब्दादीन् प्रागनुपलब्धस्वरूपान् पुरुषमुपलभते बुद्धिरुपलम्भयति ते किमुपजातविशेषा उतानुपजातविशेषा इति ? यापजातविशेषा उपलभ्यन्त इति ? व्याहतं भवति नासदात्मानं लभत इति । अथानुपजातविशेषा एवोपलभ्यन्ते ? तथाप्यनिवृत्तो व्याघातः प्रधानं पुरुषार्थः प्रवर्तयतीति । सोऽयं प्रधानवादो यावद्यावद्विचायते तावत्तावत्प्रमाणवृत्तं बाधत इति । Page #22 -------------------------------------------------------------------------- ________________ (१८) - य परमाणून पुरुषकर्माधिष्ठितान जगतः कारणत्वेन वर्णयन्ति तान प्रतीदमुच्यते परमाणवः प्रवर्तन्त इति सततं प्रवृत्त्या भावितव्यम् । अथ कालविशेषापेक्षाः प्रवर्तन्ते ? परमाणुभिः कालो व्याख्यातः-यथा परमाणवो बुद्धिमन्तमधिष्ठातारमपेक्षन्ते तथा कालोऽपीति, न हि तत्राचेतनत्वं निवर्तत इति । क्षीरादिवदचेतनस्यापि प्रवृत्तिरिति चेत् ? यथा अपत्यभरणार्थ क्षीरादेरचेतनस्यापि प्रवृत्तिरेवं परमाणवोऽप्यचेतनाः पुरुषार्थं प्रवर्तिष्यन्त इति ? । तत्तु युक्तम् , साध्यसमत्वात् यथैव परमाणवः स्वतन्त्राः प्रवर्तन्त इति साध्यं तथा क्षीराद्यचेतनं स्वतन्त्र प्रवर्तत इति । यदि क्षीरादि स्वतन्त्रं प्रवर्तेत मृतेष्वपि प्रवर्तेत, न तु प्रवर्तते, अतोऽवगम्यते बुद्धिमत्कारणाधिष्ठितं तदपि । न चायं हेतुः तस्मान्निवर्तते एवं यावद्यावदचेतनं प्रवर्तते ( तत् ) सर्वं तत् चेतनाधिष्ठितमिति । अयमपरो हेतुः बुद्धिमत्कारणाधिष्ठितं महाभूतादि व्यक्तं (मिति ) सुखदुःखादिनिमित्तं भवति रूपादिमत्वात् तुर्यादिवदिति । धर्माधर्मी बुद्धिमत्कारणाधिष्ठितौ पुरुषस्योपभोगं कुरुतः करणत्वाद्वास्यादिवदिति । आत्मैवाधिष्ठाता धर्माधर्मयोर्भविष्यतीति चेत् ? यस्य तौ धर्माधौं स एवाधिष्ठाता भविष्यतीति न युक्तम् ? प्राक् कार्यकरणोत्पत्तेः तदसम्भवात्-यावत् कार्यकारणसंघातो नोपजायते पुरुषस्य तावदयमज्ञः उपसन्धातापि उपलभ्यानपि तावद्रूपादीमोपलभते कुतोऽनुपलभ्यौ धर्माधर्मावुपलप्स्यत इति । यदि पुरुषः स्वतन्त्रः प्रवर्तते न दुःखं कुर्यात् न हि कश्चिदात्मनो दुःखमिच्छतीति । यश्चात्मनो (ऽङ्गो) पघातं शिरश्छेदादि वा करोति तद्वैकल्ये प्रायणे वा हितबुद्धिः प्रवर्तत इति । यदि पुनर्धर्माधर्माभ्यामेवाधिष्ठिताः परमाणवः प्रवर्तेरन् ? न युक्तमेतदचेतनत्वात्-न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । अभ्युपगम्यापि च धर्माधर्मयोः परमाणुप्रवृत्तिसामर्थ्य ? न करणस्य क्रियानिवृत्तावसामर्थ्यात-न नहि करणं केवलं क्रियां निवर्तयदुपलभ्यते । अथ परमाण्वपेक्षाभ्यां धर्माधर्माभ्यां क्रियते ? तदपि न युक्तमदृष्टत्वात्नहि कर्मकरणाभ्यां क्रियां जन्यमानां कचिदपि पश्याम इति । आत्मा कर्ता भविष्यतीति ? उक्तमेतदज्ञत्वादिति । अकारणोत्पत्तिर्भविष्यतीति ? न युक्तमदृष्टत्वादिति। न चान्या गतिरस्ति, तस्माद् बुद्धिमत्कारणाधिष्ठिताः परमाणवः कमोणि च प्रवर्तन्त इति । Page #23 -------------------------------------------------------------------------- ________________ (१९) क्रियानावेशादकारणमिति चेत् ? अथ मन्यसे ये खलु कर्तारो भवन्ति ते क्रियाविशिष्टाः कुलालादय इति, क्रियारहितश्वेश्वरस्तस्मादकारणमिति ? न विकल्पानुपपत्तेः । ईश्वरो निष्क्रिय इति कां क्रियां अधिकृत्योच्यते ? द्वयी हि नः क्रिया उत्क्षेपणादिका चाख्यातशब्दवाच्यां च । यद्याख्यातशब्दवाच्यामधिकृत्योच्यते ? तदाऽसिद्धो हेतुः स्वातन्त्र्याभ्युपगमात् स्वातन्त्र्यं हि भगवति नित्यमस्ति । किं पुनः स्वातन्त्र्यम् ? अन्य कारकाप्रयोज्यत्वामितरकारकप्रयोक्तृत्वं च तदुक्तं कारकाणि वर्णयद्भिरिति । अथोत्क्षेपणादिकामधिकृत्योच्यते निष्क्रिय इति ? तदानेकान्तः - क्रियावच्च कारणं दृष्टं निष्क्रियं चेति - कदाचिद्रव्याणि उपरतक्रियाणि द्रव्यमारभन्ते संयोगात् निवृत्ते कर्मणि संयोगोपकरणानि द्रव्याणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः । यदा च युगपद्बहूनि द्रव्याणि संहन्यन्ते तदाऽसाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्य एकमेव द्रव्यमुत्पद्यते । एकावयवविभागे तु द्रव्यनिवृत्तौ शेषाणि द्रव्यान्तराणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः । कानिचित्पुनः क्रियावन्त्यारभन्ते यदान्यतरकर्मजात् संयोगानिवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिवृत्तिसमकालमेव द्रव्यमुत्पद्यते तदा क्रियावता द्रव्येणारम्भात् क्रियावतामारम्भः विरोधश्चोत्क्षेपणादिकायाः क्रियाया अनभ्युपगमादिति । न कारणमीश्वरः विकल्पानुपपत्तेः- कर्ता चेद ईश्वरः किं सापेक्षः करोति उत निरपेक्ष इति ? किं चातः ? यदि सापेक्ष: ? येन करोति तस्याकर्ता, एबमन्यत्रापि प्रसङ्गः । तदपि साधनं येन करोति तस्याकर्तेति, अथायं चिनपेक्ष्य करोति ? तद्वदन्यत्रापि प्रसङ्गः - अथायं सर्वमनपेक्ष्य करोति एवमपि पुरुषकर्माकलं भवेत् अनिर्मोक्षश्च प्रसज्येत यश्चाकर्मनिमित्ते सर्गे दोषः स इहापि प्रसज्यत इति ? निरपेक्षकर्तृत्वस्यानभ्युपगमात् धर्माधर्मविफलत्वादिदोषो नास्ति न चाकर्मनिमित्ते सर्गे दोष इति । येन करोति तस्याकर्तेति चेत् ? नानेकान्तात् नायमेकान्तोऽस्ति यो येन करोति स तन्न करोतीति यथाऽनेकशिल्पपर्यवदातः पुरुषः करणान्तरोपादानो वास्यादि करोति, वास्याद्युपादानो दण्डादि करोति, तदुपादानो घटादि, न च पर्यायकर्तृत्वे सति अकर्तृत्वं तथेश्वरोऽपि धर्माधर्मोपादानः शरीरसुखदुःखादि, भात्म Page #24 -------------------------------------------------------------------------- ________________ ( २० ) मनःसंयोगशुद्धाशुद्धाभिसन्धिसाधनश्च धर्माधर्मी, सुखदुःखस्मृत्यपेक्ष: तत्साधनाद्यपेक्षश्च शुद्धमशुद्धं चाभिसन्धिमिति । यदा करोति तदा साधनस्याकर्तेति चेत् ? - अथ मन्यसे यदायं साध्यं (यत्) किंचिद् दृष्टं निर्वर्तयति तदा न साधयति तस्याकती प्रसज्यत इति । नैतदेवम् । न ब्रूमः सर्वानर्थानयमेकस्मिन् काले करोतीति । अपि तु पर्यायेण । पर्यायकर्तृत्वे चायमदोषः यदादौ करोति तस्यासाधनोत्पत्तिरिति चेत् । अथ मन्यसे यदि शरीरादिकर्तृत्वं धर्माधर्माद्यपेक्षस्य, अथ यदादौ करोति कथं तत् ? आदेरनभ्युपगमाददेश्यमेतत्-अनादिः संसार इति प्रतिपादितमेतत्, धर्माधर्मसाफल्यं चैवम् । यदि चानादिः संसारः सापेक्षश्च कर्ता, एवं प्राण्यन्तरसमवायिनां धर्माधर्माणां साफल्यम् । " अथायमीश्वरः कुर्वाणः किमर्थं करोति ? - लोके हि. ये कर्तारो भवन्ति ते कचिद्दिश्य प्रवर्तन्ते इदमाप्स्यामि इदं हास्यामि चेतिं, न पुनरीश्वरस्यं हेयमस्ति दुःखाभावात् नोपादेयं वशित्वात् ? । क्रीडार्थमित्येके - एके तावत् ब्रुवते क्रीडार्थमीश्वर: सृजतीति ? नन्वेतदयुक्तम् । क्रीडा हि नाम रत्यर्थं भवति विना क्रीडया रतिमविन्दताम् न च रत्यर्थी भगवान् दुःखाभावादिति । दुःखिनश्च सुखोपगमार्थं क्रीडन्ति । विभूतिख्यापनार्थमित्यपरे - जगतो वैश्वरूप्यं ख्यापनीयं इत्यपरे मन्यन्ते । एतदपि तादृगेवनहि विभूतिख्यापनेन कश्चिदतिशयो लभ्यते न चास्याख्यापनेन किञ्चिद्धीयत इति । किमर्थं तर्हि करोति ? तत्स्वाभाव्यात् प्रवर्तत इत्यदुष्टम् । यथा भूम्यादीनि धारणादिक्रियां तत्स्वाभाव्यात्कुर्वन्ति तथेश्वरोऽपि तत्स्वाभाव्यात्प्रवर्तत इति प्रवृत्तिस्वभावकं तत्तत्त्वमिति । तत्स्वाभाव्यात् सततप्रवृत्तिः इति चेत् ? - अथ मन्यसे यदि प्रवृत्तिस्वभावकं तत्त्वं प्रवृत्तिनिवृत्ती न प्राप्नुतः न हि प्रवृत्तिस्वभावके तत्त्वे निवृत्तिर्युज्यत इति क्रमेणोत्पत्तिर्न प्राप्नोति तत्त्वस्यैकरूपत्वात् इदमिदानीं भवत्विदामिदानीं न भवत्विति न युक्तम्- न ह्येकरूपात् कारणात्कार्यभेदं पश्याम इति ? । नैष दोषः । बुद्धिमत्वेन विशेषणात् बुद्धिमत्तत्त्वमिति प्रतिपादितम् - बुद्धिमत्तया च विशिष्यमाणं सापेक्षं च न सर्वदा प्रवर्तते- न सर्वमेकस्मिन्काले उत्पादयति यस्य कारणसान्निध्यं तद्भवति यदसन्निहितकारणं तन्न भवति, न च सर्वस्य युगपत्कारण Page #25 -------------------------------------------------------------------------- ________________ (२१) सान्निध्यमस्ति, अतः सर्वस्य युगपदुत्पादो न प्रसक्तः, स खलु प्रवर्तमानो धर्माधर्मयोः परिपाककालमपेक्षते कारणान्तरोत्पादं तद्भागिनां च सत्त्वानां तत्र सन्निधानं तद्भागिसत्त्वधर्माधर्मपरिपाकं च तदप्रतिबंधं चेति । यत् तदीश्वरम्यैश्वर्यं किं तन्नित्यमनित्यमिति ? । यद्यनित्यं तस्य कारणं वाच्यं यस्य चानित्यमैश्वर्यं तस्य कारणं भेदो भवति अणिमादेः एवमन्येषामपीत्यनेक ईश्वरः प्रसज्यत इति ? । अथानेकत्वे किं बाध्यत इति ? एकस्मिन वस्तुनि व्याहतकामयोरीश्वरयो प्रवृत्तिन प्राप्नोति अथैकमितर अतिशेते ? योऽतिशेते स ईश्वरः नेतरः इति । अथ नित्यमैश्वर्यम् ? धर्मवैयर्थ्यं न तद्धर्माद्भवति इति नित्यमिति ब्रूमः । न च धर्मवैयर्थ्य दोषः तस्य यो धर्म ईश्वरे नासौ तत्रैश्वर्यं करोति, किन्तु प्रत्यात्मवृत्तीन् धर्माधर्मसन्निचयाननुगृह्णाति, न चेश्वरे धर्मोऽस्तीत्यचोद्यमेतत् ।। ___तत्स्वभावानवधारणात् सन्देहः ईश्वरः किं द्रव्यमाहो गुणादीनामन्यतम इति ? द्रव्यं बुद्धिगुणत्वात् द्रव्यान्तरवत् । बुद्धिमत्वात्तर्हि आत्मान्तरमिति ? नात्मान्तरं गुणभेदात्-तद्यथा गुणभेदे सति पृथिव्यादयो नात्मानः तथा गुणभिन्न ईश्वरस्तस्मादसावपि नात्मान्तरमिति । कः पुनरेतस्य भेदः ? । एके तावत् ब्रुवते धर्मज्ञानवैराग्यैश्वर्याण्यतिशयवन्ति तस्मिनिति नित्यत्वमतिशयः । एतत्तु न बुद्धयामहे यथा बुद्धिमत्तायामीश्वरस्य प्रमाणसद्भावो न चैवं धर्मादिनित्यत्वे प्रमाणमस्ति, न चाप्रामाणिक प्रतिपत्तुमशक्यं, अतिशयस्तु बुद्धिनित्यत्वं गुणभेदः तत्र हि नित्या बुद्धिः सङ्घचादयश्च सामान्यगुणाः पड्गुण आकाशवदीश्वर इति । अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति ? । नन्विदमेव-बुद्धिमत्कारणाधिष्ठिताः परमाणवः प्रवर्तन्त इति ? । बुद्धिमत्तायामेतत् साधनं सा पुनर्नित्येति कुतः ? । प्रत्यर्थनियमासम्भवातू-ये खलु प्रत्यर्थनियता बुद्धिभेदास्ते शरीरादिकारणसन्निधाने सति भवन्ति, न त्वियं प्रत्यर्थनियता युगपदनेककार्योत्पत्तिदर्शनात् यथा स्थावरभेदस्यानेकस्य युगपदुत्पाद इति स च प्रत्यर्थनियतबुद्धिभेदेष्वीश्वरस्य न युक्तः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागबुद्धय एव तस्य गुणाः । अथ बुद्धिमत्त्येश्वरस्य शरीरयोगमपि प्रतिपद्यते ? तेनापि प्रतिपद्यमानेन शरीरादयो नित्या अनित्या वा अवश्यमेषितव्याः । यद्यनित्या धर्माधर्मसद्भावोऽभ्युपेयः तदभ्युपगमे च तत्तन्त्रत्वादीश्वरो नेश्वर Page #26 -------------------------------------------------------------------------- ________________ (२२) स्यात् । अथ नित्यान् शरीरादीन् कल्पयसि ? एवमपि दृष्टविपरीतं कल्पितं भवति दृष्टविपर्ययं प्रतिपद्यमानेन बुद्धेर्नित्यत्वं प्रतिपत्तव्यम् । अथ सन्तानवर्तिनीमनेकां बुद्धिमीश्वरे प्रतिपद्यसे ? एवमपि न युगपदुत्पादः स्थावरादीनां प्राप्नोति । अथ (ताः) सन्तानवर्तिन्यः सर्वार्थाः बुद्धयो भवन्ति ? एवमपि दृष्टविपरीतं कल्पितं भवति । एवं च कल्पयता बुद्धिनित्यत्वमेव प्रतिपत्तव्यम् । एतावच्चैतत्स्यात् नित्या वा सन्तानवर्तिनी ( वा सन्तानवर्तिनी ) न युक्ता । यदि गुणभेदाढ़ेदः यदभिन्नगुणं तदेकं प्राप्नोति यथा दिक्कालाविति ? नानेकान्तात-गुणभेदान्नानात्वं ब्रूमः न पुनर्गुणाभेदादेकत्वमिति–तथाहि अभिनगुणानां घटादीनां नानात्वमिति, दिकालयोर्गुणाभेदेऽपि कार्यभेदानानात्वमिति । न च बुद्धिमत्तया विनेश्वरस्य जगदुत्पादो घटत इति । सा च बुद्धिः सर्वार्थातीतानागतवर्तमानविषया प्रत्यक्षा नानुमानिकी-न तत्रानुमानं नागम इति, ज्ञाननित्यत्वाञ्च न संस्कारः-नित्यं विज्ञानमीश्वरस्येति न तत्र संस्कारो विद्यत इति संस्काराभावाद बुद्धिनित्यत्वाच्च न स्मृतिः, स्मृत्यभावाच्च नानुमानं, न दुःखधर्मस्याभावात् , अत एव न वैराग्यमिति दुःखाभावान विरज्यत इति, अत एव न द्वेषो दुःखाभावादिति । इच्छा तु विद्यतेऽक्लिष्टाव्याहता सर्वार्थेषु यथा बुद्धिरिति । अथ किमयं बद्धो मुक्त इति ? । न बद्धो दुःखाभावादेव, अबद्धत्वान मुक्त इति—बन्धवान् मुच्यत इति, न च भगवति बन्धनमस्तीति अतो न मुक्त इति । आत्मान्तराणामसम्बन्धादधिष्ठातृत्वमनुपपन्नमिति चेत् ? अथ मन्यसेऽर्थान्तरसमवायिनो ये धर्माधर्मास्ते न साक्षादीश्वरेण सम्बद्धचन्ते न पारम्पर्येण न चासम्बद्धमधिष्ठातुं शक्यते न चानधिष्ठितयोर्धमाधर्मयोः प्रवृत्तिर्युक्तेति ? । तच्च न, अजसम्बन्धोपपत्तेः-अजः सम्बन्धः आत्मान्तराणामित्येक इच्छन्ति न चैतदिह प्रतिषिध्यत इति अप्रतिषेधादुपात: स इति । ते त्वजं सम्बन्धं प्रमाणतः प्रतिपादयन्ति व्यापकैराकाशादिभिः सम्बद्ध इश्वरः मूर्तिद्रव्यसम्बन्धित्वात् घटवदिति--यथा घटादि मूर्तिमता घटादिना सम्बन्धित्वेन व्यापकैराकाशादिभिः सम्बद्धयते तथेश्वरोऽपि मूर्तिमत्सम्बन्धीति तस्मादयमपि व्यापकैराकांशादिभिः सम्बचत इति । Page #27 -------------------------------------------------------------------------- ________________ (२५) स पुनरात्मेश्वरसम्बन्धः किं व्यापकोऽव्यापको वा इति । अर्थाभावादव्याकरणीयः प्रश्नः । आत्मेश्वरसम्बन्धोऽस्तीत्येतदेव शक्यते वक्तुम् । स पुनरीश्वरात्मानौ व्याप्नोति न व्याप्नोतीति न व्याक्रियते । येऽप्यजं संयोगोपपत्तेरस्ति सम्बन्धः यानि प्रत्यात्ममनांसि सर्वाणीश्वरसंबद्धानीत्यतः सम्बद्धसम्बन्धोपपत्तेरात्मान्तराण्यधितिष्ठति यथात्महस्तसंयोगप्रयनाभ्यां हस्ते कर्म भवति उत्पन्नकर्मको हस्तः सन्दंशादिना सम्बध्द्यते तत्सम्बन्धादयःपिण्डाद्यधितिष्ठति । यदि तर्हि सर्गादावीश्वरस्य कारणत्वेऽयं न्यायोऽभिहितः इदानीमीश्वरो न कारणमिति प्राप्तम् ? इदानीमपि स एव न्यायः-मृतशरीरिणां यौ धर्माधर्मों तौ बुद्धिमत्कारणाधिष्ठिताविति समानो न्यायः । बुद्धिमत्कारणाधिष्ठितानि स्वासु स्वासु धारणादिक्रियासु महाभूतानि वाय्वन्तानि प्रवर्तन्ते अचेतनत्वाद्वास्यादिवत् । एवं कार्यत्वात तृणादीनि पक्षीकृत्य दर्शनस्पर्शनविषयत्वादिति वक्तव्यम् । एवं यत्र यत्र विप्रतिपत्तिः कार्यत्वं च तत्तदनेनैव न्यायेनानेन दृष्टान्तेन वास्यादिना पक्षयित्वा साधयितव्यम् । आगमाञ्च- आगमादपि श्रूयते ईश्वरः कारणम अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ।। यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्व निमीलति ॥ इति ईश्वरोपादानताप्रकरणम् ।' श्लो. ८ स्याद्वादमञ्जर्यां सत्तायाः खण्डनं तदर्थं सत्ताप्रतिपादकानि कणादसूत्राणि (१-२-७ मारभ्य ११ पर्यन्तम् १-२-१७ च) प्रशस्तपादभाष्यं च । " सत्तासामान्यमित्यत्र बहूनां विप्रतिपत्तिरतस्तत्र प्रमाणमाहसदिति यतो द्रव्यगुणकर्मसु सा सत्ता ॥ १.२.७॥ इतिकारेण प्रत्ययव्यवहारयोः प्रकारमुपदिशति । तथा च द्रव्यादिषु त्रिषु सत्सदिति-प्रकारको यतः प्रत्ययः सदिदं सदिदमित्याकारक: शब्दप्रयोगो वा यदधीनः सा सत्ता ॥७॥ Page #28 -------------------------------------------------------------------------- ________________ ननु द्रव्यगुणकर्मभ्यः पृथक्भावेन सत्ता नानुभूयतेऽतो द्रव्याद्यन्यतममेव सत्ता यतो हि यद् भिन्नं भवति तत्ततो भेदेनानुभूयते यथा घटः पटात्, न च सत्ता तेभ्यो भेदेनानुभूयते इति तदात्मिकैवेत्यत आह द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ॥ १-२-८ ॥ द्रव्यादयोऽननुगताः सत्ता चानुगता । तथा च अनुगतत्वाननुगतत्वलक्षणाविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात् । यत्तु तेभ्योऽन्यत्र नोपलभ्यते तदयुतसिद्धिबलात् । घटपटयोस्तु युतसिद्धिः । न च व्यक्तिस्वरूपमेव सत्ता, व्यक्तीनामननुगमात् । स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता, अनुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोत्वादिभिरपि गतम् । अत एव यत्र सत्ता समवैति तादृशैराधारैरेव तद्वयवहारोपपत्तौ किं सत्तयेत्यपास्तम् । अत एवार्थक्रियाकारित्वं प्रामाणिकत्व वा सत्त्वमित्ययुक्तं तदननुसन्धानेऽपि सत् इति प्रत्ययात् ।।८॥ भेदकान्तरमाह गुणकर्मसु च भावान्न कर्म न गुणः ॥ १-२-९ ॥ न गुणो न कर्मेति वक्तव्ये व्यत्ययेनाभिधानं न द्रव्यमित्यपि सूचयति । न हि कर्मसु वर्तते न वा गुणो गुणेषु न वा द्रव्यं गुणे कर्मणि वा,सत्ता तु गुणे कर्मणि च वर्तते न द्रव्यगुणकर्मवैधात्तेभ्यो भिन्नैव सत्ता ॥९॥ भेदकान्तरमाहसामान्यविशेषाभावेन च ॥१-२-१०॥ यदि सत्ता द्रव्यं गुणः कर्म वा स्यात् तदा सामान्यविशेषवती स्यात् । न च सत्तायां सामान्यविशेषा द्रव्यत्वादय उपलभ्यन्ते न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषाश्चिदनुभवः ॥ १० ॥ ननु सत्ता द्रव्यगुणकर्मसु वर्तमाना द्रव्यत्वाद्यवच्छेदभेदेन भिन्नैव कथं न स्यादत आहसदितिलिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैको भावः ॥१-२-१७॥ Page #29 -------------------------------------------------------------------------- ________________ (२७) सदित्याकारकज्ञानं शब्दप्रयोगो वा सत्ताया लिङ्गम् । तच्च द्रव्यगुणकर्मसु समानमविशिष्टम् । तेन भावः सत्ता एकैव तेषु वर्तते अन्यथा द्रव्यत्वादिभिस्तुष्यव्यक्तिकतया सत्ता वा न स्यात् तानि वा न स्युः । विशेषलिङ्गाभावाञ्चेति । विशेषो भेदोस्तत्र यल्लिङ्गमनुमानं तदभावाच्च न भेद इत्यर्थः । भवति हि स एवायं दीप इत्यनुगमस्तव यथा विशेषलिङ्ग दीर्घहस्वत्वादिपरिमाणभेदस्तथात्र विशेषलिङ्गं नास्तीति भावः ॥ १७ ॥" प्रशस्तपादभाष्यं च-" तत्र सत्तासामान्य परमनुवृत्तिप्रत्ययकारणमेव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकस्मान्नीलद्रव्याभिसम्बन्धात् नीलं नीलमिति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्संदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा । सत्तानुसम्बन्धात् सत्सदिति प्रत्ययानुवृत्तिः तस्मात् सा सामान्यमेव ।' ___अत्रैव श्लोके मुक्तिः ‘न संविदानन्दमयी' इत्यादिना खण्डिता तदर्थं मुक्तिस्वरूपं वैशेषिकसूत्रोपस्कारे १-१-४. 'निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः । दुःखनिवृत्तेश्चात्यन्तिकत्वं समानाधिकरणदुःखप्रागभावासमानकालीनत्वम् , युगपदुत्पन्नसमानाधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा । अशेषविशेषगुणध्वंसा वधिकदुःखप्रागभावो वा मुक्तिः । न चासाध्यत्वान्नायं पुरुषार्थः कारणविघटनमुखेन प्रागभावस्यापि साध्यत्वात् । न च तस्य प्रागभावत्वक्षतिः प्रतियोगिजनकाभावत्वेन तथात्वात् । जनकत्वञ्च स्वरूपयोग्यतामात्रम् । नहि प्रागभावश्चरमसामग्री येन तस्मिन् सति कार्यमवश्यं भवेत् तथा सति कार्यस्याप्यनादित्वप्रंसगात , तथा च यथा सहकारिविरहादियन्तं कालं नाजीजनत् तथाग्रेऽपि तद्विरहान्न जनयिष्यति, 'हेतूच्छेदे पुरुषव्यापारात' इत्यस्यापि प्रागभावपरिपालन एव तात्पर्यात् । अत एव गौतमीयद्वितीय. सूत्रे — दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा. पायादपवर्गः' इत्यत्र कारणाभावात् कार्याभावाभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति । नहि दोषापाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःखापायः इत्यपायो ध्वंसः । किन्त्वनुत्पत्तिः । सा प्रागभाव एव । Page #30 -------------------------------------------------------------------------- ________________ (२८) न च प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्राय श्चित्तवत, तत्रापि प्रत्यवायध्वंसद्वारा दुःखानुत्पत्तरेवापेक्षितत्वात् । लोके यहिकण्टकादिनिवृत्तेर्दुःखानुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तिः। केचित्तु दुःखात्यन्ताभाव एव मुक्तिः । स च यद्यपि नात्मनिष्ठस्तथापि लोष्ठादिनिष्ठ एवात्मनि साध्यते। सिद्धिश्च तस्य दुःखप्रागभावासहवर्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात्, तस्मिन् सति तत्र दुःखात्यन्ताभावप्रतीतेः। एवञ्च सति 'दुःखेनात्यन्तं विमुक्तश्चरति' इत्यादिश्रुतिरप्युपपादिता भवतीत्याहुः। तन्न दुःखात्यन्ताभावस्यासाध्यत्वेनापुरुषार्थत्वात् । दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः 'दुःखेनात्यन्तं विमुक्तश्चरति' इति श्रुतेदुःखप्रागभावस्यैव कारणविघटनमुखेनात्यन्ताभावसमानरूपत्वतात्पर्यकत्वात् । नन्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाभावात् दुःखकाले सुखं तावन्नोत्पद्यते इति सुखार्थिनामेव दुःखाभावार्थं प्रवृत्तेरिति चेन्न वैपरीत्यस्यापि सुवचत्वात् सुखेच्छापि दुःखाभावोपाधिकीत्येव किं न स्यात् , शोकाकुलानां सुखविमुखानामपि दुःखाभावमात्रमभिसन्धाय विषभक्षणोद्वन्धनादौ प्रवृ. त्तिदर्शनात् । ननु पुरुषार्थोऽप्ययं ज्ञानमय एव मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति अन्यथा मूर्छाद्यवस्थार्थमपि प्रवर्तेतेति चेन्न श्रुत्यनुमानाभ्यां ज्ञायमानस्यावेद्यत्वानुपपत्तेः । अस्ति हि श्रुतिः 'दुःखेनात्यन्तं विमुक्तश्वरति' तमेव विदित्वातिमृत्युमेति' इत्यादिका। अनुमानमप्यस्ति-दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्यादि । चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषयीकरणात् प्रत्यक्षवेद्यतापि। योगिनां योगजधर्मबलेनागामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाच्च । तथापि तुल्यायव्ययतया नायं पुरुषार्थो दुःखवत्सुखस्यापि हानेः द्वयोरपि समानसामग्रीकत्वादिति चेत् उत्सर्गतो दीतरागाणां दुःखदुर्दिनभीणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः। ननु तथापि दुःखनिवृत्तिन पुरुषार्थः अनागतदुःखनिवृत्तेरशक्यत्वात् अतीतदुःखस्यातीतत्वात् वर्तमानदुःखस्य पुरुषप्रयत्नमन्तरेणैव निवृत्तरिति चेन्न हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत्। Page #31 -------------------------------------------------------------------------- ________________ (२९) तथाहि सवासनं मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानञ्च योगविधिसाध्यमिति तदर्थं प्रवृत्त्युपपत्तेः । ननु नित्यसुखाभिव्यक्तिरेव मुक्तिन्तु दुःखभाव इति चेन्न नित्यसुखे प्रमाणाभावात् , भावे वा नित्यं तदभिव्यक्तेभुक्तसंसारिणोरविशेषापातात अभिव्यक्तरुत्पाद्यत्वेन तन्निवृत्तौ पुनः संसारापत्तेश्च । ब्रह्मात्मनि जीवात्मलयो मुक्तिरिति चेन्न लयो यद्येकीभावस्तदा बाधात् नहि द्वयमेकं भवति । लिङ्गशरीरापगमो लयो लिङ्गश्चैकादशेन्द्रियाणि तेषां शरीरस्य च विगमो लय इति चेन्न एतावता दुःखसामग्रीविरहस्योक्तत्वात् तथा च दुःखाभाव एव मुक्तिरिति पर्यवसानात् । एतेनाविद्यानिवृत्तौ केवलात्मस्थितिर्मुक्तिः आत्मा च विज्ञानसुखात्मकः इत्येकदण्डिमतमपास्तम् । आत्मनो ज्ञानत्वे सुखत्वे च प्रमाणाभावात् । न च 'नित्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतिर्मानम् । तस्या ज्ञानवस्वानन्दवत्त्वप्रतिपादकत्वात्। भवति हि अहं जाने अहं सुखीति प्रतीतिः नत्वहं ज्ञानं अहं सुखमिति । किञ्च ब्रह्मण इदानीमपि सत्त्वात् मुक्तसंसारिणोरविशेषापत्तिः अविद्यानिवृत्तेश्चापुरुषार्थत्वात् ब्रह्मणश्च नित्यत्वेनासाध्यत्वात् , तत्साक्षात्कारस्य तदात्मकत्वेनासाध्यत्वात , एवमानन्दस्यापि तदात्मकत्वेनासाध्यत्वमेवेति तदर्थं प्रवृत्त्यनुपपत्तिरेव। निरुपप्लवा चित्सन्ततिर्मुक्तिरिति चेन्न । दुःखादिरूपस्य उपप्लवस्य विगमो यदि निरुपप्लवत्वं तदा तन्मात्रस्यैव पुरुषार्थत्वेन चित्सन्ततेरनुवृत्ती प्रमाणाभावः तदनुवृत्तेरपि शरीरादिसाध्यत्वेन संसारानुवृत्तेरावश्यकत्वादिति सिद्धं दुःखनिवृत्तिरेवोक्तरूपा निःश्रेयसमिति ।। श्लो. ९ स्याद्वादमञ्जर्यामात्मनो विभुत्वस्य खण्डनं तदर्थमात्मनो विभुत्वं प्रशस्तपादभाष्ये आत्मप्रकरणे-'तथा चात्मेतिवचनात्परममहत्परिमाणम्'। - किं च गौतमसूत्रेषु वात्स्यायनभाष्ये-(३-२-२०,२१) 'योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु तेषु युगपज्ज्ञेयानुपलभते । तच्चैतद्विभौ ज्ञातर्युपपद्यते नाणौ मनसीति । विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः । विभु Page #32 -------------------------------------------------------------------------- ________________ मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत्संयोगाद्युगपज्ज्ञानान्युत्पघेरनिति ॥२०॥ तदात्मगुणत्वेऽपि तुल्यम् ॥ ३-२.२१ ॥ विभुरात्मा सर्वोन्द्रयैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति॥२१॥ तत्रैव स्याद्वादमञ्जर्यां (पृ. ६१) 'त्वयात्मनां बहुत्वमिष्यते' इत्यादिनात्मनानात्वं खण्ड्यते तदर्थ आत्मनानात्वं प्रशस्तपादभाष्ये-आत्मनिरूपणे-'व्यवस्थावचनात्संख्यापृथक्त्वमप्यत एव' । वैशेषिकसूत्रोपस्कारे ( ३-२-२०) 'सिद्धान्तमाह- व्यवस्थातो नाना ।। ३-२-२०॥ नाना आत्मानः कुतः व्यवस्थात: । व्यवस्थाः प्रतिनियमः यथा काश्चदान्यः, कश्चित् रङ्कः, कश्चित्सुखी, कश्चिदुःखी कश्चिदुच्चाभिजनः, कश्चिन्नीचाभिजनः, कश्चिद्विद्वान् , कश्चिज्जाल्म इतीयं व्यवस्था आत्मभेदमन्तरेणानुपपद्यमाना साधयत्यात्मनां भेदम् । न च जन्मभेदेन बाल्यकौमारवार्धक्यभेदेन वा, एकस्याप्यात्मना यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यम् । कालभेदेन विरुद्धधर्माध्याससम्भवात्॥२०॥ श्लो. १० स्याद्वादमञ्जर्यां छलादिविषये यदुक्तं तज्ज्ञानार्थं छलादिप्रतिपादकानि न्यायसूत्राणि १०-२० (अ. १।२।१०--२०) 'वचनविघातोऽर्थविकल्पोपपत्या छलम् ॥ १-२.१० ।। तत्रिविधं वाक्छलं सामान्यछलमुपचारछलं चेति ॥१-२-११॥ आविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥१-२-१२॥ मम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यछलम् ॥ १-२-१३॥ धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम् ॥ १-२-१४॥ वाक्छलमेवोपचारछलं तदविशेषात् ॥१.२-१५ ॥ Page #33 -------------------------------------------------------------------------- ________________ ( ३१ ) न तदर्थान्तरभावात् ।। १-२-१६ ॥ अविशेषे वा किञ्चित्साधम्र्म्यादेकच्छल प्रसङ्गः ।। १-२-१७ ॥ साधर्म्यवैधम्याभ्यां प्रत्यवस्थानं जातिः ।। १-२-१८ ।। विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १-२-१९ ।। तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ।।१-२-२० ।। तत्रैव (पृ. ७० ) प्रमाणप्रमेयलक्षणविषये यदुच्यते तदर्थं न्यायसूत्रे भाष्ये - (पृ. ९४ पं. ४/५ ) उपलब्धिहेतुश्च प्रमाणम् । प्रमेयं तूपलब्धिविषयः तथा च प्रमेयविषयेऽन्यत्र १ । १ ९ गौतमसूत्रं - सभाष्यम् 'किं पुनरनेन प्रमाणेनार्थजातं प्रमातव्यमिति तदुच्यते-- आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषमेत्यभावं फलदुःखापवर्गास्तु प्रमेयम् ॥१-१-९॥ तन्त्रात्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानुभावी । तस्य भोगायतनं शरीरम् । भोगसाधनानीन्द्रियाणि । भोक्तव्या इन्द्रियार्थाः । भोगो बुद्धिः । सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरणं मनः । शरीरेन्द्रियार्थबुद्धिसुखदुःखवेदनानां निवृत्तिकारणं प्रवृत्तिदोषाश्च । नास्येदं शरीरमपूर्वमनुत्तरं च । पूर्वशरीराणामादिर्नास्ति, उत्तरेषामपवर्गोऽन्त इति प्रेत्यभावः । ससाधनसुखदुः खोपभोगः फलम् । दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानं किं तर्हि जन्मन एवेदं ससुखसाधनस्य दुःखानुषङ्गाद्दः खेनाविप्रयोगः, द्विविधबाधनायोगाद् दुःखमिति । समाधिभावनमुपदिश्यते । समाहितो भावयति भावयन्निर्विद्यते निर्विण्णस्य वैराग्यं विरक्तस्यापवर्ग इति जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणमपवर्ग इति । अस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयं तद्भेदेन चापरिसङ्क्षेयम् । अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यतः एतदुपदिष्टं विशेषेणेति ।। ९ ।। ' तत्रैव (पृ. ७३) जातिश्चतुर्विंशतिविधा निग्रहस्थानं द्वाविंशतिविधं हेत्वाभासाञ्च पञ्च खण्डितास्तदर्थं तेषां सर्वेषां स्वरूपं प्रदर्श्यते ( गौ. सू. अ. ५ संपूर्णः अ. १।२।४ - ९) Page #34 -------------------------------------------------------------------------- ________________ (३२) 'साधर्म्यवैधोत्कर्षापकर्षवर्ध्यावविकल्पसौंध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ।। ५-१-१ ॥ ___ साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥ ५-१-२ ॥ गोत्वाद्गोसिद्धिवत्तत्सिद्धिः ॥५-१-३ ॥ साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्ध्यवर्ण्यविकल्पसाध्यसमाः ।। ५-१-४ ।। किञ्चित्साधादुपसंहारसिद्धेवैधाप्रतिषेधः ॥ ५-१-५ ।। साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ।। ५-१-६ ।। प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्यासाधकत्वाच्च प्राप्त्यप्राप्तिसमौ ।।५-१-७ ॥ . घटादिनिष्पत्तिदर्शनात्पीडने चाभिचारादप्रतीषेधः ॥ ५-१.८ ॥ .. दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥५-१-९॥ प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विानिवृत्तिः ॥ ५-१-१० ।। प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ।।५-१-११ ।। प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ ५-१-१२ ।। तथाभावादुत्पन्नस्य कारणोपपत्तेन कारणप्रतिषेधः ।। ५-१-१३।। सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशयसमः ॥५-१-१४॥ साधर्म्यात्संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ।। ५-१-१५ ।। उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥५-१-१६ ॥ प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ।।५-१-१७।। त्रैकाल्यासिद्धेहेतोरहेतुसमः ॥ ५-१-१८ ॥ न हेतुतः साध्यसिद्धखकाल्यासिद्धिः ॥ ५-१-१९ ॥ प्रतिषेधानुपपत्तेः प्रतिषेद्धव्याप्रतिषेधः ॥ ५-१-२० ।। Page #35 -------------------------------------------------------------------------- ________________ (३३) अर्थापत्तितः प्रतिपक्षसिद्धरापत्तिसमः ॥५-१-२१॥ अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाचार्थापत्तेः ॥ ५-१-२२ ॥ एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः ॥५-१-२३ ॥ कचित्तद्धर्मोपपत्तेः कचिच्चानुपपत्तेः प्रतिषेधाभावः ॥ ५-१-२४ ॥ उभयकारणोपपत्तेरुपपत्तिसमः ॥ ५-१-२५ ।। उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ।। ५-१-२६ ॥ निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः ।। ५-१-२७ ।। कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ।। ५-१-२८ ॥ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ॥५-१-२९ ॥ अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ५-१-३० ॥ ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ।।५-१-३१॥ साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥५-१-३२॥ साधादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधाच्च ॥५-१-३३ ।। दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः ॥५-१-३४ ॥ . नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ॥५-१-३५ ॥ प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः ॥५-१-३६ ॥ प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ ५.१-३७ ।। कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ।।५-१-३८ ॥ प्रतिषेधेऽपि समानो दोषः ॥ ५-१-३९ ॥ सर्वत्रैवम् ।। ५-१-४०॥ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवदोषः ॥ ५-१-४१ ॥ प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ॥ ५-१-४२ ॥ Page #36 -------------------------------------------------------------------------- ________________ ( ३४ ) स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात्समानो दोष इति ॥ ५-१-४३ ॥ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्त रमर्थान्तरं निरर्थकमविज्ञातार्थमपर्थकर्मकालं न्यूनमधिकं पुनरुक्तमननुभाषमज्ञानमप्रतिभा विक्षेपों मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि ॥ ५-२-१॥ १ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥५-२-२ ॥ २ प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशे प्रतिज्ञान्तरम् 114-2-311 ३ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥५- २ - ४ | ४ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ।।५-२-५ ।। ५ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।।५-२-६।। ६ प्रकृतादर्थादप्रति सम्बद्धार्थमर्थान्तरम् ॥५- २ - ७॥ ७ वर्णक्रमनिर्देशवान्निरर्थकम् ॥५-२-७॥ ८ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ 114-2-911 ९ पौर्वापर्या योगादप्रतिसम्बद्धार्थमपार्थकम् ॥५- २ - १०॥ १० अवयवविपर्यासवचनमप्राप्तकालम् ।।५-२-११ ।। ११ हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥५-२-१२॥ १२ हेतूदाहरणाधिकमधिकम् ॥५-२-१३ ॥ १३ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥५-२-१४॥ अनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशेषोपपत्तेः 'अर्थादापनस्य स्वशब्देन पुनर्वचनम् ॥५- २ - १५ ॥ १४ विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ।। ५-२-१६ ।। १५ अविज्ञातं चाज्ञानम् ।। ५-२-१७ १६ उत्तरस्याप्रतिपत्तिरप्रतिभा ।। ५-२-१८ । १७ कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपः ।। ५-२-१९॥ Page #37 -------------------------------------------------------------------------- ________________ (३५) १८ स्वपक्षदोषाभ्युपगमात्परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥५-२-२०॥ १५ निग्रहस्थान प्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ ५-२-२१ ॥ २० अनिग्रहस्थानें निग्रहस्थानाभियोगे निरनुयोज्यानुयोगः ।।५-२-२२॥ २१ सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः ।। ५-२-२३ ॥ २२ सव्यंभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥ १-२-४॥ १ अनैकान्तिकः सव्याभिचारः ॥ १-२-५ ॥ २ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः || १-२-६ ॥ ३ यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥१-२-७॥ ४ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ १-२-८ ॥ ५ कालात्ययापदिष्टः कालातीतः ॥ १२९ ॥ श्लोक ११ स्याद्वादमञ्जर्यं वेदविहितहिंसाविषये यत्खण्डनं तदर्थं मीमांसाग्रन्थनिर्देशः - अ. १।१।२ लोकवार्तिके २१८ - २७६ हिंसा हीति च यच्चापि ब्रूते नाभिचरेदिति । श्येनादीनां स्वरूपे तु नोत्तरग्रन्थसङ्गतिः ।। २१८ ॥ विहितत्वान्निषेधस्य प्रवृत्तिस्तेषु दुर्लभा । यदा तु चोदनाशब्दो विधावेव व्यवस्थितः ॥ २१९ ॥ तदोभयादिको ग्रन्थः साध्यसाधनसंश्रितः । ' साध्यसाधनसम्बन्धे विधिना प्रतिपादिते ॥ २२० ॥ लक्ष्यमाणत्वमुभयो ' द्विविधं च फलं क्रतोः । ' स्वर्गादि प्राप्यते तत्र प्रतिषेधानतिक्रमात् ।। २२१ ॥ अतिक्रमेण हिंसादि ' शाखान्तरनिरीक्षया । फलांशे भावनायाश्च प्रत्ययो न विधायकः ॥ २२२ ॥ Page #38 -------------------------------------------------------------------------- ________________ वक्ष्यते जैमिनिश्चाह तस्य लिप्सार्थलक्षणा । तेन सामान्यतः प्राप्तो विधिना च निवारितः ॥ २२३ ॥ फलांशोपनिपातिन्या हिंसायाः प्रतिषेधकः । अनर्थप्राप्तिहेतुत्वं बोध्यते तत्र यद्यपि ॥ २२४॥ श्येनस्वरूपं नानर्थस्तत्फलस्य त्वनर्थता। ... परस्तूभयामित्यादेः फलस्यापि विधेयताम् ॥ २२५॥ भावनान्तर्गतत्वाद्वा मत्वानर्थत्वमाक्षिपत् । . . . . नैवेत्येतावता चास्य विधेयत्वनिराक्रिया ॥ २२६ ॥ किं विधेयमिदानीं स्यादाह श्येनादयस्त्विति । 'प्रश्नापाकरणे चात्र तव्यो विधिविवक्षया ॥ २२७॥ प्रयुक्तो न तु साध्येऽर्थे ' द्वयेऽप्यनुप्रयोगतः।। अनर्थस्यापि साध्यत्वमविधेयस्य हीष्यते ॥ २२८॥ साध्यत्वरहिते चेष्टा विधेये नित्यमर्थता। शतुश्च लक्षणार्थत्वं तेषां चाप्युपदेशनम् ॥ २२९ ॥ ब्रुवन् स्फुटीकरोतीष्टमुपदेशो हि नान्यथा । विधित्वमादिशब्दात्स्यादितिकर्तव्यतास्वपि ॥२३०॥ तस्मात्फलांशे या हिंसा वैदिकी सा निषिध्यते । अंशद्वये तु या नाम तनिषेधाभिधायिनाम् ॥ २३१ ॥ अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरम् । निषेधेनानवष्टब्धे विषये न ह्यनर्थता ॥ २३२ ॥ प्रत्यक्षादेरशक्यत्वात्कल्प्यते निष्पमाणिका । न हि हिंसाधनुष्ठाने तदानीं दोषदर्शनम् ॥ २३३ ॥ बाह्येऽपि विचिकित्सा तु शास्त्रादेवोपजायते । 'हिंसमानस्य दुःखित्वं दृश्यते यन्न तावता ॥ २३४ ॥ Page #39 -------------------------------------------------------------------------- ________________ ( ३७ ) कर्तुर्दुःखानुमानं स्या' तदानीं तद्विपर्ययः । विषयोऽस्याः फलं यादृक् प्रेत्य कर्तुस्तथाविधम् ॥ २३५ ॥ हिंसा क्रियाविशेषत्वात्स्ते शास्त्रोक्तदानवत् । य एवमाह तस्यापि गुरुस्त्रीगमनादिभिः || २३६ ॥ सुरापानादिभिश्चापि विपक्षैर्व्यभिचारिता । विरुद्धता च यादृग्घि दानैस्तादृक् फलं भवेत् ॥ २३७ ॥ विधिगम्यफलावाप्तिरदुःखात्मकता तथा । न च या सम्प्रदानस्य प्रीतिस्तादृक् फलं श्रुतम् ॥ २३८ ॥ दातुस्तेन हि दृष्टान्तः साध्यहीनः प्रतीयते । 'सम्प्रदानं च दाने ते विषयः कर्म हिंसने || २३९ ॥ वैषम्यं सम्प्रदाने तु पक्षस्त्वेतद्विरुद्धता | प्रीयते सम्प्रदानं हि देवतेति मतं तव ॥ २४० ॥ दृष्टान्ते कर्म दानं चेत्तस्य कीदृक् फलं भवेत् । जपहोमादिदृष्टान्तात्परपीडादिवर्जनात् ।। २४१ ॥ चोदितत्वस्य हेतुत्वाद्विरुद्धाव्यभिचारिता । विहितप्रतिषद्धत्वे मुक्त्वान्यन्न च कारणम् || २४२ ॥ धर्माधर्मावबोधस्य तेनायुक्तानुमानगीः । अनुग्रहाच्चाधर्मत्वं पीडातश्चाप्यधर्मता || २४३ ॥ वदतो जपसीवादिपानादौ नोभयं भवेत् । क्रोशता हृदयेनापि गुरुदाराभिगामिनाम् ॥ २४४॥ भूयान् धर्मः प्रसज्येत भूयसी छुपकारिता । अनुमानप्रधानस्य प्रतिषेधानपेक्षिणः || २४५ ।। हृदयक्रोशनं कस्मादद्दष्टां पीडामपश्यतः । पीडातश्चाप्यधर्मत्वं तथा पीडामधर्मतः ।। २४६ ॥ Page #40 -------------------------------------------------------------------------- ________________ (३८) अन्योन्याश्रयमाप्नोति विना शास्त्रेण साधयन् । एवमादावशास्राज्ञो म्लेच्छो नोद्विजते क्वचित् ॥ २४७ ॥ तस्य नाधर्मयोगः स्यात्पूर्वोक्ता यदि कल्पना । तस्मादनुग्रहं पीडां तदभावमपास्य च ॥२४८ ॥ धर्माधर्मार्थिभिनित्यं मृग्यौ विधिनिषेधको । .. 'कचिदस्या निषिद्धत्वाच्छक्तिः शास्त्रेण बोधिता ॥२४९॥ प्रत्यवायनिमित्तत्वे विधिना नापगच्छति । शास्त्रेण न हि शक्तीनामावापोद्वापनक्रियाः ॥२५० ॥ विद्यमाना हि कथ्यन्ते शक्तयो द्रव्यकर्मणाम् । तदेव चेदं कर्मेति शास्त्रमेवानुधावता ॥ २५१ ॥ : हिंसादर्दानामधर्मत्वं कथ्यते नानुमानतः'। ' एवं ये निपुणं प्राहुस्तैरप्येतत्परीक्ष्यताम् ॥२५२॥ सुरापानादिभिः शूद्रः किं याति नरकं कृतैः। वैश्यस्तोमेन वा किं स्याद्विप्रराजन्ययोः फलम् ॥२५३॥ पञ्चम्यामिष्टिकरणान्मध्याह्ने चाग्निहोत्रतः'। तस्माद्यद्यादृशं कर्म यत्फलोत्पत्तिशक्तिकम् ॥२५४॥ शास्त्रेण गम्यते तस्य तादृशस्यैव तत् फलम् । 'हिंसा चांशद्वयादन्या या तस्याः प्रतिषेधजम् ॥२५५॥ प्रत्यवायार्थताज्ञानं ' विधिनाऽन्यत्र वार्यते । ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ॥२५६॥ ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः । व्यवस्थाः शक्तिभेदानां दृष्टार्थेष्वपि कर्मसु ॥२५७॥ अभिन्नत्वेऽपि दृश्यन्ते भुजः स्वस्थातुरेष्वपि । रूपाभेदेपि हिंसादेर्भेदोङ्गाऽनङ्गकारितः ॥२५८॥ Page #41 -------------------------------------------------------------------------- ________________ (३९) तथाप्येकफलत्वं चेत् क्रियात्वात्सर्वसंकरः। यजित्वाद्यविशेषाच्च चित्रादिफलतुल्यता ॥२५९।। भेदात्तत्र व्यवस्था चेदिहाप्येवं भविष्यति। विधीनां वापि सर्वेषां साक्षाद् व्यवहितोऽपि वा ॥२६०॥ पुरुषार्थः फलं तेन नानर्थोऽतः प्रतीयते । न चैषु श्रयतेऽनर्थो निषेधान्न च कल्प्यते ॥२६॥ न च प्रकरणस्थत्वात्पुरुषार्थः फलं भवेत् । कर्मोपकारः कल्प्यस्तु दृष्टोऽदृष्टोऽथ वा पुनः ॥२६२॥ कल्पनावसरस्तत्र नानर्थस्यानपेक्षणात् । ऋत्वर्थश्चापि संस्कारः पशोर्नारादुपक्रिया ॥२६३।। दृष्टैव त्ववदानानां निष्पत्तिः क्रत्वपंक्षिता । अभिचारेऽप्युपायस्था हिंसा नाम उच्यते ॥२६४॥ तस्मादनगभूतायां हिंसायामेतदुच्यते ।। उद्देशाच्च फलत्वेन श्येनादौ न विधीयते ॥२६५॥ भावनाविधिरप्येव फलांशाद्विनिवर्तते । अतः स्वतो न धर्मत्वं श्येनादे प्यधर्मता ॥२६६।। फलानर्थानुवन्धित्वात्तद्द्वारेणोपचर्यते । निराकाङ्क्षस्य चैकेन श्येनस्य न फलद्वयम् ॥२६७। तस्मात् क्रियान्तरादेवा हिंसातो नार्थ उच्यते । फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते ॥२६८ ॥ केवलप्रीतिहेतुत्वात्तद्धर्मत्वेन हीष्यते । ननु चेष्टाभ्युपायत्वात् श्येनादेधर्मता भवेत् ॥ २६९ ॥ फलं तावदधर्मोऽस्य श्येनादेः सम्पधार्यते । 'यदि येनेष्टसिद्धिः स्यादनुष्ठानानुबन्धिनी ॥२७० ॥ Page #42 -------------------------------------------------------------------------- ________________ (४०) तस्य धर्मत्वमुच्येत ततः श्येनादिवर्जनम् । यदा तु चोदनागम्यः कार्याकार्यानपेक्षया ।। २७१ ॥ धर्मः प्रतिनिमित्तं स्यात्तदा श्येनेऽपि धर्मता । यदि त्वभीतिहेतुर्यः साक्षाद व्यवहितोऽपि वा ॥ २७२ ॥ सोsधर्मश्चोदनार्थः स्यात्तदा श्येनेऽप्यधर्मता । यस्तु हिंसात्वसाधर्म्याद्वाह्यवच्चोदनास्वपि ॥ २७३ ॥ वदेदनर्थहेतुत्वं तस्याप्यागमबाधनम् । तमनादृत्य यो ब्रूयाद्यागादेरप्यसौ वदेत् ॥ २७४ ॥ स्वर्गादिसाधनाशक्तिं क्रियात्वाद्भोजनादिवत् । गीतामन्त्रार्थवादैर्या कल्प्यतेऽनर्थहेतुता ॥ २७५ ॥ प्रत्यक्षश्रुतिवाध्यत्वात्सान्यार्थत्वेन नीयते । शिष्यान्प्रत्यविशिष्टत्वात्सूत्रवैदिकवाक्ययोः ॥ २७६ ॥ तत्रैव स्याद्वादमञ्जर्यां ( ८६ पृष्ठे ) स हि पौरुषेयो वा स्यादपौरुषेयो वा इत्यादि विकल्प्य खण्डितं तदर्थं मीमांसकमतम् (जैमिनिसूत्राणि २७-३२ शावर भाष्य सहितानि ) dies सन्निकर्षं पुरुषाख्या ।। १-१-२७ ॥ उक्तं चोदनालक्षणोऽर्थो धर्म इति । यतो न पुरुषकृतः शब्दस्यार्थेन सम्बन्धः । तत्र पदवाक्याश्रय आक्षेपः परिहृतः । इदानीं अन्यथाक्षेस्यामः । पौरुषेयाश्चोदना इति वदामः । सन्निकृष्टकालाः कृतकां वेदा इदानीन्तनाः । ते च चोदनानां समूहाः । तत्र पौरुषेयाश्चेद्वेदा असंशयं पौरुषेयाश्चोदनाः कथ पुनः, कृतका वेदा इति केचिन्मन्यन्ते । यतः, पुरुषाख्याः । पुरुषेण हि समाख्यायन्ते वेदाः काठकं, कलापकं, पैप्पलादकं, मौहुलमिति न हि सम्बन्धादृते समाख्यानम् । न च पुरुषस्य शब्देन अस्ति सम्बन्धोऽन्यतः कर्ता पुरुषः कार्यः शब्द इति । ननु प्रवचनलक्षणा समाख्या स्यात् । त ब्रूमः । असाधारणं हि विशेषणं भवति । एक एव हि कर्ता, बहवोऽपि प्रब्रूयुः । अतोऽस्मर्यमाणोऽपि चोदनायाः कर्ता स्यात् । तस्मान्न Page #43 -------------------------------------------------------------------------- ________________ ( ४१ ) प्रमाणं, चोदना लक्षणोऽर्थो धर्म इति ॥ २७ ॥ अनित्यदर्शनाच्च ॥ १-१-२८ ।। 2 जननमरणवन्तश्च वेदार्थाः श्रूयन्ते । बवरः प्रावाहणिरकामयत, कुसुरुविन्द औद्दालकिरकामयतेत्येवमादयः । उद्दालकस्यापत्यं गम्यते औद्दालकिः । यद्येवं, प्राक् औद्दालकिजन्मनो नायं ग्रन्थो भूतपूर्वः । एवमप्यनित्यता ।। २८ ।। पूर्वपक्षः ।। उक्तं तु शब्दपूर्वत्वम् ।। १-१-२९ ॥ , उक्तं तु शब्दपूर्वत्वम् अस्माभिः शब्दपूर्वत्वमध्येतॄणां केवलं आक्षेपपरिहारो वक्तव्यः, सोऽभिधीयते ।। २९ ।। सिद्धान्तः ॥ आख्या प्रवचनात् ॥ १-१-३० ॥ यदुक्तं कर्तृलक्षणा समाख्या काठकाद्येति । तदुच्यते । नेयमर्थापत्तिः । अकर्तृभिरपि ह्येनामाचक्षीरन् । प्रकर्षेण वचनमनन्यसाधारणं कठादिभिरनुष्ठितं स्यात् । तथापि हि समाख्यातारो भवन्ति । स्मर्यते च, वैशम्पायनः सर्वशाखाध्यायी, कठः पुनरिमां केवलां शाखामध्यापयाम्बभूवेति । स बहुशाखाध्यायिनां सन्निधावेकशाखाध्यायी अन्यां शाखामनधीयानः । तस्यां प्रकृष्टत्वादसाधारणमुपपद्यते विशेषणम् ॥ ३० ॥ परन्तु श्रुतिसामान्यमात्रम् ॥ १-१-३१ ॥ यच्च, प्रावाहणिरिति । तन्न । प्रवाहणस्य पुरुषस्यासिद्धत्वान्न प्रवाहणस्यापत्यं, प्रावाहणिः । प्रशब्द: प्रकर्षे सिद्धो वहतिश्च प्रापणे न त्वस्य समुदायः क्वचित्सिद्धः । इकारस्तु यथैवापत्ये सिद्धस्तथा । क्रियायामपिकतीर । तस्माद्यः प्रवाहयति, स प्रावाहणिः । बवर इति शब्दानुकृतिः । तेन यो नित्योऽर्थस्तवैतौ शब्दौ वदिष्यतः । अत उक्तं, परन्तु श्रुतिसामान्यमात्रमिति ॥ ३१ ॥ उत्तरम् ॥ कृते वा विनियोगः स्यात् कर्मणः सम्बन्धात् ॥ १-१-३२॥ अथ कथमवगम्यते – नायमुन्मत्तबालवाक्य सदृश इति । तथाहि प- वनस्पतयः सत्रमासत, सर्पाः सत्रमासतेति । यथा, जरद्रवो श्यामः - ६ Page #44 -------------------------------------------------------------------------- ________________ ( ४२ ) गायति मत्तकानि । कथं नाम जरद्वो गायेत । कथं वा वनस्पतयः सर्पा वा सत्रमासीरन्निति । उच्यते । विनियुक्तं हि दृश्यते परस्परेण सम्बन्धार्थम् । कथम् । ज्योतिष्टोम इत्यभिधाय, कर्तव्य इत्युच्यते । केनेत्याकाङ्. क्षिते, सोमेनेति । किमर्थमिति स्वर्गायेति । कथमिति इत्थमनया इति कर्तव्यतयेति । एवमवगच्छन्तः, पदाथै रेभिः संस्कृतं पिण्डितं. वाक्यार्थं कथमुन्मत्तबालवाक्यसदृशमिति वक्ष्यामः ? ।। नन्वनुपपन्नमिदं दृश्यते, वनस्पतयः सत्रमासतेत्येवमादि । नानुपपनम । नानेन, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादयोऽनुपपन्नाः स्युः । अपि च, वनस्पतयः सत्रमासतेत्येवमादयोऽपि नानुपपन्नाः । स्तुतयो ह्येताः सत्रस्य । वनस्पतयो नामाचेतना इदं सत्रमुपासितवन्तः, कि पुनर्विद्वांसो ब्राह्मणास्तद्यथा लोके संध्यायां मृगा अपि न चरन्ति किं पुनर्विद्वांसो ब्राह्म णा इति । अपिच अविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथमिवाशङ्क्येत उन्मत्तबालवाक्यसदृश इति । तस्माच्चोदनालक्षणोऽर्थो धर्म इति सिद्धम् ॥ ३२ ॥ श्लो. १३ ब्रह्माद्वैतमतं खण्डितम् । तदर्थं द्वैतमूलस्याध्यासस्य वर्णनं श्रीशंकराचार्यकृतम् । अथातो ब्रह्मजिज्ञासा १।१।१ इति सूत्रे. _ 'युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवाद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः, इत्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः, तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽ ध्यासो मिथ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्य. धर्मांश्चाध्यस्येतरेतराविवेकेनात्यन्तविविक्तयोर्धर्मधर्मिणोमिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य 'अहमिदं' 'ममेदमिति' नैसर्गिकोऽयं लोकव्यवहारः। आह-कोऽयमध्यासो नामेति । उच्यते-स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं केचित्-अन्यत्रान्यधर्माध्यास-इति वदान्त । कोचत्तु यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम-इति । अन्ये तु यत्र यदध्यासस्तत्रैव विपरीतधर्मत्वकल्पनां-आचक्षते; इति । सर्वथापि त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति । तथा च लोकेऽनुभवः-शुक्तिका हि रजतवदवभासते, एकश्चत सहितीववदिति । तवं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विश्वतधर्मा Page #45 -------------------------------------------------------------------------- ________________ ( ४३ ) , 1 णाम ? सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति, युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि । उच्यते न तावदयमेकान्तेनाविषयः अस्मत्प्रत्ययविषयत्वात्, अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः । न चायमस्ति नियमः पुरोवस्थित एव विषये विषयान्तरमध्यसितव्यमितिः अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति । एवमविरुद्धः प्रत्यगात्मन्यनात्माध्यासः । तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्तेः तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः । तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाऽणुमात्रेणापि स न सम्बध्यते । तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाच प्रवृत्ताः सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । उच्यतेदेहेन्द्रियादिष्वहं ममाभिमानरहितस्य प्रमातृत्वानुपपत्तौप्रमाणप्रवृत्त्यनुपपत्तेः । नहीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति । नचाधिष्ठानमन्तरेणेन्द्रियाणां व्यवहारः सम्भवति । नचानध्यस्तात्मभावेन देहेन कश्चिव्याप्रियते । नचैतस्मिन्सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते। न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च । पश्वादिभिश्वाविशेषात् ॥ यथा हि पश्वादयः शब्दादिभिः श्रोत्रादिनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते अनुकूले च प्रवर्तन्ते यथा दण्डोद्यतकरं पुरुषमाभिमुखमुपलभ्य मां हन्तुमयमिच्छतीति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुलमभ्य तं प्रत्यभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खडगोद्यतकरान्बलवत् उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते, अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां च प्रसिद्धोऽविवेकपुरस्सरः प्रत्यक्षादिव्यवहारः तत्सामान्यदर्शनादव्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वात्मनः परलोकसम्बन्धमधिक्रियतेः तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदद्मसंसार्यात्मतत्त्वमधिकारेऽपक्ष्यतेः अनुपयोगादधिकारविरोधाच्च । प्राक्च तथाभूतात्मविज्ञानात्प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते । तथाहि 3 Page #46 -------------------------------------------------------------------------- ________________ (४४) 'ब्राह्मणो यजेत' इत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्धिरित्यवोचाम । तद्यथा पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति। तथा देहधर्मान्- स्थूलोऽहं, कृशोऽहं गौरोऽहं, तिष्ठामि, गच्छामि, लवथामि चेति । तथेन्द्रियधर्मान् मूकः, काणः, क्लीबः, बधिरः, अन्धोऽहमिति । तथान्तःकरणधर्मान कामसङ्कल्प. विचिकित्साध्यवसायादीन् । एवमहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति । एवमयमनादिरनन्तो नैसर्गिकोऽध्यांसो मिथ्याप्रत्ययरूपः कर्तृत्व भोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ॥'. श्ला. १४ स्याद्वादमञ्जर्यां [.पृ. १०६ ] मीमांसकैर्जातिरङ्गीक्रियते तद्वदेव सांख्यैरद्वैतिभिश्चेत्यर्थकमुक्तं तदर्थं मीमांसाश्लोकवार्तिके १-१--५ आकृतिवादः । अथाऽऽकृतिवादः। आकृतिव्यतिरिक्तेऽर्थे सम्बन्धो नित्यताऽस्य च । न सिध्येतामिति ज्ञात्वा तद्वाच्यत्वमिहोच्यते ॥ १॥ तत्सद्भावप्रसिध्द्यर्थमत्र तावत्प्रयत्यते । वाच्यत्वे वक्ष्यते युक्तिय॑क्त्या सह बलाऽबले ॥२॥ जातिमेवाऽऽकृति प्राहुर्व्यक्तिराक्रियते यया। सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम् ॥ ३॥ तन्निमित्तं च यत्किञ्चित्सामान्यं शब्दगोचरम् । सर्व एवेच्छतीत्येवमविरोधोऽत्र वादिनाम् ॥ ४ ॥ सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका। जायते ह्यात्मकत्वेन विना सा च न सिध्यति ॥५॥ Page #47 -------------------------------------------------------------------------- ________________ (४५) विशेषमात्र इष्टे च न सामान्यमतिर्भवेत् । सामान्यमात्रबोधे तु निर्निमित्ता विशेषधीः ॥ ६ ॥ न चाप्यन्यतरा भ्रान्तिरुपचारेण चेष्यते । दृढत्वात्सर्वदा बुद्धान्तिस्तदभ्रान्तिवादिनाम् ॥ ७ ॥ मुख्ययोश्चाप्यदृष्टत्वान्नोपचारेण कल्पना । बाह्यार्थविषयत्वं च बुद्धीनां प्रतिपादितम् ॥ ८॥ अन्योन्यापेक्षिता नित्यं स्यात्सामान्यविशेषयोः। विशेषाणां च सामान्यं ते च तस्य भवन्ति हि ॥ ९॥ निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । सामान्यरहितत्वाच्च विशेषास्तद्वदेव हि ॥ १० ॥ तदनात्मकरूपेण हेतू वाच्याविमौ पुनः । तेन नाऽत्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः ॥ ११ ॥ सामान्यबुद्धिशक्तत्वं विशेषेष्वेव यो वदेत् । विना वस्त्वन्तरात्तेन वाच्यशक्तिस्तु कीदृशी ॥ १२ ॥ ग्राह्या किं वाप्यसंबोधा भिन्नैका वा तथैव च । गृह्यते यदि सका च जातिरेवान्यशब्दिका ॥ १३ ॥ भवेनिर्विषया बुद्धिदि शक्तिर्न गृह्यते। न हि सद्भावमात्रेण विषयः कश्चिदिष्यते ॥ १४॥ परस्परविभिन्नत्वाद्विशेषा नैकबुद्धिभिः । गृह्यन्ते विषयाऽसत्त्वाच्छक्तिश्चैषां न विद्यते ॥ १५ ॥ भिन्नत्वे वाऽपि शक्तीनामेकबुद्धिर्न लभ्यते । विशेषशक्त्यभेदे च तावन्मात्रमतिर्भवेत् ॥ १६ ॥ भिन्ना विशेषशक्तिभ्यः सर्वत्रानुगताऽपि च । प्रत्येकं समवेता च तस्माज्जातिरपीष्यताम् ॥ १७ ॥ Page #48 -------------------------------------------------------------------------- ________________ (४६) तेनात्मधर्मो भेदानामेकधीविषयोऽस्ति नः । सामान्यमाकृतिर्जातिः शक्तिर्वा सोऽभिधीयताम् ॥ १८ ॥ ननु भिन्नेऽपि सत्तादौ सामान्यमिति जायते । बुद्धिर्विनाऽपि सामान्यादन्यस्मात्सा कथं भवेत् ॥१९॥ वनोपन्यासतुल्योऽयमुपन्यासः कृतस्त्वया । . भ्रान्तित्वेन हि नैतस्या भ्रान्तिर्गोत्वादिधीरपि ॥ २० ॥ शब्दात्पूर्व हि सर्वेषु गवादाविव नैकधीः। ... वस्तुत्वं चात्र सामान्यं धर्म केचित्प्रचक्षते ॥२१॥ . एवं तु कल्प्यमाने स्यात्सामान्यानामनन्तता । पुनस्तेन सहान्येषु सामान्यमतिरस्ति हि ॥२२॥ विशेषेष्वपि वस्तुत्वात्सामान्यमिति धीर्भवेत् ।। सत्तादिष्विव, तेनैतत्सामान्यं नोपपद्यते ॥२३॥ तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः। सामान्यशब्दः सत्तादावेकधीकरणेन वा ॥२४॥ पिण्डेष्वेव च सामान्यं नान्तरा गृह्यते रातः । न ह्याकाशवदिच्छन्ति सामान्यं नाम किचन ॥२५॥ यद्वा सर्वगतत्वेऽपि व्यक्तिः शक्तयनुरोधतः । शक्तिः कार्यानुमेया हि व्यक्तिदर्शनहेतुका ॥२६॥ तेन यत्रैव दृश्येत व्यक्तिः शक्तं तदेव तु । तेनैव च न सर्वासु व्यक्तिष्वेतत्प्रतीयते ॥ २७ ॥ भिन्नत्वेऽपि हि कासांचिच्छक्तिः काश्चिदशक्तिकाः। न च पर्यनुयोगोऽस्ति वस्तुशक्तेः कदाचन ॥ २८ ॥ वह्निर्दहाति नाऽऽकाशं कोऽत्र पर्यनुयुज्यताम् । न चान्या मृग्यते युक्तिर्यथा संदृश्यते तथा ॥ २९ ॥ Page #49 -------------------------------------------------------------------------- ________________ (४७) न हि युक्तयन्तरं नास्तीत्येतज्ज्ञानमनर्थकम् । धर्मश्चाऽव्यभिचार्यस्य न मृग्य उपलक्षणे ॥३०॥ नाऽनुमानाऽवगम्यं तत्, प्रत्यक्षे लक्षणेन किम् । . 'स्वाभाविकश्च सम्बन्धो जातिव्यक्तयोर्न हेतुमान् ॥ ३१ ॥ तेनैतस्य प्रसिध्द्यर्थ नाऽन्यत्सामान्यमिष्यते । शक्तिसिद्धिवदेतस्य स्वभावोऽत्र न वार्यते ॥ ३२ ॥ यद्वा नैमित्तिकत्वेऽपि तावन्मात्रप्रतीक्षणात् । विशेषेष्वेव लब्धेषु केषुचिन्नाऽन्यवाञ्छनम् ॥३३॥ न व्यञ्जन्त्यपरे कस्माद्यतस्तेषु न दृश्यते । तेभ्योऽपि न निवृत्त्यर्थं मृग्यो हेतुः स्वभावतः ॥ ३४ ॥ सामान्य नान्यदिष्टं चेत्तस्य वृत्तेर्नियामकम् । गोत्वेनाऽपि विना कस्माद्गोबुद्धिर्न नियम्यते ॥ ३५ ॥ यथा तुल्येऽपि भिन्नत्वे केषुचिद्वृत्त्यपेक्षिता । गोत्वादेरनिमित्तेऽपि तथा बुद्धिर्भविष्यति ॥३६॥ विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तद् ध्रुवम् ॥३७॥ ता हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयाहते। . न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति ॥३८॥ अनिष्यमाणे सामान्ये वृत्तिः शब्दानुमानयोः । नैव स्यान्न हि सम्बन्धो भेदैरानन्त्यतो भवेत् ॥३९॥ अनुभूततया चाऽसौ पुरुषस्योपयुज्यते । जातिव्यक्तयोस्तु सम्बन्धे नाऽनुभूत्या प्रयोजनम् ॥४०॥ 'सिद्धे विषयरूपे च गोत्वादाविन्द्रियैः पुनः । अर्थापत्त्युपलब्धा स्याच्छक्तिरेका नियामिका ॥ ४१ ॥ Page #50 -------------------------------------------------------------------------- ________________ (४८) न चाऽऽत्महेतुमेवाऽसौ सिद्धं बाधितुमर्हति । . शक्तिश्च नैतया बुध्या नेन्द्रियैः सा हि गृह्यते ॥ ४२ ॥ सामान्यान्तरयोगानामनिष्टा या च वर्ण्यते । तया सामान्यनाशः स्यात्स च दृष्टेन बाध्यते ॥ ४३ ॥ सम्बन्धस्तस्य हेतुर्वा तद्ग्रहे न च कारणम् । ... स्वरूपतो गृहीतेऽर्थे पश्चादेतद्विकल्प्यते ॥ ४४ ॥ सास्नाद्येकार्थसम्बन्धि गोत्वमित्युपलक्षणम् । . न च स्वसमवाय्येव केवलं चिह्नमिष्यते ॥ ४५ ॥ सास्नादिभ्यस्तु पिण्डस्य भेदो नाऽत्यन्ततो यदा । . सामान्यस्य च पिण्डेभ्यस्तदा स्यादेतदुत्तरम् ॥ ४६॥ कस्मात् सास्नादिमत्स्वेव गोत्वं यस्मात्तदात्मकम् । तादात्म्यमस्य कस्माच्चेत् स्वभावादिति गम्यताम् ॥४७॥ उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी । स्वतो गोत्वादिभेदस्तु न तु व्यञ्जकभेदतः ॥ ४८ ॥ मा भूद् द्रुतादिवन्मिथ्या 'व्यञ्जकस्य तु किंकृतः। भेदो हस्त्यादिपिण्डेभ्यः' स्वतश्चेदिह तत्समम् ॥ ४९ ॥ व्यङयजातिविशेषाच्चेत् प्राप्तमन्योन्यसंश्रयम् । तस्मात् स्वाभाविको भेदो जातिव्यक्तयोः प्रतीयते ॥५०॥ अनेकाऽनन्यवृत्तित्त्वान्न सामान्यविशेषयोः । एकवस्त्वात्मता युक्ता किं चित्तेनौपचारिकम् ॥५१॥ भिन्नेभ्यश्चाप्यभिन्नत्वा दस्तत्स्वात्मवद्भवेत् । एकस्माद्वाऽप्यभिन्नत्वाब्यक्तयेकत्वं प्रतीयते ॥ ५२ ॥ . एकाऽनेकत्वमेकस्य तथाऽन्याऽनन्यता कथम् । तत्सामान्यं विशेषश्चेत्येवमादि च दुष्करम् ॥ ५३ ॥ Page #51 -------------------------------------------------------------------------- ________________ (४९) विरोधस्तावदेकान्ताद्वक्तुमत्र न युज्यते । सामान्याऽनन्यविज्ञाते विशेषे नैकवृत्तिता ॥५४॥ सामान्याऽनन्यवृत्तित्वं विशेषाऽऽत्मैकभावतः। एवञ्च परिहर्तव्या भिन्नाभिन्नत्वकल्पना ॥ ५५ ॥. केनचिध्यात्मनैकत्वं नानात्वं चास्य केनचित् । सामान्यस्य तु यो भेदं ब्रूते तस्य विशेषतः ॥ ५६ ॥ दर्शयित्वाऽभ्युपेतव्यं, विशेषैक्यं च जातितः। यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः ॥ ५७ ॥ चित्रत्वाद्वस्तुनोऽप्येवं भेदाऽभेदाऽवधारणम् । सामान्यांशे तु निष्कृष्य भेदो येन प्रसाध्यते ॥ ५८ ॥ तस्य हेतोरसिद्धत्वं सिद्धश्चेत् सिद्धसाधनम् । भेदेभ्योऽनन्यरूपेण सामान्यं गृह्यते यदा ॥ ५९ ॥ तदा विशेषमात्रेण वस्तु प्रत्यवभासते । तदुद्भूत्या च सामान्यं तद्भावाऽनुगुणं स्थितम् ॥ ६० ॥ सदप्यग्राह्यरूपत्वादसद्वत् प्रतिभाति नः । विशेषानपि सामान्यायदा भेदेन बुध्यते ।। ६१ ॥ तदा सामान्यमानत्वमेवमेव प्रतीयते । यदा तु शबलं वस्तु युगपत् प्रतिपद्यते ॥ ६२ ॥ तदाऽन्याऽनन्यभेदादि सर्वमेव प्रलीयते । नच तत्तादृशं कश्चिच्छब्दः शक्नोति भाषितुम् ।। ६३ ॥ सामान्यांशानपोष्टत्य पदं सर्व प्रवर्त्तते । समस्तवस्त्वपेक्षां च पदार्थानामपोष्टतिम् ॥ ६४॥ केचिदाहुरसद्रूपामंशत्वं तु न वार्यते । सारूप्यमेव सामान्यं पिण्डानां येन कल्प्यते ॥ ६५ ॥ Page #52 -------------------------------------------------------------------------- ________________ (५०) तेन सारूप्यशब्देन किं पुनः प्रतिपद्यते । समानरूपभावश्चेज्जातिः साऽस्माभिरिष्यते ॥६६॥ मादृश्यमथ सारूप्यं कस्य केनति कथ्यताम् । न तावच्छाबलेयेन बाहुलेयादयः समाः ॥ ६७ ॥ विशेषरूपतो, येऽपि तत्संस्थानादिभिः समाः । ... शाबलेय इवेति स्यात्तत्र बुद्धिर्न गौरिव ॥ ६८॥ शाबलेयोऽयमिति वा भ्रान्त्या गौरिति नास्ति धीः । शाबलेयस्वरूपं च न गौरित्यवतिष्ठते ॥.६९ ॥ . तदन्येषु हि गोबुद्धिर्न स्यात् सुसदृशेष्वपि । . दृश्यते सा न चान्यत्र गोरूपं तत्र विद्यते ॥७० ॥ न चान्यो गौः प्रसिद्धोऽस्ति यत्सादृश्येन धीभवेत् । न चापि स इति ज्ञानं सदृशेष्वास्त सर्वदा ॥ ७१॥ सर्वपुंसामतो भ्रान्ति षा बाधकवर्जनात् । सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ॥ ७२ ॥ विशेषग्रहणाऽभावादेव गौंः कश्च कथ्यताम् । बभूव यद्यसौ पूर्वमस्मदादेस्तदग्रहात् ॥ ७३ ॥ सादृश्यावधृतिर्नास्तीत्यतो गोधीन लभ्यते । न चाऽवयवसामान्यैर्विना सादृश्यकल्पना ॥७४ ॥ सामान्यप्रत्ययोत्पादो न विशेषेषु जायते । ' व्यक्तितश्चातिरेकोऽस्य स्यान्न वेति विचारिते ॥७५ ॥ सामान्यमेव सादृश्यं भवेद्वा व्यक्तिमांत्रकम् । तेन नात्यन्तभिन्नोऽर्थः सारूप्यमिति वर्णितम् ॥ ७६ ।। ग्रन्थे विन्ध्यनिवासेन भ्रान्ते सादृश्यमुच्यते ।। Page #53 -------------------------------------------------------------------------- ________________ (५१) श्लो. १५ स्याद्वादमञ्जर्यां च सांख्यमतस्य खण्डनं तदर्थं स्वयं मज - रीकृता 'ईश्वरकृष्णकारिका' निर्दिष्टास्तेन पुनस्तत्कारिका न निर्दिश्यन्ते । श्लो. १६ प्रमाणतत्फलाभेदरूपोऽभ्युपगमो बौद्धानां खण्डयते तदर्थं न्यायविन्दुसूत्रं धर्मकीर्तिप्रणीतं निर्दिश्यते । “ विषयप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह 1 1 तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् ।। १-१८॥ यदेवानन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् । कथं प्रमाणफलमित्याह | अर्थस्य प्रतीतिरवगमः । सैव रूपं यस्य प्रत्यक्षज्ञानस्य तदर्थ - तीतिरूपम् । तस्य भावः । तस्मादेतदुक्तं भवति । प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्व न केवलादर्थाविनाभावित्वाद्भवति । बीजाद्यविनाभाविनोऽप्यंकुरादेरप्रापकत्वात् । तस्मादर्थादुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारः । येन कृतेनार्थः प्रापितो भवति । स एव च प्रमाणफलम् । यदनुष्ठानात्प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्प्रवृत्तिविषयकदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम । तदेव च प्रत्यक्षमर्थप्रतीतिरूपमर्थदर्शनरूपम् । अतस्तदेव प्रमाणफलम् ॥ १८ ॥ यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलं किं तर्हि प्रमाणमित्याहअर्थसारूध्यमस्य प्रमाणम् ॥ १-१९ ॥ अर्थेन सह यत्सारूप्यं सादृश्यमस्य ज्ञानस्य तत्प्रमाणमिह । यस्माद्विपयाज्ज्ञानमुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते ।। १९ । ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणम् । तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते । तत्कथं सारूप्यप्रमाणमित्याह तद्वशादर्थप्रतीतिसिद्धेरिति ॥ १-२० ।। तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिस्तस्या बोधः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्य - वशात्सिध्यति प्रतीतं भवतीत्यर्थः । नीलनिर्भासं हि विज्ञानं यतस्तस्मान्नी Page #54 -------------------------------------------------------------------------- ________________ लस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते न तद्वशात्तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम् । नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः, येनैकस्मिन्वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन । तत एकस्य वस्तुनः किंचिद्रूपं प्रमाणं किंचित्प्रमाणफलं न विरुद्धयते । व्यवस्थापनहेतुर्हि सारूप्यम् । तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम्। व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकस्य ज्ञानस्येति चेदुच्यते । सदृशमनुभूयमानं तद्विज्ञानम् । यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन । तस्मात्सारूप्यमनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् । तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् । व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः । . ननु निर्विकल्पकत्वात्प्रत्यक्षमेव नीलंबोधरूपत्वेनात्मानमवस्थापयितुं शक्नोति । निश्चयप्रत्ययेनाव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानमसकल्पमेव । तस्मान्निश्चयेन नीलबोधात्मना सद्भवति । तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति।जनिते त्वध्यवसाये नीलबोधरूपत्वेनाव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमाधिगमरूपत्वमनिष्पन्नम्। अतः साधकतमत्वाभावात्प्रमाणमेव न स्यांज्ज्ञानम् । जनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञानेऽवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात्प्रमाणं सिद्धं भवति । यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यान्न केवलमिति चेत् । नैतदेवम् । यस्मात्प्रत्यक्षबलोत्पनेनाध्यवसायेन दृष्टत्वेनार्थोऽवसीयते नोत्प्रेक्षितत्वेन । दर्शनं चार्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु विकल्पव्यापारः । तथाहि परोक्षमर्थं विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इत्युत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादवस्यन्ति । तस्मात्स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति । यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसा यस्तत्र प्रत्यक्षं केवलमेव प्रमाणम् ॥२०॥ लक्षणविप्रतिप्रत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाहप्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ॥२-४॥ Page #55 -------------------------------------------------------------------------- ________________ ( ५३ ) प्रमाणस्य यत्फलं तस्य या व्यवस्थात्रानुमानेऽपि प्रत्यक्ष इव वोदितव्या । यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यं व्यवस्थापन हेतुः प्रमाणम् । नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम । तद्वदनुमानं नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यमस्य प्रमाणम् । नीलाविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति । नान्यथेति । एवमिह संख्यालक्षणफलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिर्निराकृता ||४|| " तत्रैव सर्वं सत् क्षणिकमिति बौद्धमतं खण्डितं तत्र तन्मतं मोक्षाकरगुप्तोक्तं प्रन्थकृतां प्रदर्श्यते मोक्षाकर गुप्तग्रन्थस्तु नेदानीमुपलभ्यतेऽ. तस्तत्प्रदर्शयितुं न शक्यते । *. १९ बौद्धानां वासना खण्डिता तदर्थं बोधिचर्यावतारपाञ्ज काया नवमे प्रज्ञापारमिताख्ये परिच्छेदे श्लो. ३२-३३ ( सटीकौ ) निर्दिश्येते । ' एतत्परिजिहीर्षन्नाह । अप्रहीणा हि तदित्यादि । अप्रहीणा हि तत्कर्तुर्जेयसंक्लेशवासना । तददृष्टिकाले तस्यातो दुर्बला शून्यवासना ॥ ३२ ॥ हिर्यस्मादर्थे । नैतदूषणमस्माकमासज्जते । यस्मादप्रहीणा निवृत्ता । तत्कर्तुर्मायास्त्रीनिर्मातुः । किमप्रहीणा ज्ञेयसंक्लेशवासना 1 ज्ञेयसंक्लेशः सुस्वभावतासमारोपादासङ्गादिः । वस्तुतासमारोपो वा । ज्ञेयावरणं यावत् । तस्यं वासना । अनादिसंसारजन्मपरम्पराभ्यस्तमिध्याविकल्पजनिततद्वीजभूतचित्तसन्ततिसंस्काराधानम् । तस्या अप्रहीणत्वात् । नन्वेतत्समानं विज्ञानवादिनेोऽपि प्रतिविधानम् । तस्याप्यद्वयतत्त्वस्य सत्वेऽपि । आगन्तुकसंक्लेशवासनाया अप्रहीणत्वात् । न सर्वे तथा - गता भवन्ति ।। नैतत्समानं । यस्मादभावात्मनो मलाः कार्यकलाविकला नावरण भवितुमर्हन्ति । इत्युक्तमेव । अस्माकं तु निःस्वभावमेव जन्यं जनकं चेति न समानम् । सा यस्मादप्रहीणा । अतोऽस्माद्कारणात् । तद्दृष्टिकाले । तस्या ज्ञेयस्वभावताया दृष्टिरुपलब्धिः तस्याः काले । तस्या वा मायास्त्रिया दृष्टिकाल उपलम्भकाले। तस्येति अप्रहीणसंक्लेशवासनस्य द्रष्टुः । दुर्बला शून्यवासनेति । Page #56 -------------------------------------------------------------------------- ________________ (५४) शून्यस्य शून्यतत्त्वस्य शून्यताया वेति विग्रहः । छन्दोनुरोधाद्भावप्रत्ययस्य लोपं कृत्वा शून्येतिनिर्देशः । वासना संस्काराधानम् । सा दुर्बला सामर्थ्य - विकला । आरोपितस्य दर्शनात् । अतस्तदा भाववासना बलवती । कथं तर्हि सा निवर्तत इत्याह । शून्यतेत्यादि । शून्यतावासनाधानाद्धीयते भाववासना । शून्यताया मायास्वभावनिःस्वभावताया वासना । तस्या आधानम् आवेधः। अभ्यासेन दृढीकरणमिति यावत् । तस्माद्विरुद्धप्रत्ययात् । हीयते निवर्तते । वह्निसन्निधानाच्छीतस्पर्शवत् । किं भाववासना । अनवराग्रसंसाराभ्यस्तवस्तुसद्ग्राहाध्यवसानवासना । तस्या भूतार्थत्वात् । वस्तुनिज`स्वभावत्वाश्च ।। इतरथा अलीकत्वादागन्तुकत्वाच्च । ननु भावाभिनिवेशो वा शून्यताभिनिवेशो वा । इति नाभिनिवेशं प्रति काश्चद्विशेषः । तस्यापि कल्पनास्वभावानतिक्रमात् । यदाहसर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः । शून्यता येषां तू शून्यतादृष्टिस्तानसाध्यान् बभाषिरे ।' इति एतत्परिहर्तुमाह । किंचिन्नास्तीत्यादि । 1 किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते ॥ ३३ ॥ 1 किंचिदितिभावो वा शून्यता वा । नास्ति न विद्यते । च शब्दः पूर्वापेक्षया । समुच्चये । इत्येवं चाभ्यासात् । भाववासनाप्रहाणस्य पश्चात् सापि शून्यतावासनापि प्रहीयते निवर्तते ।। अयमभिप्रायः । शून्यता आवेधो हि भावाभिनिवेशस्य प्रतिपक्षत्वात् । प्रहाणोपायभूतो । अधिगते चोपेये पश्चात्कालोपमत्वात् । उपायस्यापि प्रहाणामनुष्ठीयते । एतदेवाह । — सर्वसंकल्पहानाय शून्यतामृतदेशना । यश्च तस्यामपि ग्राहस्त्वया साववसादितः ॥ इति ॥ २० श्लोके चार्वाकमतं खण्डितं चार्वाकप्रन्थास्तु नोपलभ्यन्तेऽधुना । तथापि तन्मतं सर्वजनप्रसिद्धमतस्तद्विषये न प्रयत्यते । एतदग्रे स्वमतं साधितं तेन खण्डनीनामंशानांप्रदर्शनस्य प्रसंग एव नास्तीति विरम्यते । Page #57 -------------------------------------------------------------------------- ________________ परिशिष्टम् २ उपलब्धवाक्यानि । अनिमुखा वै ८४ आ. गृ. सू. अ. ४ अग्निहोत्रं जुहूयात् ८७ तै. सं. अग्नीषोमीयं पशु ३३ ऐ. ब्रा. अ. ६-३ अणुहय दिठ चिन्तिय १४० विशे. गा. १७०३ अत्यं भासइ अ २३६ विशे, गा. ११२९ अदसस्तु विप्रकृष्टे । ११ है. व्या. संग्रहश्लोके अन्तेषु भवा अ ४२ वै. द. प्र. भा. पृ. १६८ अदेवे देवबुद्धि २४१ यो. शा. प्र. २ श्लो. ३ अपगतमले हि .२७ कादम्बरी पृ, १०३ पं. १० अपरिणामिनी भोक्तृशक्ति १२४ पातं. सू. वा. भा. ४-२२ अभ्युपेत्य पक्षं ६८ न्या. वा. पृ. १४, पं. १ अरहन्तु वएसेणं २३९ विशे. गा. ३२१३ अर्थसारूप्यमस्य प्र- ... १३० न्या. बिं. १-१९,२० अर्पितानर्पितासिद्धेः १७५ । १९० तत्त्वार्थ० ५-३१ । अवकाशदमाकाशम् । १७ उत्त. सू.भावदेवीया.टीका अ.२८गा.९ अवस्थितस्य द्रव्यस्य २०६ पातं. सू. ३-१३ अस्ति ह्यालोचनज्ञानं १०१ मी. श्लो.वा.सू.४प्रत्यक्षसूत्रे श्लो.११२ आतवचनात्-(सूत्रद्वयम् ) . २३० प्र. न. लो. परि. ४ सू. १,२. आमासु य पक्कासु-( गाथा ३) १८७ सं. सप्ततिका गाथा ६३, ६५,६६. आरुगबोहिलाभ ८१ आव. सू. चतुर्वि. अ. गा. ६ आवर्जिता किञ्चिदिव- ३७ कु. सं. काव्ये ३ स. ५४ श्लो. इष्टापूर्त मन्यमाना १२६ मुं. उ, १-२-१० ईय कारके। ६६ है. सू. ३-२-१२१ रहाद्याः प्रत्ययभेदतः । __ ४१ हैमलिङ्गानु० पुंस्त्रीलिंगप्र० श्लो.५. उत्पादव्ययधौव्ययुक्तं सत् । १५, १७२ तत्त्वार्थ सू. ५-२९ उदघाविव सर्वासन्धवः- २३७ द्वा. द्वा, चतुर्थद्वात्रिं, श्लो. १५. Page #58 -------------------------------------------------------------------------- ________________ (५६) उवृत्तः क इह सु ३७ शि. व. काव्ये एगे आया १५१ स्था. सू. १-१. एतासु पञ्चस्ववभा १०८ अशोकविरचिता सामान्यदूषणादिक् प्रसारिता प्रन्थे कर्मद्वैतं फलद्वैत १०५ आ. मीमांसा परिः २ श्लो. २५. किरणा गुणा न-(गाथा ४) ३.१ धर्मसंग्रहणी गा, ३७०, ३७१ ३७२, ३७३. गम्ययपः कर्माधारे। १४ है. सू. २-२-७४ , गुणादस्त्रियां न वा। ६८ है. सू. २-२-७७ . घटमौलिसुवर्णार्थी-(श्लोकयुगलम् ) १७० आ. मी. श्लो. ५९, ६०. जे एगं जाणइ से ५, ११५ आचा. सू. श्रु. १ अ. ३ उ. ४ सू. १२२ तत्र संस्कारप्रबोध- २.२९ प्र. न. लो. तृतीय परिच्छेदे । तन्दितयं अवग्रहेहा-( सूत्रद्वयम् ) २२९. प्र. न. लो. परि. २ सू. ५, ६. तद्भावाव्ययं नित्यम्। १७ तत्त्वार्थ सू. ५-३. तदशादर्थप्रतीतिसिद्धेः। १३० न्या. बिं. १-२० तस्मान्न बध्यते नापि १२० सां. कारिका ६२. तादर्थ्य चतुर्थी । ९. है. सू. २-२-५४. तुः स्याद्भदेऽवधारणे । १८८ अमरकोशे कां. ३ श्लो. २३९. ते च प्रापु रुदन्वन्तं । . ९८ रघु. का. स. १० श्लो. ६. द्वौ मासौ मत्स्यमांसेन ७६ म. स्मृ. अ. ३ श्लो. २६८ नह मिय छाउमथिए नाणे । ५८ आव. पूर्वविभागे गाथा ५३९. न प्रवृत्तिः प्रति २३० गौ. सू. ४-१-६४. न भवति धर्मः श्रोतुः १२ तत्त्वार्थसूत्रसम्बन्धकारिका २९ न मांसभक्षणे दोषो १८७ म. स्मृ. ५-५६ नयास्तव स्यात् २२९ बृ, स्व. स्तो. श्लो. ६५. न सोऽस्ति प्रत्ययो लोके १०६ वाक्यपदीये कां..१ श्लो. १२४. न हिंस्यात्सर्वा भूतानि- ३३,८७,८९ छां. उ. अ. ८. नास्तिकास्तिकदैष्टिकम् । १६३ है. सू . ६-४-६६. Page #59 -------------------------------------------------------------------------- ________________ (५७) न हि वै सशरीरस्य ४६,५४ छां. उ. अ. ८-१२.. नीयते येन-( सूत्राणि ५३ ) २१५ प्र. न. लो. सप्तमपरिच्छेदे । नीलनिर्भासं हि विज्ञानं-- .. १३० न्या. बि. टीका १-२०. पक्षहेतुवचना २३० प्र. न. लो. ३-२३. प्रत्यक्षाद्यवतारः स्यात् १०२ मी. श्लो. सू. ५ अ. प. श्लो. १७ प्रमाणनयैरधिगमः। २०७ तत्त्वार्थसू. १-६ प्रमाणप्रमेयसंशय-. ६९ गौ. सू. १-१.१ पारमार्थिकं पुनरुत्पत्ती- ____२२९ प्र. न. लो. २-१८ पुढवाइयाण जइवि-(गाथात्रयम् ) ७९ पं. लिं. गा. ५८,५९,६०. पुन्नान्मि घः । २३६ है. सू. ५-३-१३० पुरुष एवेदं सर्व- १०२,१०५ ऋग्वेदे पुरुषसूक्ते । पृथिव्यापस्तेजो . . ४१ वै. द. १-१-५ महोक्षं वा महाजं वा- . .७६ याज्ञवल्क्यस्मृ. आ. अ. श्लो. १०९ मूलप्रकृतिरविकृति १२१ सां. का. ३ यदेजति यन्नजति १०२ ई. उ. रङ्गस्य दर्शयित्वा-- .. १२७ सां. का. ५९ रूपरसगन्धस्पर्श - ४२ वै. द. १-१-६ लब्धिख्यात्यार्थना तु स्यात्- ६८ ह. सू. अ. १२ श्लो. ४ लौकिकसम उपचारप्रायो- २१२ तत्त्वार्थभाष्ये १-३५ वयः शक्तिशीले । . १६४ है. सू. ५-२-२४ व्यक्तेरभेदस्तुल्यत्वं ४५ कि. द्र. प्र. पृ. १६१ वर्षे वर्षेऽश्वमेधेन १८८ म. स्मृ. ५-५३ वाक्येऽवधारणे तावत् । १९० त. श्लो. वा. अ. १ सू.६ श्लो.५३. वातातीसारपिशाचा- . १६८ है. सू. ७-२-६१ विज्ञानघन एवैतभ्यो १७८ बृ. उ. २-४-१२ विश्वतश्चक्षुरुत विश्वतो ३० शु. य, मां, सं. अ. १७ मं. १९. शब्दकारणत्ववचनात् २० प्र. पा. भा. आकाशनिरूपणे शाखादेर्यः। ___७ है. सू. ७-१-११४ Page #60 -------------------------------------------------------------------------- ________________ (५८) शास्त्यसूवक्तिख्याते २१० है. सू. ३-४-६० ... श्रीवधर्मानाभिधमात्मरूपम् । .. ९ अयोगव्य. द्वा. श्लो. १. श्रूयतां धर्मसर्वस्व ७६ चाणाक्य. शा. अ. १ श्लो. ७ श्वयत्यसूवचपतः २१. है. सू. ४-३-१०३ सधेऽनूद्धे । २३२ है. सू. ५-३-८० सत्सु क्लेशेषु २३२ पा. यो. सू. २-१३ वा. भाष्ये सति मूले तद्विपाको २३२ पा. यो.. सू. २-१३ सद्धर्मबीजपवनानघकौश २७ द्वा. द्वा. द्वि. श्लो. १३.... सप्तदश प्राजापत्यान् पशू ३३ तै. सं. अ. १ अ. ४ . स्पृहेाप्यं वा। ९ है. सू . २-२.२६ . .. सम्बद्धं वर्तमानं च ७८ मी. श्लो. सू. ४ श्लो. ८४ सम्यगनुभवसाधनं प्रमाणम् ७. न्यायसारे परि. १ सू. १ .. समवान्धात्तमसः . २४० है. सू. ७-३-८० सर्वो व्यवहर्ता आलोच्य १२२ सां. 'त. कौ. का. २३ सर्व वै खल्विदं ब्रह्म- ९९, १०३ छां उ. ३-१४ . स्वपरव्यवसायिज्ञानं प्रमाणम । ७०. प्र. न. लो. परि. १ सू. २ स्वरादस्तासु। - २१० है. सू. ४-४-३१ स्वाभाविकसामर्थ्य ११८ प्र. नं. लो. प. ४ सू, ११ सा तु द्विविधा नित्या १९ वै. द. प्र. पा. भा. पृथिवीप्रकरणे । साधर्म्यवैधोत्कर्ष ७२ गौ. सू. ५-१-१ सूत्रं तु सूचनाकारिग्रन्थे ४७ अने. सं. कां. २ श्लो. ४५८ सोऽप्रयुक्तोऽपि वा तज्ज्ञैः- १९० तत्त्वार्थश्लोकवा. अ.१ सू.६ श्लो.५६ हेतोरद्वैतसिद्धिश्चेत् १०५ आ. मी. प. २ श्लो. २६ Page #61 -------------------------------------------------------------------------- ________________ ८२ अग्निर्मामेतस्माद्धिंसाकृताअजैर्यष्टव्यम् । १७७ अत एव च विद्व - (श्लोकद्वयम् ) २३४ ८२ अन्धे तमसि मज्जामःअनेकानि सहस्राणि - ३४ अन्यदेव हि सामान्यं - (श्लो. ७) २१४ अपुत्रस्य गति ३४ अप्रच्युतानुत्पन्नअपोहः शब्दलिङ्गा १८ अभिहाणं अभिहे - (गाथाद्वयम् ) ११४ अमूर्तश्चेतनो भोगीअयमेव हि भेदो १२२ १७ अर्थेन घटयत्येनां १३७ ४० ६३ आशामोदकसा ये १.४० आहुर्विधातुप्रत्यक्षं - १००, १०१, १०३.. . इत एकनवते कल्पे १५७. इत्थी जोणीए - (गा. ४) १८८ ईश्वरप्रेरितो गच्छेत् २५ उत्पद्यते हि संावस्था .८९ ४७ २३६ १८८ ११५ अव्यभिचारी मुख्योआकाशोऽपि सदेश: परिशिष्टम् ३ अनुपलब्धवाक्यानि । उपकृतं बहुत उपपन्ने इवा विगमे इवाएकरात्रोषितस्यापि - एको भावः सर्वथा ओषध्यः पशवो वृक्षाः - करणं द्विविधं ज्ञेयं काऊण नमुक्का - कालाविरोधि निर्दिष्टंगोलाय असं खिज्जा - चतुर्थ्यन्तं पदमेव देवता । ܕ ८० ५१ २३८ ९० २३४ ८३ Page #62 -------------------------------------------------------------------------- ________________ (६०) » » २३२ . . ज्ञानपालिपरिक्षप्ते-(श्लो. ४) शानिनो धर्मतीर्थस्यजावइया वयणपहा--- ण णिहाणगया भग्गातस्मादनुष्ठानगतंतात्स्थ्यात् तद्यपदेशः । २०६ ताल्वादिजन्मा ननु - दग्धे बीजे यथात्यन्तंद्रव्यपर्यायात्मकं वस्तुद्विष्ठसम्बन्धसंवित्तिदुःशिक्षितकुतर्कोश ६९ न्याय मं. पृ. ११ .. देवोपहारव्याजेन ८२ देशतो नाशिनो भावा १५१ न चायं भूतधर्म:नाकारणं विषयः। नागृहीतविशेषणानान्योऽनुभाव्यो-(श्लोकद्वयम्) . १३९ नानृतं ब्रूयात् । नासन्न सन्न सदसन्ननिखिलवासनोच्छेदनिर्विकल्पकं प्रत्यक्षं- . १०३ परद्रव्याणि लोष्ठवत् । ३४ परिणामोऽवस्थान्तरागमनं- २०५ प्रत्येकं यो भवेद्दोषो- १३८,१५९ प्राप्तानामेव प्राप्तिः समवायः। ३९ प्रवृत्तिदोषजानतं ७१ न्यायमंजरी पृ. ५०५ पाणबहाईआणं-(गाथात्रयम् ) २४१ पूजया विपुलं राज्यंपुण्यपापक्षयो मोक्षः। पुरुषो विकृतात्मैव १२३ बहुभिरात्मप्रदेशैरधिष्ठाताब्राह्मणार्थेऽनृतं ब्रूयात्बुद्धिदर्पणसङ्क्रान्त- । १२३ १५५ . Page #63 -------------------------------------------------------------------------- ________________ (६१) १४७ भागा एव हि भासन्ते- १७५ भागे सिंहो नरो भागे २३ भूतिर्येषां क्रिया सैव १३८ मोक्षे भवे च सर्वत्र ५७ मृतानामपि जन्तूनांयच्चित्तं तच्चित्तान्तरं- १५४ यथा यथा विचार्यन्तेयदद्वैतं तद्ब्रह्मणो रूपम्- १०१ यदि संवेद्यते नीलं १३९ यदेवार्थक्रियाकारि तदेव- . २१२ यद्युत्पादादयो भिन्नाः- १६९ यस्मिन्नेव हि सन्ताने- १५६ यावदात्मगुणाः सर्वे-(श्लोकसप्तकम्.)४६ न्या. मं. पृ. ५०८ यूपं छित्वा पशून् हत्वा-.. यो यत्रैव स तत्रैवरागाद्वा द्वेषाद्वा १५१ वरं वृन्दावने रम्ये- . वर्षातपाभ्यां किं व्योम्नः- २०४. विकल्पयोनयः शब्दा: ११४ विविक्तेदृक् परिणतो- . शब्दगुणमाकाशम् । शब्देतरत्वे युगपत्श्वेतं वायव्यमजमालभेशुद्धोऽपि पुरुषःषद्शतानि नियुज्यन्तेसर्व एवायमनुमानानुमेय- १४५ सर्वगतत्वेऽप्यात्मनोसर्व पश्यतु का मा वा- ४ सर्वमस्ति स्वरूपेणसर्वव्याक्तिषु नियतंसम्वत्थ संजमं संजमाओ- ८९ सुखादि चेत्यमानं हि-(श्लोकद्वयम्) १४८ न्या. म. पृ. ४३३ सुखमात्यन्तिकं यत्र - स्वाकारबुद्धिजनका १३९ १२३. . ८४ १२२ Page #64 -------------------------------------------------------------------------- ________________ परिशिष्टम् ४ उपलब्धसमवाक्यानि। अतीन्द्रियाणामर्था ८७ ह. सू. प. द. स. जैमि. द.श्लो.६९ अर्थोपलब्धिहेतुः ७. गौ. सू. पृ. ९४ पं. ४ ... उभयत्र तदवे ज्ञानं १२९ न्या. बिं. १-२८ .' तत्रान्यथा २३० प्र. न. लो. प. ३ सू. १० द्रव्यं पर्यायवियुतं . - १८ सम्म. कां. १ गा. १२ न नर्मयुक्तं वचनं हिनस्ति ३४ व. ध. सू. अ. १६ श्लो, ३६ नानात्मानो व्यवस्थातः ६१ वै. द. ३-२-२० नानाश्रयायाः प्रकृतेरेव १२६ सां. का. ६२ निर्विशेषं हि सामान्यं .. १०४ मी. श्लो. सू. ५ आ. वा. श्लो. १० यद्यपि ब्राह्मणो हठेन ३४ म., स्मृ. अ. १ श्लो. १०१ रुसउ वा परो मा वा १२ श्रेणिकचरित्रे स. २ श्लो. ३२ श्रोतव्यो मन्तव्यो निदि १०२ बृ. उ. सत्सम्प्रयोगे इन्द्रिय ९५ मी. द. सू. १-१.४,५. परिशिष्टम् ५ स्याद्वादुमञ्जरीनिर्दिष्टा ग्रन्थाः। अक्षपादशास्त्रम् ७३ । न्यायकुमुदचन्द्रः आचारांगम् १५० न्यायतात्पर्यपरिशुद्धिः आवश्यकभाष्यम् २१० न्यायबिन्दुः १३. कादम्बरी २७ न्यायबिन्दुटीका गन्धहस्तिटीका २२८ न्यायवार्तिकम् गौडपादभाष्यम् | न्यायावतारः २२८ जीतकल्पः ११७ | रघुवंशः तत्त्वोपप्लवासिंहः १४७ वादमहार्णवः १२३ त्रिपुरार्णवः ११८,७५ समयसागरः २३४ धर्मसहणिः स्याद्वादरत्नाकरः २३० निशीथचार्णः ६ साङ्ख्यतत्त्वकौमुदी १२८ . ११९ १२८ ९८ Page #65 -------------------------------------------------------------------------- ________________ १२२ १२३ परिशिष्टम् ६ स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थकृतः। ग्रन्थकृन्नामानि पृष्ठे । बाणः अलङ्कारकारः। ४ १३९ भट्टः श्रीधरः। आसुरिः। x १२३ भद्रबाहुः । ११४ ईश्वरकृष्णः । १२० महोभाष्यकारः ( श्रीजिनभद्रगणिक्षमा उदयनः । ___ श्रमणः) १४० उदयनः । १४६ मोक्षाकरगुप्तः। १३४,१५४ उदयप्रभः। * १ मृगेन्द्रः। x ८३ जयन्तः । ___७१ वाचकमुख्यः १२,१५,१७५,१९०.२१२ द्रव्यालङ्कारकारः। ४ ६३,१६५ वाचस्पतिः।. धर्मोत्तरः। १३० । वादिदेवसूरिः। ११८,२१५ न्यायभूषणसूत्रकारः (न्यायसारकारो विन्ध्यवासी। ४ भासर्वज्ञः)। ७० व्यासः । ८३,९० पञ्चलिङ्गीकारः (श्रीजिनेश्वरसूरिः) । ७९ / समन्तभद्रः। २२८ पतञ्जलिः । १२२ सिद्धसेनदिवाकरः । २,२७ पातञ्जलटीकाकारः। २०५ हरिभद्र सूरिः। प्रशस्तकारः (प्रशस्तपादाचार्यः)।१९,४३ | हरिभद्रसूरिः । ६८ १. वि. सं. ५ ११ इ. स. ४५५ ( माठरवृत्तिप्रस्तावना पृ. २ पं. १२), इ. स. १००-२०.० (सर्वदर्शनसङ्ग्रहः पृ. ५३३) २. इ. स. ९८४ ( सर्वदर्शनसङ्ग्रहः पृ. ५३१) ३ इ. स. ९००-११०० ( डॉ. सतीश. पृ. १४७ ४. इ. स. ८४७ (न्यायबिंदुप्रस्तावना पृ.१६), इ. ६३५-६५० ( डॉ. सतीशचंद्र ), इ. स. ६३५ ( सर्वदर्शनसङ्ग्रहःपृ. ११०) ५. इ. स.९२५ ( सर्वदर्शनसङ्ग्रहः पृ. ५२२), इ. स. ९०० (न्यायसारप्रस्तावना पृ. ५ पं. ८) ६ वि. सं. १२०४ (पंचलिङ्गीप्रस्ता. पृ. २) ७. इ. स. पूर्व १५० (सर्वदर्शनसङ्ग्रहः पृ. ५२९) ८ शा. श. पूर्व ४०० मुक्तावलिकाराः। विश्वनाथमते तु सूत्रकारसमये ( वैशेषिकदर्शनप्रस्तावना पृ. २ श्लो. १४), इ. स. ४५० ( सर्वदशेनसङ्ग्रहः पृ. ५२५) ९, इ. स. सप्तमशताब्द्याम् । १०. इ. स. ९९१ ( सर्व x एतचिह्नाकितानां ग्रन्थकृतां समयो न ज्ञायते।। * श्रीउदयप्रभसूरीणां समयः प्रस्तावनायां प्रशस्तौ च द्रष्टव्यः । Page #66 -------------------------------------------------------------------------- ________________ (६४) दर्शनसङ्ग्रहः पृ. ५२५) ११. वी. सं. १७० ( जैनसाहित्यसंशोधक २-३ वीरवंशावलि पृ. ५), इ. स. पूर्व ४३३-३५७ ( डॉ. सतीशचंद्र:) १२ इ. स. ४८४ सं. ५४१ (डॉ. सतीशचन्द्र पृ. १८१), इ. स. ५२८-५८८ (डॉ. पिटरसन ), वी. सं. ११२० वत्सरे स्वर्गगमनम् ( जैन साहित्य संशोधक २ विचारोण पृ. ७ पं. २५) १३. इ. स. ११०० (डॉ. सतीशचन्द्र पृ. ३४६) १४. वि. सं ५७ (तत्त्वार्थप्रस्तावना रा. जै.शा.),इ. स. १-८५ (डा. सतीशचन्द्र पृ. १६८), इ. स. ५० ( सर्वदर्शनसङ्ग्रहः पृ. ५११) १५. शा.श. ८९८ (न्यायवार्तिकप्रस्तावना पृ. १४५), वि. सं. ८९८ (पातंजलयोगसूत्रप्रस्तावना पृ. २१), इ. स. ८४१ (डॉ. सती. पृ. १३३) १६. वि. सं. ११४३ इ.स.१०८६ ( डा.सतीशचन्द्र पृ.२००),इ.स.११४० (सर्वदर्शनसग्रहः पृ.५२३), वि. सं. १२२६ ( जैन इतिहास ). १७. वैक्रमीयद्वितीयशताब्याम् (जै. सा. सं. १-१-६), इ. स. ६०० ( डॉ. सती. पृ. १८२) वैक्रमीयद्वितीयायों तृतीयायां शताब्याम् (बृहत्स्वयम्भूस्तोत्रप्रस्ता. पृ. २६), इ. स. ६०० सर्वदर्शनसंग्रहः पृ. १२) १८. विक्रमीयप्रथमशताब्द्याम् (संमतितर्कप्र. पृ. ११), वि. सं. ५०० तत्त्वार्थप्र. रा. जै. शा. पृ. ३. टीप ४), इ. स. ४८०-५३० पृ. (डा. सती. १७३), इ. स. ४५० (सर्वदर्शनसंग्रहः पृ. ५१२) १९. विक्रमीयषष्ठशताब्द्याम् (जै. सा. सं. १.२८), वी. सं. २०५५ (जै. सा. सं. विचारश्रे. पृ.७), इ. स. ४७८ (डा. सती. पृ. २०८). Page #67 -------------------------------------------------------------------------- ________________ १३२ परिशिष्टम् ७ स्याद्वादमञ्जरीनिर्दिष्टा न्यायाः . न्यायाः १ आदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तदिनभणन न्यायः। २ अन्धगजन्यायः। १११,१६२ ३ अर्धजरतीयन्यायः। ४८ ४ इतो व्याघ्र इतस्तटी। १५३ ५ इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्ति। १७३ ६ उत्सर्गापवादयोरपवादो विधिबलीयान् । ८८ ७ उपचारस्तत्त्वचिन्तायामनुप- . योगी। ___ १२४ ८ गजनिमीलिका। १५३,२०८ ९ घट्टकुट्यां प्रभातम् । ३५ १० घण्टालालान्यायः । .. ३७ . ११ डमरुकमाणन्यायः। . . . ८८ १२ तटादर्शिशकुन्तपोतन्यायः । (अन्ययोगव्यवच्छेदिकायां श्लो. १९)। १५८ १३ तुल्यबलयोर्विरोधः। ९० १४ न हि दृष्टेऽनुपपन्नं नाम । ५९ १५ स्तेनेभीतस्य स्तेनान्तरशरणस्वीकरणम् । १५७ १६ सर्व हि.वाक्यं सावधारणम् । १२ १७ सर्वे गत्यर्था ज्ञानार्थाः। २५ १८ साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेत् । १९ सापेक्षमसमर्थम् । २० सुन्दोपसुन्दन्यायः। . . . Page #68 -------------------------------------------------------------------------- ________________ १०२ पूना परिशिष्टम् ८ टिप्पन्यां पूर्वपक्षप्रदर्शने चोपयोजिता ग्रन्थाः । ग्रन्थनामानि पृष्ठे सकेतचिन्हानि अनेकार्थसंग्रहः । (कोष) ४७ अ. सं. जर्मनी अमरकोषः। १८८ निर्णयसागर अयोगव्यवच्छेदद्वात्रिंशिका । ९ अ. द्वा. भीमसिंह माणेक, मुंबई आचारांगम्। ५,११५ . .. दोशी... आप्तमीमांसा । १०५,१७० आ. मी. मुंबई आवश्यकसूत्रम् । . ८१,५८ आ. सू. देवचंद लालभाई आश्वलायनगृह्यसूत्रम् । ८४ आश्व.ग. सू. - .. ईशावास्योपनिषद् उत्तराध्ययनम् । (श्री.भावविजयकृत टीकासह) १७. ऋग्वेदः। ऐतरेयब्राह्मणः। कादम्बरी। २७ , पिटर्सन आवृत्ति . किरणावली। कलकत्ता कुमारसम्भवमहाकाव्यम् । नि. सागर गौतमसूत्रम् । (न्यायसूत्रम् ) २३०,६९,७२,७० गौ. सू. पूना चाणाक्यराजनीतिशास्त्रम् । . ७६ कलकत्ता छान्दोग्योपनिषद् । ३३,८७,८९,९९,१०३, १८७,४६,५४, छां. उ. - पूना तत्त्वार्थश्लोकवार्तिकम् । १९० त. लो. वा. मुंबई तत्त्वार्थसूत्रम् । (सभाष्य) १७५,१९०,१५, त. सू. रायचन्द्रजैनशास्त्रमाला १७२,१७,१२,२०७,२१२ तैत्तिरीयसंहिता। ८७,३३ तै. सं. द्वात्रिंशद्वात्रिंशिका । २७,२३७ द्वा. द्वा. भावनगर धर्मदीपिका । (हैमव्याकरण) श्री. मङ्गलविजयजी धर्मसमहणी दे. ला. न्यायबिन्दुः सटीकः । न्या. वि. चौखम्बासिरीज काशी न्यायवार्तिकम् । ६८ न्या. वा. न्यायसारः । कलकत्ता पञ्चलिङ्गी। दे, ला.. मुंबई ३१ Page #69 -------------------------------------------------------------------------- ________________ (६७) २४१ प्रमाणनयतत्त्वालोकालहारः । २३०,२२९, २१५,७०,११ : प्र. न. लो. यशोबिजयजी ग्रन्थमाला पातञ्जलसूत्रं सभाष्यम् । १२४,२०६,२३२ पूना बृहदारण्यकोपनिषद् । १७८,१०२ बृ. उ. पूना . बृहत्स्वयम्भूस्तोत्रम् । २२९ दोशी, सोलापुर मनुस्मृतिः। ३४,७६,१८७,१८८ नि. सागर मीमांसादर्शनं सभाष्यम् । . ९५ चौ. सि. काशी मीमांसाश्लोकवार्तिकम् । ७८१०१,१०२,१०४ मुण्डकोपनिषद् । . १२६ मुं. पूना याज्ञवल्क्यस्मृतिः । नि. सागर योगशास्त्रम् । कलकत्ता रघुवंशमहाकाव्यम् । . . ९८ नि. सागर वसिष्ठधर्मसूत्रम् । वाक्यपदीयः । . १०६ . . कलकत्ता विशेषावश्यकभाष्यम्। १४०,१७६,२३६,२३९ वि. य. ग्रं. भावनगर वैशेषिकदर्शनं सभाष्यम् । १९,४१,४२,६१ . वै. द. काशी शिशुपालवधमहाकाव्यम् । ३७ . नि. सागर शुक्लयजुर्वेदसंहिता। श्रेणिकचरित्रम्। पं. हिरालाल हंसराज षड्दर्शनसमुच्चयः । (हरिभद्रसूरिकृत) ८७ पं. बेचरदास सम्बोधसततिका। १८७ पं. हि. हं. जामनगर सम्मंतितर्कः। .. १८ भावनगर साङ्ख्यकारिका ।१२०,१२१,१२६,१२७ चौ. सि. काशी साङ्ख्यतत्त्वकौमुदी .. . १२२ सामान्यदूषणादिकप्रसारिता १०८ कलकत्ता ( Six Buddhist Nyaya Tracte ) स्थानागसूत्रम् । १५१ हैमलिङ्गानुशासनम् । य. ग्रंथमाला हेमव्याकरणम् । हरिभद्राष्टकानि । भी. माणक ... यत्र मुद्रणालयनिर्देशो न कृतस्तानि पुस्तकानि लिखितानीति शेयम् । .. ४८ ६८ Page #70 -------------------------------------------------------------------------- ________________ परिशिष्टम् ९ मुद्रणार्थमुपयोजितानि पुस्तकानि । १ अ. लिखितं पुस्तकं 'भाण्डारकर इंस्टिट्यूटतः' लब्धम् । लेखनकालः संवत् १४९६ पौष शु. १३ पत्राणि ४३ । २ क. लिखितं पुस्तकं ‘भाण्डारकर इन्स्टिट्यूटतः' लब्धम् । लेखनकालो न निर्दिष्टः । पत्राणि ४० तत्र प्रथमपत्रं न लभ्यते । ३ ख. लिखितं पुस्तकम् ‘भाण्डारकर इंस्टिट्यूटतः ' लब्धम् । • लेखनकालः संवत् १५२० पौष कृ. २ पुस्तकस्यान्ते एवं निर्देश: श्रीधारमहानगरे राजाधिराजश्रीमहंमदराज्ये चन्द्रगच्छे पण्डितज्ञानं हर्ष ४ ग. लिखितं पुस्तकं ' भाण्डारकर इंस्टिट्यूटव:' लब्धम् । अत्यन्ताशुद्धं ततस्तदुपयोगो न कृतः । ८ ५ घ. लिखितं पुस्तकं ‘भाण्डारकर इंस्टिट्यूटतः ' लब्धम् । लेखनकालः वरिसंवत् २२६३ विक्रमसंवत् १७९३ कार्तिकप्रथमपञ्चम्यां बुधे श्रीचिन्तामणिपार्श्वदेबालयविराजितकृष्णदुर्गाद्द्वय रे रत्नेन रत्नत्रयैषिणा दुःकर्मपरिक्षयार्थं लिखितेयम् इत्यन्ते निर्देशः । रायचंद्र जैनशास्त्रमालायां मुद्रिता वीरसंवत् २४३६ ६ रा. ७ च. चौखम्बा संस्कृतसीरीज् काशी. ८ ह. पं. हरगोविन्ददासबेचरदासंशोधित पुस्तकम् । भाण्डारकर इंस्टिट्यूट' कार्यालयाधिपैः प्रथमोक्त पञ्च पुस्तकान्यालोचनार्थमनुज्ञातानि । ततस्तेषामनुग्रहभरान्वहामि । C Page #71 -------------------------------------------------------------------------- ________________ ॐ नमः सर्वज्ञाय कलिकालसर्वजश्रीहेमचन्द्राचार्यविरचिता अन्ययोगव्यवच्छेदिका तद्व्याख्या च श्रीमल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी। यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैनित्यं यस्य वचो न दुर्नयकृतैः कोलाहलैलुप्यते । रागद्वेषमुखद्विषां च परिषत् क्षिप्ता क्षणाद् येन सा स श्रीवीरविभुर्विधूतकलुषां बुद्धिं विधत्तां मम ॥१॥ निस्सीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौधेन सरस्वतीसुरगुरू स्वाङ्गैकरूपौ दधत् । यः स्याद्वादमसाधयन् निजवपुर्दृष्टान्ततः सोऽस्तु मे सदबुद्ध्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः ॥२॥ ये हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थसेवामिषतः श्रयन्ते । संप्राप्य ते गौरवमुज्ज्वलानां पदं कलानामुचितं भवन्ति।३। मातर्भारति सन्निधेहि हृदि मे येनेयमाप्तस्तुतेनिर्मातुं विवृति प्रसिद्ध्यति जवादारम्भसम्भावना । यद्वा विस्मृतमोष्ठयोः स्फुरति यत् सारस्वतः शाश्वतो मन्त्रः श्रीउदयप्रभेतिरचनारम्यो ममाहर्निशम् ॥ ४॥ १ ' स्वाङ्गैकरूपे ' इति पाठः क. ह. रा. पुस्तकेषु । २ 'भजन्ति ' इत्यपि क, ह. रा. पुस्तकेषु पाठः । Page #72 -------------------------------------------------------------------------- ________________ २ श्लोक १ अन्ययोगव्यवच्छेदिका इह हि विषमदुःषमाररजनितिमिरतिरस्कारभास्करानुकारिणा वसुधातलावतीर्णसुधासौरिणीदेश्यदेशनावितानपरमाईतीकृतश्रीकुमारपालक्ष्मापालप्रवर्तिताभयदानाभिधानजीर्वांतुसंजीवितनानाजीवादत्ताशीर्वादमाहात्म्यकल्पाऽवधिस्थायि विशदयशःशरीरेण निरवधचातुर्विद्यनिर्माणैकब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्धश्रीसिद्धसेनदिवाकरविरचितद्वात्रिंशद्वात्रिंशिकानुसारि श्रीवर्धमानजिनस्तुतिरूपमयोगव्यवच्छेदान्ययोगव्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वाऽवबोधनिबन्धनं विदधे। तत्र च प्रथमद्वात्रिंशिकायाः सुखोन्नेयत्वाद् तद्व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या निःशेषदुर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिजिप्रबोधविधिविधीयते । तस्याश्चेदमादिकाव्यम् - बोज .. __ अनन्तविज्ञानमतीतदोष ___ मबाध्यसिद्धान्तममर्त्यपूज्यम् । १ दुःषमारः -- दुःषमाख्यः पञ्चमोऽर एकविंशतिवर्षसहस्रात्मकः कालः । एवं तत्तल्लक्षणविशिष्टाः षड् अरा भवन्ति । तेषां सर्वेषां लक्षणानि -- अभिधानचिन्तामणौ प्रथमकाण्डे ४२ श्लोके द्रष्टव्यानि । . २ 'तिमिर' इति नास्ति रा. पुस्तके। ३ 'सारणी' इति ख. पुस्तके पाठः । ४ 'जीवातुर्जीवनौषधम् ' इत्यमरः । 'जीवानुसंजीवित ' इति ख. पुस्तके पाठः । ५ 'स्थिरीकृत' इति ख, पुस्तके पाठः। ६ लक्षणागमसाहित्यतर्का इति चतस्रो विद्याः । ७ एतच्छब्दार्थों व्याख्याकृताग्रे (श्लो. ६) क्रियते । ८ ' तस्याः' इति च. पुस्तके नास्ति । ९ ' विचारणा' इति च. पुस्तके पाठः । १० 'संस्कार' इति ख. पुस्तके पाठः। ११ पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । इत्यभिधानचिन्तामणौ द्वितीयकाण्डे २२४ श्लोकः । Page #73 -------------------------------------------------------------------------- ________________ स्यांद्वादमञ्जरीसहिता श्लोक १ श्रीवर्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये ॥१॥ श्रीवर्धमानं जिनमहं स्तोतुं यतिष्य इति क्रियासंबन्धः। किंविशिष्टम् ? अनन्तम् - अप्रतिपाति, वि-विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं, ज्ञानं केवलाख्यं विज्ञानम्, ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तम् । तथा अतीताः-निःसत्ताकीभूतत्वेनातिक्रान्ताः, दोषा रागादयो यस्मात् स तथा तम् । तथा अबाध्यः-परैर्वाधितुमशक्यः, सिद्धान्तः - स्याद्वादश्रुतलक्षणो यस्य स तथा तम् । तथा अमाः देवाः, तेषामपि पूज्यम् - आराध्यम् ।। अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारोमूलातिशयाः प्रतिपादिताः। तत्रानन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानाऽऽनन्त्यप्रतिपादनाद - ज्ञानाऽतिशयः १। अतीतदोषमित्यनेनाऽष्टादशंदोषसंक्षयाऽभिधानाद्-अपायापगमाऽतिशयः २। अबाध्यसिद्धान्तमित्यनेन कुतीथिकोपन्यस्तकुहेतुसमूहाऽशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद् - वचनाऽतिशयः ३ । अमर्त्यपूज्यमित्यनेनाऽकृत्रिमभक्तिभरनिर्भरसुराऽसुरनिकायनायकनिर्मितमहाप्रीतिहार्यसपर्यापरिज्ञानात् - पूजाऽतिशयः ४। . १ अतःपूर्वम्-अनन्तविज्ञानमित्यादि- इति प्रतीकं ख. पुस्तके दृश्यते । तत्संगतम्। २ अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥७२।। कामों मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ।। ७३ ॥ अभिधानचिन्तामणिः प्रथमकाण्डे श्लोकौ । अन्तरायः-जीवस्य दानादिविघ्नकारकेऽष्टमे कर्मभेदे । यथा राजा कस्मैचिद्दातुमुपदिशति तत्र भाण्डागारिकोऽन्तराले विघ्नकृद्भवति तदन्तरायकर्माष्टमं भवति । ३ कंकिल्लि कुसुमवुहि देवझुणि चामरासणाई च । भावलयभेरिछत्तं जयन्ति जिणपाडिहेराइं॥ १॥ प्रवचनसारोद्धारे द्वार ३९ (गाथा ४४०)। छाया-१ अशोकवृक्षः, २ कुसुमवृष्टिः, ३ दिव्यध्वनिः, ४ चामरे, ५ आसनानि च, । ६ भामण्डलं, ७ भेरी, ८ छंत्रम्,। Page #74 -------------------------------------------------------------------------- ________________ श्लोक १ अन्ययोगव्यवच्छेदिका __ अत्राह परः- अनन्तविज्ञानमित्येतावदेवास्तु,नाऽतीतदोषमिति। गतार्थत्वात् । दोषाऽत्ययं विनाऽनन्तविज्ञानत्वस्यानुपपत्तेः । अत्रोच्यते-कुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थमिदम् । तथा चाहुराजविकनयानुसारिणः - " ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।। गत्वागच्छन्ति भूयोऽपि भवं तीर्थनिकारतः"॥१॥इति। - तद् नूनं न ते अतीतदोषाः । कथमन्यथा तेषां तीर्थनिकारदर्शनेऽपि भवावतरः। __ आह- यद्येवम् अतीतदोषमित्येवाऽस्तु अनन्तविज्ञानमित्यतिरिच्यते । दोषात्ययेऽवश्यंभावित्वादनन्तविज्ञानत्वस्य । न । कैश्चिदोषाभावेऽपि तदनभ्युपगमात् । तथा च वैशेषिकवचनम् । ... “सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । : कीटसङ्ख्यापरिज्ञानं तस्य नः कोपयुज्यते?" ॥१॥ तथा –"तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । ) प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे" ॥१॥ तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदुष्टमेव । विज्ञानानन्त्यं विना __-१ अशोकवृक्षः केवलः द्वादशगुण एव । सतु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन् एकविंशतिर्धनूंषि भवति । २ सुरकरविमुक्ताधस्थितवृन्तजानुदनपञ्चवर्णसुगन्धिपुष्पवर्षः । ३ सुरनरतिर्यक्जन्तुजातस्वस्वभाषापरिणामरमणीयः संख्यातीतपरिषत्प्राणियुगपदनेकसंशयापहारचतुरः क्षीरेक्षुद्राक्षाद्यधिकतरमाधुर्यवान्योजनगामी देशनानिनादः । ४ चामरे त्रिभुवनैश्वर्यसंसूचके शरच्चन्द्रमरीचिनिचयगौरे प्रकीर्णके । ५ आसनं - अमेयमहिमाविर्भावकं समुच्छलत्पञ्चवर्णमणिकीर्णकदम्बककर्बुरितदिगन्तरं सिंहासनम् । ६ भामण्डलम् - निर्जितमार्तण्डमण्डलं मौलिपृष्ठप्रतिष्ठितं प्रभाजालम् । ७: भेरी-पुरतो व्योम्नि शब्दायमानः प्रतिरवभरितभुवनोदरो दुन्दुभिः । ८ छत्रम् - छत्रमेकदेशे समुदायोपचाराजगत्रयैकप्रभुत्वाविर्भावनचतुरं पार्वणचन्द्रमण्डलनिभातपत्रत्रयम् । १ अजीवं निरात्मस्वमभ्युपगच्छन्तीत्याजीविका बौद्धाः । २ 'तद्वचनम् ' इति ह. पुस्तके पाठः। Page #75 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरोसहिता श्लोक १ एकस्याप्यर्थस्य यथावत् परिज्ञानाभावात् । तथा चार्षम्-" जे एगं जाणइ, से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ"। तथा'एको भावःसर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाःसर्वथा येन दृष्टाएको भावः सर्वथा तेन दृष्टः।१। ननु तर्हि अबाध्यसिद्धान्तमित्यपार्थकम्, यथोक्तगुणयुक्तस्याव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य बाधायोगात् । न । अभिप्रायापरिज्ञानात् । निर्दोषपुरुषप्रणीत एव अबाध्यः सिद्धान्तः । नापरेऽपौरुषेयाद्याः। असम्भवादिदोषाघ्रातत्वात् , इति ज्ञापनार्थम् , आत्ममात्रतारकमूकान्तकृत्केवल्यादिरूपमुण्डकैवेलिनो यथोक्तासद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थ वा विशेषणमेतत् । अन्यस्त्वाह - अमर्त्यपूज्यमिति न वाच्यम् । यावता यथोद्दिष्टगुणगरिष्ठस्य त्रिभुवनविभोरमर्त्यपूज्यत्वं न कथञ्चन व्यभिचरतीति। सत्यम् । लौकिकानां हि अमाः पूज्यतया प्रसिद्धाः, तेषामपि भगवानेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति । एवं पूर्वार्धे चत्वारोऽतिशया उक्ताः । १ आचारांगसूत्रे प्रथमश्रुतस्कंधे तृतीयाध्ययने चतुर्थोद्देशे सूत्रम् १२२ । छायाय एक. जानाति स सर्व जानाति । यः सर्व जानाति स एकं जानाति । २ ' इति' इत्यधिकं ख: पुस्तके । ३ ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादि ततः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः । ४ अन्तो विनाशः सच कर्मणस्तत्फलस्य वा संसारस्य कृतो येन सोऽन्तकृत् , केवली -- अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदी । ५ (१) द्रव्यभावमुण्डनप्रधानस्तथाविधबाह्यातिशयशून्यः केवली (२) संविमो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थं संप्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ॥ (३) यः पुनः सम्यक्त्वावाप्तौ भवनैर्गुण्यदर्शनतस्तन्निर्वेदादात्मनिःसरणमेव केवलमभिवाञ्छति तथैव चेष्टने स मुण्डकेवली भवति । इति । Page #76 -------------------------------------------------------------------------- ________________ श्लोक १ अन्ययोगव्यवच्छेदिका __ अनन्तविज्ञानत्वं च सामान्यकेवलिनामप्यवश्यंभावीत्यतस्तव्यवच्छेदाय श्रीवर्धमानमिति विशेष्यपदमाप विशेषणरूपतया व्याख्यायते। श्रिया चतुस्त्रिंशदतिशयसमृद्धयनुभवात्मकभावार्हन्त्यरूपया वर्धमानं वर्धिष्णुम्। नन्वतिशयानां परिमिततयैव सिद्धान्ते प्रसिद्धत्वात् कथं वर्धमानतोपपत्तिरिति चेत् । न यथा निशीथेचूाँ भगवतां श्रीमदहतामष्टोत्तरसहस्रसङ्घयबाह्यलक्षणसङ्ख्याया उपलक्षणत्वेनाऽन्तरङ्गलक्षणानां सत्त्वादीनामानन्त्यमुक्तम् । एवमतिशयानामधिकृतपरिगणनायोगेऽप्यपरिमितत्वमाविरुद्धम् । ततो नातितशयश्रिया वर्धमानत्वं दोषाश्रय इति । अतीतदोषता चोपशान्तमोहँगुणस्थानवर्तिनामाप सम्भवतीत्यतः क्षीणमोहाख्याऽप्रातिपातिगुणस्थानप्राप्तिप्रतिपत्त्यर्थ जिनमिति विशेपणम् । रागादिजेतृत्वाद् जिनः समूलकाषङ्काषितरागादिदोष इति । १ चतुस्त्रिंशदतिशयाः- अस्मन्मुद्रापितप्रमाणमीमांसाटिप्पन्यां (पृ. २२) द्रष्टव्याः । २ निशीथचूर्णिग्रन्थे १७ उद्देशे । ३ उपशान्तः सर्वथानुदयावस्थो मोहो यस्य सः ।। ४ क्षीणः-निःसत्ताकीभूतो मोहो यस्य सः । ५ काचित्कदाचिदात्मनोऽवस्थाऽज्ञानपूर्णा भवति सा च सर्वतः प्रथमा अतएव निकृष्टा अस्या अवस्थाया आत्मा स्वाभाविकचेतनाचारित्रादिगुणविकासेन निर्गच्छति शनैः शनैः तत्तच्छक्तिविकासानुसारमुत्क्रान्तो भवति च ततो विकासस्य पूर्णतया पूर्णतां गच्छति । यदा आत्मन आवरणरूपं कर्म क्षीयते तदा ज्ञानदर्शनचारित्र्यादिगुणानां शक्तिरधिका भवति । किंच यदा आवरणभूतकर्माधिक्यं तदा गुणानां शुद्धियूंना भवति । प्रथमाया निकृष्टावस्थाया निर्गम्य विकासस्य पूर्णावस्था लंभनीया इत्येव आत्मनः परमसाध्यम्। एतस्याः प्राप्तिपर्यन्तं आत्मा क्रमशः तास्ता अवस्था लभते । इयमेव अवस्थाप्राप्तिश्रेणिर्विकासक्रम इत्यभिधीयते । अयमेव विकासक्रमो जैनशास्त्रे गुणस्थानक्रम इत्युच्यते । गुणस्थानस्य चतुर्दश भेदाः । १ मिच्छे २ सासण ३ मीसे ४ अविरय ५ देसे ६ पमत्त ७ अपमत्ते । ८ नियठि ९ अनियठि १० सुहुमु ११ वसम १२ खीण १३ सजोगि १४ अजोगिगुणा। (द्वितीयकर्मग्रन्थद्वितीयगाथा) छाया-मिथ्यात्वासस्वादनमिश्रमविरतदेशं प्रमत्ताप्रमत्तम् । निवृत्त्यनिवृत्तिसूक्ष्मोपशमक्षीणसयोग्ययोगिगुणाः। Page #77 -------------------------------------------------------------------------- ________________ ७ . . . . स्याद्वादमञ्जरीसहिता श्लोक १ अबाध्यसिद्धान्तता च श्रुतकैवल्यादिष्वपि दृश्यतेऽतस्तदपोहायाप्तमुख्यामिति विशेषणम् । आप्तिर्हि रागद्वेषमोहानामैकान्तिक आत्यन्तिकैश्च क्षयः, सा येषामस्ति - ते खल्वाप्ताः अभ्रादित्वाद् मत्वर्थीयोऽप्रत्ययः । तेषु मध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्यम् । " शाखादेर्यः"॥७१।११४ ॥ इति तुल्ये यः। अमर्त्यपूज्यता च तथाविधगुरूपदेशपरिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनीनामपि न दुर्घटा, अतस्तानिराकरणाय स्वयम्भुवमिति विशेषणम्। स्वयम्-आत्मनैव, परोपदेशनिरपक्षतयावगततत्त्वो भवतीति स्वयम्भूः-स्वयं संबुद्धः, तम् । एवंविधं चरमाजिनेन्द्र स्तोतुंस्तुतिविषयीकर्तुम्, अहं यतिष्ये-यत्नं करिष्यामि । अत्र चाचार्यो भविष्यत्कालप्रयोगेण योगिनामप्यशक्यानुष्ठानं भगवद्गुणस्तवनं मन्यमानःश्रद्धामेव स्तुतिकरणेऽसाधारणं कारणं ज्ञापयन् यत्नकरणमेव मदधीनं.न पुनर्यथावस्थितभगवद्गुणस्तवनसिद्धिारीत सूचितवान् । अहमिति च गतार्थत्वेऽपि परोपदेशान्यानुवृत्त्यादिनिरपेक्षतया निजश्रद्धयैव स्तुतिप्रारम्भ इति ज्ञापनार्थम् । __ अथवा-श्रीवर्धमानादिविशेषणचतुष्टयमनन्तविज्ञानादिपदचतुष्टयेन सह हेतुहेतुमद्भावेन व्याख्यायते—यत एव श्रीवर्धमानम्, अत एवाऽनन्तविज्ञानम् । श्रिया-कृत्स्नकर्मक्षयाविभूताऽनन्तचतुष्कसं १ श्रुतेन केवलिनः श्रुतकेवलिनः । चतुर्दशपूर्वधरत्वात् । ' अथ प्रभवः प्रभुः । शय्यंभवो यशोभद्रः संभूतविजयस्ततः ॥ ३३ ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ॥ ३४ ॥ इति अभिधानचिन्तामणौ प्रथमकाण्डे । २ निःशेषीकृतेऽपि पुनरुद्भवमाशङ्ख्यात्यन्तिकः, अभूयःसंभवदोषविनाशः । इति ख. पुस्तके टिप्पनम् । ३ 'अभ्रादिभ्यः' हैमसूत्रम् ७।२।४६ । ४ (१) अनन्तज्ञान (२) अनन्तदर्शन (३) अनन्तचारित्र (४) अनन्तवीर्य इति . चतुष्कम् । Page #78 -------------------------------------------------------------------------- ________________ श्लोक १ अन्ययोगव्यवच्छेदिका पद्रूपया वर्धमानम् । यद्यपि श्रीवर्धमानस्य परमेश्वरस्यानन्तचतुष्कसंपत्तेरुत्पत्त्यनन्तरं सर्वकालं तुल्यत्वात् चयापचयौ न स्तः, तथापि निरपचयत्वेन शाश्वतिकावस्थानयोगाद् वर्धमानत्वमुपचर्यते । यद्यपि च श्रीवर्धमान विशेषणेनानन्तचतुष्कान्तर्भावित्वेनानन्तविज्ञानत्वमपि सिद्धम्, तथाप्यनन्तविज्ञानस्यैव परोपकारसाधकतमत्वाद् भगवत्मवृत्तेश्च परोपकारैकानिबन्धनत्वाद्, अनन्तविज्ञानत्वं शेषानन्तत्रयात् पृथग् निर्धार्याचार्येणोक्तम् । ८ ननु यथा जगन्नाथस्यानन्तविज्ञानं परार्थं, तथाऽनन्तदर्शनस्यापि केवलदर्शनापरपर्यायस्य पारार्थ्यमव्याहतमेव केवलज्ञानकेवलदर्शनाभ्यामेव हि स्वामी क्रममवृत्तिभ्यामुपलब्धं सामान्यविशेषात्मकं पदार्थसार्थं परेभ्यः प्ररूपयति तत्किमर्थं तन्नोपात्तम् ? इति चेत् | उच्यते । विज्ञानशब्देन तस्यापि संग्रहाददोष:, ज्ञानमत्राया उभयत्रापि समानत्वात् । य एव हि अभ्यन्तरीकृतसंमताऽऽख्यधर्मा विषमताधर्मविशिष्टा ज्ञानेन गम्यन्तेऽर्थाः, त एव ह्यभ्यन्तरीकृतविषमताधर्माः समताधर्माविशिष्टा दर्शनेन गम्यन्ते; जीवस्वाभाव्यात् । सामान्यप्रधानमुपसैर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते । तथा प्रधानविशेषमुपसर्जनीकृतसामान्यं च ज्ञानमिति । तथा यत एव जिनम्, अत एवातीतदोषम् रागादिजेतृत्वाद्धि जिनः । न चाजिनस्यातीतदोषता । तथा यत एवाप्तमुख्यम् । अत एवावाध्यसिद्धान्तम् । आप्तो हि प्रत्यायित उच्यते । तत आप्तेषु मुख्यं श्रेष्ठमाप्तमुख्यम् । आप्तमुख्यत्वं च प्रभोरविसंवादिवचनतया विश्वविश्वा सभूमित्वात् । अत एवावाध्यसिद्धान्तम् । न हि यथावज्ज्ञानावलोकितवस्तुवादी सिद्धान्तः कुनयैर्बाधितुं शक्यते । यत एव स्वय १ ज्ञानेयत्तायाः । २ समता–सामान्याख्यधर्मः । ३ उपसर्जनं - गौणम् | Page #79 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक २ म्भुवम्, अत एवामर्त्यपूज्यम् । पूज्यते हि देवदेवो जगत्त्रयविलक्षणलक्षणेन स्वयंसम्बुद्धत्वगुणेन सौधर्मेन्द्रादिभिरमत्यैरिति । अत्र च श्रीवर्धमानमिति विशेषणतया यद् व्याख्यातं तदयोगव्यवच्छेदाभिधानप्रथमद्वात्रिंशिकाप्रथमकाव्यतृतीयपादवर्तमानं 'श्रीवर्धमानाभिधमात्मरूपम्' इति विशेष्यवर्तमानं बुद्धौ संप्रधार्य विज्ञेयम्। तत्र हि आत्मरूपमिति विशेष्यपदम्, प्रकृष्ट आत्मा आत्मरूपस्तं परमात्मानमिति यावत् । आवृत्त्या वा विशेषणमापि विशेष्यतया व्याख्येयमिति प्रथमवृत्तार्थः ॥१॥ अस्यां च स्तुतावन्ययोगव्यवच्छेदोऽधिकृतस्तस्य च तीर्थान्तरीयपरिकल्पिततत्त्वाभासनिरासेन तेषामातत्वव्यवच्छेदः स्वरूपम् । तच्च भगवतो यथावस्थितवस्तुतत्त्ववादित्वख्यापनेनैव प्रामाण्यमश्नुते । अतः स्तुतिकारस्त्रिजगद्गुरोनिःशेषगुणस्तुतिश्रद्धालुराप सद्भूतवस्तुवादित्वाख्यं गुणविशेषमेव वर्णयितुमात्मनोऽभिप्रायमाविष्कुर्वनाह अयं जनो नाथ ! तव स्तवाय गुणान्तरेभ्यः स्पृहयालरेव । विगाहतां किन्तु यथार्थवाद मेकं परीक्षाविधिदुर्विदग्धः ॥२॥ हे नाथ! अयं- मल्लक्षणो जनः, तव गुणान्तरेभ्यो-यथार्थवादव्यतिरिक्तेभ्योऽनन्यसाधारणशारीरलक्षणादिभ्यः स्पृहयालुरेव श्रद्धालुरेव । किमर्थम् ? स्तवाय - स्तुतिकरणाय । इयं तांदर्ये चतुर्थी । पूर्वत्र तु " स्पृहाप्यं वा” इतिलक्षणा चतुर्थी । १ अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ १ ॥ इति अयोगव्यवच्छेदद्वात्रिकायां संपूर्णः श्लोकः । २ हैमसूत्रम् २।२।५४ ।। ३ हैमसूत्रम् २।२।२६ । ४ ' चतुर्थी इति ह. पुस्तके नास्ति । Page #80 -------------------------------------------------------------------------- ________________ श्लोक २ अन्ययोगव्यवच्छेदिका तव गुणान्तराण्यपि स्तोतुं स्पृहावीनयं जन इति भावः । ननु यदि गुणान्तरस्तुतावपि स्पृहयालुता तत्किं तान्यपि स्तोष्यति स उत नेत्याशङ्कयोत्तरार्धमाह-किन्त्विति-अभ्युपगमपूर्वकविशेषद्योतने निपातः । एकम्-एकमेव । यथार्थवाद-यथावस्थितवस्तुतत्त्वप्रख्यापनाख्यं त्वदीयं गुणम् , अयं जनो विगाहतां-स्तुतिक्रियया समन्ताद् व्यामोतु । तस्मिन्नेकस्मिन्नाप हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशिष्टयख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धेः। __ अथ प्रस्तुतगुणस्तुतिः सम्यक्परीक्षाक्षमाणां दिव्यदृशामेवौचितीमञ्चति, नार्वाग्दृशां भवादृशामित्याशङ्कां विशेषणद्वारेण निराकरोतियतोऽयं जनः परीक्षाविधिदुर्विदग्धः - अधिकृतगुणविशेषपरीक्षणविधौ दुर्विदग्धः - पण्डितंमन्य इति यावत् । अयमाशयः -- यद्यपि जगद्गुरोर्यथार्थवादित्वगुणपरीक्षा मादृशां मतेरगोचरः, तथापि भक्तिश्रद्धातिशयात् तस्यामहमात्मानं विदग्धमिव मन्य इति । विशुद्धश्रद्धाभक्तिव्यक्तिमात्रस्वरूपत्वात् स्तुतेः, इति वृत्तार्थः ॥२॥ ___ अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नाः, तानपि तत्त्वविचारणां प्रति शिक्षयन्नाह - गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३॥ १ 'स्पृहावानेवायम्' इति क, ख, पुस्तकयोः पाठः।। २ तत्किमर्थं तत्रोपेक्षा इत्याशक्योत्तरार्धमाह-' इति रा, ह. पुस्तकयोः पाठः । ३ ' परीक्षणम्' इति रा. ह. पुस्तकयोः पाठः । Page #81 -------------------------------------------------------------------------- ________________ ११ . स्याद्वादमञ्जरीसहिता श्लाके २ अमी इति-'अदसस्तु विप्रकृष्टे' इति वचनात् तत्त्वातत्त्वविमशबाह्यतया दूरीकरणार्हत्वाद् विप्रकृष्टाः, परे-कुतीर्थिकाः, भवन्तंत्वाम् , अनन्यसामान्यसकलगुणनिलयमाप; मा ईशं शिश्रियन्-मा स्वामित्वेन प्रतिपद्यन्ताम् । यतो गुणेष्वम्यां दधतः-गुणेषु बद्धमत्सराः गुणेषु दोषाविष्करणं ह्यसूया, यो हि यत्र मत्सरी भवति स तदाश्रयं नानुरुध्यते, यथा माधुर्यमत्सरी करभः पुण्ड्रेक्षुकाण्डम् । गुणाश्रयश्च भवान् । एवं परतीथिकानां भगवदाज्ञाप्रतिपत्तिं प्रतिषिष्य स्तुतिकारी माध्यस्थामवास्थाय, तान् प्राति हितशिक्षामुत्तराधेनोपदिशति-तथापि-- त्वदाज्ञाप्रतिपत्तेरभावेऽपि,लोचनानि नेत्राणि संमील्य --मिलितपुटीकृत्य, सत्यं - युक्तियुक्तं, नयवर्त्म-न्यायमार्ग, विचारयन्तां -विमर्शविषयीकुर्वन्तु । ___ अत्र च विचारयन्तामित्यात्मनेपदेन फलवत्कविषयेणैवं ज्ञापयत्याचार्यो यदवितथनयप्रथविचारणया तेषामेव फलं, वयं केवलमुपदेष्टारः । किं तत्फलम् ? इति चेत्, प्रेक्षावत्तति ब्रूमः । संमील्य विलोचनानीति च वदतः प्रायस्तत्त्वविचारणमेकाग्रताहेतुनयननिमीलनपूर्वकं लोके प्रसिद्धमित्यभिप्रायः। अथवा अयमुपदेशस्तेभ्योऽरोचमान एवाचार्येण वितीर्यते; ततोऽस्वदमानोऽप्ययं कटुकौषधपानन्यायेनायतिसुखत्वाद् भवद्भिनेत्रे निमील्य पेय एवेत्याकूतम् । ननु यदि च पारमेश्वरे वचसि तेषामाववेकातिरेकादरोचकता, तत्किमर्थ तान् प्रत्युपदेशक्लेश इति ? । नैवम् । परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यंगतां रुचिमरुचिं वाऽनपेक्ष्य हितोपदेशपत्तिदर्शनातः तेषां हि परार्थस्यैव स्वार्थत्वेनाभिमतत्वात न च हितोपदेशादपरः पारमार्थिकः परार्थः । तथा चार्षम् १ इदमस्तु संनिकृष्टे समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति पराक्षे विजानीयात् ॥ १॥ इति संपूर्णः श्लोकः। ख. पुस्तके 'अदसस्तु विप्रकृष्टे' इति नास्ति । २ बोध्यछात्रविषयिणीम् । Page #82 -------------------------------------------------------------------------- ________________ श्लोक ३ अन्ययोगन्यवच्छेदिका "रूसऊं वा परो मा वा, विसं वा परियत्तऊ । भासियव्वा हिया भासा सपक्खगुणकारिया"॥१॥ उवाच च वाचकमुख्यः"नै भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति" ॥१॥ इति वृत्तार्थः ॥३॥ अथ यथावन्नयवर्त्म-विचारमेव प्रपञ्चयितुं पराभिप्रेततत्त्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषट्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस्तदन्तःपातिनौ प्रथमतरं सामान्यविशेषौ दुषयन्नाह स्वतोऽनुवृत्तिव्यतिवृचिभाजो भावा न भावान्तरनेयरूपाः। परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ अभवन्, भवन्ति, भविष्यन्ति चेति भावाः-पदार्थाः, आत्मपुद्गलादयस्ते स्वत इति-सर्व हि वाक्यं सावधारणमामनन्ति इति स्वत एव-आत्मीयस्वरूपादेव, अनुहात्तिव्यातहत्तिभाजः-एकाकारा प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः । व्यतिवृत्तिः च्यावृत्तिः, १ छाया-रुषतु वा परो मा वा विषं वा पर्यटतु । भाषितव्या हिता भाषा स्वपक्षगुणकारिका । एतदर्थक एव श्लोको श्रीहेमचन्द्रकृतश्रेणिकचरित्रे द्वितीयसर्गे ३२ उपलभ्यते । तथाहि-परो रुष्यतु वा मा वा विषवत् प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी ॥ ३२॥ २ उमास्वातिः । अयमुमास्वामीत्यपि भण्यते ।। ३ तत्त्वार्थसूत्रसंबन्धकारिकासु २९ श्लोकः । ४ अनुवृत्तिः- अन्वयः । व्यतिवृत्तिः- न्यतिरेकः । । ५ पूरणगलनधर्माणः पुद्गलाः (दशवैकालिकप्रथमाध्ययने). Page #83 -------------------------------------------------------------------------- ________________ १३ . स्याद्वादमञ्जरीसहिता श्लोक ४ सजातीयविजातीयेभ्यः सर्वथा व्यवच्छेदः; ते उभे अपि संवलिते भजन्ते-आश्रयन्तीति अनुवृत्तिव्यतित्तिभाजः, सामान्यविशेषोभयात्मका इत्यर्थः। अस्यैवार्थस्य व्यतिरेकमाह-न भावान्तरनेयरूपा इति-नेति निषेधे। भावान्तराभ्यां-पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां, भावव्यतिरिक्तसामान्यविशेषाभ्यां; नेयं -प्रतीतिविषयं पापणीयं, रूपं-यथासंख्यमनुवृत्तिव्यतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः । स्वभाव एव ह्ययं सर्वभावानां यदनुहात्तिव्यावृत्तिप्रत्ययौ स्वत एव जनयन्ति । तथाहि घट एव तावत् पृथुबुध्नोदराद्याकारवान् प्रतीतिविषयीभवन् सन्नन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया, घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याख्यां लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं न्यावर्तयन् विशेषव्यपदेशमश्नुते । इति न सामान्यविशेषयोः पृथक्पदार्थान्तरत्वकल्पनं न्याय्यम पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वात् । न च धर्मा धर्मिणः सकाशादत्यन्तं व्यतिरिक्ताः। एकान्तभेदे विशेषणविशेष्यभावानुपपत्तेः ; करभरासभयोरिव धर्मधर्मिव्यपदेशाभावप्रसङ्गाच्च । धर्माणामपि च पृथपदार्थान्तरत्वकल्पने एकास्मबेव वस्तुनि पदार्थानन्त्यप्रसङ्गः ; अनन्तधर्मकत्वाद् वस्तुनः । तदेवं सामान्यविशेषयोः स्वतत्त्वं यथावदनवबुध्यमाना अकुशलाः अतत्त्वाभिनिविष्टदृष्टयः तीर्थान्तरीया स्खलन्ति न्यायमार्गाद् भ्रश्यन्ति, निरुत्तरीभवन्तीत्यर्थ । स्खलनेन चात्र प्रामाणिकजनोपहसनीयता ध्वन्यते । किं कुर्वाणाः?, द्वयम् अनुवृत्तिव्यावृत्तिलक्षणं प्रत्ययद्वयं १. व्यावृत्तिलक्षणम् ' इति क. ख. पुस्तकयोः पाठः । २ विशेषसंज्ञाम् । . ३ कुत्सिताग्रहवन्तः । Page #84 -------------------------------------------------------------------------- ________________ श्लोक ४ अन्ययोगव्यवच्छेदिका वदन्तः । कस्मादेतत्प्रत्ययद्वयं वदन्तः ?, इत्याह-परात्मतत्त्वात्-परौ पदार्थेभ्यो व्यतिरिक्तत्वादन्यौ, परस्परनिरपेक्षौ च यो सामान्यविशेषौ, तयोर्यदात्मतत्त्वं-स्वरूपम् , अनुवृत्तिव्यावृत्तिलक्षणं, तस्मात्तदाश्रित्येत्यर्थः, “गम्ययपः कर्माधारे"॥२।२।७४ ॥ इत्यनेन पञ्चमी। कथंभूतात् परात्मतत्त्वाद् ?, इत्याह--अतथात्मतत्त्वात् मा भूत् पराभिमतस्य परात्मतत्त्वस्य सत्यरूपतति विशेषणमिदम् । यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं,न तथा-तेन प्रकारेणात्मतत्त्वं स्वरूपं यस्य तत्तथा, तस्मात् यतः पदार्थेष्बाविष्वग्भावेन सामान्यविशेषौ वर्तेते; तैश्च तौ तेभ्यः परत्वेन कल्पितौः परत्वं चान्यत्वं तच्चैकान्तभेदाविनामावि । किञ्च पदार्थेभ्यः सामान्यविशेषयोरेक्रान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषयमनुवृत्तिव्यात्तिरूपं प्रत्ययद्वयं नोपपद्यत । एकान्ताभेदे चान्यतरस्यासत्त्वप्रसङ्गः। सामान्यविशेषव्यवहाराभावश्च स्यात् सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणे प्रतीतेः। परस्परनिरपेक्षपक्षस्तु पुरस्तानिलोठयिष्यते । अत एव तेषां वादिनां स्खलनक्रिययोपहसनीयत्वमभिव्यज्यते । यो हि अन्यथास्थितं वस्तुस्वरूपमन्यथैव प्रतिपद्यमानः परेभ्यश्च तथैव प्रज्ञापयन् स्वयं नष्टः परान्नाशयति, न खलु तस्मादन्य उपहासपात्रम् इति वृत्तार्थः ॥४॥ अथ तदभिमतानेकान्तनित्यानित्यपक्षौ दूषयन्नाह.. आदीपमाव्योम समस्वभावं ___ स्याद्वादमुद्राऽनतिभेदि वस्तु । १ हैमसूत्रम् । २।२।७४ । २ अपृथग्भावेन । ३ 'प्रमाणेनैव ' इति क. पुस्तके पाठः । Page #85 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ५ .. तन्नित्यमेवैकमनित्यमन्य दिति त्वदाज्ञाद्विषतां प्रलापाः॥५॥ आदीपं-दीपादारभ्य, आव्योम-व्योम मर्यादीकृत्य, सर्ववस्तुपदार्थस्वरूपं, समस्वभावं-समः तुल्यः, स्वभावः- स्वरूपं यस्य तत्तथा । किञ्च वस्तुनः स्वरूपं द्रव्यपर्यात्मकत्वमिति ब्रूमः । तथा च वाचकमुख्यः- "उत्पादव्ययध्रौव्ययुक्तं सत्" इति । समस्वभावत्वं कुतः? इति विशेषणद्वारेण हेतुमाह-स्याद्वादमुद्रानातिभेदि-स्यादित्यव्ययमनेकान्तद्योतकम् , ततः स्याद्वादः अनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् । तस्य मुद्रा-पर्यादा, तां, नाऽतिभिनत्ति-नातिक्रामतीति स्याद्वादमुद्रानतिभेदि। यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्तितुमीशते, तदतिक्रमे तासां सर्वार्थहानिभावात् एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्र, तदीयमुद्रां सर्वेऽपि पदार्था नातिकामन्ति; तदुल्लङ्कने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः। सर्ववस्तूनां समस्वभावत्वकथनं च पराभीष्टस्यैकं वस्तु व्योमादि नित्यमेव, अन्यच्च प्रदीपादि-अनित्यमेव इति वादस्य प्रतिक्षेपबीजम्। सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः, पर्यायार्थिकनयादेशात् पुनरनित्याः । तत्रैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यानित्यत्वव्यवस्थापने दिङ्मात्रमुच्यते तथाहि-प्रदीपपर्यायापन्नास्तैजसाः परमाणवः स्वरसतस्तैलक्षयाद् वाताभिघाताद्वा ज्योतिष्पर्यायं परित्यज्य तमोरूपं पर्यायान्तरमाश्रय१ तत्त्वार्थाधिगमसूत्रे अ. ५ सू. २९ । २ 'आसादयन्तोऽपि' इति ह. पुस्तके पाठः । Page #86 -------------------------------------------------------------------------- ________________ श्लोक ५ अन्ययोगव्यवच्छेदिका न्तोऽपि नैकान्तेनानित्याः; पुद्गलद्रव्यरूपतयावस्थितत्वात् तेषाम्। नह्येतावतैवानित्यत्वं-यावता पूर्वपर्यायस्य विनाशः, उत्तरपर्यायस्य चोत्पादः । न खलु मृद्र्व्यं स्थासंक-कोश-कुशूल-शिवक-घटाद्यवस्थान्तराण्यापद्यमानमप्येकान्ततो विनष्टम् ; तेषु मृद्रव्यानुगमस्याबालगोपालं प्रतीतत्वात् । न च तमसः पौगलिकत्वमसिद्धम् ; चाक्षुषत्वान्यथानुपपत्तेः; प्रदीपालोकवत् । अथ यच्चाक्षुषं, तत्सर्व स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमः, तत्कथं चाक्षुषम् ? । नैवम् । उलूकादीनामालोकमन्तरेणापि तत्पतिभासात् । यैस्त्वस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते, तैरपि तिमिरमालोकयिष्यते; विचित्रत्वाद् भावानाम् । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षाः। इति सिद्धं तमश्चाक्षुषम् । रूपवत्त्वाच्च स्पर्शवत्त्वमपि प्रतीयते; शीतस्पर्शप्रत्ययजनकत्वात् । यानि त्वनिबिडावयवत्वमप्रतिघातित्वमनुद्भूतस्पविशेषत्वप्रतीयमा-न खण्डावयविद्रव्यप्रविभागत्वमित्यादीनि तमसः पौद्गलिकत्वनिषेधाय नपरैः साधनान्युपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि; तुल्ययोगक्षेमत्वात् । न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त इति ? पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्यापि दर्शनात् । दृष्टो ह्याट्टैन्धनसंयोगवशाद् भास्वररूपस्यापि वन्हेरभास्वरूपधुमरूषकार्योत्पादः । इति सिद्धो नित्यानित्यः प्रदीपः । यदापि निर्वाणादर्वाग् देदीप्यमानो दीपस्तदापि नवनवपर्यायोत्पादविनाश १ स्थासककोशादयो घटस्योत्पतेः प्राक् मृद एवावस्थाः । २ 'शबक ' इति क. पुस्तके पाठः । ३ अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेम इति । Page #87 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसाहता श्लोक ५ भाक्त्वात्, प्रदीपत्वान्वयाच नित्यानित्य एव । एवं व्योमापि-उत्पादव्ययध्रौव्यात्मकत्वाद् नित्यानित्यमेव । तथाहि अवगाहकानां जीवपुद्गलानामवगाहदानोपंग्रह एव तल्लक्षणम् "अवकाशदमाकाशम्” इति वचनात् । यदा चावगाहका जीवपुद्गलाः प्रयोगतो विर्ससातो वा एकस्मान्नभ प्रदेशात् प्रदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सममेकास्मिन् प्रदेशे विभागः उत्तरस्मिंश्च प्रदेशे संयोगः। संयोगविभागौ चे परस्परं विरुधौ धर्मों, तद्भेदे चावश्यं धर्मिणो भेदः। तथा चाहुः- " अयमेव हि भेदो, भेदहेतुर्वा यद्विरुद्धधर्माध्यासः, कारणभेदश्चेति"। ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्त्या विनष्टम्, उत्तरसंयोगोत्पादाख्यपरिणामानुभवाच्चोत्पन्नम् । उभयत्राकाशद्रव्यस्यानुगतत्वाच्चोत्पादव्ययोरेकाधिकरणत्वम् । तथा च यद् "अप्रच्युतानुत्पन्नस्थिरैकरूपं नित्यम्" इति नित्यलक्षणमाचक्षते। तदपास्तम् । एवंविधस्य कस्यचिद्वस्तुनोऽभावात्। "तौवाव्ययं नित्यम्" इति तु सत्यं नित्यलक्षणम् ; उत्पादावनाशयोः सद्भावेऽपि तद्भावाद्-अन्वयिरूपाद् यन्न व्येति तनित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते, तदोत्पादव्यययोनिराधारत्वप्रसङ्गः । न च तयोर्योगे नित्यत्वहानिः; १ उपग्रहः-उपकार इति तत्त्वार्थभाष्ये । २ उत्तराध्ययनसूत्रे अध्ययने २८ गाथा ९ । अत्र वृत्तौ महोपाध्यायश्रीमद्भावविजयगणिकृतायामिदमुपलभ्यते । ३ प्रयोगतः-पुरुषशक्त्या ।। ४ विलसातः स्वभावेन । ५ 'च' इति क. पुस्तके नास्ति । ६ वस्तूनि द्विविधानि लक्षणभेदात्कारणभेदाच्च घटो जलाहरणादिगुणवान् पटश्श्र शतित्राणादिगुणवान् । तथा घटस्य कारणं मृत्पिण्डादि । पटस्य कारणं तन्त्वादि । ७ तत्त्वार्यसूत्रम् अ. ५ सू. ३० । Page #88 -------------------------------------------------------------------------- ________________ श्लोक ५ अन्ययोगव्यवच्छेदिका " द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः। क कदा केन किंरूपा दृष्टा मानेन केन वा?" ॥१॥ इति वचनात् । ...न चाकाशं न द्रव्यम् । लौकिकानामाप घटाकाशं पटाकाशमिति व्यवहारप्रसिद्धेराकाशस्य नित्यानित्यत्वम् । घटाकाशमपि हि यदा घटापगमे, पटेनाक्रान्तं, तदा पटाकाशमिति व्यवहारः। न चायमौपचारिकत्वादप्रमाणमेव । उपचारस्यापि किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाणं तत् तदाधेयघटपटादिसम्बन्धिनियतपरिमाणवशात् कल्पितभेदं सत् प्रतिनियतदेशव्यापितया व्यवाहियमाणं घटाकाशंपटाकाशादितत्तव्यपदेशनिबन्धनं भवति । तत्तद्घटादिसम्बन्धे च व्यापकत्वेनावस्थितस्य व्योम्नोऽवस्थान्तरापात्तः, ततश्वावस्थाभेदेऽवस्थावतोऽपि भेदः। तासां ततोऽविवरभावात् । इति सिद्धं नित्यानित्यत्वं व्योम्नः । - स्वायंभुवा अपि हि नित्यानित्यमेव वस्तु प्रर्पन्नाः । तथा चाहुस्ते" त्रिविधैः खल्वयं धर्मिणः परिणामो धर्मलक्षणावस्थारूपः। सुवर्ण धर्मि, तस्य धर्मपरिणामो वर्धमानरुचकादिः, धर्मस्य तु लक्षणपरिणामोऽनागतत्वादिः यदा खल्वयं हेमकारो वर्धमानकं भङ्क्त्वा रुचकमारचयति तदा वर्धमानको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते, रुचकस्तु अनागततालक्षणं हित्वा वर्तमानतालक्षणमापद्यते; वर्तमानतापन्न एव तु रुचको नवपुराणभावमापद्यमा १ एतदर्थिका गाथा-संमतितकें प्रथमकाण्डे दृश्यते--' दव्यं पजवविज्जु दव्वविउत्ता य पज्जवा नत्थि ॥१२॥ २ एतद्वाक्यं ख. पुस्तके नास्ति ।। ३ स्वायंभुवाः- पातञ्जलयोगानुसारिणः । ४ 'प्रतिपन्नाः' इति क, पुस्तके पाठः । ५ पातञ्जलयोगसूत्र ३।१३ इत्यत्रैतदर्थकं वाक्यजातम् । . Page #89 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ५ नोऽवस्थापरिणामवान् भवति; सोऽयं त्रिविधः परिणामो धर्मिणः । धर्मलक्षणावस्थाश्च धर्मिणो भिन्नाश्चाभिनाश्च। तथा च ते धर्नामेदात् तन्नित्यत्वेन नित्याः; भेदाचोत्पत्तिविनाशाविषयत्वम् इत्युभयमुपपन्नामिति ।" अथोत्तरार्ध वित्रियते-एवं चोत्पादव्ययध्रौव्यात्मकत्वे सर्वभावानां सिद्धेऽपि तद्वस्तु एकमाकाशात्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेवः इत्येवकारोऽत्रापि सम्बध्यते । इत्थं हि दुर्नयवादापत्तिः । अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्लक्षणात् । इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां-भवत्प्रणीतशासनविरोधिनां प्रलापाः-प्रलपितानि, असम्बद्धवाक्यानीति यावत् । अत्र च प्रथममादीपमिति परप्रसिद्धयानित्यपक्षोल्लेखेऽपि, यदुत्तरत्र यथासंख्यपरिहारेण पूर्वतरं नित्यमेवैकमित्युक्तम्, तदेवं ज्ञापयति-यदनित्यं, तदपि नित्यमेव कथाञ्चित् , यच्च नित्यं, तदप्यनि त्यमेवं कथञ्चित्; प्रक्रान्तवादिभिरप्येकस्यामेव पृथिव्यां नित्यानित्यत्वाभ्युपगमात् । तथा च प्रशस्तकारः “सा तु द्विविधा, नित्या चानित्या च; परमाणुलक्षणा नित्या; कार्यलक्षणा त्वनित्या" इति । न चात्र परमाणु-कार्यद्रव्यलक्षणविषयद्वयभेदाद् नैकाधिकरणं नित्यानित्यत्वमिति वाच्यम्; पृथिवीत्वस्योभयत्राप्यव्यभिचारात्; एवमवादिष्वपीति । आकाशेऽपि संयोगविभागाङ्गीकारात् तैरनित्यत्वं युक्त्या प्रतिपन्नमेव । तथा च स एवाह- “शब्दकारण १ निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां । वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासंगिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाश्चेदेकांशकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ॥१॥ इति नयदुर्नययोर्लक्षणं श्रीउमास्वातिकृतपचाशतौ ग्रंथे । २ वैशेषिकदर्शने प्रशस्तपादभाष्ये पृथिवीनिरूपणप्रकरणे । Page #90 -------------------------------------------------------------------------- ________________ श्लोक ५ अन्ययोगव्यवच्छेदिका त्ववचनात् संयोगविभागौ" इति नित्यानित्यपक्षयोः संवलितत्वम् । एतच लेशतो भावितमेवोत ।। प्रलापप्रायत्वं च परवचनानामित्थं समर्थनीयम्-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम्। तच्चैकान्तनित्यानित्यपक्षयोर्न घटते; अपच्युतानुत्पन्नास्थरैकरूपो हि नित्यः; सच क्रमेणार्थक्रियां कुर्वीत, अक्रमेण वा ? अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र न तावत् क्रमेण; स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तः। समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थ करोतीति चेत् न तर्हि तस्य सामर्थ्यम्; अपरसहकारिसापेक्षत्तित्वात 'सापेक्षसमर्थम् ' इति न्यायात् । .. न तेन सहकारिणोऽपेक्ष्यन्तेः अपि तु कार्यमेव-सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत् तत् किं स भावोऽसमर्थः समर्थो वा ? । समर्थश्चेत्, किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते ? न पुनर्झटिति घटयति । ननु समर्थमपि बीजम्-इलाजलानिलादिसहकारिसहितमेवाङ्कुरं करोति, नान्यथा । तत् किं तस्य सहकारिभिः किञ्चिदुपक्रियेत, न वा ? । यदि नोपक्रियेत, तदा सहकारिसन्निधानात् प्रागिव, किं न तदाऽप्यर्थक्रियायामुदास्ते ? । उपक्रियेत चेत् सः, तर्हि तैरुपकारोऽभिन्नो भिन्नो वा क्रियत इति वाच्यम्। १ प्रशस्तपादभाष्ये आकाशनिरूपणे । २ अतःपरं पृष्ठे (२२)नानाकार्याणां कथमुत्पत्तिरिति चेदित्यन्तं हेमचन्द्रकृतप्रमाणमीमांसास्वोपज्ञवृत्तौ ( १-१-३३ ) यनिर्दिष्टं तदेव स्याद्वादमञ्जरों संगृहीतम् । यद्यपि कुत्रचिदक्षरभेदो दृश्यते तथाप्यर्थभेदस्तु न कुनापि । ३ कालविलम्बाभावात् । ४ हेमहंसगणिसमुच्चितहमचन्द्रव्याकरणस्थन्यायः २८ । ५ इला पृथिवी । ६ ' जलानलानिलादि ' इति ख. पुस्तके पाठः। . Page #91 -------------------------------------------------------------------------- ________________ २१ स्याद्वादमञ्जरीसहिता श्लोक ५ अभेदे स एव क्रियते । इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वापत्तेः। भेदे तु कथं तस्योपकारः ? किं न सह्यविन्ध्याद्रेरपि । तत्सम्बन्धात् तस्यायामिति चेत्, उपकार्योपकारयोः कः सम्बन्धः ? । न तावत् संयोगः; द्रव्ययोरेव तस्य भावात् अत्र तु उपकार्य द्रव्यम्, उपकारश्च क्रियेति न संयोगः। नापि समवायः; तस्यैकत्वात्-व्यापकत्वाच्च-प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धिभिः सम्बन्धो युक्तः । नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपकारोऽस्य समवायस्याभ्युपगन्तव्यः । तथा च सति उपकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे-पुनरपि समवायस्य न नियतसंबन्धिसंबन्धत्वम् । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । __ नाप्यक्रमेण-नोको भावः सकलकालकलाकलापभाविनीयुगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा क्रमपक्षभावी दोषः; अकरणे त्वर्थक्रियाकारित्वाभावाद्-अवस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिबलाद् व्यापकनिवृत्तौ निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति; अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयाति; इति नैकान्तनित्यपक्षो युक्तिक्षमः। एकान्तानित्यपक्षोऽपि न कक्षीकरणाहः। अनित्यो हि प्रतिक्षण१ यदा कश्चिद्वाधुषिः स्वद्रव्यं कुसीदेच्छयाधमय प्रयच्छति । तेनाधमणेन न मूलद्रव्यं न वा कुसीदं प्रत्यावर्त्यते तदायं न्यायः समापतति । वृद्धिमिच्छतो मूलद्रव्यक्षतिरुत्पन्नेत्यर्थः। २ न प्रतीयत इत्यर्थः । . ३ स्वीकर्तु योग्य इत्यर्थः। Page #92 -------------------------------------------------------------------------- ________________ श्लोक ५ अन्ययोगव्यवच्छेदिका २२ विनाशी; स च न क्रमेणार्थक्रियासमर्थः; देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् । क्रमो हि पौर्वापर्यम् , तच्च क्षणिकस्यासम्भवि । अवस्थितस्यैव हि नानादेशकालव्याप्तिः-- देशक्रमः कालक्रमश्चाभिधीयते; न चैकान्तविनाशिनि सास्ति । .. यदाहुः “यो यत्रैव स तत्रैव यो यदैव तदैव सः। . न देशकालयोाप्तिर्भावानामिह विद्यते" ॥१॥ न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति; सन्तानस्याऽवस्तुत्वात् वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं, न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाक्षणिकत्वं, तर्हि समाप्तः क्षणभङ्गवादः। __नाप्यक्रमेणार्थक्रिया क्षणिके संभवति । स ह्येको बीजपूरााँदक्षणों युगपदनेकान् रसादिक्षणान् जनयन् एकेन स्वभावेन जनयेत, नानास्वभावैर्वा ? । यद्येकेन तदा तेषां रसादिक्षणानामेकत्वं स्यात् । एकस्वभावजन्यत्वात् । अथ नानास्वभावैर्जनयति-किञ्चिद्रूपादिकमुपादानभावेन, किञ्चिद्रसादिकं सहकारित्वेन, इति चेत् ; तर्हि ते स्वभावास्तस्यात्मभूता अनात्मभूता वा ? । अनात्मभूताश्चेत् स्वभावत्वहानिः । यद्यात्मभूताः, तर्हि तस्यानेकत्वम् ; अनेकस्वभावत्वात्; स्वभावानां वा एकत्वं प्रसज्येत; तदव्यतिरिक्तत्वात तेषां तस्य चैकत्वात् । __ अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसायं च कथामिष्यते क्षणिकवादिना ?। अथ नित्यमेकरूपत्वादक्रम, अक्रमाच क्रमिणां नानाकार्याणां कथ १ आजीविकाः। २ 'दृश्यते' इति क. पुस्तके पाठः । ३ 'बीजपूरादिरूपादि' इति क. पुस्तके पाठः। ४ एते बौद्धाः क्षणशब्देन पदार्थान् गृह्णन्ति। यतः सर्वे पदार्थाः क्षणिकाः । Page #93 -------------------------------------------------------------------------- ________________ २३ स्याद्वादमञ्जरीसहिता श्लोक ५ मुत्पत्तिः ? इति चेत्, अहो स्वपक्षपाती देवानांप्रियः - यः खलु स्वयमेकस्माद् निरंशाद् रूपादिक्षणलक्षणात् कारणाद् युगपदनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति । तस्माद् क्षणिकस्यापि भावस्याक्रमे - णार्थक्रिया दुर्घटा । इत्यनित्यैकान्तादपि क्रमाक्रमयोर्व्यापकयोर्निवृत्त्यैव व्याप्यार्थक्रियापि व्यावर्तते; तद्व्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिवलेनैव निवर्तते । इत्येकान्तानित्यवादोऽपि न रमणीयः । स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्वा । न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासायोगादसन् स्याद्वाद इति वाच्यम्; नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याद्ङ्गीक्रियमाणत्वात् तथैव च सर्वैरनुभवात् । तथा च पठन्ति - “ भागे सिंहो नरो भागे योऽर्थो भागद्वयामकः । 'तमभागं विभागेन नरसिंहं प्रचक्षते " ॥ १ ॥ इति । वैशेषिकैरपि चित्ररूपस्यैकस्यावयविनोऽभ्युपगमात् । एकस्यैव पटादेश्चलाचलरक्तारक्ताट्टतानावृतत्वादिविरुद्धधर्माणामुपलब्धेः सौगतैरप्येकत्र चित्रपटीज्ञाने नीलानीलयोर्विरोधानङ्गीकारात् । अत्र च यद्यप्यधिकृतवादिनः प्रदीपादिकं कालान्तरावस्थायित्वात् क्षणिकं न मन्यन्तेः तन्मते पूर्वापरान्तावच्छिन्नायाः सत्ताया एवानित्यतालक्षणात् । तथापि बुद्धिसुखादिकं तेऽपि क्षणिकतयैव प्रतिपन्नाः ; इति तदाधकारेऽपि क्षणिकवादचर्चा नानुपपन्ना । यदपि च कालान्तरावस्थायि वस्तु, तदपि नित्यानित्यमेव । क्षणोऽपि न १ ' यदापि ' इति रा. पुस्तके पाठः । २ ' तदापि इति रा. पुस्तके पाठः । Page #94 -------------------------------------------------------------------------- ________________ २४ श्लोक ५ अन्ययोगव्यवच्छेदिका खलु सोऽस्ति-यत्र वस्तु उत्पादन्ययध्रौव्यात्मकं नास्ति इति काव्यार्थः ॥५॥ __ अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्याभिनिवेशरूपं निरूपयन्नाहकर्तास्ति कश्चिद् जगतः स चैकः स सर्वगः स स्ववशः स नित्यः। इमाः कुहेवाकविडम्बनाः स्यु स्तेषां न येषामनुशासकस्त्वम् ॥६॥ जगतः– प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य . विश्वत्रयस्य, काश्चिद्-अनिर्वचनीयस्वरूपः, पुरुषविशेषः, कर्ता-स्रष्टा, अस्ति-विद्यते । ते हि इत्थं प्रमाणयन्ति-उर्वीपर्वततर्वादिकं सर्व, बुद्धिमत्कर्तृकं, कार्यत्वात्; यद् यत् कार्य तत् तत्सर्वं बुद्धिमत्कर्तृकं, यथा घटः, तथा चेदं, तस्मात् तथा; व्यतिरेके व्योमादि । यश्च बुद्धिमांस्तत्कर्ता-स भगवानीश्वर एवेति । न चायमासिद्धो हेतुः—यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया, अवयावतया वा कार्यत्वं सर्ववादिनां प्रतीतमेव । नाप्यनैकान्तिको विरुद्धो वा-विपक्षादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययापदिष्टः-प्रत्यक्षानुमानागमाबाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात्। नापिप्रकरणसमः-तत्पतिपन्थिधर्मोपपादनसमर्थप्रत्यनुमानाभावात्। १ अयं साध्यसमशब्देनाभिधीयते । तल्लक्षणं-'साध्याविशिष्टः साध्यत्वात्साध्यसमः'। गौतमसूत्र । १-२-८। २ तल्लक्षणं-'अनैकान्तिकः सव्यभिचारः' । गौतमसूत्रे १-२-५ । ३ तल्लक्षणं-' सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः '। गौतमसूत्रे १-२-६ । ४ तल्लक्षणं-'कालात्ययापदिष्टः कालातीतः 'गौतमसूत्रो १-२-९। ५ तल्लक्षणं-'यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः'गौतमसूत्रे१-२-७। Page #95 -------------------------------------------------------------------------- ________________ २५ स्याद्वादमञ्जरीसहिता श्लोक ६ न च वाच्यम्-ईश्वरः-पृथ्वीपृथ्वीधरादोधाता न भवति अशरीरत्वातः निर्वृत्तात्मवतः इति प्रत्यनुमानं तद्बाधकामिति । यतोऽत्रेश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः ?। न तावदप्रतीतः; हेतोराश्रयासिद्धिप्रसंगात् । प्रतीतश्चेत्, येन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितस्वतनुर्न प्रतीयते ?; इत्यतः कथमशरीरत्वम् ? तस्मानिरवद्य एवायं हेतुरिति। स चैक इति-चः- पुनरर्थे । स पुनः-पुरुषविशेषः ; एकःअद्वितीयः । बहूनां हि विश्वविधातृत्वस्वीकारे, परस्परविमतिसंभावनाया अनिवार्यत्वाद्-एकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वसमञ्जसमापद्येत, इति । तथा स सर्वग-इति । सर्वत्र गच्छतीति सर्वगः-सर्वव्यापी। तस्य हि प्रतिनियतदेशवर्तित्वेऽनियतदेशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन्निर्माणाऽनुपपत्तिः, कुम्भकारादिषु तथा दर्शनाद् । अथवा सर्व गच्छति-जानातीति सर्वगः-सर्वज्ञः सर्वे गत्यर्था ज्ञानार्थाः' इति वचनात्।सर्वज्ञत्वाभावे हि यथोचितोपादानकारणाधनभिज्ञत्वाद्-अनुरूपकार्योत्पत्तिर्न स्यात्। . तथा स स्ववश:-स्वतन्त्रः, सकलपाणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् । तथा चोक्तम्-. " ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनःसुखदुःखयोः"॥१॥ इति-पारतन्त्र्ये तु तस्य परमुखप्रक्षितया मुख्यकर्तृत्वव्याघाताद् अनीश्वरत्वापत्तिः। तथा स नित्य इति-अप्रच्युतानुत्पन्नस्थिरैकरूपः । तस्य १ 'आपनीपद्येत' इति घ. ख. ह, पुस्तकेषु पाठः। २ गत्यर्था ज्ञानार्थाः ' हेमहंसगणिसमुचितहेमचन्द्रव्याकरणस्थन्यायः ४४ इति । Page #96 -------------------------------------------------------------------------- ________________ श्लोक ६ अन्ययोगव्यवच्छेदिका ह्यनित्यत्वे परोत्पाद्यतया कृतकत्वप्राप्तिः, अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्युच्यते । यच्चापरस्तत्कर्ता कल्प्यते, स नित्योऽनित्यो वा स्यात् ? । नित्यश्चेत्–अधिकृतेश्वरेण किमपराद्धम् ? । अनित्यश्चेत् तस्याप्युत्पादकान्तरेण भाव्यम्। तस्यापि नित्यानित्यत्वकल्पनायाम्-अनवस्थादौस्थ्यामिति । तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तेति पराभ्युपगममुपदर्य उत्तरार्धेन तस्य दुष्टत्वमाचष्टे-इमाः-एताः, अनन्तरोक्ताः, कुहेवाकविडम्बनाः-कुत्सिता हेवाकाः-आग्रहविशेषाः कुहेवाकाः कदाग्रहा इत्यर्थः। त एव विडम्बनाः-विचारचातुरीबाह्यत्वेन तिरस्काररूपत्वाद् ‘विगोपकप्रकारः; स्युः भवेयुः तेषांप्रामाणिकापसदानां; येषां हे स्वामिन् त्वं, नानुशासकः-न शिक्षादाता। ___ तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तच्छब्दप्रयोगमसूयागर्भमाविर्भावयाञ्चकार स्तुतिकारः, तथा चैकमेव निन्दनीयं प्रति वक्तारो वदन्ति–स मूर्खः, स पापीयान्, स दरिद्र इत्यादि । त्वमित्येकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण-परमशितुः परमकारुणिकतयानपेक्षितस्वपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते । अतोऽत्रायमाशयः यद्यपि भगवानविशेषेण सकलजगजन्तुजातहितावहां सर्वेभ्य एव देशनावाचमाचष्टे, तथापि सैव केषाश्चिद् निचितनिकाचितपापकर्मकलुषितात्मनां रुचिरूपतया न परिणमते । १ 'नित्यानित्यविकल्पकल्पनायाम् ' इति क. पुस्तके पाठः। २ विशेषतया गोपनामकारा इत्यर्थः । 'विक्षेपप्रकाराः' इति च. पुस्तके पाठः। ३ 'च' इत्यधिकं क. पुस्तके । ४ 'चैवमेव ' इति रा. पुस्तके पाठः । ५ ' कल्माषितात्मनाम् ' इति क. ख. घ. पुस्तकेषु पाठः । Page #97 -------------------------------------------------------------------------- ________________ २७ स्याद्वादमञ्जरीसाहता श्लोक ६ अपुनर्बन्धकादिव्यतिरिक्तत्वेनायोग्यत्वात् । तथा च कादम्बयों बाणोऽपि बभाण-" अपगतमले हि मनसि स्फटिमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगणाःगुरुवचनममलमपि सलिलमिव महदुपजनति श्रवणस्थितं 3 शूलमभव्यस्य"इति।अतो वस्तुवृत्त्या न तेषां भगवाननुशासक इति' न चैतावता जगद्गुरोरसामर्थ्यसम्भावना । न हि कालदृष्टमनुज्जीवयन् समुज्जीवितेतरदृष्टको विषभिषगुपालम्भनीयः, अतिप्रसंगात् । स हि तेषामेव दोषः। न खलु निखिलभुवनाभोगमवभासयन्तोऽपि भानवीया भानवः कौशिकलोकस्यालोकहेतुतामभजमाना उपालम्भसम्भावनास्पदम् । तथा च श्रीसिद्धसेनः “सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नातं, खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः" ॥१॥ .. अथ कथमिव तत् कुहेवाकानां विडम्बनारूपत्वम् १, इति १ 'पावं ण तिव्वभावा कुणइ ण बहुमन्नई भवं घोरम् । उच्चि अठि इंच सेवइ सम्वत्थ वि अपुणबन्धोत्ति इति' ॥ इतिधर्मसंग्रहे तृतीयाधिकरणे। पापमशुद्धं कर्म तत्कारणत्वाद्धिंसाद्यपि पापम् । तन्नैव तीव्रभावाद्गाढसंक्लिष्टपरिणामात् करोति । अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्तीव्र इति विशेषणादापन्नम् । अतीव्रभावात्करोत्यपि । तथाविधकर्मदोषात्। तथा न बहु मन्यते न बहुमानविषयीकरोति भवं संसारं घोरं रौद्रं घोरत्वावगमात् । तथोचितस्थितिमनुरूपप्रातिपत्तिम् । चशब्दः समुच्चये । सेवते-भजते कर्मलाघवात्सर्वत्रापि । आस्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन मयूरशिशुदृष्टान्तादपुनर्बन्धकः उक्तनिर्वचनो जीव इत्येवंविधक्रियालिंगो भवतीति । अभिधानराजेन्द्रकोशे प्रथमभागे पृ. ६०७। २ बाणभट्टकृतकादम्बरी पूर्वार्ध पृ. १०३ पं. १०. ३ भानोः सूर्यस्यमे भानवीया भानवः किरणाः। ४ कौशिकलोकस्य- घूकसमुदायस्य । ५. द्वितीयद्वात्रिंशिका श्लोक १३ । ६ अनुप्तं क्षेत्रं खिलशब्देनाभिधीयते । Page #98 -------------------------------------------------------------------------- ________________ श्लोक ६ अन्ययोगव्यवच्छेदिका २८ ब्रूमः। यत्तावदुक्तं परैः-क्षित्यादयो बुद्धिमत्कर्तृकाः, कार्यत्वाद् घटवदिति । तदयुक्तम्, व्याप्तेरग्रहणात् । 'साधनं हि सर्वत्र व्याप्तौ प्रमाणेन सिद्धायां साध्यं गमयेत्' इति सर्ववादिसंवादः। सँचायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात् । सशरीरोऽपि किमस्मदादिवत् दृश्यशरीरविशिष्टः, उत पिशाचादिवददृश्यशरीराविशिष्टः । प्रथमपक्षे-प्रत्यक्षबाधः; तमन्तरेणापि च जायमाने तृणतरुपुरन्दरधनुरभ्रादौ-कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको हेतुः। द्वितीयाविकल्पे-पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणम्, आहोस्विदस्मदाद्यदृष्टवैगुण्यम् । प्रथमप्रकारः कोशपानप्रत्यायनीयः; तत्सिद्धौ प्रमाणाभावात्, इतरेतराश्रयदोषापत्तेश्च-सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरित्वं प्रत्येतव्यम्, तत्सिद्धौ च माहात्म्यविशेषसिद्धिारत। द्वैतीयिकस्तु प्रकारो-न संचरत्येव विचारगोचरे; संशयानिवृत्तेः-किं तस्यासत्त्वाद् अदृश्यशरीरत्वं वान्धेयादिवत्, किंवास्मदाद्यदृष्टवैगुण्यात् पिशाचादिवदिति निश्चयाभावात् । अशरीरश्चेत् तदा दृष्टान्तदाान्तिकयोवैषम्यम्-घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः; अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यम् ?, आकाशादिवत् । तस्मात् सशरीराशरीरलक्षणे पक्षद्वयेऽपि कार्यत्वहेतोाप्त्यसिद्धिः। १ कोशपानप्रत्यायनीयः-शपथेन विभावनीयः। २ वन्ध्याया अपत्यं पुमान् वान्ध्येयः। वन्ध्यापत्यमित्यर्थः । ३ 'अशरीरश्चेद्विरुद्धो हेतुः' इति क. पुस्तके पाठः । ततः परं 'वैषम्यम्' इत्येतत्पर्यन्तं क. पुस्तके न दृश्यते । ४ अशरीरोऽपीश्वरो न भवति कन्दलीकारवचनात् । यतो गृह्णातीश्वरः शरीरं दर्शयति चान्तरा विभूतीरिति । ख. पुस्तके टिप्पनी। Page #99 -------------------------------------------------------------------------- ________________ श्लोक ६ किञ्च, त्वन्मतेन कालात्ययापदिष्टोऽप्ययं हेतुः - धर्म्यकदेशस्य तरुविद्युद भ्रादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्ष बाधितधर्म्यनन्तरं हेतुभणनात् । तदेवं न कश्चिद जगतः कर्ता । एकत्वादीनि तु जगत्कर्तृत्वव्यवस्थापनायानीयमानानि तद्विशेषणानि षण्ढं प्रति कामिन्या रूपसंपन्नरूपणप्रायाण्येव; तथापि तेषां विचारासहत्वख्यापनार्थं किञ्चिदुच्यते । २९ स्याद्वादमञ्जरीसहिता " तत्रैकत्वचर्चस्तावत्-बहूनामेककार्यकरणे वैमत्यसम्भावना इति, नायमेकान्तः — अनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमूर्ध्नः अनेकशिल्पिकल्पितत्वेऽपि प्रासादादीनां नैकसरघोनिर्वर्तितत्वेऽपि मधुच्छत्रादीनां चैकरूपताया अविगाँनेनोपलम्भात् । अथैतेष्वप्येक एवेश्वरः कर्तेति ब्रूषे; एवं चेद् भवतो भवानीपतिं प्रति निष्पतिम वासना; तर्हि कुविन्दकुम्भकारादितिरस्कारेण पटघटादीनामपि कर्ता स एव किं न कल्प्यते ? । अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथमपह्नोतुं शक्यम् ? तर्हि कीटिकादिभिः किं तव विराद्धं ?, यत् तेषामसदृशतादृशप्रयाससाध्यं कर्तृत्वमेकहेलयैवापलप्यते । तस्माद् वैमत्यभयाद महोशितुरेकत्वकल्पना - भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्रकलत्रादिपरित्यजनेन शून्यारण्यानीसेवनमिवाभासते । तथा सर्वगतत्वमपि तस्य नोपपन्नम् - तद्धि शरीरात्मना, ज्ञानात्मना वा स्यात् ? । प्रथमपक्षे तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वाद् १ शक्रमूर्ध्नः- वल्मीकस्य । २ संरघा - मधुमक्षिका । ३ अनिन्दया । ४ निरुपमा श्रद्धा । ५ अपराद्धम् । ६ महदरण्यमरण्यानी । ७ ' आभासते ' इति रा. पुस्तके नास्ति । Page #100 -------------------------------------------------------------------------- ________________ श्लोक ६ अन्ययोगव्यवच्छेदिका इतरनिर्मेयपदार्थानामाश्रयानवकाशः। द्वितीयपक्षे तु सिद्धसाध्यता; अस्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्त्रयक्रोडीकरणाभ्युपगमात् । यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोधः-तत्र हि शरीरात्मना सर्वगतत्वमुक्तम्- “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतः पाणिरुत विश्वतः पाद्" इत्यादिश्रुतेः। यच्चोक्तं-तस्य प्रतिनियतदेशवर्तित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावनिर्माणानुपपत्तिरिति । तत्रेदं पृच्छयते स जगस्त्रयं निर्मिमाणस्तक्षादिवत् साक्षाद् देहव्यापारेण निर्मिमीते, यदि वा सङ्कल्पमात्रेण ? । आये पक्षे-एकस्यैव भूभूधरादेर्विधाने अक्षोदीयसः कालक्षेपस्य सम्भवाद् बंहीयसाप्यनेहसा न परिसमाप्तिः। द्वितीयपक्षे तु सङ्कल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वेऽपि न किञ्चिद् दूषणमुत्पश्यामः । नियतदेशस्थायिनां सामान्यदेवानामपि संकल्पमात्रेणैव तत्तत्कार्यसम्पादनप्रतिपत्तेः। किश्च तस्य सर्वगतत्वेऽङ्गीक्रियमाणे-अशुचिषु निरन्तरसन्तमसेषु नरकादिस्थानेष्वपि तस्य वृत्तिः प्रसज्ज्यते; तथा चानिष्टापत्तिः।अथ युष्मत्पक्षेऽपि यदा ज्ञानात्मना सर्व जगत्त्रयं व्यामोतीत्युच्यते, तदाशुचिरसास्वादादीनामप्युपालम्भसंभावनात् नरकादिदुःखस्वरूपसंवेदनात्मकतया दुःखानुभवप्रसङ्गाच्च, अनिष्टापत्तिस्तुल्यैवेति चेत् तदेतदुपपत्तिभिः प्रतिकर्तुमशक्तस्य धृलिभिरिवावकरणम् । यतो ज्ञानमप्राप्यकारि स्वस्थानस्थमेव विषयं परिच्छिनात्ति, न पुनस्तत्र गत्वा, १ शुक्लयजुर्वेदमाध्यन्दिनसंहितायां सप्तदशेऽध्याये १९ मन्त्रे। २ यद्वा देहस्य सर्वगतत्वेनावकाशं विना व्यापारासंभवात्--इत्याधिक क. पुस्तके । ३ 'उचितकार्य' इति क. पुस्तके पाठः। ४ 'प्रतिपत्तिः' इति क. पुस्तके पाठः। ५ 'स्थलेष्वपि ' इति रा. पुस्तके पाठः। ६ 'अवकिरणम् ' इति क. पुस्तके पाठः। Page #101 -------------------------------------------------------------------------- ________________ . श्लोक ६ ३१ स्याद्वादमञ्जरीसहिता तत्कुतो भवदुपालम्भः समीचीनः ? नहि भवतोऽप्यशुचिज्ञानमात्रेण तद्रसास्वादाऽनुभूतिः। तद्भावे हि स्रक्चन्दनाङ्गनारसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्धौ तत्प्राप्तिप्रयत्नवैफल्यप्रसक्तिरिति । . यत्तु ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्रागुक्तम्। तच्छक्तिमात्रमपेक्ष्य मन्तव्यम् । तथा च वक्तारो भवन्ति- अस्य मतिः सर्वशास्त्रेषु प्रसरति इति । न च ज्ञानं प्राप्यकारिः तस्यात्मधर्मत्वेन बहिनिर्गमाभावात् । बहिर्निर्गमे चात्मनोऽचैतन्यापत्त्या अजीवत्वप्रसङ्गः । न हि धर्मो धर्मिणमातरिच्य क्वचन केवलो विलोकितः । यच्च परे दृष्टान्तयन्ति- यथा सूर्यस्य किरणा गुणरूपा आप सूर्याद निष्क्रम्य भुवनं भासयन्ति, एवं ज्ञानमप्यात्मनः सकाशाद बहिर्निर्गत्य प्रमेयं परिच्छिनत्तीति। तत्रेदमुत्तरम्-किरणानां गुणत्वमासिद्धम् तेषां तैजसपुद्गलमयत्वेन द्रव्यत्वात् । यश्च तेषां प्रकाशात्मा गुणः, स तेभ्यो न जातु पृथग्भवतीति। तथा च धर्मसङ्ग्रहण्यां श्रीहरिभद्राचा पादाःकिरणां गुणा न व्वं, तेसि पगासो गुणो, णयादवी। जं नाणं आयगुणो कहमदव्वो स अन्नत्थ? ॥ ३७०॥ गन्तुंण परिच्छिन्दइ नाणं णेयं तयम्मि देसम्मि। आयत्थं चिय, नवरं अचिंतसत्ती उ विन्नेयं ॥ ३७१॥ लोहोवलस्स सत्ती आयत्था चेव भिन्नदेसंपि । लोहं आगरिसंती दीसह कजपचक्खा ॥ ३७२ ॥ एवमिह नाणसत्ती आयत्था चेव हंदि लोगंतं । जइ परिच्छिदइ सम्म को णु विरोहो भवे एत्थं ॥३७३॥ इत्यादि। १ 'एव' इत्याधिकं क. पुस्तके ।। २ अत्र मलयगिरीयवृत्तिः-"अधुना प्रकारान्तरेण परो दृष्टान्तदाष्टन्तिकयोवैषम्यमा Page #102 -------------------------------------------------------------------------- ________________ श्लोक ६ अन्ययोगव्यवच्छोदका - ३२ अथ सर्वगः सर्वज्ञ इति व्याख्यातम् । तत्रापि प्रतिविधीयतेननु तस्य सार्वयं केन प्रमाणेन गृहीतम् ?, प्रत्यक्षेण, परोक्षेण वा। न तावत् प्रत्यक्षेणः तस्येन्द्रियार्थसन्निकर्षोत्पन्नतयातीन्द्रियग्रहणासामर्थ्यात् । नापि परोक्षण; तद्धि अनुमानं, शाब्दं वा स्यात् ? न तावदनुमानम् । तस्य लिगिलिङ्गसम्बन्धस्मरणपूर्वकत्वात्'; न च तस्य सर्वज्ञत्वेऽनुमेये किश्चिदव्यभिचारि लिङ्गं पश्यामः; तस्यात्यन्तविप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्गसम्बन्धग्रहणाभावात् । . _____ अथ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यमनुफ्पद्यमानं-सर्वज्ञत्वमर्थादापादयतीति चेत् । न । आविनाभावाभावात्- न हि जगद्वैचित्री तत्सार्वज्यं विनान्यथा नोपपन्ना । द्विविधं हि जगत-स्थावरजङह-ननु किरणा गुणा न भवन्ति किन्तु द्रव्यं यस्तु तेषां किरणानां प्रकाशः स गुणो, न चासौ प्रकाशरूपो गुणोऽद्रव्यो द्रव्यदेशादन्यत्र वर्तते, ज्ञानं पुनरिदं यत् यस्मादात्मगुणस्ततः स कथमद्रव्यो द्रव्यरहितः सन् अन्यत्र आत्मदेशपरित्यागेन भवेत् ? , नैव भवेदिति भावः । तस्माल्लोकान्ते ज्ञानदर्शनादयमात्मा सर्वव्यापी प्रतीयत एव ॥ ३७० ॥ ___ तदेवं चिरादवबुध्यमानेन परेणाभिहिते सत्याचार्यः सम्यगुत्तरमाह-न ज्ञानं यस्मिन्देशे ज्ञेयमस्ति तस्मिन्देशे गत्वा ज्ञेयं परिच्छिनत्ति, नवरं किन्तु आत्मस्थमेव सत् तत् दूरदेशस्थस्यापि ज्ञेयस्य परिच्छेदकमचिन्त्यशक्तेर्विज्ञेयम् ॥ ३७१ ॥ अमुमेवार्थ दृष्टान्तन भावयतिलोहस्याकर्षक उपलः लोहोपलः । अत्राकृष्याकर्षकभावलक्षणसम्बन्धे षष्ठी। यथा राज्ञः पुरुष इत्यत्र पोष्यपोषकभावे । तस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि भिन्नस्थ (लस्थ) मपि लोहमाकृषन्ती दृश्यते, 'न च दृष्टेऽनुपपन्नं नाम' । अतीन्द्रियत्वाच्छक्तीनां कथं तस्या दर्शनर्मिति चेत् । अत आह । कार्यप्रत्यक्षा कार्य लोहाकर्षणलक्षणं प्रत्यक्षं यस्याः सा कार्यप्रत्यक्षा । एतदुक्तं भवति तत्कार्यस्य प्रत्यक्षत्वात् सापि दृश्यत इति व्यवह्रियत इत्यदोषः ॥ ३७२ ॥ तदेवं दृष्टान्तमभिधाय दाष्टान्तिके योजनामाह- . एवं लोहोपलशक्तिरिव " इह" जगति 'हंदीति' परामन्त्रणे, यदि ज्ञानरूपा । शक्तिरात्मस्थैव सती सम्यक् लोकान्तं परिच्छिनत्ति ततः को नु अत्र विरोधो भवेत् ?, नैव कश्चिदिति भावः ॥३७३॥” इति धर्मसंग्रहण्याम् । १ 'अतीन्द्रियार्थ' च, पुस्तके पाठः। Page #103 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ६ मभेदात् । तत्र जगमानां वैचित्र्यं-स्वोपात्तशुभाशुभकर्मपरिपाकवशेनैव । स्थावराणां तु सचेतनानामियमेव गतिः । अचेतनानां तु तदुपभोगयोग्यतासाधनत्वेनानादिकालसिद्धमेव वैचित्र्यमिति। नाप्यागमस्तत्साधकः, स हि-तत्कृतोऽन्यकृतो वा स्यात् ? । तत्कृत एव चेत् तस्य सर्वज्ञतां साधयति- तदा तस्य महत्त्वक्षतिःस्वयमेव स्वगुणोत्कीर्तनस्य महतामनधिकृतत्वात् । अन्यच्च, तस्य शास्त्रकर्तृत्वमेव न युज्यते; शास्त्रं हि वर्णात्मकम् ते च ताल्वादिव्यापारजन्याः; स च शरीरे एव सम्भवी; शरीराभ्युपगमे च तस्य पूर्वोक्ता एव दोषाः। अन्यकृतश्चेत् सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा ?। सर्वज्ञत्वे-तस्य द्वैतापत्त्या प्रागुक्ततदेकत्वाभ्युपगमबाधः; तत्साधकप्रमाणचर्यायामनवस्थापातश्च । असर्वज्ञश्वेत–कस्तस्य वचास विश्वासः । अपरं च भवदभीष्ट आगमः. प्रत्युत तत्प्रणेतुरसर्वज्ञत्वमेव साधयति; पूर्वापरविरुद्धार्थवचनोपेतत्वात् । तथाहि-'नं हिंस्यात् सर्वभूतानि ' इति प्रथममुक्त्वा , पश्चात् तत्रैव पठितम्"षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः।" ___तथा "अग्नीषोमीयं पशुमालभेत""सप्तदश प्राजापत्यान् पशूनालभेत" इत्यादि वचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते । तथा-"नानृतं ब्रूयात् " इत्यादिनाऽनृतभाषणं १ 'पाताश्च' इति क. घ. पुस्तकयोः पाठः । २ छां. ८ अ.। ३ ऐ. अ. ६-३। . ४ तै. सं. अ. १ अ. ४ Page #104 -------------------------------------------------------------------------- ________________ ३४ श्लोक ६ अन्ययोगव्यवच्छेदिका प्रथमं निषिध्य पश्चात् "ब्राह्मणार्थेऽनृतं ब्रूयात्" इत्यादि । तथा"न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि" ॥१॥ तथा “परद्रव्याणि लोष्टवत्" इत्यादिना अदत्तदानमनेकधा निरस्य, पश्चादुक्तम्-"यद्यपि ब्राह्मणो हठेन परकीयमादत्ते, छलेन वा, तथापि तस्य नादत्तादानम्; यतः सर्वमिदं ब्राह्मणेभ्यो दत्तम्; ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुज्यन्ते; तस्मापहरन् ब्राह्मणः स्वमादत्ते, स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते, स्वं ददाति" इति । तथा" अपुत्रस्य गतिर्नास्ति ” इति लपित्वा, "अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।। दिवंगतानि विप्राणामकृत्वा कुलसन्ततिम्"॥१॥ इत्यादि कियन्तो वा दधिमाषभोजनात् कृपणा विवेच्यन्ते; तदेवमागमोऽपि न तस्य सर्वज्ञतां वक्ति । किञ्च सर्वज्ञः सन्नसौ चराचरं चेद् विरचयति, तदा जगदुपप्लवकरणवैरिणः पश्चादपि कर्तव्यनिग्रहान् सुरवैरिणः, एतदधिक्षेपकारिणश्चास्मदादीन् किमर्थं सृजाति इति तन्नायं सर्वज्ञः। तथा स्ववशत्वं-स्वातन्त्र्यं; तदपि तस्य न क्षोदक्षमम्-स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते, परमकारुणिकश्च त्वया वर्ण्यते, तत् कथं सुखितदुःखिताद्यवस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् १ " उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥ ३६॥" वसिष्ठधर्मसूत्रम् अ. १६ सू. ३६ । २ अत्र धर्ममिति पदमध्याहृत्य हिनस्तीति क्रियापदेन तस्य संबन्धः कर्तव्यः । ३ मनुस्मृतौ अ. १ श्लो. १०१ इत्यत्राल्पांशेनैतत्समम् । . Page #105 -------------------------------------------------------------------------- ________________ ३५ श्लोक ६ स्याद्वादमञ्जरीसहिता एकान्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते ?) अथ जन्मान्तरोपार्जिततत्तत्तदीयशुभाशुभकर्मप्रेरितः सन् तथा करोतीति दत्तस्तर्हि स्ववर्शत्वाय जलाञ्जलिः। कर्मजन्ये च त्रिभुवनवैचित्र्ये शिपिविष्टहतुकविष्टपैसृष्टिकल्पनायाः कष्टैकफलत्वात्-अस्मन्मतमेवाङ्गीकृतं प्रेक्षावता। तथा चायातोऽयं " घट्टॉट्यां प्रभातम्" इति न्यायः। किञ्च, प्राणिनां धर्माधर्मावपेक्षमाणश्चेदयं सृजति, प्राप्तं तर्हि यदयमपेक्षते–तन्न करोतीति । न हि कुलालो दण्डादि करोति । एवं कर्मापेक्षश्वेदीश्वरो जगत्कारणं स्यात् तर्हि-कर्मणीश्वरत्वम्, ईश्वरोऽनीश्वरः स्यादिति । __तथा नित्यत्वमपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम्,। स खलु नित्यत्वेनैकरूपः सन् , त्रिभुवनसर्गस्वभावोऽतत्स्वभावो वा? प्रथमविधायां जगन्निर्माणात् कदाचिदपि नोपरमेत; तदुपरमे तत्स्वभावत्वहानिः । एवं च सर्गक्रियाया अपर्यवसानाद्-एकस्यापि कार्यस्य न सृष्टिः । घटो हि स्वारम्भक्षणादारभ्य परिसमाप्रुपान्त्यक्षणं यावद् निश्चयनयाभिप्रायेण न घटव्यपदेशमासादयात; जलाहरणाद्यर्थक्रियायामसाधकतमत्वात् । . अतत्स्वभावपक्षे तु-न जातु जगन्ति सृजेत् तत्स्वभावायोगाद, गगनवत् । अपि च तस्यैकान्तनित्यस्वरूपत्वे सृष्टिवत् संहारोऽ १ स्ववशत्वं नष्टमित्यर्थः । २. शिपिविष्टः-महेश्वरः । स्याद्योमकेशः शिपिविष्टभैरवौ' । इत्यभिधानचिन्तामणौ द्वितीयकाण्डे श्लो. ११२ । . ३ विष्टपं-विश्वं 'स्याल्लोको विष्टपं विश्वम्' इत्यभिधानचिन्तामणौ षष्ठकाण्डे श्लो. १॥ ___४ उद्देश्यासिद्धिर्यत्र प्रतीयते तत्रायं न्याय उपयुज्यते । न्यायार्थः-कश्चित् शाकटिको मध्येमार्ग राजदेयं द्रव्यं दातुमनिच्छन्मार्गान्तरं समासादयति परं रात्रौ भ्रष्टमार्गः प्रभाते राजग्राह्यद्रव्यग्राहिकुटीसविधावेवागच्छति । तेन तदुद्देश्यं न सिध्यतीति । ५ विचारासहमित्यर्थः। ..६ 'स्वारम्भण' इति क. पुस्तके पाठः । Page #106 -------------------------------------------------------------------------- ________________ श्लोक ६ अन्ययोगव्यवच्छेदिका ३६ पि न घटते । नानारूपकार्यकरणेऽनित्यत्वापत्तेः । स हि येनैव स्वभावेन जगन्ति सृजेत् तेनैव तानि संहरेत्, स्वभावान्तरेण वा । तेनैव चेत्, सृष्टिसंहारयोयौगपद्यप्रसङ्गः, स्वभावाभेदात् एकस्वभावात् कारणादनेकस्वभावकार्योत्पत्तिविरोधात् । स्वभावान्तरण चेद् नित्यत्वहानिः-स्वभावभेद एव हि लक्षणमनित्यतायाः। यथा पार्थिवशरीरस्याहारपरमाणुसहकृतस्य प्रत्यहमपूर्वापूर्वोत्पादेन स्वभावभेदादनित्यत्वम् । इष्टश्च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः-रजोगुणात्मकतया सृष्टौ, तमोगुणात्मकतया संहरणे, सात्त्विकतया च स्थिती, तस्य व्यापारस्वीकारात् । एवं चावस्थाभेदः, तद्भेदे चावस्थावतोऽपि भेदाद् नित्यत्वक्षतिः। .. ___ अथास्तु नित्यः, तथापि कथं सततमेव सृष्टौ न चेष्टते ?। इच्छावशात् चेत्, ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनात्मलाभाः सदैव किं न प्रवर्तयन्तीति स एवोपालम्भः । तथा शम्भोरष्टगुणाधिकरणत्वे, कार्यभेदानुमेयानां तदिच्छानामपि विषमरूपत्वाद नित्यत्वहानिः केन वार्यते ? इति। । किञ्च, प्रेक्षावतां प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ता; ततश्चायं जगत्सर्गे व्याप्रियते-स्वार्थात्, कारुण्याद् वा ?। न तावत् स्वार्थात् तस्य कृतकृत्यत्वात् । न च कारुण्यात; परदुःखप्रहाणेच्छा हि कारुण्यम् । ततः प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम् । सर्गोत्तरकाले तु दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयम्-कारुण्येन सृष्टिः सृष्टया च कारुण्यम् इति नास्य जगत्कर्तृत्वं कथमाप सिद्धयति। १ 'सः' इत्यधिक रा. पुस्तके । २ 'सततसृष्टौ' इति क. पुस्तके पाठः। ३ 'चेत्' इति क. पुस्तके नास्ति । ४ बुद्धीच्छाप्रयत्नसंख्यापरिमाणपृथक्त्वसंयोगविभागाख्या अष्टौ गुणाः । Page #107 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ७ तदेवमेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाकःस खलु केवलं बलवन्मोहविडम्बनापरिपाक इति। अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति-यथा इमाः कुहेवाकविडम्बनास्तेषां न स्युर्येषां त्वमनुशासकः इति; तथापि सोऽर्थः सहृदयैर्न हृदये धारणीयः; अन्ययोगव्यवच्छेदस्याधिकृतत्वात् । इति काव्यार्थः ॥ ६॥ __अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता आप समवायसम्बन्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशमश्नुवते, इति तन्मतं दृषयन्नाह न धर्मधर्मित्वमतीवभेदे वृत्त्याऽस्ति चेद् न त्रितयं चकास्ति। इहेदमित्यस्ति मतिश्च वृत्तौ, . न गौणभेदोऽपि.च लोकबाधः॥७॥ धर्मधार्मणोरतीवभेदे-अतीवेत्यत्र--इवशब्दो वाक्यालंकारे तं चप्रायोऽतिशब्दात,किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः यथा--"आवर्जिता किञ्चिदिव स्तनाभ्याम्" "उद्वृत्तः क इह सुखावहः परे । १ 'केवलं' इति क. पुस्तके नास्ति । २ मध्यमणिन्यायः, देहलीदीपकन्यायस्तद्वदेवायं घण्टालालान्याय उपयुज्यते । ३ उत्पन्न द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठतीति समयात् गुणानां गुणिनो व्यतिरिक्तत्वम् । ४ 'अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स समवायः' इति प्रशस्तपादभाष्ये समवायप्रकरणे । ५ इति पदं रा. पुस्तके नास्ति । ६ कुमारसम्भवमहाकाव्ये तृतीयसर्गे श्लो. ५४ । ७ शिशुपालवधमहाकाव्ये । Page #108 -------------------------------------------------------------------------- ________________ श्लोक ७ अन्ययोगव्यवच्छेदिका षाम् ' " इत्यादि । ततश्च धर्मधर्मिणोः अतीव भेदे - एकान्तभिन्नत्वेङ्गीक्रियमाणे, स्वभावहाने धर्मधर्मित्वं न स्यात् - अस्य धर्मिण इमे धर्माः येषां च धर्माणामयमाश्रयभूतो धर्मी इत्येवं सर्वप्रसिद्धो धर्मधर्मिव्यपदेशो न प्राप्नोति । तयोरत्यन्तभिन्नत्वेऽपि तत्कल्पनायांपदार्थान्तर धर्माणामपि विवक्षितधर्मधर्मित्वापत्तेः । ३८ एवमुक्ते सति परः प्रत्यवतिष्ठते - वृत्त्यास्तीति - अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्यय हेतुः सम्बन्धः समवायः स च समवयनात् समवाय इति द्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिरिति चाख्यायते । तया वृत्त्या समवायसम्बन्धेन तयोर्धर्मधर्मिणोः - इतरेतरविनिलुण्ठितत्वेऽपि धर्मधर्मिन्यपदेश इष्यते इति नानन्तरोक्तो दोष इति । अत्राचार्यः समाधत्ते - चेदिति यद्येवं तव मतिः-सा प्रत्यक्षप्रतिक्षिप्ता, यतो न त्रितयं चकास्ति । अयं धर्मी, इमे चास्य धर्माः अयं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत् त्रितयं वस्तुत्रयं न चकास्ति - ज्ञानविषयतया न प्रतिभासते । यथा किल शिलाशकलयुगलस्य मिथोऽनुसन्धायक रालादिद्रव्यं तस्मात् पृथक् तृतीयतया प्रतिभासते; नैवमत्र समवायस्यापि प्रतिभानंम्, किन्तु द्वयोरेव धर्मधर्मिणोः इति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थः । - किञ्च, अयं तेन वादिना एको, नित्यः, सर्वव्यापकः अमूर्तश्च परिकल्प्यते । ततो यथा घटाश्रिताः पाकजरूपादयो धर्माः समवायसम्बन्धेन घंटे समवेताः तथा किं न पटेऽपि ?; तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात् । ३ 'धर्मधर्मिणोरतीवभेदे' इति तथाग्रे 'स्वभावह। ने:' इति रा. पुस्तके नास्ति । ४ 'प्रतिभासनम्' इति क, पुस्तके पाठः । Page #109 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ७ यथाकाश एको, नित्यो, व्यापकः, अमूर्तश्च सन्-सर्वैः सम्बन्धिभिर्युगपदविशेषेण सम्बध्यते, तथा किं नायमपीति ?। विनश्यदेकवस्तुसमवायाभावे च समस्तवस्तुसमवायाऽभावः प्रसज्ज्यते । तत्तदवच्छेदकभेदाद् नायं दोष इति चेत् , एवमनित्यत्वापत्तिः; प्रतिवस्तुस्वभावभेदादिति। अथ कथं समवायस्य न ज्ञाने प्रतिभानम् । यतस्तस्येहेतिप्रत्ययः सावधानं साधनम् इह प्रत्ययश्चानुभवसिद्ध एव । इह तन्तुपु पटः, इहात्मनि ज्ञानम्, इह घटे रूपादय इति प्रतीतेरुपलम्भात् । अस्य च प्रत्ययस्य केवलधर्मधर्म्यनालम्बनत्वादस्ति समवायाख्यं पदार्थान्तरं तद्धेतुः; इति पराशङ्कामभिसन्धाय पुनराह-इहेदमित्यस्ति मतिश्च वृत्ताविति-इहेदमिति-इहेदमिति आश्रयाश्रयिभावहतुक इहप्रत्ययो वृत्तावप्यस्ति-समवायसंबन्धेऽपि विद्यते। चशब्दोऽपिशब्दार्थः तस्य च व्यवहितः; सम्बन्धः, तथैव च व्याख्यातम् । __ इदमत्र हृदयम्-यथा त्वन्मते पृथिवीत्वाभिसंबन्धात् पृथिवी, तत्र पृथिवीत्वं पृथिव्या एव स्वरूपमस्तित्वाख्यं नापरं वस्त्वन्तरम् । तेन स्वरूपेणैव समं योऽसावभिसम्बन्धः पृथिव्याः स एव समवाय इत्युच्यते; "प्राप्तानामेव प्राप्तिःसमवायः" इति वचनात् । एवं समवायत्वाभिंसम्बन्धात् समवाय इत्यपि किंन कल्प्यते ? ; यतस्तस्यापि यत् समवायत्वं स्वस्वरूपं, तेन साध सम्बन्धोऽस्त्येव, अन्यथा निःस्वभावत्वात् शशविषाणवदवस्तुत्वमेव भवेत् । ततश्च इह समवाये समवायत्वम् इत्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्तया घटत एव ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं, एवं समवायेऽपि १ 'न' इति क. पुस्तके पाठः । २ 'वस्त्वन्तरम्' इति ख, पुस्तके नास्ति । ३ ' यतो यथा' इति घ. पुस्तके पाठः। .४ ' समवायेऽपि समवायत्वमेवम् ' इति रा. पुस्तके पाठः । Page #110 -------------------------------------------------------------------------- ________________ श्लोक ७ अन्ययोगव्यवच्छेदिका समवायत्वं समवायान्तरण सम्बन्धनीयम् तदप्यपरेण, इत्येवं दुस्तरानवस्थामहानदी। ___ एवं समवायस्यापि समवायत्वाभिसम्बन्धे युक्तया उपपादिते, साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी वदति-ननु पृथिव्यादीनां पृथिवीत्वाद्यभिसम्बन्धनिबन्धनं समवायो मुख्यः, तत्र त्वतलादिप्रत्ययाभिव्यङ्ग्यस्य सङ्ग्रहीतसकलावान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योद्भवात् । इह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जातेरनुद्भूतत्वाद् गौणोऽयं युष्मत्परिकल्पित. इहेतिप्रत्ययसाध्यः समवायत्वाभिसम्बन्धः, तत्साध्यश्च समवाय इति । तदेतद् न विपश्चिचमत्कारकारणम् यतोऽत्रापि जातिरुद्भवन्ती केन निरुध्यते ? । व्यक्तेरभेदेनेति चेत्। न । तत्तदवच्छेदकवशात् तद्भेदोपपत्ती व्यक्तिभेदकल्पनाया दुर्निवारत्वात् । अन्यो घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति; तत्सिद्धौ सिद्ध एव जात्युद्भवः। तस्मादन्यत्रापि मुख्य एव समवायः; इहप्रत्ययस्योभयत्राप्यव्यभिचारात् । तदेतत्सकलं सपूर्वपक्षं समाधानं मनसि निधाय सिद्धान्तवादी प्राह न गौणभेद इति-गौण इति योऽयं भेदः-स नास्ति; गौणलक्षणाभावात् । तल्लक्षणं चेत्थमाचक्षते" अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः सति मुख्य धीः कथं गौणे?॥१॥" . तस्माद् धर्मधर्मिणोः सम्बन्धने मुख्यः समवायः, समवाये च समवायत्वाभिसम्बन्धे गौण इत्ययं भेदो नानात्वं नास्तीति भावार्थः। १ 'अपि' इति क. पुस्तके नास्ति । २ 'विपश्चिचेत' । इति ह, रा. पुस्तकयोः पाठः। ३ 'ध्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः । रूपहानिरसम्बन्धी जातिबाधकसंग्रहः'। इति किरणावल्यामुदयनाचार्यकृतायाम् । Page #111 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ८. किञ्च योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात् समवायसाधनमनोरथः- स खल्वनुहरते नपुंसकादपत्यप्रसवमनोरथम् इह तन्तुषु पट इत्यादेर्व्यवहारस्यालौकिकत्वात्, पांशुलंपादानामाप. इह पटे तन्तव इत्येव प्रतीतिदर्शनात्; इह भूतले घटाभाव इत्यत्रापि समवायप्रसङ्गात् । - अत एवाह-अपि च लोकबाध इति--अपि चेति--दृषणाभ्युच्चये, लोकः-प्रामाणिकलोकः, सामान्यलोकश्चः तेन बाधो-विराधः, लोकबाध; तदप्रतीतव्यवहारसाधनात; बाधशब्दस्य “ईहाद्याः प्रत्ययभेदतः" इति पुंस्त्रीलिङ्गता । तस्माद्धर्मधर्मिणोरविष्वग्भावलक्षण एव सम्बन्धः प्रतिपत्तव्यो नान्यः समवायादिः । इति काव्यार्थः ॥७॥ अथ सत्ताभिधानं पदार्थान्तरम्, आत्मनश्च व्यतिरिक्तं ज्ञानाख्यं गुणम्, आत्मविशेषगुणोच्छेदस्वरूपां च मुक्तिम्, अज्ञानाद्गीकृतवतः परानुपहसन्नाह सतामपि स्यात् कचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । .... न संविदानन्दमयी च मुक्तिः - सुसूत्रमासूत्रितमत्वदीयैः ॥८॥ ___ वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थास्तत्त्वतयाभिप्रेताः तत्र " पृथिव्यापस्तेजो वायुराकाशः १ अनुहरते-अनुकरोति । २ पांशुलपादाः-धूलिधूसरपादा अचिरादेवागताः । अप्रकरणशा इत्यर्थः । ३ हैमलिङ्गानुशासने पुंस्त्रीलिङ्गप्रकरणे श्लो. ५ । ४ वैशेषिकदर्शनस्य प्रथमाध्यायस्य प्रथमाह्निके सूत्र ५ । Page #112 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका ___४२ कालो दिगात्मा मन" इति नव द्रव्याणि । गुणाश्चतुर्विंशतिः; तद्यथा-" रूपरंसगन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च" इति मूत्रोक्ताः सप्तदश । चशब्दसमुचिताश्च सप्त-- द्रवत्वं, गुरुत्वं, संस्कारः, स्नेहो, धर्माधर्मी, शब्दश्च, । इत्येवं चतुविंशतिर्गुणाः । संस्कारस्य वेगभावनास्थितिस्थापकभेदाद् त्रैविध्येऽपि-संस्कारत्वजात्यपेक्षया एकत्वात्, शौर्यौदार्यादीनां चात्रैवान्तर्भावाद् नाधिक्यम् । कर्माणि पञ्च, तद्यथा-उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति । गमनग्रहणाद्-भ्रमणरेचनस्यन्दनाद्यविरोधः। अत्यन्तव्यावृत्तानां पिण्डानां यतः कारणाद-अन्योऽन्यस्वरूपानुगमः प्रतीयते, तदनुवृत्तिप्रत्ययहेतुः सामान्यम् । तच्च द्विविधंपरमपरं च । तत्र परं--सत्ता, भावो, महासामान्यामिति चोच्यते; द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्यं च द्रव्यत्वादि । एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते; तथाहि-द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम् ; गुणकर्मभ्यो व्यावृत्तत्वाद् विशेषः । ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं, तदपेक्षया घटत्वादिकम् । एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यम् ; द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः। एवं गुणत्वापेक्षया रूपत्वादिकं, तदपेक्षया नीलत्वादिकम् , एवं पञ्चसु १ वैशेषिकदर्शनस्य प्रथमाध्याये प्रथमाह्निके सूत्र ६ ( किंचित्पाठभेदः) १ प्रशस्तपादभाष्ये उद्देशप्रकरणे । - ३ ऊर्ध्वदेशसंयोगकारणं कर्मोत्क्षेपणम् । अधोदेशसंयोगकारणं कर्मापक्षेपणम् । वक्रत्वापादकं कर्माकुञ्चनम् । ऋजुत्वापादकं कर्म प्रसारणम् अनियतदेशसंयोगकारणं कर्म गमनम् । प्रशस्तपादभाष्ये उद्देशप्रकरणे । ४ ' द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ' । कारिकावली प्रत्यक्षखण्डे का. ८ । Page #113 -------------------------------------------------------------------------- ________________ ४३ स्याद्वादमञ्जरीसहिता श्लोक ८ कर्मसु . वर्तमानत्वात् कर्मत्वं सामान्यम् ; द्रव्यगुणेभ्यां व्यावृत्तत्वाद् विशेषः । एवं कर्मश्वापेक्षया उत्क्षेपणत्वादिकं ज्ञेयम् । 1 तत्र सत्ता - द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्तया ?, इति चेद् उच्यते । न द्रव्यं-सत्ता, द्रव्यादन्येत्यर्थः ; एकद्रव्यवत्त्वाद् - एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववत् - यथा द्रव्यत्वं - नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं सत्तापि । वैशेषिकाणां हि अद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वा द्रव्यम् । तत्राद्रव्यं द्रव्यं आकाशः, कालो, दिगात्मा, मनः, परमाणवः ; अनेकद्रव्यं तु व्यणुकादिस्कन्धाः ; एकद्रव्यं तु द्रव्यमेव न भवति; एकद्रव्यवतीं च सत्ता, इति द्रव्यलक्षणविलक्षणत्वाद न द्रव्यम् । एवं न गुणः - सत्ता; गुणेषु भावाद्, गुणत्ववत् । यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्तेत; निर्गुणत्वाद् गुणानाम्; वर्तते चगुणेषु सत्ता; सन् गुण इति प्रतीतेः । तथा न सत्ता - कर्मः कर्मसु भावात्, कर्मत्ववत् । यदि च सत्ता कर्म स्याद् न तर्हि कर्मसु वर्तेत; निष्कर्मत्वात् कर्मणाम् ; वर्तते च कर्मसु भावः । सत् कर्मेति प्रतीतेः; तस्मात् पदार्थान्तरं सत्ता । I • तथा विशेषाः - नित्यद्रव्यवृत्तयः, अन्त्याः - अत्यन्तव्यावृत्ति हेतवः, ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम् । तथा च प्रशस्तकरः“अन्त्येषु भवा अन्त्याः; स्वाश्रयविशेषकत्वाद् विशेषाः । विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु - प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्ति - १' वर्तनात् ' इति ह. रा. पुस्तकयोः पाठः । २ द्रव्यं द्विधा । अद्रव्यमनेकद्रव्यं च । न विद्यते द्रव्यं जन्यतया जनकतया च यस्य तदद्रव्यं द्रव्यम् । यथाकाशकालादि । अनेकं द्रव्यं जन्यतया च जनकतया च यस्य तदनेकद्रव्यं द्रव्यम् । इति ख. पुस्तक टिप्पन्याम् | ३ विशेषप्रकरणे प्रशस्तपादभाष्ये पृ. १६८ । Page #114 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका बुद्धिहेतवः । यथास्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवोपचयावयवसंयोगनिमित्ता प्रत्ययव्यावृतिर्दृष्टा-गौः शुक्लः शीघ्रगतिः पीनः ककुद्मान् महाघण्ट इति; तथाऽस्मद्विशिष्टानां योगिनां-नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु, मुक्तात्ममनस्सु चान्यनिमित्तासम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमितिप्रत्ययव्यावृत्तिः, देशकालविप्रकृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषाः" इति । अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः; व्यावृत्तेरेव हेतुत्वात् । तथा अयुतसिद्धानामाधार्याधारभूवानामिहप्रत्ययहेतुः सम्बन्धः समवाय इति । अयुतसिद्धयोः परस्परपरिहारण पृथगाश्रयानाश्रितयोराश्रयाश्रयिभावः इह तन्तुषु पटः इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायः । यद्वशात् . स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तत्त्वाद्याधारे सम्बध्यते; यथा छिदिक्रिया छेद्येनेति; सोऽपि द्रव्यादिलक्षणवैधात् पदार्थान्तरमिति षट् पदार्थाः। साम्पतमक्षरार्थो व्याक्रियते सतामपीत्यादि सतामपि-सद्भुद्धिवेद्यतया साधारणानामपि, षण्णां पदार्थानां मध्ये कचिदेवकेषुचिदेव पदार्थेषुः सत्ता-सामान्ययोगः, स्याद्-भवेत्, न सर्वेषु । तेषामेषा वाचोयुक्तिः–सदिति, यतो-द्रव्यगुणकर्मसु सा सत्ताइति वचनाद्-यत्रैव सत्प्रत्ययस्तत्रैव सत्ताः सत्प्रत्ययश्च-द्रव्यगुणकर्मस्वेव, अतस्तेष्वेव, सत्तायोगः । सामान्यादिपदार्थत्रये तु न; तदभावात् । इदमुक्तं भवति--यद्यपि वस्तुस्वरूपं-अस्तित्वं सामान्यादित्रयेऽपि विद्यते; तथापि तदनुवृत्तिप्रत्ययहेतुर्न भवति; य एव १ ' विशेषसंयोग' इत्यपपाठः । प्रशस्तपादभाष्येऽनुपलब्धेः । Page #115 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ८ चानुवृत्तिप्रत्ययः स एव सदितिप्रत्यय इति, तदभावाद् न सत्ता. योगस्तत्र । द्रव्यादीनां पुनस्त्रयाणां षट्पदार्थसाधारणं वस्तुस्वरूपम् अस्तित्वमपि विद्यते, अनुवृत्तिप्रत्ययहेतुः सत्तासम्बन्धोऽप्यस्ति, निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात् । सामान्यादित्रिके कथं नानुवृत्तिप्रत्ययः ? । इति चेद्बाधकसद्भावादिति ब्रूमः । तथाहि-सत्तायामपि सत्तायोगाङ्गीकारे-अनवस्था । विशेषेषु पुनस्तदभ्युपगमे-व्यावृत्तिहेतुत्वलक्षणतत्स्वरूपहा - निः । समवाये तु तत्कल्पनायां सम्बन्धाभावः; केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते ?, समवायान्तराभावात् । तथा च प्रामाणिकप्रकाण्डमुदयनः-- "व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः" ॥१॥ इति । ततः स्थितमेतत्सतामाप स्यात् कचिदेव सत्तेति।। तथां, चैतन्यमित्यादि, चैतन्य-ज्ञानम्, आत्मनः-क्षेत्रज्ञान, अन्यद्-अत्यन्तव्यतिरिक्तम् , असमासकरणादत्यन्तमिति लभ्यते । अत्यन्तभेदे सति कथमात्मनः सम्बन्धिज्ञानमिति व्यपदेशः ?, इति पराशङ्कापरिहारार्थ औपाधिकमिति विशेषणद्वारेण हेत्वभिधानम् । उपाधेरागतमोपाधिकम्-समवायसम्बन्धलक्षणेनोपाधिना आत्मनि समवेतम् , आत्मनः स्वयं जडरूपत्वात् समवायसम्बन्धो'पंढौकितामति यावत् । यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद् १ किरणावल्यां द्रव्यप्रकरणे पृष्ठ १६१ । २' तथा ' इति क. पुस्तके नास्ति । ३ तत्वज्ञानान्मिथ्याज्ञानापाये रागद्वेषमोहारव्या दोषा अपयान्ति, दोषापाये वाङ्मनःकायव्यापाररूपायाः शुभाशुभफलायाः प्रवृत्तेरपायः । प्रवृत्त्यपाये जन्माषायः । जन्मापाये एकविंशतिभेदस्य दुःखस्यापायः । Page #116 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका बुद्धयादीनां नवानामात्मविशेषगुणानामुच्छेदावसर आत्मनोऽप्युच्छेदः स्यात् , तदव्यतिरिक्तत्वात् ; अतो भिन्नमेवात्मनो ज्ञानं यौक्तिकमिति । ___ तथा न संविदित्यादिः मुक्तिः-मोक्षः न संविदानन्दमयीन ज्ञानसुखस्वरूपा । संविद-ज्ञानं, आनन्दः-सौख्यम्, ततो द्वन्द्वः, संविदानन्दौ प्रकृतौ यस्यां सा संविदानन्दमयी, एतादृशी न भवति बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानामात्मनो वैशेषिकगुणानामत्यन्तोच्छेदो मोक्ष इति वचनात् । चशब्दः पूर्वोक्ताभ्युपगमद्वयसमुच्चये । ज्ञानं हि क्षणिकत्वादनित्यं, सुखं च समक्षयतया सातिशयतया च न विशिष्यते संसारावस्थातः, इति तदुच्छेद आत्मस्वरूपेणावस्थानं मोक्ष इति । प्रयोगश्चात्र-नवानामात्मविशेषगुणानां सन्तानः-अत्यन्तमुच्छिद्यते, सन्तानत्वात्, यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यते, यथा प्रदीपसन्तानः, तथा चायम्, तस्मात्तदत्यन्तमुच्छिद्यत इति । तदुच्छेद एव महोदयः, न कृत्स्नकर्मक्षयलक्षण इति । " न हि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः"। इत्यादयोऽपि वेदान्तास्तादृशीमेव मुक्तिमादिशन्ति । अत्र हि प्रियाप्रियेसुखदुःखे, ते चाशरीरं--मुक्तं न स्पृशतः। अपि च-"यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः। तावदात्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते ॥१॥ धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः। मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः॥२॥ १ ‘सुखम् ' इति क, पुस्तके पाठः । २ पूर्वोक्तयोः सत्ताशानयोः । ३ न वै सशरोरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः । इति छां. अ. ८१२ । Page #117 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ८ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥३॥ इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥४॥ तदेवं धिषणादीनां नवानामपि मूलतः। गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ॥५॥ ननु तस्यामवस्थायां कीदृगात्मावशिष्यते ? । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ ६॥ ऊर्मिषटकातिगं रूपं तदस्याहर्मनीषिणः । संसारबन्धनाधीनदुःखकेशाद्यदूषितम् ॥७॥ कामक्रोधलोभगर्वदम्भहर्षा-ऊर्मिषट्कमिति" तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिः, अत्वदीयैः-त्वदाज्ञाबहिर्भूतैः, कणादमतामुगामिभिः, सुसूत्रमासूत्रितम्-सम्यगागमः प्रपञ्चितः। अथवा सुसूत्रामिति क्रियाविशेषणम् ; शोभनं सूत्रं वस्तुव्यवस्थाघटनाविज्ञानं यत्रैवमासूत्रितं-तत्तच्छास्त्रार्थोपनिबन्धः कृतः, इति हृदयस् । " सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः”। इत्यनेकार्थवचनात् । अत्र. च सुसूत्रमिति विपरीतलक्षणयोपहासगर्भ प्रशंसावचनम् । यथा-" उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् ।" इत्यादि । उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकाराणाम् । तथाहि-अविशेषेण सद्बुद्धिवद्येष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासम्बन्धः स्वीक्रियते, न सामान्यादित्रये, १ " प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूढते । जरामृत्यू शरीरस्य षडूमिरहितः शिवः " ॥ इति पुराणे । ख. पुस्तकाटप्पन्याम् । २ हेमचन्द्रकृतेऽनेकार्थसंग्रहे द्वितीयकाण्डे श्लो. ४५८ । ३ “विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्" इत्युत्तरार्धम् । Page #118 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका ४८ इति महतीयं पश्यतोहरता । यतः परिभाव्यतां सत्ताशब्दार्थःअस्तीति सन् , सतो भावः सत्ता, अस्तित्वं तद्वस्तुस्वरूप; तच्च निर्विशेषमशेषेष्वपि पदार्थेषु त्वयाप्युक्तम् , तत्किमिदमर्द्धजरतीयं-- यद् द्रव्यादित्रय एव सत्तायोगो, नेतरत्र त्रये ? इति । . अनुवृत्तिप्रत्ययाभावाद् न सामान्यादित्रये सत्तायोग इति चेत् । न तत्राप्यनुवृत्तिप्रत्ययस्यानिवार्यत्वात् । पृथिवीत्वगोत्वघटत्वादिसामान्येषु सामान्यं सामान्यमिति; विशेषेष्वापि बहुत्वाद्अयमाप विशेषोऽयमपि विशेष इति; समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदाद्-एकाकारप्रतीतेरनुभवात् । । स्वरूपसत्त्वसाधर्येण सत्ताध्यारोपात् सामान्यादिष्वपि सत् सदित्यनुगम इति चेत्, तर्हि मिथ्याप्रत्ययोऽयमापद्यते । अथं भिन्नस्वभावेष्वेकानुगमो मिथ्यैवेति चेद् द्रव्यादिष्वपि सत्ताध्यारोपकृत एवास्तु प्रत्ययानुगमः नैवम् । असति मुख्येऽध्यारोपस्यासम्भवाद्द्रव्यादिषु मुख्योऽयमनुगतैः प्रत्ययः, सामान्यादिषु तु गौण इति चेत् न विपर्ययस्यापि शक्यकल्पनत्वात् । सामान्यादिषु बाधकसम्भवाद्-न मुख्योऽनुगतः प्रत्ययः, द्रव्यादिषु तु तदभावाद् मुख्य इति चेद् ; ननु किमिदं बाधकम् । अथ सामान्येऽपि सत्ताऽभ्युपगमे-अनवस्था; विशेषेषु पुनः सामान्यसद्भावे-स्वरूपहानिः, समवायेऽपि सत्ताकल्पने-तद्वृत्त्यर्थ सम्बन्धान्तराभाव इति बाधकानीति चेत् । न; सामान्येऽपि सत्ताकल्पने यद्य १ पश्यतोहरश्चौरः । पश्यतोहरता चौर्यम् । २ षण्णां पदार्थानां साधर्म्यमस्तित्वं ज्ञेयत्वमभिधेयत्वं च इति प्रशस्तकारवचनात् । इति ख, पुस्तकटिप्पन्याम् । ३ अर्धा जरती अर्धा युवतिरितिवत् । ४ 'नैवम् ' इति नास्ति रा. ह. पुस्तकयोः । ५ ' अनुगमप्रत्ययः' इति क, पुस्तके पाठः। ६ ' अनुगमप्रत्ययः' इति क. पुस्तके पाठः । Page #119 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ८ नवस्था, तर्हि कथं न सा द्रव्यादिषु ? ; तेषामपि स्वरूपसत्तायाः प्रागेव विद्यमानत्वात् । विशेषेषु पुनः सत्ताभ्युपगमेऽपि न रूपहानिः; स्वरूपस्य प्रत्युतोत्तेजनात् ; निःसामान्यस्य विशेषस्य कचिदप्यनुपलम्भात् । समवायेऽपि समवायत्वलक्षणायाः स्वरूपसत्तायाः स्वीकार उपपद्यत एवाविष्वग्भावात्मकः सम्बन्धः , अन्यथा तस्य स्वरूपाभावप्रसङ्गः, इति बाधकाभावात् तेष्वपि द्रव्यादिवद् मुख्य एव सत्तासम्बन्धः, इति व्यर्थ द्रव्यगुणकर्मस्वेव सत्ताकल्पनम् । किश्च तैर्वादिभिर्यो द्रव्यादित्रये मुख्यः सत्तासम्बन्धः कक्षीकृतः, सोऽपि विचार्यमाणो विशीर्येत । तथाहि-यदि द्रव्यादिभ्योऽत्यन्तविलक्षणा सत्ता, तदा द्रव्यादीन्यसद्रूपाणि स्युः । सत्तायोगात सत्त्वमस्त्येवेति चेत्; असतां सत्तायोगेऽपि कुतः सत्त्वम् ? ; सतां तु निष्फलः सत्तायोगः । स्वरूपसत्त्वं भावानामस्त्येवोत चेत्, तर्हि किं शिखण्डिंना सत्तायोगेन? । सत्तायोगात् प्राग् भावो न सन् , नाप्यसन् , सत्तायोगात् तु सनिति चेद; वाङ्मात्रमेतत्; सदसद्विलक्षणस्य प्रकारान्तरस्यासम्भवात्। तस्मात् सतामपि स्यात् कचिदेव सत्तेति तेषां वचनं विदुषां परिषदि कथमिव नोपहासाय जायते ? । ज्ञानमाप यद्येकान्तेनात्मनः सकाशाद् भिन्नमिष्यते, तदा तेनचैत्रज्ञानेन मैत्रस्यव, नैव विषयपरिच्छेदः स्यादात्मनः। अथ यत्रै १. स्वरूपहानिः ' इति रा. ह. पुस्तकयोः पाठः।। २" निर्विशेषं हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वे तु विशेषास्तद्वदेव ३ 'एव' इति ह. रा. पुस्तकयोरधिकम् । ४ शिखण्डिन्--स्वयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता सैव शिखण्डीति संशया व्यवजहे । स च स्त्रीपूर्वत्वान्निन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भीष्मं जघान । सोऽपि शिखण्डी पश्चादश्वत्थाम्ना हतः । . Page #120 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका वात्मान समवायसम्बन्धेन समवेतं ज्ञानं तत्रैव भावावभासं करोतीति चेत् । न समवायस्यैकत्वाद् , नित्यत्वाद् , व्यापकत्वाच, सर्वत्र वृत्तेरविशेषात् , समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः । यथा च घटे रूपादयः समवायसम्बन्धेन समवेताः , तद्विनाशे च तदाश्रयस्य घटस्यापि विनाशः, एवं ज्ञानमप्यात्मान समवेतं, तच्च क्षणिकं, ततस्तद्विनाशे आत्मनोऽपि विनाशापत्तेरनित्यत्वापत्तिः। अथास्तु समवायेन ज्ञानात्मनोः सम्बन्धः, किंतु स एव समवायः केन तयोः सम्बध्यते ? । समवायान्तरेण चेद्; अनवस्था । स्वेनैव चेत् ; किं न ज्ञानात्मनोरपि तथा ? । अथ यथा प्रदीपस्तत्स्वाभाव्याद् आत्मानं, परंच प्रकाशयति, तथा समवायस्येडगेव स्वभावो यदात्मानं, ज्ञानात्मानौ च सम्बन्धयतीति चेत्, ज्ञानात्मनोरपि किं न तथास्वभावता, येन स्वयमेवैतौ सम्बध्येते ?। किञ्च, प्रदीपदृष्टान्तोऽपि भवत्पक्षे न जाघटीति, यतः प्रदीपस्तावद् द्रव्यं, प्रकाशश्च तस्य धर्मः, धर्मधार्मिणोश्च त्वयात्यन्तं भेदोऽभ्युपगम्यते; तत्कथं प्रदीपस्य प्रकाशात्मकता ?; तदभावे च स्वपरप्रकाशस्वभावताभणितिनिर्मूलैव । ___यदि च प्रदीपात् प्रकाशस्यात्यन्तभेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिष्यते, तदा घटादीनामाप तदनुषज्यते; भेदाविशेषात् । अपि च तौ स्वपरसम्बन्धनस्वभावौ समवायाद भिन्नौ स्याताम् , अभिन्नौ वा ? । याद भिन्नौ ततस्तस्यैतौ स्वभावाविति कथं सम्बन्धः ? ; सम्बन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभयादनभ्युपगमात् । अथाभिन्नौ, ततः समवायमात्रमेव; न तौ; तदव्यतिरिक्तत्वात् तत्स्वरूपवदिति । किञ्च, यथा इह समवायिषु समवाय इति मतिः समवायं १ 'प्रकाशकस्वभावता ' इति ह. रा. पुस्तकयो पाठः। Page #121 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ८ विनाप्युपपन्ना, तथा इहात्मान ज्ञानमित्ययमपि प्रत्ययस्तं विनैव चेदुच्यते, तदा को दोषः। अथात्मा कर्ता, ज्ञानं च करणं, कर्तृकरणयोश्च वर्धकिवासिवद् भेद एव प्रतीतः, तत्कथं ज्ञानात्मनोरभेदः ? इति चेत् । न; दृष्टान्तस्य वैषम्यात् । वासी हि बाह्यं करणं, ज्ञानं चान्तरं, तत्कथमनयोः साधर्म्यम् ? न चैवं करणस्य द्वविध्यमप्रसिद्धम् । यदाहुर्लाक्षणिका: "करणं द्विविधं ज्ञेयं बाह्यमाभ्यन्तरं बुधैः। यथा लुनाति दात्रेण मेरं गच्छति चेतसा" ॥१॥ यदि हि किञ्चित्करणमान्तरमेकान्तेन भिन्नमुपदयते, ततः स्याद् दृष्टान्तदाान्तिकयोः साधर्म्यम्, न च तथाविधमस्ति। न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि दीपादिवत् चक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात्। तथा च सति लोकप्रतीतिविरोध इति । अपि च, साध्यविकलोऽपि वासिवर्धकिदृष्टान्तः, तथाहि-नायं वर्धकिः- ' काष्ठमिदमनया वास्या घटायिष्ये' इत्येवं वासिग्रहणपरिणामेनापरिणतः सन् तामगृहीत्वा घटयति, किन्तु तथा परिणतस्तां गृहीत्वा तथा परिणामे च वासिरपि तस्य काष्ठस्य घटने व्याप्रियते, पुरुषोऽपि इत्येवं लक्षणैकार्थसाधकत्वात् वासिवर्धक्योरभेदोऽप्युपद्यते; तत्कथमनयोभैदै एव ?, इत्युच्यते। एवमात्मापि- 'विवक्षितमर्थमनेन ज्ञानेन ज्ञास्यामि' इति ज्ञान १ 'च' इति ख. घ. पुस्तकयोनास्ति । २ वर्धकिस्त्वष्टा, वासी तच्छस्त्रम् । ३ ' चाभ्यन्तरम् ' इति रा. पुस्तके पाठः । ४ 'नचेदम् ' इति क. पुस्तके पाठः । ५ ' व्याप्रियेत ' इति ख. पुस्तके पाठः । Page #122 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका ग्रहणपरिणामवान् ज्ञानं गृहीत्त्वार्थ व्यवस्यति, ततश्च ज्ञानात्मनोरुभयोरपि संवित्तिलक्षणैककार्यसाधकत्वादभेद एव । एवं कर्तृकरणयोरभेदे सिद्धे संवित्तिलक्षणं कार्य किमात्मनि व्यवस्थितं, आहोस्विद् विषये ? इति वाच्यम् । आत्मनि चेत्- सिद्धं नः समीहितम् । विषये चेत् कथमात्मनोऽनुभवः प्रतीयते ? । अथ विषयस्थितसंवित्तेः सकाशादात्मनोऽनुभवः, तर्हि किं न पुरुषान्तरस्यापि?; तद्भेदाविशेषात्। अथ ज्ञानात्मनोरभेदपक्षे कथं कर्तृकरणभावः, इति चेत्, ननु यथा सर्प आत्मानमात्मना वेष्टयंतीति । अथ परिकाल्पतोऽयं कर्तृकरणभाव चेद् , वेष्टनावस्थायां प्रागवस्थाविलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्वम् ? ; न हि परिकल्पनाशतैरपि शैलस्तम्भ आत्मानमात्मना वेष्टयतीति वक्तुं शक्यम् तस्मादभेदेऽपि कर्तृकरणभावः सिद्ध एव। किञ्च चैतन्यमिति शब्दस्य चिन्त्यतामन्वर्थः- चेतनस्य भावश्चैतन्यम्। चेतनश्चात्मा त्वयापि कीर्त्यते; तस्य भावः स्वरूपं चैतन्यम् । यच्च यस्य स्वरूपं, न तत् ततो भिन्नं भवितुमहति; यथा वृक्षाद् वृक्षस्वरूपम् । अथास्ति चेतन आत्मा, परं चेतना समवायसम्बन्धात, न स्वतः, तथापतीतेः इति चेत् तदयुक्तम् । यतः-प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि निर्बाधमुपयोगात्मक एवात्मा प्रसिद्धयति; न हि जातचित् स्वयमचेतनोऽहं-चेतनायोगात् चेतनः, अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरास्ति; ज्ञाताहमिति समानाधिकरणतया १ ' तमर्थम् ' इति क. पुस्तके पाठः। २ ' अत्र' इत्यधिक रा. ह. पुस्तकयोः । तथाग्रे — अभेदे ' यथा कर्तृकरणभावस्तथात्रापि । इति रा. ह. पुस्तकयोरधिकम् । ३ 'तत् ' इति क. पुस्तके नास्ति । Page #123 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ८ प्रतीतेः। भेदे तथाप्रतीतिरिति चेत् । न; कथञ्चित् तादात्म्याभावे सामानाधिकरण्यप्रतीतेरदर्शनात् । यष्टिः पुरुष इत्यादिप्रतीतिस्तुभेदे सत्युपचाराद् दृष्टा, न पुनस्तात्त्विकी । उपचारस्य तु बीजंपुरुषस्य यष्टिगतस्तब्धत्वादिगुणैरभेदः; उपचारस्य मुख्यार्थस्पर्शित्वात् । तथा चात्मनि ज्ञाताहमितिप्रतीतिः कथञ्चित् चेतनात्मतां गमयति, तामन्तरेण ज्ञाताहमिति प्रतीतेरनुपपद्यमानत्वात् घटादिवत् न हि घटादिरचेतनात्मको ज्ञाताहमिति प्रत्येति चैतन्ययोगाभावादअसौ न तथा प्रत्येतीति चेत् । न, अचेतनस्यापि चैतन्ययोगात् चेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् इत्यचेतनत्वं सिद्धमात्मनो जडस्यार्थपरिच्छेदं - पराकरोतिः तं पुनरिच्छता-चैतन्यस्वरूपतास्य स्वीकरणीया। ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्रत्ययादपि धनधनवतोर्भेदाभावानुषङ्गाः। तदसत; ज्ञानवानहमिति नात्मा भवन्मते प्रत्येति, जडैकान्तरूपत्वात्, घटवत् । सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमितिप्रत्ययश्च स्याद् अस्य; विरोधाभावात् इति मा निर्णैषीः। तस्य तथोत्पत्त्यसम्भवात् । ज्ञानवानहामिति हि प्रत्ययो न-अगृहीते ज्ञानाख्ये विशेषणे, विशेष्ये चात्मनि जातूत्पद्यते; स्वमतविरोधात्; “ नागृहीतविशेषणा विशेष्ये बुद्धिः" इति वचनात् । गृहीतयोस्तयोरुत्पद्यत इति चेत् कुतस्तद्गृहीतिः । न तावत् स्वतः; स्वसंवेदनानभ्युपगमात् । स्वसंविदिते ह्यात्मनि, ज्ञाने च, स्वतः सा युज्यते; नान्यथाः सन्तानान्तरवत् । परतश्चेत्, तदपि ज्ञानान्तरं विशेष्यं-नागृहीते ज्ञानत्वविशेषणे, ग्रहीतुं शक्यम् । गृहीते १ 'जातूपपद्यते' इति घ. पुस्तके पाठः । Page #124 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका हि घटत्वे घटग्रहणमिति ज्ञानान्तरात् तद्ग्रहणेन भाव्यम्; इत्यनवस्थानात् कुतः प्रकृतप्रत्ययः । तदेव नात्मनो जडस्वरूपता संगच्छते तदसङ्गतौ च चैतन्यमौपाधिकमात्मनोऽन्यदिति वाङ्मात्रम् । तथा यदपि न संविदानन्दमयी च मुक्तिरिति व्यवस्थापनाय अनुमानमवादि-सन्तानत्वादिति । तत्राभिधीयते-ननु किमिदं सन्तानत्वं-स्वतन्त्रम्-अपरापरपदार्थोत्पत्तिमात्रं वा, एकाश्रयापरापरोत्पत्तिर्वा ? तत्राद्यः पक्षः सव्यभिचारः अपरापरेषामुत्पादकानां घटपटकटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात् । अथ द्वितीयः पक्षः, तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात् । अपि च सन्तानत्वमपि भविप्यात, अत्यन्तानुच्छेदश्च भविष्यति-विपर्यये बाधकप्रमाणाभावात्; इति संदिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम् । किञ्च, स्याद्वादवादिनां नास्ति कचिदत्यन्तमुच्छेदः, द्रव्यरूपतया स्थास्नूनामेव सतां भावानामुत्पादव्यययुक्तत्वात् , इति विरुद्धश्च । इति नाधिकृतानुमानाद् बुद्धयादिगुणोच्छेदरूपा? सिद्धिः सिद्धयति । नापि “ने हि वै सशरीरस्य" इत्यादेरागमात् ; स हिशुभाशुभादृष्टपरिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः। मुक्तिदशायां तु-सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्ति १ संगच्छेत' इति घ. पुस्तके पाठः । २ जडस्वरूपताप्राप्त्यभावे च । ३ ' सतानस्य ' इति क. पुस्तके पाठः । ४ ' इति ' पदं घ. पुस्तके नास्ति । ५ 'न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति' इति छां. अ. ८।१२ । Page #125 -------------------------------------------------------------------------- ________________ ५५ स्याद्वादमञ्जरीसहिता श्लोक ८ कं च केवलं प्रियमेव, तत्कथं प्रतिषिध्यते ? । आगमस्य चायमर्थःसशरीरस्य-गतिचतुष्टयान्यतमस्थानवर्तिन आत्मनः, प्रियाप्रिययोः–परस्परानुषक्तयोः सुखदुःखयोः-अपहति-- अभावो. नास्तीति । अवश्यं हि तत्र सुखदुःखाभ्यां भाव्यम् । परस्परानुषक्तत्वं च समासकरणादभ्यूह्यते । अशरीरं-मुक्तात्मानं वाशब्दस्यैवकारार्थत्वात् अशरीरमेवः वसन्तं-सिद्धिक्षेत्रमध्यासीनं, प्रियाप्रिये-परस्परानुषक्ते सुखदुःखे न स्पृशतः। __इदमत्र हृदयम्-यथा किल संसारिणः सुखदुःखे परस्परानुपक्ते स्यातां, न तथा मुक्तात्मनः , किन्तु केवलं सुखमेव; दुःखमूलस्य शरीरस्यैवाभावात् । सुखं त्वात्मस्वरूपत्वादवस्थितमेवः स्वस्वरूपावस्थानं हि मोक्षः; अत एव चाशरीरमित्युक्तम् । आगमार्थश्वायमित्थमेव समर्थनीयः, यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते___ "सुखमात्यन्तिकं यत्र बुद्धिनाह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः॥१॥" न चायं सुखशब्दो दुःखाभावमात्रे वर्तते-मुख्यसुखवाच्यतायां बाधकाभावातः अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यप्रसङ्गाच्च; दुःखाभावमात्रस्य-रोगाद् विप्रमुक्त इतीयतैव गतत्वात् । ____न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः को हि नाम-शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत; १।२ एतद्वाक्यं चिन्हान्तर्गतत्वेन अस्मदुपलब्धेषु लिखितपुस्तकेषु नास्ति । तेनास्माभिरपि चिन्हरहितत्वेन मुद्रापितम् । ३ रहस्यमित्यर्थः । ४ 'प्रयोगस्यापि' इति घ. पुस्तके पाठः । Page #126 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका दुःखसंवेदनरूपत्वादस्य-सुखदुःखयोरेकस्याभावे परस्यावश्यम्भावात् । अत एव त्वदुपहासः श्रूयते-- “ वरं वृन्दावने रम्ये क्रोष्ठत्वमभिवाञ्छितम् । न तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति " ॥१॥ सोपाधिकसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गादप्यधिक तद्विपरितानन्दमम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः। याद तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तदलमपवर्गेण संसार एव वरमस्तु । यत्र तावदन्तरान्तसपि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते, चिन्त्यतां तावत्-किमल्पसुखानुभवो भव्यः उत सर्वसुखोच्छेद एव ? । . अथास्ति तथाभूते मोक्षे लाभातिरेकः प्रेक्षादक्षाणाम् ; ते ह्येवं विवेचयन्ति-संसारे तावद् दुःखास्पृष्टं सुखं न सम्भवति, दुःखं चावश्यं हेयम् , विवेकहानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशेकम् , अत एव द्वे अपि त्यज्येते, ततश्च संसाराद् मोक्षः श्रेयान् यतोऽत्र दुःखं सर्वथा न स्यात् । वरमियती कादाचित्कसुखमात्रापि त्यक्ता, न तु तस्याः दुःखभार इयान् व्यूढ इति ।। - तदेतत्सत्यम् सांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपत्वादेव युक्तैव मुमुक्षूणां तज्जिहासा, किन्त्वात्यन्तिकसुखविशेषलिप्सूनामेव । इहापि विषयनिहात्तिजं सुखमनुभव १ 'तदुपहासः' इति घ. पुस्तके पाठः। २ 'जडः' इति घ. पुस्तके नास्ति । ३ 'सत्प्रेक्षा' इति क, पुस्तके पाठः। ४ 'विचारयन्ति' इति क. पुस्तके पाठः। ५ 'दुःशक्यम्' इति घ. पुस्तके पाठः। ६ 'अतश्च' इति रा. ह. पुस्तकयोः पाठः। ७ 'विशेष' इति क, पुस्तके नास्ति । Page #127 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ८ सिद्धमेव, तद् यदि मोक्षे विशिष्टं नास्ति, ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः । येऽपि विषमधुनी एकत्र सम्पृक्ते त्यज्येते, तेऽपि सुखविशेषलिप्सयैव । किञ्च यथा प्राणिनां संसारावस्थायां सुखमिष्टं दुःखं चानिष्टम्, तथा मोक्षावस्थायां दुःखानिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्टैव । ततो यदि त्वदभिमतो मोक्षः स्यात्, तदा न प्रेक्षावतामत्र प्रवृत्तिः स्यात् भवति चेयम् । ततः सिद्धोः मोक्षः सुखसंवेदनस्वभावः; प्रेक्षावत्प्रवृत्तेरन्यथानुपपत्तेः। __अथ यदि मुखसंवेदनकस्वभावो मोक्षः स्यात्, तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत् । नहि रागिणां मोक्षोऽस्ति; रागस्य बन्धनात्मकत्वात् । नैवम् । सांसारिकसुख एव रागो बन्धनात्मकः विषयादिप्रवृत्तिहेतुत्वात् मोक्षसुखे तु रागः-तनिवृत्तिहेतुत्वाद् न बन्धनात्मकः परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते; "मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः" इति वचनात् । अन्यथा भवत्पक्षेऽपि दुःखानिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयं कषायकालुष्यं केन निषिध्येत ? इति सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनात्मको मोक्षो, न बुद्धयादिविशेषगुणोच्छेदरूप इति। _अपि च भोस्तपस्विन् । कथञ्चिदेषामुच्छेदोऽस्माकमप्यभिमत एवेति मा विरूपं मनः कृथाः । तथाहि-बुद्धिशब्देन ज्ञानमुच्यते; तच्च मैतिश्रुतावधिमनःपर्यायकेवलभेदात् पञ्चधा । तत्राद्यं ज्ञानचतुष्टयं १ 'एव' इति क. पुस्तके नास्ति । २ 'अत्र' इति रा. पुस्तके नास्ति । ३ 'सिद्धम्' इति रा. ह. पुस्तकयोः पाठः । ४ 'सिद्धः' इति घ. पुस्तके पाठः । ५ विस्तरतस्तु अस्मन्मुद्रापितसभाध्यतत्त्वार्थाधिगमसूत्रे १-९,१-१५,-१-२०,.१. २१,-१-२४,-१०-१ सूत्रेषु दृष्टव्यम् । Page #128 -------------------------------------------------------------------------- ________________ श्लोक ८ अन्ययोगव्यवच्छेदिका क्षायोपशमिकत्वात् केवलज्ञानाविर्भावकाल एव प्रलीनम् " - मि य छाउमत्थिए नाणे " इत्यागमात् । केवलं तु सर्वद्रव्यपर्यायगतं क्षायिकत्वेन निष्कलङ्कात्मस्वरूपत्वाद- अस्त्येव मोक्षावस्थायाम्, सुखं तु वैषयिकं तत्र नास्तिं तद्धेतोर्वेदनीयकर्मणोऽभावात् । यत्तु निरतिशयक्षयमनपेक्षमनन्तं च सुखं तद वाढं विद्यते दुःखस्य चाधर्ममूलत्वात् तदुच्छेदादुच्छेदः । नन्वेवं सुखस्यापि धर्ममूलत्वाद् धर्मस्य चोच्छेदात् तदपि न युज्यते; " पुण्यपापक्षयो मोक्षः " इत्यागमवचनात् । नैवम् । वैषयिकसुखस्यैव धर्ममूलत्वाद् भवतु तदुच्छेदः, न पुनरनपेक्षस्यापि सुखस्योच्छेदः । इच्छाद्वेषयोः पुनर्मोहभेदत्वात् तस्य च समूलकार्षकषितत्वादभावः । प्रयत्नश्च क्रियाव्यापारगोचरो नास्त्येवः कृतकृत्यत्वात् । वीर्यान्तरायक्षयोपनतस्त्वस्त्येव प्रयत्नः, दानादि - लैब्धिवत् ; न च कचिदुपयुज्यतेः कृतार्थत्वात् । धर्माधर्मयोस्तु पुण्यपापापरपर्याययोरुच्छेदोऽस्त्येव; तदभावे मोक्षस्यैवायोगात् । संस्कारस्य मतिज्ञानविशेष एव तस्य च मोहर्यांनन्तरं क्षीणत्वादभाव इति । तदेवं न संविदानन्दमयी च मुक्तिरिति युक्तिरिक्तेयमुक्तिः । इति काव्यार्थः ॥ ८ ॥ अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमानमप ५८ १ 'विलीनम्' इति घ. पुस्तके पाठः । २ उप्पण्णंम अनंते नछंमि य छाउमत्थिए नाणे । राईए संपत्तो महसेणवर्णमि उज्जाणे ॥, छाया-- उत्पन्नेऽनन्ते नष्टे च छाद्मस्थिके ज्ञाने । रात्र्यां संप्राप्तो महसेनवनं उद्यानं ॥ ५३९ ॥ आवश्यकपूर्वविभागः । " नास्त्येव ' इति घ. पुस्तके पाठः । ४ बलवता यूना रोगरहितेनापि पुंसा यस्य कर्मण - उदयात्तृणमपि न तिर्यक्कर्तुं पार्यते तत्कर्म वीर्यान्तरायाख्यम् । ५ लब्धयः पञ्च । तथाहि - दानलाभभोगोपभोगवीर्यभेदात्पञ्चधा । सूत्रकृताङ्गप्रथमश्रुतस्कन्धे १२ अ. । तत्त्वार्थसू. २--५ । 6 ६ ' एव ' इत्यधिकं रा. ह. क. ख. घ. पुस्तकेषु । Page #129 -------------------------------------------------------------------------- ________________ श्लोक ९ लप्य, तादृशकुशास्त्रशस्त्रसंपर्कविनष्टदृष्टयस्तस्य विभुत्वं मन्यन्ते, अत ५९ स्तत्रोपालम्भमाह स्याद्वादमञ्जरीसहिता यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवद् निष्प्रतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ ९ ॥ यत्रैव--देशे यः पदार्थः ; दृष्टगुणो, दृष्टाः - प्रत्यक्षादि - प्रमाणतोऽनुभूताः, गुणा धर्मा यस्य स तथा सं पदार्थः, तत्रैव-विवक्षितदेश एव । उपपद्यते इति क्रियाध्याहारो गम्यः । पूर्वस्यैवकारस्यावधारणार्थस्यात्त्राप्यभिसम्बन्धात् तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः । अमुमेवार्थ दृष्टान्तेन द्रढयति कुम्भादिवदिति-घटादिवत् ; यथा कुम्भादेर्यत्रैव देशे रूपादयो गुणा उपलभ्यन्ते तत्रैव तस्यास्तित्वं प्रतीयते, नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते, न बहिः, तस्मात् तत्प्रमाण एवायमिति । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गन्धादिगुण उपलभ्यते, तथापि तेन न व्यभिचारः ; तदाश्रया हि गन्धादिपुद्गलाः तेषां च वैश्रंसिक्या, प्रायोगिक्या वा गत्या गतिमत्त्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह-- निष्पतिपक्षमेतदितिः एतद् निष्पतिपक्षं - बाधकरहितम्ः “ न हि दृष्टेऽनुपपन्नं नाम " इति न्यायात् । 44 ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो 6 १ स' इति क पुस्तके नास्ति । २ स्वाभाविकया । ३ दृष्टे वस्तुनि उपपत्तेरनपेक्षेत्यर्थः । Page #130 -------------------------------------------------------------------------- ________________ श्लोक ९ अन्ययोगव्यवच्छेदिका योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चेत् । मैवं वोचः । स हि न खलु मन्त्रादीनां गुणः, किन्तु तदधिष्ठातृदेवतानाम्; तासां चाकर्षणीयोच्चाटनीयादिदेशगमने कौतस्कुतोऽयमुपालम्भः। न जातु गुणा गुणिनमतिरिच्य वर्तन्त इति । अथोत्तरार्द्ध व्याख्यायते--तथापीत्यादि । तथापि एवं निःसपत्नं व्यवस्थितेऽपि तत्त्वे; अतत्त्ववादोपहताः । अनाचार इत्यत्रेव नत्रः कुत्सार्थत्वात् । कुत्सिततत्त्ववादेन तदभिमताप्ताभासपुरुषविशेषप्रणीतेन तत्त्वाभासप्ररूपणेनोपहताः-व्यामोहिताः, देहाद् बहिः-शरीरव्यतिरिक्तेऽपि देशे, आत्मतत्त्वम्-आत्मरूपम्। पठन्ति शास्त्ररूपतया. प्रणयन्ते । इत्यक्षरार्थः। भावार्थस्त्वयम्-आत्मा सर्वगतो न भवति, सर्वत्र तद्गुणानुपलब्धः। यो यः सर्वत्रानुपलभ्यमानगुणः स स सर्वगतो न भवति, यथा घटः । तथा चायम् । तस्मात् तथा। व्यतिरेके-व्योमादि। न चायमासिद्धो हेतुः-कायव्यतिरिक्तदेशे तद्गुणानां बुद्धयादीनां वादिना, प्रतिवादिना वानभ्युपगमात् । तथा च भट्टः श्रीधरः-“ सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वम् । नान्यत्र । शरीररस्योपभोगायतनत्वात् । अन्यथा तस्य वैयादिति"। अथास्त्यदृष्टमात्मनो विशेषगुणः; तच्च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापकं च; कथमितरथा द्वीपान्तरादिष्वपि प्रतिनियतदेशवर्तिपुरुषोपभोग्यानि कनकरत्नचन्दनाङ्गनादीनि तेनोत्पाद्यन्ते ? । गुणश्च १ निर्विवादमित्यर्थः। २ 'अपि' इति ख. पुस्तके नास्ति । ३ 'आत्मस्वरूपम्' इति क. ख. पुस्तकयोः पाठः। ४ 'स्वरूपतया' इति घ. पुस्तके पाठः । ५ 'अन्यथा' इति क. पुस्तके पाठः। Page #131 -------------------------------------------------------------------------- ________________ स्याद्रादमञ्जरीसहिता श्लोक ९ गुणिनं विहाय न वर्तते, अतोऽनुमीयते सर्वगत आत्मोत । नैवम् । अदृष्टस्य सर्वगतत्वे प्रमाणाभावात् । अथारत्येव प्रमाणं वह्नेरूद्धज्वलनं, वायोस्तिर्यपवनं चादृष्टकारितामति चेत् । न ; तयोस्तत्स्वभावत्वादेव तत्सिद्धेः दहनस्य दहनशक्तिवत् । साप्यदृष्टकारिता चेत्, तर्हि जगत्त्रयवैचित्रीसूत्रणेऽपि तदेव सूत्रधारायता, किमीश्वरकल्पनया ? तन्नायमासिद्धो हेतुः । न चानैकान्तिकः-साध्यसाधनयोाप्तिग्रहणेन व्यभिचाराभावात् । नापि विरुद्धः-अत्यन्तं विपक्षव्यावृत्तत्वात् । आत्मगुणाश्च बुध्द्यादयः शरीर एवोपलभ्यन्ते, ततो गुणिनापि तत्रैव भाव्यम् इति सिद्धः कायप्रमाण आत्मा । ____ अन्यच्च, त्वयात्मनां बहुत्वमिष्यते; "नानात्मानो व्यवस्थातः" इति वचनात् । ते च व्यापकाः, ततस्तेषां प्रदीपप्रभामण्डलानामिव परस्परानुवेधे तदाश्रितशुभाशुभकर्मणामपि परस्परं सङ्करः स्यात् । तथा चैकस्य शुभकर्मणा अन्यः सुखी भवेद्, इतरस्याशुभकर्मणा चान्यो दुःखीत्यसमञ्जसमापद्येत । अन्यच्च, एकस्यैवात्मनः स्वोपात्तशुभकर्मविपाकेन सुखित्वं, परोपार्जिताशुभकर्मविपाकसम्बन्धेन च दुःखित्वमिति युगपत्सुखदुःखसंवेदनप्रसङ्गः। अथ स्वावष्टब्धं भोगायतनमाश्रित्यैव शुभाशुभयोर्भोगः, तर्हि स्वोपार्जितमप्यदृष्टं कथं भोगायतनाद् बहिर्निष्क्रम्य वह्नरूप्रज्वलनादिकं करोति ? इति चिन्त्यमेतत् । __आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः ; सर्वगतत्वेनेश्वरान्तरनुप्रवेशस्य सम्भावनीयत्वात् । ईश्वरस्य वा तदन्तरनुभवेशे-तस्याप्यकर्तृत्वापत्तिः, न हि क्षीरनीरयोरन्योन्यसम्बन्धे, १ 'सर्वगतत्वसाधने' इति रा. ह. क. ख. घ. पुस्तकेषु पाठः । २ सूत्रधारवन्मुख्यतः कर्तृत्वं लभताम् । ईश्वरे कर्तृत्वं किमर्थ कल्प्यत इत्यर्थः । ३ 'कर्मविपाकेन' इति क, पुस्तके पाठः । Page #132 -------------------------------------------------------------------------- ________________ श्लोक ९ अन्ययोगव्यवच्छेदिका एकतरस्य-पानादिक्रियान्यतरस्य न भवतीति युक्तं वक्तुम् । किञ्च, आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः । अथ भोगायतनाभ्युपगमाद् नायं दोष इति चेत्, ननु स भोगायतनं सर्वात्मना अवष्टनीयाद् , एकदेशेन वा ? । सर्वात्मना चेदअस्मदभिमताङ्गीकारः । एकदेशेन चेत् सावयवत्वप्रसङ्गः, परिपूर्णभोगाभावश्च । ___ अथात्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावाद्-आद्यकाभावः, तदभावाद्-अन्त्यसंयोगस्य, तन्निमित्तशरीरस्य, तेन तत्सम्बन्धस्य चाभावाद्- अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् । नैवम् ; 'यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमासम्भवात् । अयस्कान्तं प्रति-अयसस्तेनासंयुक्तस्याप्याकर्षणोपलब्धः। अथासंयुक्तस्याप्याकर्षणे--तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने तच्छरीरं कियत्प्रमाणं स्याद् ? इति चेत् , संयुक्तस्याप्याकर्षणे कथं स एव दोषो न भवेत् ? आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाविशेषेऽप्यदृष्टवशाद विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् । ____ अथास्तु यथाकथञ्चिच्छरीरोत्पत्तिः; तथापि सावयवं शरीरम् ; प्रत्यवयवमनुप्रविशन्नात्मा सावयवः स्यात् । तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः, कार्यत्वे चासौ विजातीयैः सजातीयैर्वा कारणरारभ्येत ? ; न तावद्विजातीयैः-तेषामनारम्भकत्वात् । न हि तन्तवो घटमारभन्ते न च सजातीयैः। यत आत्मत्वाभिसम्बन्धादेव तेषां १ 'अन्युपगमे नायं दोषः' इति ख. पुस्तके पाठः । २ ' तत्संबंधस्याभावात्' इति क. पुस्तके पाठः। . ३ ' नियमाभावातू ' इति ख. पुस्तके पाठः । Page #133 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसाहिता श्लोक ९ कारणानां सजातीयत्वम् पार्थिवादिपरमाणूनां विजातीयत्वात् तथा चात्मभिरात्मा आरभ्यत इत्यायातम् । तच्चायुक्तम् एकत्र शरीरेऽनेकात्मनामात्मारम्भकाणामसम्भवात्; सम्भवे वा प्रतिसन्धानानुपपात्तः; न हि अन्येन दृष्टमन्यः प्रतिसन्धातुमर्हति'; अतिप्रसङ्गात् । तदारभ्यत्वे चास्य घटवदवयवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात्। तस्माद् व्यापक एवात्मा युज्यते, कायप्रमाणतायामुक्तदोषसद्भावादिति चेत् । न; सावयत्वकार्यत्वयोः कथञ्चिदात्मन्यभ्युपगमात् । तत्र सावयत्वं तावद्-असंख्येयप्रदेशात्मकत्वात् । तथा च द्रव्यालङ्कारकारः--" आकाशोऽपि सदेशः, सकृत्सर्वमूर्ताभिसम्बन्धाहत्वात्" इति । यद्यप्यवयवदेशयोर्गन्धहस्त्यादिषु भेदोऽस्ति, तथापि नात्र सूक्ष्मक्षिका चिन्त्या । प्रदेशेष्ववयवव्यवहारात्-कार्यत्वं तु वक्ष्यामः । नन्वात्मनां कार्यत्वे घटादिवत्प्राक्प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसक्ति; अवयवा ह्यवयविनमारभन्ते, यथा-तन्तवः पटामिति चेत् न वाच्यम् । न खलु घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीयकपालसंयोगारभ्यत्वं दृष्टम्; कुम्भकारादिव्यापारान्विताद् मृत्पिण्डात् प्रथममेव पृथुबुध्नोदराद्याकारस्यास्योत्पत्तिप्रतीतेः। द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वम् तच्च बहिरि१ 'इति' पदमधिकं क, पुस्तके । २ 'वास्य इति घ. पुस्तके पाठः । ३ 'द्रव्यालंकारकारौं' इति रा. ह. क. ख. पुस्तकेषु पाठः। ४ तत्त्वार्थसूत्रोपरि श्रीसमन्तभद्रस्वामिविरचितं ८४००० श्लोकपरिमितं गन्धहस्तिसंज्ञकं महाभाष्यम् । अस्य मङ्गलाचरणं देवागमस्तोत्रसंज्ञकमाप्तमीमांसासंज्ञकं सपादशतश्लोकपरिमितमस्ति । अत्र मङ्गलाचरणे श्रीमदकलंकदेवनिर्मिता अष्टशतश्लोकप्रमाणा- तथा श्रीविद्यानन्दिस्वामिविरचिताष्टसहस्रश्लोकात्मिका चेति व्याख्याद्वयमस्ति भाष्यं त्वधुना नोपलभ्यते। ५ सुक्ष्मविचारः। Page #134 -------------------------------------------------------------------------- ________________ श्लोक ९ अन्ययोगव्यवच्छेदिका ६४ वान्तरप्यनुभूयत एव; ततश्वात्मापि स्यात् कार्यः । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः; काष्ठे लोहलेख्यत्वोपलम्भाद् वज्रेऽपि तथाभावप्रसङ्गात्; : प्रमाणबाधनमुभयत्रापि तुल्यम् । न चोक्तलक्षणकार्यत्वाभ्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात् प्रतिसन्धानाभावोऽनुषज्यतेः कथञ्चिदनित्यत्वे सत्येवास्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्राक्षं तमहं स्मरामीत्यादिरूपम्; तच्चैकान्तनित्यत्वे कथमुपपद्यते ? अवस्थाभेदात्; अन्या ह्यनुभवावस्था, अन्या च स्मरणावस्था; अवस्थाभेदे चावस्थावतोऽपि भेदादेकरूपत्वक्षेतिः कथञ्चिदनित्यत्वं युक्त्यायातं केन वार्यताम् ? | अथात्मनः शरीरपरिमाणत्वे मूर्तत्वानुषङ्गात् शरीरेऽनुप्रवेशो न स्याद् ; मूर्ते मूर्तस्यानुप्रवेशविरोधात् ; ततो निरात्मकमेवाखिलं शरीरं प्राप्नोतीति चेत्; किमिदं मूर्तत्वं नाम ? - असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा ? । तत्र नाद्यः पक्षो दोषाय, संमतत्वात् । द्वितीयस्त्वयुक्तः- व्यायभावात् ; नहि यदसर्वगतं तद् नियमेन रूपादिमदित्यविनाभावोऽस्ति; मनसोऽसर्वगतत्वेऽपि भवन्मते तदसम्भवात् । आकाशकालदिगात्मनां सर्वगतत्वं, परममहत्त्वं सर्वसंयोगिसमानदेशत्वं चेत्युक्तत्वाद् - मनसो वैधर्म्यात्, सर्वगतत्वेन प्रतिषेधनात् ; अतो नात्मनः शरीरेऽनुप्रवेशानुपपत्तिः, येन निरात्मकं तत् स्यात्, असर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत् प्रवेशाप्रतिबन्धकत्वात्, । रूपादिमत्त्वलक्षणमूर्तत्वोपेतस्यापि जलादेर्वालुका १ ' अवस्थाभेदेन' इति क पुस्तके पाठः । २ 'क्षते' इति रा. ह. क. घ. पुस्तकेषु पाठः । ३ 'व्याप्त्यभावात्' इति रा. पुस्तके नास्ति । ४ सर्वमूर्तसंयोगित्वम् । ५ इयत्तारहितत्वम् । Page #135 -------------------------------------------------------------------------- ________________ ६५ . स्याद्वादमञ्जरीसहिता श्लोक ९ दावनुप्रवेशो न निषिध्यते, आत्मनस्तु तद्रहितस्यापि तत्रासौ प्रतिषिध्यत इति महचित्रम् । ___ अथात्मनः कायपरिमाणत्वे-बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः कथं स्यात् ।। किं तत्परिमाणत्यागात्, तदपरित्यागाद् वा ?। परित्यागात् चेत् , तदा शरीरवत् तस्यानित्यत्वप्रसझात्-परलोकाद्यभावानुषङ्गः । अथापरित्यागात् । तन्नः पूर्वपरिमाणापरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः । तदयुक्तम् युवशरीरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भवात्; विफणावस्थोत्पादे सर्पवत्, इति कथं परलोकाभावोऽनुषज्यते; पर्यायतस्तस्यानित्यत्वेऽपि द्रव्यतो नित्यत्वात् । ___ अथात्मनः कायपरिमाणत्वे-तत्खण्डने खण्डनप्रसङ्गः, इति चेतू कः किमाह ? शरीरस्य खण्डने कथञ्चित् तत्खण्डनस्येष्टत्वात् शरीरासम्बद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डितशरीरप्रदेशेऽवस्थानादात्मनः खण्डनम्। तच्चात्र विद्यत एव । अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवानुप्रवेशात् । नचैकत्र सन्तानेऽनेक आत्मानः। अनेकार्थप्रतिभासिज्ञानानामेकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात् । शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत् कथं खण्डितावयवयोः संघट्टनं पश्चाद् ? इति चेत् ; एकान्तेन छेदानभ्युपगमात् । पद्मनालतन्तुवत् छेदस्यापि स्वीकारात् । तथाभूतादृष्टवशात् तत्संघट्टनमविरुद्धमेवेति तनुपरिमाण एवात्माङ्गीकर्तव्यः, न व्यापकः । तथा च आत्मा व्यापको न भवति, चेतनत्वात् , १ 'तत्' इति क. पुस्तके नास्ति । २ 'अर्थ' इति ख. पुस्तके नास्ति । ३ 'चैतत्खण्डन' इति क. पुस्तके पाठः । Page #136 -------------------------------------------------------------------------- ________________ श्लोक ९ अन्ययोगव्यवच्छेदिका यत्तु व्यापकं-न तत् चेतनम् , यथा व्योम, चेतनश्चात्मा तस्माद् न व्यापकः; अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा कायप्रमाणता । यत्पुनरष्टमसमयसाध्यकेवालसमुद्घातदशायामाहतानामपि चतुर्दशरज्ज्वात्मकलोकव्यापित्वेनात्मनः. सर्वव्याप १ समुद्घातः---हन् हिंसागत्योः । हननं घातः । सम् एकीभावे । उत् प्राबल्ये । ततश्चैकीभावन प्राबल्येन च घातः समुद्धातः । अथ केन सहकभिावगमनम् । उच्यते। यदात्मा वेदनादि ( वेदनाकषायमरणवैक्रियतैजसाहारकेवलिकेति ) अनुभवज्ञानपरिणतो बहून्वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति । आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः । अतः प्राबल्येन घातइति । भगवतीसूत्रे शतक १३ उद्देश १० अभयदेवीयटीकायाम् ।। केवलिसमुद्धातोऽष्टसामयिकः । तं च कुर्वन् केवली प्रथमसमये बाहुल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति। द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाटम् । तृतीये मंथानम् चतुर्थेऽवकाशान्तराणां पूरणम् । पञ्चमेऽवकाशान्तराणां संहारम् । षष्ठे मथः सप्तमे कपाटस्थः । अष्टमे स्वशरीरस्थो भवति । इत्यभिधानराजेन्द्रकोशे सप्तमभागे पृ. ४२९। __२ केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्त एतावत्प्रमाणा रज्जुरवगन्तव्या अधस्तादधोभागोऽधोमुखमल्लकतुल्योऽधोमुखीकृतशरावसदृक्षाकार उपरि पुनः संघुटस्थितयोमलकयोः शरावयोराकारमनुसरति लोकः । अयमर्थः । प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति । स च पञ्चास्तिकायमयो धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैर्व्याप्तः । प्रवचनसारोद्धारटीकायां सिद्धसेनसूरिशेखरकृतायां द्वार १४३। अस्य सर्वस्य लोकस्य कलया भागाश्चतुर्दश । एकैकस्य विभागोऽयमेकैकरज्जुसंमितः ॥८॥ सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एका रज्जुरियं भवेत् ॥ ९ ॥ प्रत्येकमेवं सप्तानां भुवामुपरि वर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ।। १० ॥ रत्नप्रभोपरितलात् आरभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ॥११ ॥ तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता। अतः परं तु दशमी लान्तकान्ते समाप्यते ॥ १२ ॥ भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥ १३ ॥ भवेद् अवेयकस्यान्ते लोकान्ते च चतुर्दशी। धौर्श्वभागादूर्वाधः सप्तसप्तति रज्जवः ॥ १४ ॥ उपाध्यायश्रीविनयविजयजीकृत लोकप्रकाशे २२ सर्गे ॥ तत्त्वार्थाधिगमसूत्र ३-६ । Page #137 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १० कत्वम् , तत् कादाचित्कम् ; इति न तेन व्यभिचारः; स्याद्वादमन्त्रकवचावगुण्ठितानां च नेदृशबिभीषिकाभ्यो भयम् । इति काव्यार्थः ॥ ९॥ वैशेषिकनैयायिकयोः प्रायः समानतन्त्रत्वादौलूक्यमते क्षिप्ते योगमतमपि क्षिप्तमेवावसेयम् । पदार्थेषु च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थ प्रत्यसाधकतमत्वे वाच्येऽपि, तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह स्वयं विवादग्राहिले वितण्डा पाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन् ! अहो विरक्तो मुनिरन्यदीयः ॥१०॥ अन्ये-अविज्ञातत्वदाज्ञासारतयाऽनुपादेयनामान : परे, तेषामयं शास्तृत्वेन सम्बन्धी अन्यदीयो मुनिः अक्षपाद ऋषिः, अहो! विरक्तः-अहो! वैराग्यवान् । अहो इत्युपहासगर्भमाश्चर्य सूचयति । अन्यदीय इत्यत्र “ ईयकारके" ( हैममू० ३।२।१२१ ॥) इति दोऽन्तः । किं कुर्वन्नित्याह-परमर्म भिन्दन्-जातावेकवचनप्रयोगात् परममाणि व्यथयन् ‘बहुभिरात्मप्रदेशैरधिष्ठिता देहावयवा मर्माणि' इति परिभाषिकी संज्ञा, तत उपचारात् साध्यस्वतत्त्वसाधनाऽव्यभिचारितया प्राणभूतः साधनोपन्यासोऽपि मर्मेव मर्म । कस्मात् ताद्भन्दन् ? मायोपदेशाद्धेतोः; माया-परवञ्चनम्, तस्या १ 'एकवचनात् ' इति क. घ. पुस्तकयोः पाठः । २ 'सतत्त्व' इति घ. पुस्तके पाठः । Page #138 -------------------------------------------------------------------------- ________________ श्लोक १० अन्ययोगव्यवच्छेदिका उपदेशः-छलजातिनिग्रहस्थानलक्षणपदार्थत्रयप्ररूपणद्वारेण शिष्यभ्यः प्रतिपादनं, तस्मात् “गुणादस्त्रियां न वा" ( हेममू० २।२।७७॥) इत्यनेन हेतौ तृतीयाप्रसङ्गे-पञ्चमी । कस्मिन् विषये मायामयमुपदिष्टवान् ?, इत्याह-अस्मिन्-- प्रत्यक्षोपलक्ष्यमाणे, जने--तत्त्वाऽतत्त्वविमर्शबहिर्मुखतया प्राकृतप्राये लोके । कथम्भूते ? स्वयम्-आत्मना परोपदेशनिरपेक्षमेव, विवादग्राहिले-विरुद्धः-परस्परलक्ष्यीकृतपक्षाधिक्षेपदक्षः, वादो-वचनोपन्यासो विवादः । तथा च भगवान् हरिभद्रसूरिः" लब्धिख्यात्यर्थिना तु स्याद् दुःस्थितेनामहात्मना । छलजातिप्रधानो यः स विवाद.इति स्मृतः" ॥१॥ तेन ग्रहिल इव-ग्रहगृहीत इव, तत्र । यथा-ग्रहाद्यपस्मारपरवशः पुरुषो यत्किञ्चनप्रलापी स्याद् एवमयमपि जन इति भावः। ___ तथा, वितण्डा-प्रतिपक्षस्थापनाहीनं वाक्यम् वितण्डयते आहन्यतेऽनया प्रतिपक्षसाधनमिति . व्युत्पत्तेः; " अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते"इति न्यायवार्तिकम् । वस्तुतस्त्वपरामृष्टतत्त्वातत्त्वविचारं मौखर्य वितण्डा; तत्र यत्पाण्डित्यम्-अविकलं कौशलं, तेन कण्डूलं मुखं लपनं यस्य स तथा तस्मिन् । कण्डू:--खजूः, कण्डूरस्यास्तीति कण्डूलम्, सिध्माँदित्वाद् मत्वर्थीयो लप्रत्ययः यथा-किलान्तरुत्पन्नकृमिकुलजनितां १ श्रीहरिभद्रसूरिकृते १२ अष्टके श्लो. ४ । २ न्यायवार्तिक पृ. १५ पं. ४ सूत्र १ अध्याय १ आह्निक १ । ३ ' हि ' इति रा. क. ख. घ. ह. पुस्तकेष्वधिकम् । ४ ' तथाऽपरामृष्ट ' इति क. पुस्तके पाठः । ५ ' विचारमौखर्यम् ' इति क. पुस्तके पाठः । ६ 'कण्डूलमिव ' इत्यधिकं क. ख. घ. ह. पुस्तकेषु । ७ — सिध्मादिक्षुद्रजन्तुरुग्भ्यः ' हैमसू. ७।२।२१। Page #139 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १० कण्ड्रति निरोद्धुमपारयन् पुरुषो व्याकुलतां कलयति, एवं तन्मुखमपि वितण्डापाण्डित्येनासंबद्धप्रलापचापलमाकलयत् कण्डूलमित्युपचर्यते। एवं च स्वरसत एव स्वस्वाभिमतव्यवस्थापनाविसंस्थुलो वैतण्डिकलोकः,तत्र च तत्परमाप्तभूतपुरुषविशेषपरिकल्पितपरवञ्चनप्रचुरवचनरचनोपदेशश्चेत् सहायः समजनि, तदा स्वत एव ज्वालाकलापजटिले प्रज्वलति हुताशन इव कृतो घृताहुतिप्रक्षेप इति; तैश्च भवाभिनन्दिभिर्वादिभिरेतादृशोपदेशदानमपि तस्य मुनेः कारुणिकत्वकोटावारोपितम् । तथा चाहुः। __ "दुःशिक्षितकुतर्काशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः ? ॥१॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः। मा गादिति च्छलादीनि प्राह कारुणिको मुनिः॥२॥" कारुणिकत्वं च वैराग्याद न भिद्यते, ततो युक्तमुक्तम्-अहो ! विरक्त इति स्तुतिकारेणोपहासर्वचनम् । .. अथ मायोपदेशादिति सूचनासूत्रं वितन्यते,-अक्षपादमते किल षोडशपदार्थाः; प्रमाणेप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञाना निःश्रेयसाधिगमः इति वचनात् । न चैतेषां व्यस्तानां समस्तानां वा अधिगमो निः१ ' स्वाभिमतमत ' इति रा. पुस्तके पाठः। २ भवाभिनन्दी-असारोऽप्येष संसारः सारवानिव लक्ष्यते । दधिदुग्धाम्बुताम्बूलपुण्यपण्याङ्गनादिभिः ॥ इत्यादिवचनैः संसाराभिनन्दनशीलः ॥ ३ 'कुशिक्षित ' इति घ, पुस्तके पाठः । - ४ ' उक्तम् ' इति क. पुस्तके नास्ति । .344. Ann. . . ४' उक्तम्' इति के. पुरखवा ५ गौतमसूत्र १।१।१। Page #140 -------------------------------------------------------------------------- ________________ श्लोक १० . अन्ययोगव्यवच्छेदिका श्रेयसावाप्तिहेतुः । न ह्येकेनेव क्रियाविरहितेन ज्ञानमात्रेण-मुक्तिर्युक्तिमती; असमग्रसामग्रीकत्वातः विघटितैकचक्ररथेन मनीषितनगरप्राप्तिवत् । न च वाच्यं न खलु वयं क्रियां प्रतिक्षिपामः, किन्तु तत्त्वज्ञानपूर्विकाया एव तस्या मुक्तिहेतुत्वमिति ज्ञापनार्थ-तत्वज्ञानाद् निःश्रेयसाधिगम इति ब्रूम इति; न ह्यमीषां संहते अपि ज्ञानक्रियेमुक्तिप्राप्तिहेतुभूते; वितथत्वात् तज्ञानक्रिययोः। न च वितथत्वमसिद्धम् -विचार्यमाणानां षोडशानामपि तत्त्वाभासत्वात्.। तथाहितैः प्रमाणस्य तावद् लक्षणमित्थं सूत्रितम्-"अर्थोपलब्धिहेतुः प्रमाणम्" इति । एतच्च न विचारसहम् यतोऽर्थोपलब्धौ हेतुत्वं यदि निमित्तत्वमात्रं,तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः । अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणमेव विवक्षितं, तर्हि तज्ज्ञानमेव युक्तं, न चेन्द्रियसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति, स तत्करणम्; न चेन्द्रियसन्निकर्षसामग्र्यादौ सत्यपि ज्ञानाभावेऽर्थोपलम्भः। साधकतमं हि करणम्; अव्यवहितफलं च तदिष्यते; व्यवहितफलस्यापि करणत्वे दुग्धभोजनादेरपि तथाप्रसङ्गः। तन्न ज्ञानादन्यत्र प्रमाणत्वम्; अन्यत्रोपचारात् । यदपि न्यायभूषणसूत्रकारेणोक्तम्-“ सम्यगनुभवसाधनं प्रमाणम्" इति । तत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्यैव प्रमाणत्वं सिध्यति । तथाऽप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवः इति न तत् सम्यग् लक्षणम् । “ स्वपरव्यवसायि ज्ञानं १ 'आसूत्रितम् ' इति क. पुस्तके पाठः। । २ एतदर्थकं गौमतसूत्रभाष्ये २।१।११ पृ. ९४ पं. ४ ३ उपचारो लक्षणा। ४ न्यायसारे भासर्वज्ञप्रणीते, प्रथमपरिच्छेदे प्रथमसूत्रम् । ५ प्रमाणनयतत्त्वालोकालङ्कारे परिच्छेद १ सूत्र २ । Page #141 -------------------------------------------------------------------------- ________________ . स्याद्वादमञ्जरीसहिता श्लोक १० प्रमाणम्” इति तु तात्त्विकं लक्षणम् । प्रमेयमपि तै-आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदाद् द्वादशविधमुक्तम् । तच्च न सम्यंग्; यतः शरीरेन्द्रियबुद्धिमनःप्रात्तदोषफलदुःखानाम्-आत्मन्येवान्तर्भावो युतः; संसारिण आत्मनः कथञ्चित् तदविष्वग्भूतत्वात् । आत्मा च प्रमेय एव न भवति, तस्य प्रमातृत्वात् । इन्द्रियबुद्धिमनसां तु-- करणत्वात् प्रमेयत्वाभावः । दोषास्तु-रागद्वेषमोहाः, ते च प्रवृत्तेर्न पृथग्भवितुमर्हन्ति; वाङ्मनःकायव्यापारस्य शुभाशुभफलस्य विंशतिविधस्य तन्मते प्रवृत्तिशब्दवाच्यत्वात् रागादिदोषाणां च-मनो-- व्यापारात्मकत्वात् । दुःखस्य शब्दादीनामिन्द्रियार्थानां च-फल एवान्तावः " प्रवृत्तिदोषजानतं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं तु गौणम्" इति जयन्तवचनात् । प्रेत्यभावापवर्गयोः-पुनरात्मन एव परिणामान्तरापत्तिरूपत्वाद्, न पार्थक्यमात्मनः सकाशादुचितम् तदेवं द्वादशविधं प्रमेयमिति वाग्विस्तरमात्रम् “ द्रव्यपर्यायात्मकं वस्तु प्रमेयम्" इति तु समीचीनं लक्षणम्। सर्वसंग्राहकत्वात् । एवं संशयादीनामपि तत्त्वाभासत्वं प्रेक्षावद्भिरनुपेक्षणीयम् अत्र तु-प्रतीतत्वाद्, ग्रन्थगौरवभयाच न प्रपश्चितम् । न्यक्षेण ह्यत्र न्यायशास्त्रमवतारणीयम् ; तच्चावतार्यमाणं पृथग् ग्रन्थान्तरतामवगाहत इत्यास्ताम् । ___ तदेवं प्रमाणादिषोडशपदार्थानामविशिष्टेऽपि तत्त्वाभासत्वे प्रकटकपटनाटकसूत्रधाराणां त्रयाणामेव छलजातिनिग्रहस्थानानां मायोपदेशादिति पदेनोपक्षेपः कृतः। तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः-छलम् । तत् त्रिधा-वाक्छलं, सामान्यछलम्, उपचा -- १ 'अपि' इति क. पुस्तके नास्ति । २ पूर्णत्वेन ॥ Page #142 -------------------------------------------------------------------------- ________________ ૭૨ श्लोक १० अन्ययोगव्यवच्छेदिका रछलं चेति । तत्र साधारणे शब्दे प्रयुक्ते वक्तुरभिप्रेतांदान्तरकल्पनया तनिषेधो वाक्छलम्; यथा नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते, परः संख्यामारोप्य निषेधाति--कुतोऽस्य नव कम्बलाः ?, इति । संभावनयातिप्रसाङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तनिषेधः-सामान्यछलम्; यथा-अहो ! नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे, कश्चिद् वदति-सम्भवति ब्राह्मणे, विद्याचरणसम्पदिति; तत् छलवादी ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वन्नाभियुङ्क्ते याद ब्राह्मणे विद्याचरणसंपद् भवति, व्रात्येऽपि सा भवेद्, व्रात्योऽपि ब्राह्मण एवेति। औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम्-उपचारछंलम् । यथा-मञ्चाः क्रोशन्तीत्युक्ते, परः प्रत्यवतिष्ठते-कथमचेतना मञ्चाः क्रोशन्ति ?, मञ्चस्थाः पुरुषाः क्रोशन्तीति । . तथा सम्यग्हेतौ हेत्वाभासे वा वादिनाप्रयुक्ते, झटिति तदोषतत्त्वाप्रतिभासे हेतुप्रतिविम्वनप्रायं किमपि प्रत्यवस्थानं-जातिः, दृषणाभास इत्यर्थः । सा च चतुर्विंशतिभेदा साधादिप्रत्यवस्थानभेदेन; यथा-"साधर्म्यवैधोत्कर्षाऽपकर्षवर्ध्याऽवर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वार्थापत्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः"। तत्र साधर्येण प्रत्यवस्थानं-साधर्म्यसमा जातिर्भवति;-- अनित्यः शब्दः, कृतकत्वाद्, घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव १ ' अभिप्रेतादर्थात् ' इति रा. पुस्तके पाठः । . २ ' यथा ' शब्दो घ. पुस्तके नास्ति । ३ ' मञ्चस्थास्तु ' इति क. घ. पुस्तकयोः पाठः । . ४ - प्रतिबन्धनप्रायम् ' इति क. पुस्तके पाठः । ५ गौ, सू. ५।११। Page #143 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १० प्रत्यवस्थानम्,-नित्यःशब्दो, निरवयवत्वाद, आकाशवत् । न चास्ति विशेषहेतुः-घटसाधात् कृतकत्वादनित्यः शब्दः, न पुनराकाशसाधाद् निरवयवत्वाद् नित्य इति । वैधपेण प्रत्यवस्थानंवैधर्म्यसमा जातिर्भवति;- अनित्यः शब्दः,- कृतकत्वाद् घटवदित्यत्रैव प्रयोगे, स एव प्रतिहेतुवैधर्येण प्रयुज्यते-नित्यः शब्दो निरवयवत्वात्। अनित्यं हि सावयवं दृष्टम् । घटादीति । न चास्ति विशेषहेतुः-घटसाधर्म्यात् कृतकत्वादनित्यः शब्दः, न पुनस्तद्वैध ाद् निरवयवत्वाद् नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानम्उत्कर्षापकर्षसमे जाती भवतः-तत्रैव प्रयोगे, दृष्टान्तधर्म कश्चित् साध्यधर्मिण्यापादयन् उत्कर्षसमां जातिं प्रयुङ्क्ते यदि घटवत् कृतकत्वादनित्यः शब्दः घटवदेव मूर्तोऽपि भवतु। न चेद् मूर्तः , घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्-अश्रावणो दृष्टः, एवं शब्दोऽप्यस्तु । नो चेद् घटबदनित्योऽपि मा भूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति । इत्ये ताश्चतस्रो दिङ्मात्रदर्शनार्थ जातय उक्ताः । एवं शेषा अपि विंशतिरक्षपोदशास्त्रादवसेयाः । अत्र त्वनुपयोगित्वाद् न लिखिताः। . .तथा विप्रविपत्तिरपतिपत्तिश्च-निग्रहस्थानम् । तत्र विपतिपत्तिः-साधनाभासे साधनबुद्धिः, दूषणाभासे च दूषणबुद्धिरिति । अप्रतिपत्तिः साधनस्यादृषणं, दूषणस्य चानुद्धरणम् । तच्च निग्रहस्थान द्वाविंशतिविधम् तद्यथा-१ प्रतिज्ञाहानिः २ प्रतिज्ञान्तरम् ३ प्रतिज्ञाविरोधः ४ प्रतिज्ञासंन्यासः ५ हेत्वन्तरम् ६ अर्थान्तरम् १ निखयवत्वस्वरूपः । २ गौतमसूत्र ५।२।१। ३ तथा च ' इति घ, पुस्तके पाठः। Page #144 -------------------------------------------------------------------------- ________________ श्लोक १० अन्ययोगव्यवच्छेदिका ७ निरर्थकम् ८ अविज्ञातार्थम् ९ अपार्थकम् १० अप्राप्तकालम् ११ न्यूनम् १२ अधिकम् १३ पुनरुक्तम् १४ अननुभाषणम् १५ अज्ञानम् १६ अप्रतिभा १७ विक्षेपः १८ मतानुज्ञा १९ पर्यनुयोज्योपेक्षणम् २० निरनुयोज्यानुयोगः २१ अपसिद्धान्तः २२ हेत्वाभासाश्च । तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानम् । यथा नित्यः-शब्दः ऐन्द्रियकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् , परेण सामान्यमन्द्रियकमाप नित्यं दृष्टमिति हेतावनैकान्तिकीकृते, यद्येवं ब्रूयात् सामान्यवद् घटोऽपि नित्यो भवत्विति, स एवं ब्रुवाणः शब्दाऽनित्यत्वप्रतिज्ञां जह्यात् । प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमाभिदधतःप्रतिज्ञान्तरं नाम-निग्रहस्थानं भवति। अनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते, तथैव सामान्येन व्यभिचारे चोदिते, यदि ब्रूयाद्-युक्तं यत् सामान्यमैन्द्रियकं नित्यम् , तद्धि सर्वगतम् , असर्वगतस्तु शब्द इति । तदिदं शब्देऽनित्यत्वलक्षणपूर्वप्रतिज्ञातःप्रतिज्ञान्तरमसर्वगतः शब्द इति निग्रहस्थानम् । अनया दिशा शेषाण्यपि विंशति यानि । इह तु न लिखितानि, पूर्वहेतोरेव । इत्येवं मायाशब्देनात्र छलादित्रयं सूचितम् । तदेवं परवञ्चनात्मकान्यपि छलजातिनिग्रहस्थानानि तत्त्वरूपतयोपदिशतो अक्षपादर्षेवैराग्यव्यावर्णनं, तमसः प्रकाशात्मकत्वप्रख्यापनमिव कथमिव नोपहसनीयम् ? इति काव्यार्थः॥१०॥ अधुना मीमांसकभेदाभिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरःसरं निरस्यन्नाह १ जैमिनेरभिमतम् । Page #145 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघाताद् नृपतित्वलिप्सा सब्रह्मचारी स्फुरितं परेषाम् ॥ ११ ॥ इह खल्वचिंमर्गप्रतिपक्षधूमंमार्गाश्रिता जैमिनीया इत्थमाचक्षते - या हिंसा गाद, व्यसनितया वा क्रियते; सैवाधर्मानुबन्धहेतुः। प्रमादसंपादितत्वात् । सौनिकलुब्धंकादीनामिव । वेदविहिता तु हिंसा - प्रत्युत धर्महेतुः। देवतातिथिपितॄणां प्रीतिसंपादकत्वात्, तथाविधपूजोपचारवत् । न च तत्प्रीतिसंपादकत्वमसिद्धम् काँरीरीप्रभृतियज्ञानां स्वसाध्ये दृष्ट्यादिफले यः खल्वव्यभिचारः, स तत्मीणितदेवताविशेषानुग्रहहेतुकः । एवं त्रिपुरार्णववर्णितंच्छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिरपि तदनुकूलितदैवतप्रसादसंपाद्या । अतिथिप्रीतिस्तु-मधुपर्कसंस्काराद्विसमास्वादजा प्रत्यक्षोपलक्ष्यैव । १ ‘‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । इत्यर्चिर्मार्गः । अयमेवोत्तरमार्ग इत्यभिधीयते । भ.गी.अ. ८श्लो. २४ २ 'धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतियोगी प्राध्य निवर्तते ।। इति धूममार्गः । अयमेव दक्षिणमार्ग इत्यप्यभिधीयते । भ.गी.अ.८श्लो.२५ ३ ' या ' इति ख. पुस्तके नास्ति । ४ गार्ध्यात्–लोभात् । ५ 'सौनिक:--सूना हिंसा तया चरतीति सौनिको हिंसाजीवीत्यर्थः । ७५ श्लोक ११ ६ लुब्धकः -- व्याधः । ७ कारीरी--एतत्संज्ञिकेष्टिः । तस्याश्च फलं वृष्टिः । कं जलमृच्छतीति कारो जलदस्तमीरयति प्रेरयतीति कारीरीति कारीरीशब्दस्य व्युत्पत्तिः । ८ त्रिपुरार्णवो - मन्त्रशास्त्रविषयको निबन्धः । १० जाङ्गलं-- हरिणमांसम् । ११ दधिमधुसंयुक्तः पूजाविशेषः । १२ ' एवं पितॄणाम् ' इति क पुस्तके पाठः । ९ छगलो मेषः । Page #146 -------------------------------------------------------------------------- ________________ श्लोक ११ अन्ययोगव्यवच्छेदिका पितृणामाप तत्तदुपयाचित्तश्रद्धादिविधानेन प्रीणितात्मनां स्वसन्तानद्धिविधानं साक्षादेवं वीक्ष्यते । आगमश्चात्र प्रमाणम्। स च देवप्रीत्यर्थमश्वमेधगोमेधनरमेधादिविधानाभिधायकः प्रतीत एव । अतिथिविषयस्तु-" महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ॥” इत्यादिः । पितृप्रीत्यर्थस्तु-" द्वौ मांसौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरभ्रणाथ चतुरः शाकुनेनेह पञ्च तु" ॥१॥ इत्यादिः। एवं पराभिप्राय हाद संप्रधाचार्यः प्रतिविधत्ते-न धर्मेत्यादि। विहितापि-वेदप्रतिपादितापि; आस्तां तावदविहिता । हिंसा-प्राणिप्राणव्यपरोपणरूपा । न धर्महेतुः-न धर्मानुबन्धानबन्धनम् । यतोऽत्र प्रकट एव स्ववचनविरोधः । तथाहि-'हिंसा चेद-धर्महेतुः कथम् ? 'धर्महेतुश्चेद् हिंसा कथम्' ? " श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्" इत्यादिः। न हि भवति माता च, वन्ध्या चेति । हिंसा कारणं, धर्मस्तु तत्कार्यमिति परोभिप्रायः; न चायं निरंपायः। यतो यद् यस्यान्वयव्यतिरेकावनुविधत्तें तत् तस्य कार्यम्; यथा मृत्पिण्डादेर्घटादिः । न च धर्मो हिंसात एव भवतीति प्रातीतिकम्। तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात् । १ याज्ञवल्क्यस्मृतिः--आचाराध्यायः श्लो. १०९। २ मनुस्मृतिः अ. ३ श्लो. २६८ तदने--' षण्मासांश्छागमांसेन पार्षतेन हि सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु । २६९ । दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मस्य मांसेन मासानेकादशैव तु । २७० । संवत्सरं तु गव्येन पयसा पायसेन वा । वार्षीणस्य मांसेन तृप्तिादशवार्षिकी ।। २७१ ॥' ३ 'प्रकटतः ' इति क. पुस्तके पाठः। ४ · श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवोपधारयेत् ' । इति चाणक्यराजनीतिशास्त्रे अ. १ श्लो. ७ । ५ वादिनोऽभिप्रायः । ६ निरपायः-निर्बाधः। Page #147 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक ११ अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः, किन्तु विशिष्टामेव । विशिष्टा च सैव - या वेदविहिता इति चेत्--ननु तस्या धर्महे तुत्वं किं वध्यजीवानां मरणाभावेन, मरणेऽपि तेषामार्तध्यानाभावात् सुगतिलाभेन वा ? | नाद्यः पक्षः - प्राणत्यागस्य तेषां साक्षादवेक्ष्यमाणत्वात् । न द्वितीयः – परचेतोवृत्तीनां दुर्लक्षतयार्तध्यानाभावस्य वाङ्मात्रत्वात् । प्रत्युत हा ! कष्टमस्ति ने कोऽपि कारुणिकः शरणम् इति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलतादीनां लिङ्गानां दर्शनाद दुर्ध्यानस्य स्पष्टमेव निष्टङ्कयमानत्वात् । ७७ अथेत्थमाचक्षीथाः – यथा अयःपिण्डो गुरुतया मज्जनात्मकोऽपि तनुतरपत्रादिकरणेन संस्कृतः सन् जलोपरि प्लवते, यथा च मारणात्मकमपि विषं मन्त्रादिसंस्काररावशिष्टं सद्गुणाय जायते, यथा वा दहनस्वभावोऽप्यभिः सत्यादिप्रभावप्रतिहतशक्तिः सन् नहिी दहति । एवं मन्त्रादिविधिसंस्काराद् न खलु वेदविहिता हिंसा दोषपोषय । न च तस्याः कुत्सितत्वं शङ्कनीयम् । तत्कारिणां याज्ञिकानां लोके पूज्यत्वदर्शनादिति । तदेतद् न दक्षाणां क्षमते क्षोदम् । वैधर्म्येणे दृष्टान्तानामसाधकतमत्वात् । अयःपिण्डादयो हि पत्रादिभावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः, न च वैदिकमन्त्रसंस्कारविधिनापि विशस्यमानानां पशूनां काचिद् वेदनानुत्पादादिरूपा भावान्तरापत्तिः प्रतीयते । अथ तेषां वधानन्तरं देवत्वापत्तिर्भावान्तरमंस्त्येवेति चेत् — किमत्र प्रमाणम् ? । न तावत् प्रत्यक्षम् - 6 १. नः' इति घ. क. ख. पुस्तकेषु पाठः । २ ' लिङ्गानाम् ' इति घ. पुस्तके नास्ति । C , ३ यथाच इत्यारभ्य ' जायते ' इत्यन्तं रा. पुस्तके नास्ति । ४ दोषाणां पोषणायेत्यर्थः । ५ ' वैषम्येण ' इति घ. रा. ह. पुस्तकेषु पाठः । ६ ' वेदनानुदयादि ' इति क पुस्तके पाठ: । -- Page #148 -------------------------------------------------------------------------- ________________ ___ ७८ श्लोक ११ अन्ययोगव्यवच्छेदिका तस्य संबद्धवर्तमानार्थग्राहकत्वात्-" सम्बन्धं वर्तमानं च गृह्यते चक्षुरादिना।" इति वचनात् । नाप्यनुमानम्-तत्प्रतिबद्धलिङ्गानुपलब्धः। नाप्यागमः-तस्याद्यापि विवादास्पदत्वात् । अर्थापत्त्युमानयोस्त्वनुमानान्तर्गततया तदृषणेनैव गतार्थत्वम् । . अथ भवतामपि जिनायतनादिविधाने परिणामविशेषात पृथिव्यादिजन्तुजातघातनमाप यथा पुण्याय कल्प्यते इति कल्पना । तथा अस्माकमपि किं नेष्यते । वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निर्विकल्पं तत्रापि भावात् । नैवम् । परिणामविशेषोऽपि स एव शुभफलो, यत्रानन्योपायत्वेन यतनयाऽप्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधेऽपि. स्वल्पपुण्यव्ययेनापरिमितसुकृतसंप्राप्तिः, न पुनरितरः । भवत्पक्षे तु सत्स्वपि तत्तच्छ्रतिस्मृतिपुराणेतिहासप्रतिपादितेषु यमनियमादिषु स्वर्गावाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रातिप्रैकिं कर्तनकदर्थनया कान्दिशीकान् कृपणपञ्चेद्रियान सौनकाधिकं मारयतां कृत्स्नसुकृतव्ययेन दुर्गतिमेवानुकूलयतां दुर्लभः शुभपरिणामविशेषः। एवं च यं कञ्चन पदार्थ किञ्चित्साधर्म्यद्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते। .. __ न च जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणः । १ मीमांसाश्लोकवार्तिके सू. ४ श्लो. ८४ । २ 'गतार्थत्वात् ' इति ह. रा. पुस्तकयोः पाठः । ३वेदोक्तविधान ' इति ह. पुस्तके पाठः । ४ प्रतीकः-अवयवः। ५ कान्दिशीकः-भयद्रुतः । ६ सौनकः-हिंसाजीवी । ७ ' साधर्म्यमात्रेणैव ' । इति क. पुस्तके पाठः । . ८ ' जिनभवन ' इति क. पुस्तके पाठः । Page #149 -------------------------------------------------------------------------- ________________ श्लोक ११ ७९ तथाहि तद्दर्शनाद् गुणानुरागितया भैन्यानां बोधिलाभ:, पूजातिशयविलोकनादिना च मनःप्रसादः, ततः समाधिः, ततश्च क्रमेण निःश्रेयसप्राप्तिरिति । तथा च भगवान् पञ्चलिङ्गीकारःपुढवाइयाण जइवि हु होइ विणासो जिणालयाहिन्तो । स्याद्वादमञ्जरीसहिता १ सिद्धिगमनयोग्यानाम् । २ बोधनं बोधिः समक्त्वं प्रेत्याजिनधर्मावातिर्वा । ३ सम्यग्दर्शनादिका मोक्षपद्धतिः । ४ श्रीजिनपतिसूरिः । ५ छाया - पृथिव्यादीनां यद्यपि भवत्येव विनाशो जिनालयादिभ्यः तद्विषयापि सुदृष्टेर्नियमतोऽस्त्यनुकम्पा ॥ १ ॥ एताभ्यो बुद्धा विरता रक्षन्ति येन पृथिव्यादीन् । अतो निर्वाणगता अबाधिता आमवमेषाम् || २ || रोगिशिरावेध इव सुवैद्यक्रिया इव सुप्रयुक्ता तु । परिणामसुन्दर इव चेष्टा सा बाधायोगेऽपि ॥ ३ ॥ इमा गाथा जिनपतिमुरिकृतपञ्चलिङ्गीग्रन्थे ५८ । ५९ । ६० । इत्यत्र लभ्यन्ते । अत्र टीका-ननु महानयं जिनगृहाद्यारम्भस्तत्र चावश्यंभावी पृथिव्याद्युपमर्दस्तथा चानुकम्पयाऽभाव इत्याशङक्य तान् समर्पयितुमाह--पृथ्व्यम्बुतेजोवायुवनस्पतित्रसलक्षणानां षट्जीवनिकायानां यद्यपि बहुरवधारणं भवत्येव जायेतैव विनाशो विध्वंसः । भूखननेष्टकापाकजलसेकादेरवश्यं तत्र भवान् जिनालयान् अर्हद्भवनादिनिर्मापणात् तथापि तद्विषयापि बिनश्यत् पृथ्व्यादिगोचरा अपि सुदृष्टेः सम्यग्दृशस्तु निर्धापयतु नियमान्निश्चयेनास्तु व इंति अनुकंपारक्षणाभिप्राय इति गाथार्थ: ५८ अथ तादृशं जीवोपमर्द प्रत्यक्षेण पश्यन् कथं तस्यानुकम्पां प्रतीमेत्यत आह-- एतस्माद् जिनवसत्यादिदर्शनाद् बुद्धास्तत्त्वज्ञानेन प्राप्तसम्यक्त्वाविरता चारित्राचारकर्मक्षयोपशमेन प्रतिपन्नचारित्राः सन्तो रक्षन्ति न हिंसन्ति येन यस्मात्कारणात् पृथिव्यादीन् जन्तून् । ततः किमित्याह-इतोऽस्मात् पृथिव्यादिरक्षणरूपचारित्रान्निर्वाणगता मुक्तिं प्राप्ताः सन्तोऽबाधका रक्षका भवन्तीति शेषः । आभवमासंसारं इमानन्ति - एषां जिनालयाद्युपयुज्यमानानामन्येषां च पृथिव्यादीनां इति कथं तत्त्वतो जिनालयादिकारयितुस्तेष्वनुकम्पा नास्तीति गाथार्थः । ५९ । एतदेव दृष्टान्तद्वयोपदर्शनेन द्रढयन्नाह - - रोगेण रक्तविकारादिना व्याधितस्य शिरोवेध इव रुधिराकर्षणाय शास्त्रेण नाडीव्यध इव वस्तुवैद्यकिये च वा प्रधानवैद्यचिकित्से वस्तुप्रयुक्ता निर्व्याजं प्रयुक्ता । वा सुमुच्चये । परिणामसुन्दर एवागामिनि काले सुखावह एव चेष्टा जिनालयादिनिर्माणारम्भक्रिया भवतीति शेषः । से इति । तस्य सम्यग्दृष्टेर्बाधायोगेऽपि आपाततो रोगिणः पीडासद्भावेऽपि देवगृहादौ तु पृथिव्याद्युपमर्द संभवेऽपि । इति गाथार्थः ॥ ६० ॥ Page #150 -------------------------------------------------------------------------- ________________ श्लोक ११ अन्ययोगव्यवच्छेदिका तव्विसया वि सुदिहिस्स णियमओ अत्थि अणुकंपा ॥१॥ एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई। इत्तो निव्वाणगया अबाहिया आभवमिमाणं॥२॥ रोगिसिरावेहो इव सुविजकिरिया व सुपउत्ताओ। परिणामसुंदरच्चिय चिट्ठा से बाहजोगे वि" ॥३॥ इति । वैदिकवधविधाने तु न कश्चित्पुण्यार्जनानुगुणं. गुणं पश्यामः । अथ विप्रेभ्यः पुरोडाशादिप्रदानेन पुण्यानुबन्धी गुणोऽस्त्येव इति चेत् । न । पवित्रसुवर्णादिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कृपणपशुगणव्यपरोपणसमुत्थं मांसदानं केवलं निघृणत्वमेव व्यनक्ति । अथ न प्रदानमात्रं पशुवधक्रियायाः फलं, किन्तु भूत्यांदिकम् । यदाह श्रुतिः-'श्वेतं वायव्यमजमालभेत भूतिकामः' इत्यादि । एतदपि व्यभिचारपिशाचग्रस्तत्वादप्रमाणमेव । भूतैश्चौपयिकान्तरैरपि साध्यत्वात् । अथ तत्र सत्रे हन्यमानानां छागादीनां प्रेत्य सद्गतिप्राप्तिरूपोऽस्त्येवोपकार इति चेत् । वाङ्मात्रमेतत् । प्रमाणाभावात् । न हि ते निहताः पशवः सद्गतिलाभमुदितमनसः कस्मैचिदागत्य तथाभूतमात्मानं कथयन्ति। अथास्त्यागमाख्यं प्रमाणम्। यथा " औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्रामुवन्त्युच्छ्रितं पुनः" ॥१॥ इत्यादि। नैवम् । तस्य पौरुषेयापौरुषेयविकल्पाभ्यां निराकरिष्यमाणत्वात् । १ 'पुण्यानुगुणम्' इति घ. पुस्तके पाठः। २ पुरो दाश्यते इति पुरोडाशो हुतद्रव्यावशिष्टम् । ३ पुण्यावहः। ४ 'साध्यमानत्वात्' इति ध. ह. रा. पुस्तकेषु पाठः । .. ५ हमेचन्द्रकृतयोगशास्त्रे परिगृहीतः श्लोकः। Page #151 -------------------------------------------------------------------------- ________________ स्थाद्वादमञ्जरीसहिता श्लोक ११ न च श्रौतेन विधिना पशुविशसनविधायिनां स्वर्गावाप्तिरुपकार इति वाच्यम् । यदि हि हिंसयाऽपि स्वर्गप्राप्तिः स्यात्, तर्हि बाढं पिहिता नरकपुरमतोल्यः। सौनिकादीनामपि स्वर्गप्राप्तिप्रसङ्गात् । तथा च पठन्ति परमौर्षाः_ "यूपं छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । .. यद्येवं गम्यते स्वर्गे नरके केन गम्यते ?" ॥१॥ ... किञ्च, अपरिचितास्पष्टचैतन्यानुपकारिपशुहिंसनेनापि यदि त्रिदिवपदवीप्राप्तिः, तदा परिचितस्पष्टचैतन्यपरमोपकारिमातापित्रादिव्यापादनेन यज्ञकारिणामधिकतरपदप्राप्तिः प्रसज्यते। अथ 'अचिन्त्यो हि माणिमन्त्रौषधीनां प्रभावः' इति वचनाद् वैदिकमन्त्राणामचिन्त्यप्रभावत्वात् तत्संस्कृतपशुवधे संभवत्येव स्वर्गप्राप्तिः, इति चेत् । न । इह लोके विवाहगर्भाधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलम्भाद्-अदृष्टे स्वर्गादावपि तद्व्यभिचारोऽनुमीयते । दृश्यन्ते हि वेदोक्तमन्त्रसंस्कारविशिष्टेभ्योऽपि विवाहादिभ्योऽनन्तरं वैधव्याल्पायुष्कतादारियाद्युपद्रवविधुराः परःशताः । अपरे च मन्त्रसंस्कारं विना कृतेभ्योऽपि तेभ्योऽनन्तरं तद्विपरीताः । अथ तत्र क्रियावैगुण्यं विसंवादहेतुः, इति चेत् । न । संशयानिवृत्तेः । किं तत्र क्रियावैगुण्यात् फले विसंवादः, किंवा मन्त्राणामसामर्थ्याद् ? इति न निश्चयः । तेषां फलेनाविनाभावासिद्धेः।। __अथ यथा युष्मन्मते “आरुंग्ग बोहिलाभं समाहिवरमुत्तमं दिंतु" इत्यादीनां वाक्यानां लोकान्तर एव फलमिष्यते, एवमस्मदभिमतवेदवाक्यानामपि नेह जन्मनि फलमिति किं न प्रति१ प्रतोल्यः-मार्गाः। २ 'पारमर्षाः ' इति क, ख. ह. पुस्तकेषु पाठः। ३ आवश्यकसूत्रचतुर्विंशतिस्तवाध्ययनमूलसूत्रगाथा ६ । छाया-आरोग्य बोधिलाभं समाधिवरमुत्तमं ददतु । . Page #152 -------------------------------------------------------------------------- ________________ ८२ श्लोक ११ अन्ययोगव्यवच्छेदिका पद्यते ? इतश्च विवाहादौ नोपलम्भावकाशः, इति चेत् । अहो ! वचनवैचित्री यथा वर्तमानजन्मनि विवाहादिषु प्रयुक्तैर्मन्त्रसंस्कारैरागामिनि जन्मनि तत्फलम्, एवं द्वितीयादिजन्मान्तरेष्वपि विवाहादीनामेव प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारेऽनन्तभवानुसन्धान प्रसज्यते। एवं च न कदाचन संसारस्य परिसमाप्तिः। तथा च न कस्यचिदपवर्गप्राप्तिः । इति प्राप्तं भवदभिमतवेदस्य पर्यवसितसंसारवल्लरीमूलकन्दत्वम् । आरोग्यादिप्रार्थना तु असत्याऽमृषाभाषापरिणामविशुद्धिकारणत्वाद् न दोषाय, तत्र हि-भावारोग्यादिकमेव विवक्षितम् , तच्च चातुर्गतिकसंसारलक्षणभावरोगपरिक्षयस्वरूपत्वाद्-उत्तमफलम् । तद्विषया च प्रार्थना कथमिव विवेकिनामनादरणीयाः । न च तज्जन्यपरिणामविशुद्धस्तत्फलं न प्राप्यते । सर्ववादिनां भावशुद्धेरपवर्गफलसम्पादनेऽविप्रतिपत्तेरिति । ___नच वेदनिवेदिता हिंसा न कुत्सिता । सम्यग्दर्शनज्ञानसम्पन्नरचिार्गप्रपन्नैर्वेदान्तवादिभिश्च गार्हतत्वात् । तथा च तत्त्वदर्शिनः पठन्ति " देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम्" ॥१॥ वेदान्तिका अप्याहुः" अन्धे तमास मज्जामः पशुभिर्ये यजामहे ।। हिंसा नाम भवेद् धर्मो न भूतो न भविष्यति" ॥१॥ तथा · अग्निर्मामेतस्माद्धिंसाकृतादेनसो मुञ्चतु' छान्दसत्वाद् मोचयतु इत्यर्थः। इति । १ 'अतश्च ' ख. क. ह. रा. पुस्तकेषु पाठः । २ नारक १ तिर्यक् २ मानुष ३ देव ४ इति गतिचतुष्टयम् । ३ 'आचार्गः' (७९) पृष्ठे टिप्यन्यां द्रष्टव्यः । . ४ 'यथा' इति ख. पुस्तके पाठः। Page #153 -------------------------------------------------------------------------- ________________ ८३ स्याद्वादमञ्जरीसहिता श्लोक १.६ व्यासेनाप्युक्तम्: " ज्ञानपालिपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि । स्नात्वाऽतिविमले तीर्थे पापपङ्कापहारिणि ॥ १ ॥ ध्यानानौं जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ॥ २॥ कषायपशुभिर्दुष्टैर्धर्मकामार्थनाशकैः । शममन्त्रहुतैर्यज्ञं विधेहि, विहितं बुधैः ॥ ३ ॥ प्राणिघातात् तु यो धर्ममीहते मूढमानसः । स वाञ्छति सुधावृष्टिं कृष्णाहिमुखकोटरात् ॥ ४ ॥ इत्यादि । यच्च याज्ञिकानां लोकपूज्यत्वोपलम्भादित्युक्तम् । इदमप्यसारम् । अबुधा एव पूजयन्ति तान् न तु विविक्तबुद्धयः । अबुध- पूज्यता तु न प्रमाणम् । तस्याः सारमेयादिष्वप्युपलम्भात् । यदप्यभिहितं -- देवतातिथिपितृप्रीतिसंपादकत्वाद् वेदविहिता हिंसा न दोषायति । तदपि वितथम् । येतो देवानां संकल्पमात्रोपनताभिमताहारपुद्गलरसास्वाद सुहितानां वैक्रियैशरीरत्वाद् युष्मदावर्जितो जुगुप्सितपशुमांसाद्याहुतिप्रगृहीतौ, इच्छेव दुःसंभवा । औदारिकशरीरिणामेव तदुपादानयोग्यत्वात् । प्रक्षेपाहारस्वीकारे च देवानां मन्त्रमयदेहत्वाभ्युपगमबाधः । न च तेषां मन्त्रमयदेहत्वं भवत्पक्षे न सिद्धम् । “चतुर्थ्यन्तं पदमेव देवता” इति जैमिनिवचनप्रामाष्यात् । तथा च मृगेन्द्रः १ 'तदप्यरम्' इति ह. पुस्तके पाठः । २ 'यथा, इति ख. पुस्तके पाठः । ३ | ४ विस्तस्तु तत्त्वार्थसू. २-४९ द्रष्टव्यः । Page #154 -------------------------------------------------------------------------- ________________ श्लोक ११ अन्ययोगव्यवच्छेदिका " शब्देतरत्वे, युगपद् भिन्नदेशेषु यष्टुषु । न सा प्रयाति सांनिध्यं मूर्तत्वादस्मदादिवत् " ॥ १ ॥ सेति देवता । ८४ 46 हूयमानस्य च वस्तुनो भस्मीभावमात्रोपलम्भात्, तदुपभोगजनिता देवानां प्रीतिः प्रलापमात्रम् । अपि च, योऽयं त्रेताग्निः - स त्रयत्रिंशत्कोटिदेवतानां मुखम्; “अग्निमुखा वै देवाः " इति श्रुतेः । ततश्चोत्तममध्यमाधमदेवानामेकेनैव मुखेन भुञ्जानानामन्योन्योच्छिष्टभुक्तिप्रसङ्गः । तथा च ते तुरुष्केभ्योऽप्यतिरिच्यन्ते । तेऽपि तावदेकत्रैवामत्रे भुञ्जते, न पुनरेकेनैव वदनेन । किञ्च एकस्मिन् वपुषि वनवाहुल्यं वचन श्रूयते यत्पुनरनेकशरीरेष्वेकं मुखमिति महदाश्चर्यम् । सर्वेषां च देवानामेकस्मिन्नेव मुखेऽङ्गीकृते, यदा केनचिदेको देवः पूजादिनाऽराद्धोऽन्यश्च निन्दादिना विराद्धः, ततश्वेकेनैव मुखेन युगपदनुग्रहनिग्रहवाक्योच्चारणसङ्करः प्रसज्येत । अन्यच्च मुखं देहस्य नवमो भागः, तदपि येषां दाहात्मकं तेषामेकैकशः सकलदेहस्य दाहात्मकत्वं त्रिभुवनभस्मीकरणपर्यवसितमेव संभाव्यत इत्यलमतिचर्चया । यश्च कारीरीयज्ञादौ दृष्ट्यादिफलेऽव्यभिचारस्तत्प्रीणितदेवतानुग्रहहेतुक उक्तः - सोऽप्यनैकान्तिकः । कचिद् व्यभिचारस्यापि दर्शनात् । यत्रापि न व्यभिचारस्तत्रापि न त्वदाहिताहुतिभोजनजन्मा तदनुग्रहः, किन्तु स देवताविशेषोऽतिशयज्ञानी स्वोदेशनिर्वर्तितं १ देवताः शब्दमयाः । अस्मदादिवत्तेषां मूर्तिस्वीकारे युगपत्सकलयज्ञेषु गमनासंभव इत्यर्थः । २ (१) दक्षिणाग्निः (२) आहवनीयः (३) गार्हपत्य इति त्रयोऽनयः । ' अग्नित्रयमिदं त्रेता' इत्यमरः । ३ आश्व. ग. सू. अ. ४ ४ तुरुष्काः -- यवनाः । ५ अमत्रं--पात्रम् । Page #155 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरी सहिता श्लोक ११ पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते, तदा तत्कर्तारं प्रति प्रसन्नचेतोवृत्तिस्तत्र्त्तत्कार्याणीच्छावशात् साधयति । अनुपयोगादिना पुनरजानानो जानानोऽपि वा पूजाकर्तुरभाग्यसहकृतः सन् न साधयति । द्रव्यक्षेत्रकालभावादिसहकारिसाचिव्यापेक्षस्यैव कार्योत्पादस्योपलम्भात् । स च पूजोपचारः पशुविशसनव्यतिरिक्तैः प्रकारान्तरैरपि सुकरः, तत्किमनया पापैकफलया सौनिकवृत्त्या ? | باسی यच्च छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिसिद्धया देव्याः परितोषानुमानम्, तत्र कः किमाह ? कासाञ्चित् क्षुद्रदेवतानां तथैव प्रत्यङ्गीकारात् केवलं तत्रापि तद्वस्तुदर्शनज्ञानादिनैव परितोषो, न पुनस्तदुपभुक्त्या । निम्बपत्रकटुकतैलारेनालधूमांशादीनां हूयमानद्रव्याणामपि तद्भोज्यत्वप्रसङ्गात् । परमार्थतस्तु तत्तत्सहकारिसमवधान सचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति । अचेतने चिन्तामप्यादौ तथा दर्शनात् । अतिथीनां तु प्रीतिः संस्कार संपन्न पक्कान्नादिनापि साध्या । तदर्थं महोक्षमहाजादिप्रकल्पनं निर्विवेकतामेव ख्यापयति । पितॄणां पुनः प्रीतिरनैकान्तिकी । श्राद्धादिविधानेनापि भूयसां सन्तानवृद्धेरनुपलब्धेः । तदविधानेऽपि च केषाञ्चिद् गर्दभशूकराजादीनामिव सुतरां तदर्शनात् । ततश्च श्राद्धादिविधानं मुग्धजनविप्रतारणमात्रफलमेव । ये हि लोकान्तरं प्राप्तास्ते तावत् स्वकृतसुकृतदुष्कृतकर्मानुसारेण सुरनारकादिगतिषु सुखमसुखं वा भुञ्जाना एवासते । ते कथमिव तनयादिभिरावर्जितं पिण्डमुपभोक्तुं स्पृहयालवोऽपि स्युः ? । तथा च युष्मद्यथिनः पठन्ति — I १ 'तत्कार्याणि' इति च पुस्तके पाठः । २ आरनलः –– तन्दुलजातिविशेषः । ३ धूमांश:-- सालवृक्षः । ' साग' इति भाषायाम् । 6 ४ यूथ्येन' पठितम् इति क पुस्तके पाठः । Page #156 -------------------------------------------------------------------------- ________________ श्लोक ११ अन्ययोगव्यवच्छेदिका “मृतानामपि जन्तूनां श्राद्धं चेत् तृप्तिकारणम् । तन्निर्वाणप्रदीपस्य स्नेहः संवर्धयेच्छिखाम्" ॥१॥ इति । कथं च श्राद्धविधानाधर्जितं पुण्यं तेषां समीपमुपैतु । तस्य तदन्यकृतत्वात् जडत्वाद् निश्चरणत्वाच्च । अथ तेषामुद्देशेन श्राद्धादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत् । तन्न । तेन तज्जन्यपुण्यस्य स्वाध्यवसायादुत्तारितत्वात् । एवं च तत्पुण्यं नैकतरस्यापि इति-विचाल एव विलीनं त्रिशकुज्ञातेन, किन्तु पापानुबन्धिपुण्यत्वात् तत्त्वतः पापमेव । अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत् क इवैतत्प्रत्येतु ? विप्राणामेव मेदुरोदरतादर्शनात् । तद्वपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते । भोजनावसरे तत्सङ्क्रमलिङ्गस्य कस्याप्यनवलोकनात्, विप्राणामेव च तृप्तेः साक्षात्करणात् । यदि परं त एव स्थूलकवलैराकुलतरमतिगााद भक्षयन्तःप्रेतप्रायाः, इति मुधैव श्राद्धादिविधानम्। यदपि च गयाश्राद्धादियाचनमुपलभ्यते, तदपि तादृशविप्रलम्भकविभङ्गज्ञानि-व्यन्तरादिकृतमेव निश्चयम् । यदप्युदितम्-आगमश्चात्र प्रमाणमिति । तदप्यप्रमाणम् । स हि पौरुषेयो वा स्यात्, अपौरुषेयो वा ?। पौरुषेयश्चेत् सर्वज्ञकृतः, १ मध्य एव । अकाण्ड इत्यर्थः । २ वसिष्ठशापेन त्रिशङ्कर्नाम राजा चण्डालत्वमाप । ततस्तेन विश्वामित्रद्वारा क्रतुः संपादितस्तन्माहात्म्याद्भमे: स्वर्गमार्ग ययौ । इन्द्रादिभिस्तस्य स्वर्गो निषिद्धस्तदा सोऽन्तराल एव स्थितः । तथा च तेन स्वर्गसुखं न वा भूमिसुखं लब्धं तद्वत् । ___ ३ 'गेहादू गेहान्तरं कश्चिच्छोभनादितरं नरः । याति यद्वदसद्धर्मात्तद्वदेव भवाद्भवम् । ॥ २ ॥ हरिभद्रसूरिविरचिते चतुर्विंशतितमेऽष्टके द्वितीयः श्लोकः । ४ 'भक्षयन्त' इति घ. पुस्तके नास्ति । ५ वत्त्वार्थसू० १-३२। Page #157 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता. श्लोक ११ तदितरकृतो वा ?। आद्यपक्षे-युष्मन्मतव्याहातः । तथा च भवत्सिद्धान्तः- . " अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते। नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः"१॥. द्वितीयपक्षे तु-तत्र दोषवत्कर्तृत्वेनाश्वासप्रसङ्गः। अपौरुषेयश्वेत् न संभवत्येव । स्वरूपनिराकरणात्, तुरङ्गशृङ्गवत् । तथाहिउक्तिर्वचनमुच्यते इति चेति पुरुषक्रियानुगतं रूपमस्य। एतक्रियाभावे कथं भवितुमर्हति ?। न चैतत् केवलं कचिध्वनदुपलभ्यते। उपलब्धावष्यदृश्यवकाशङ्कासंभवात् । तस्मात् वचनं तत् पौरुषेयमेव, वर्णात्मकत्वात्, कुमारसंभवादिवचनवत्, वचनात्मकश्च वेदः।तथा चाहुः"ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च। पुंसश्चताल्वादिरतः कथं स्यादपौरुषेयोऽयामतिप्रतीतिः?" श्रुतेरपौरुषेयत्वमुररीकृत्यापि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषेयमेवाङ्गीक्रियते । अन्यथा अग्निहोत्रंजुहुयात् स्वर्गकामः' इत्यस्य-श्वमांस भक्षयोदिति किं नार्थः ? नियामकाभावात् । ततो वरं सूत्रमपि पौरुषेयमभ्युपगतम् । अस्तु वाऽपौरुषेयः, तथापि तस्य न प्रामाण्यम्-आप्तपुरुषाधीना हि वाचां प्रमाणतेति । एवं च तस्याप्रामाण्ये, तदुक्तस्तदनुपातिस्मृतिप्रतिपादितश्च-हिंसात्मको यागश्राद्धादिविधिः प्रामाण्यविधुर एवेति । - ___ अथ योऽयं में हिंस्यात् सर्वभूतानि' इत्यादिना हिं १ 'तस्मादतीन्द्रियार्थानां साक्षाद्र्ष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ ६९ ॥ श्रीहरिभद्रसूरिकृतषड्दर्शनसमुच्चये जैमिनीयदर्शने। २ 'यद्' इत्यधिकं क, ख. घ. पुस्तकेषु । ३ कुमारसंभवाख्यं काव्यं कालिदासकृतम् । ४ ते.सं.। ५ छां, अ,८ Page #158 -------------------------------------------------------------------------- ________________ श्लोक ११ अन्ययोगव्यवच्छेदिका सानिषेधः स औत्सर्गिको मार्गः, सामान्यतो विधिरित्यर्थः। वेदविहिता तु हिंसा अपवादपदम् । विशेषतो विधिरित्यर्थः । ततश्चापवादेनोत्सर्गस्य बाधितत्वाद् न श्रौतो हिंसाविधिर्दोषाय, “ उत्सर्गापवादयोरपवादो विधिबलीयान् ” इति न्यायात् । भवतामपि हि न खल्वेकान्तेन हिंसानिषेधः । तत्तत्कारणे जाते पृथिव्यादिप्रतिसेवनानामनुज्ञानात्, ग्लानाद्यसंस्तरे आधाँकर्मादिग्रहणभणनाच्च । अपवादपदं च-याज्ञिकी हिंसा, देवतादिपीतेः पुष्टालम्बनत्वात् । इति परमाशङ्कय स्तुतिकार आह-नोत्सृष्टमित्यादि । . अन्यार्थमिति मध्यवर्ति पदं डमरुकमणिन्यायेनोभयत्रापि सम्बन्धनीयम् । अन्यार्थमुत्सृष्टंम्-अन्यस्मै कार्याय प्रयुक्तम्-उत्सर्गवाक्यम् , अन्यार्थप्रयुक्तेन वाक्येन, नगपोद्यते-नापवादगोचरीक्रियते । यमेवार्थमाश्रित्य शास्त्रेषूत्सर्गः प्रवर्तते; तमेवार्थमाश्रित्यापवादोऽपि प्रवर्तते; तयोनिम्नोन्नतादिव्यवहारवत् परस्परसापेक्षत्वेनैका. र्थसाधनविषयत्वात् । यथा जैनानां संयमपरिपालनार्थ नवकोटि१ श्रीहेमहंसगणिसमुच्चितहेमव्याकरणस्थन्यायः । २ ग्लानाद्यसंस्तर:-.संयमानिर्वाहः। ३ आधाय साधूंश्चेतसि प्रणिधाय यत्क्रियते भक्तादि तदाधाकर्म । पृषोदरादित्वादिति यलोपः । आधानं साधुनिमित्तं चेतसः प्रणिधानं यथामुकस्य साधोः कारणेन मया भक्तादिपचनीयमिति । आधया कर्म पाकादिक्रिया-आधाकर्म । तद्योगाद् भक्ताद्यपि आधाकर्म। ४ डमरुमध्ये प्रतिबद्धो मणिरेक एव. सन् डमरुविचाले तदुभयाङ्गसंबद्धो भवति तद्वदेकमेवान्यार्थमिति पदमुभयत्र संबध्यते । अयमेव न्यायो देहलीदीपन्याय इत्यप्यभिधीयते । ५ कोटयो नव । १ स्वयं हननं २ अन्येन घातनं ३ अपरेण हन्यमानस्यानुमोदनं ४ स्वयं पचनं ५ अन्येन पाचनं ६ अपरेण पाच्यमानस्यानुमोदनं ७ स्वयं क्रयणं ८ अन्येन क्रायणं ९ अपरेण क्रीयमाणस्यानुमोदनम् । इति मलयगिर्याचार्यकृतायां पिण्डनियुक्तिविवृतौ उद्गमद्वारे गा. ४.५ । Page #159 -------------------------------------------------------------------------- ________________ स्थाद्वादमञ्जरीसहिता श्लोक ११ विशुद्धहारग्रहणमुत्सर्गः । तथाविधद्रव्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराभावे पञ्चकादियतनयाऽनेषणीयादिग्रहणमपवादः। सोऽपि च संयमपरिपालनार्थमेव । नच मरणैकशरणस्य गत्यन्तराभावोऽसिद्ध इति वाच्यम् । “सम्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही नयाऽविरई "॥१॥ इत्यागमात् । तथा आयुर्वेदेऽपि यमेवैकं रोगमधिकृत्य कस्यांश्चिदवस्थायां किश्चिद्वस्त्वपथ्यं, तदेवावस्थान्तरे तत्रैव रोगे पथ्यम्" उत्पद्यते हि सावस्था देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात् कर्म कार्य तु वर्जयेत्" ॥१॥ इति वचनात् । यथा बलवदादेवरिणो लङ्गन, क्षीणधातोस्तु तद्विपर्ययः । एवं देशाद्यपेक्षया ज्वरिणोऽपि दधिपानादियोज्यम् । तथा च वैद्याः १ 'तत्थेव अन्यगामे वुच्छन्तर असंभरंत जयणाए । संथरणे सणमादि छन्नं कडजोगी गीयत्थे ॥ 'प्रथमतस्तत्रैव ग्रामे प्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदान्यग्रामेऽपि । अथासावन्यग्रामो दूरतरस्ततोऽन्तरालेऽपान्तरालग्राम उषित्वा द्वितीये दिन आनयन्ति । अथैवमप्यसंस्तरणं भवति ततः, अकारप्रश्लेषादसंस्तरतो ग्लानस्यार्थाय यतनया पञ्चकपरिहाण्या गृह्णन्ति । अथ ग्लानार्थ व्यापृतानां परिचारकाणां संस्तरणं तत एषणादोषेषु आदिशब्दादुद्गमादिदोषेषु च पञ्चकपरिहाण्या यतितव्यम् । अथ प्रतिदिवसं ग्लानप्रायोग्यं न लभ्यते ततश्छन्नमप्रकटं कृतयोगी गीतार्थो वा प्रायोग्यं द्रव्यं परिवासयन्ति । यथाकर्णितछेदश्रुतार्थः प्रत्युच्चारणासमर्थः कृतयोगी यस्तु छेदश्रुतार्थ श्रुत्वा प्रत्युच्चारयितुमीशः स गीतार्थ उच्यते' । बृहत्कल्पसूत्रे १ उद्देशे बृहच्छालीयश्रीक्षेमकीतिसूरिकृतटीकायाम् । ( समासार्थोऽपि तत्रैव । ) २ अनेषणीयं-अशुद्धम् । ३ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात्पुनर्विशुद्धिन चाविरतिः ॥ इति छाया । १२ Page #160 -------------------------------------------------------------------------- ________________ श्लोक ११ अन्ययोगव्यवच्छेदिका “ कालाविरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान् " ॥ १॥ एवं च यः पूर्वमपथ्यपरिहारो, यश्च तत्रैवावस्थान्तरे तस्यैव परिभोगः– स खलूभयोरपि तस्यैव रोगस्य शमनार्थः । इति सिद्धमेकविषयत्वमुत्सर्गापवादयोरिति । भवतां चोत्सर्गोऽन्यार्थः, अपवादश्चान्यार्थः । "नं हिंस्यात् सर्वभूतानि " इत्युत्सर्गो हि दुर्गातिनिषेधार्थः । अपवादस्तु वैदिकहिंसाविधिर्देवताऽतिथिपितृप्रीतिसंपादनार्थः । अतश्च परस्परनिरपेक्षत्वे कथमुत्सर्गोऽपवादेन बाध्यते ? ' तुल्यबलयोर्विरोध ' इति न्यायात | भिन्नार्थत्वेऽपि तेन तद्भाधने- अतिप्रसङ्गात् । नच वाच्यं वैदिक हिंसाविधिरपि स्वर्ग हेतुतया दुर्गतिनिषेधार्थ एवेति । तस्योक्तयुक्त्या स्वर्गहेतुत्वनिर्लोठनात् । तमन्तरेणापि च प्रकारान्तरैरपि तत्सिद्धिभावात् । गत्यन्तराभावे ह्यपवादपक्षकक्षीकारः । नच वयमेव यागविधेः सुगतिहेतुत्वं नाङ्गीकुर्महे, किन्तु भवदाप्ता अपि । यदाह व्यासमहर्षिः " पूजया विपुलं राज्यमग्निकार्येण संपदः । तपः पापविशुध्यर्थं ज्ञानं ध्यानं च मुक्तिदम् " ॥ १ ॥ अत्राग्निकार्यशब्दवाच्यस्य यागादिविधेरुपायान्तरैरपि लभ्यानां संपदामेव हेतुत्वं वदन्नाचार्य :- तस्य सुगतिहेतुत्वमर्थात् कदर्थितवानेव । तथाच स एव भावाग्निहोत्रं ज्ञानपालीत्यादिश्लोकैः स्थापितवान् । १ 'इति' पदं क पुस्तके नास्ति । २ छां. अ. ८ । ३ 'विधिरपि स्व' इति क पुस्तके पाठः । ४ कक्षीकारः - अङ्गीकरणम् । ५ (८३ ) पत्रे ११ श्लोके उद्धृता अवतरणं । Page #161 -------------------------------------------------------------------------- ________________ स्याद्वादमअरीसहिता श्लोक १२ तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूषयति-स्वपुत्रेत्यादि । परेषां-भवत्पतिवचनपराङ्मुखानां स्फुरितं चेष्टितम्, स्वपु घाताद् नृपतित्वलिप्सासब्रह्मचारि-निजसुतनिपातनेन सज्यप्राप्तिमनोरथसदृशम् । यथा किल कश्चिदविपश्चित् पुरुषः परुषाशयतया निजमङ्गजं व्यापाद्य राज्यश्रियं प्राप्नुमीहते । नच तस्य तत्प्राप्तावपि पुत्रघातपातककलङ्कपङ्कः कचिदपयाति । एवं वेदविहिताहंसया देवतादिप्रीतिसिद्धावपि, हिंसासमुत्थं दुष्कृतं न खलु पराहन्येत । अत्र च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो ज्ञापयति--यथा तस्य दुराशयस्यासदृशतादृशदुष्कर्मनिर्माणनिर्मूलितसत्कर्मणो राज्यप्राप्तौ केवलं समीहामात्रमेव, न पुनस्तत्सिद्धिः । एवं तेषां दुर्वा दिनां वेदविहितां हिंसामनुतिष्ठतामपि देवतादिपरितोषणे मनोराज्यमेव, न पुनस्तेषामुत्तमजनपूज्यत्वमिन्द्रादिदिवौकसां च तृप्तिः । प्रागुक्तयुक्त्या निराकृतत्वात् । इति काल्यार्थः ॥११॥ - साप्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टानाम् एकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां च यौगानां मतं विकुट्टयन्नाह स्वार्थावबोधक्षम एव बोधः . प्रकाशते नार्थकथान्यथा तु। परे परेभ्यो भयतस्तथापि - प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२॥ बोधो-ज्ञानं, स च स्वार्थावबोधक्षम एव प्रकाशते-स्वस्य१. 'श्रूयतां धर्मसर्वस्वमित्यादि स्वोत्पन्नवचनरूपनिजसुतनिपातनेन वेदविहितहिंसाया मुग्धपुरुषस्वामित्वक्षुद्र' इति घ. पुस्तके पाठः। . २ 'पराहन्यते' इति च, पुस्तके पाठः । ३ स्वपुत्रपतित्वाभावे पुरुषपतित्वस्याप्यभावात्तत्त्वतो न तत्सिद्धिरितिघ, पुस्तके पाठः। Page #162 -------------------------------------------------------------------------- ________________ श्लोक १२ अन्ययोगव्यवच्छेदिका ९२ आत्मस्वरूपस्य, अर्थस्य च योऽवबोधः-परिच्छेदस्तत्र, क्षम एवसमर्थ एव प्रतिभासते। इत्ययोगव्यवच्छेदः । प्रकाशत इति क्रियया अवबोधस्य प्रकाशरूपत्वसिद्धेः-सर्वप्रकाशानां स्वार्थप्रकाशकत्वेन, बोधस्यापि तत्सिद्धिः । विपर्यये दूषणमाह-नार्थकथान्यथात्विति । अन्यथेति-अर्थप्रकाशनेऽविवादाद, ज्ञानस्य स्वसंविदितत्वानभ्युपगमेऽर्थकथैव न स्यात् । अर्थकथापदार्थसम्बन्धिनी वार्ता, सदसद्रूपात्मकं स्वरूपमिति यावत् । तुशब्दोऽवधारणे भिन्नक्रमच, ‘स चार्थकथया सह योजित एव । यदि हि ज्ञानं स्वसंविदितं नष्यते, तदा तेनात्मज्ञानाय ज्ञानान्तरमपेक्षणीयं तेनाप्यपरमित्याद्यनवस्था । ततो ज्ञानं तावत् स्वावबोधव्यग्रतामग्नम् । अर्थस्तु जडतया स्वरूपज्ञापनासमर्थ इति को नामार्थस्य कथामपि कथयेत् । तथापि-एवं ज्ञानस्य स्वसंविदितत्वे युक्त्या घटमानेऽपि, परे-तीर्थान्तरीयाः, ज्ञानं-कर्मतापन्नम्, अनात्मनिष्ठ-न विद्यत आत्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्मनिष्ठम्, अस्वसंविदितमित्यर्थः, प्रपेदिरे-प्रपन्नाः । कुतः ? इत्याह-परेभ्यो भयतः, परेपूर्वपक्षवादिनः, तेभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते, स्वात्मनि क्रियाविरोधादित्युपालम्भसम्भावनासम्भवं यद्भयं तस्मात्-तदाश्रित्येत्यर्थः। इत्थमक्षरगमनिकां विधाय भावार्थः प्रपञ्च्यते-भट्टास्तावदिदं १ अतः परं 'पदार्थस्य' इति क. ख. घ. पुस्तकेष्वाधिकम् । २ 'प्रकाशते' इत्यतः 'तत्सिद्धिः' इत्यन्तं क. ख. पुस्तकयो स्ति । ३ 'वस्तुस्वरूपम्' इति क. पुस्तके पाठः। - ४ 'ज्ञानार्थम्' इति घ. पुस्तके पाठः। ५ स्वप्रकाशत्वं नाम स्वप्रकाशजनकत्वं तत्स्वात्मनि क्रियां विनात्यन्तमसंभवि । 'गुणादिनिर्गुणक्रियः' इत्युक्तेः । आत्मनो ये चतुर्दश गुणास्तत्र ज्ञानमात्मनो विशेषगुणः । ६ वैशेषिकोपालम्भः। Page #163 -------------------------------------------------------------------------- ________________ स्थाद्वादमञ्जरीसहिता श्लोक १२ वदन्ति यत् ज्ञानं स्वसंविदितं न भवति, स्वात्मनि क्रियाविरोधात् । न हि सुशिक्षितोऽपि नटबटुः स्वस्कन्धमधिरोढुं पटुः, न च सुतीक्ष्णाप्यसिधारा स्वं छेत्तुमाहितव्यापाराः । ततश्च परोक्षमेव ज्ञानमिति । तदेतन सम्यक् यतः-किमुत्पत्तिः स्वात्मनि विरुध्यते ज्ञप्तिर्वा ? । यद्युत्पत्तिः-सा विरुध्यताम्, नहि वयमपि ज्ञानमात्मानमुत्पादयतीति मन्यामहे । अथ ज्ञप्तिः-नेयमात्मनि विरुद्धा । तदात्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् । प्रकाशात्मनेव प्रदीपालोकस्य । अथ प्रकाशात्मैव प्रदीपालोक उत्पन्न इति परप्रकाशोऽस्तु । आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति कोऽयं न्यायः?। इति चेत् । तत्किं तेन वराकेणाप्रकाशितेनैव स्थातव्यम् , आलोकान्तराद् वास्य प्रकाशेन भवितव्यम् । प्रथमे प्रत्यक्षबाधः। द्वितीयेऽपि सैवानवस्थापत्तिश्च । अथ नासौ स्वमपेक्ष्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते, आत्मानं न प्रकाशयतीत्यर्थः । प्रकाशरूपतया तूत्पन्नत्वात् स्वयं प्रकाशत एवेति चेत् । चिरञ्जीव । नहि वयमाप ज्ञानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रूमः । ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं स्वं जानामीति कर्मतयापि तद्भाँति, तथा प्रदीपः स्वं प्रकाशयतीत्ययमापि कर्मतया प्रथित एव । यस्तु स्वात्मान क्रियाविरोधो दोष उद्भावितः-सोऽयुक्तः। अनुभवसिद्धेऽर्थे विरोधासिद्धेः। घटमहं जानामीत्यादौ कर्तृकर्मवद् १ 'भाव्यम्' इति क. पुस्तके पाठः । २ प्रकाशनात् । ३ 'स्वम्' इति घ. पुस्तके नास्ति । ४ शानम् । ५ 'प्रथत एव' इति ख. पुस्तके पाठः। ६ नहि दृष्टेऽनुपपन्नं नामति न्यायात् । किं च--'विरोधे वाविरोधे च प्रमाणं कारणं मतम् । प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते ॥ Page #164 -------------------------------------------------------------------------- ________________ श्लोक १२ अन्ययोगव्यवच्छेदिका ज्ञप्तेरप्यवभासमानत्वात् । न चाप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिध्यति। न च ज्ञानान्तरात् तदुपलम्भसम्भावना, तस्याप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् । उपलम्भान्तरसम्भावने चानवस्था । अर्थोपलम्भात् तस्योपलम्भे-अन्योन्याश्रयदोषः।- . अथार्थप्राकट्यमन्यथा नोपपद्येत-यदिज्ञानं न स्यात्, इत्यर्थापत्त्या तदुपलम्भ इति चेत् । न । तस्या अपि ज्ञापकत्वेमाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषापत्तेः तदवस्थः परिभवः। तस्मादर्थोन्मुखतयेव स्वोन्मुखतयाऽपि ज्ञानस्य प्रतिभासात् स्वसंविदितत्वम् । नन्वनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्गः। प्रयोगस्तुज्ञानमनुभवरूपमप्यनुभूतिर्न भवति, अनुभाव्यत्वाद्, घटवत् , अनुभाव्यं च भवद्भिरिष्यते ज्ञानं, स्वसंवेद्यत्वात् । मैवम् । ज्ञातुर्मातृत्वेनेवानुभूतेरनुभूतित्वेनैवानुभवात् । नचानुभूतेरनुभाव्यत्वं दोषः। अ र्थापेक्षयानुभूतित्वात् स्वापेक्षया चानुभाव्यत्वात् । स्वपितृपुत्रापेक्षयैकस्य पुत्रत्वपितृत्ववद् विरोधाभावात् । अनुमानाच्च स्वसंवेदनसिद्धिः। तथाहि-ज्ञानं स्वयंप्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वात् , प्रदीपवत् । संवेदनस्य प्रकाश्यत्वात् प्रकाशकत्वमसिद्धमिति चेत् । न । अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः। १ 'पुष्टो देवदत्तो दिवा न भुङ्क्ते' इति वाक्ये पुष्टत्वान्यथानुपपत्त्या यथा रात्रिभोजनं कल्प्यते तथात्र घटज्ञानं विना घटप्राकट्यं नोपलभ्यत इति घटप्राकट्यान्यथानुपपत्त्या घटज्ञानं कल्प्यते। २ तस्याः-अर्थापत्तेः। ३ 'नैवम्' इति घ. रा. पुस्तकयोः पाठः। ४ प्रदीपस्यार्थापेक्षया प्रकाशकत्वं स्वापेक्षवा च प्रकाश्यप्रकाशकत्वम् । Page #165 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १२ . ननु नेत्रादयः प्रकाशका अपि स्वं न प्रकाशयन्तीति प्रकाशकत्वहेतोरनैकान्त्रिकतोत चेत् । न । नेत्रादिभिरनैकान्तिकता-तेषां लब्ध्युपयोगलक्षणभावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः। तथा संवित् स्वप्रकाशा, अर्थप्रतीतित्वात् , यः स्वप्रकाशो न भवति नासावर्थप्रतीतिः, यथा घटः। तदेवं सिद्धेऽपि प्रत्यक्षानुमानाभ्यां ज्ञानस्य स्वसंविदितत्वे "सत्संप्रयोगे इन्द्रियबुद्धिजन्मलक्षणं ज्ञानं, ततोऽर्थप्राकव्यं, तस्मादर्थापत्तिः, तया प्रवर्तकज्ञानस्योपलम्भः" इत्येवंरूपा त्रिपुटीप्रत्यक्षकल्पना भट्टानां प्रयासफलैव-। यौास्त्वाहु:ज्ञानं स्वान्यप्रकाश्यम् , ईश्वरज्ञानान्यत्वे सति प्रमेयत्वात् , घटवत् । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरोद्भविष्णुमानसप्रत्यक्षेणैव लक्ष्यते, न पुनः स्वेन । नचैवमनवस्था।अर्थावसायिज्ञानोत्पादमात्रेणैवार्थसिद्धौ प्रमातुः कृतार्थत्वात् । अर्थज्ञानजिज्ञासायां तु तत्रापि ज्ञानमुत्पद्यत एवेति । . • तदयुक्तम्-पक्षस्य प्रत्यनुमानबाधितत्वेन हेतोः कालात्यंयापदिष्टत्वात् । तथाहि-विवादास्पदं ज्ञानं स्वसंविदितं, ज्ञानत्वात्। ईश्वरज्ञानवत् । नचायं वाद्यप्रतीतो दृष्टान्तः, पुरुषविशेषस्येश्वरतया जैनैरपि स्वीकृतत्वेन तज्ज्ञानस्य तेषां प्रसिद्धिः। ... व्यर्थविशेष्यश्चात्र तव हेतुः-समर्थविशेषणोपादानेनैव साध्य१ 'नात्र' इति क, ख, पुस्तकयोः पाठः।। २ अर्थग्रहणशक्तिर्लब्धिः । अर्थसंग्रहणव्यापारस्तूपयोगः । एतयोर्लक्षणे. तत्त्वार्थसूत्रद्वितीयाध्याये श्लो. १६।१७।१८ द्रष्टव्ये ।। ३ जैमिनिसूत्रे प्रथमाध्याये प्रथमपादे ४/५ सूत्रार्थानुगुणमेतत् । ४ नैयायिकाः । ५ 'अनन्तरोत्पदिष्णु' इति क. ख. व. ह. पुस्तकेषु पाठः । ६ 'प्रसिद्धेः' इति क, ह. रा. पुस्तकेषु पाठः। Page #166 -------------------------------------------------------------------------- ________________ श्लोक १२ अन्ययोगव्यवच्छेदिका सिद्धेः-अग्निसिद्धौ धूमवत्त्वे सति द्रव्यत्वादितिवद्, ईश्वरज्ञानान्यत्वादित्येतावतैव गतत्वात् । न हीश्वरज्ञानादन्यत् स्वसंविदितमप्रमेयं वा ज्ञानमस्ति, यव्यवच्छेदाय प्रमेयत्वादिति क्रियेत, भवन्मते तदन्यज्ञानस्य सर्वस्य प्रमेयत्वात् । . ... _अप्रयोजकश्चायं हेतुः-सोपाधित्वात् साधनाव्यापकः साध्येन समव्याप्तिश्च खलु-उपाधिरभिधीयते । तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । उपाधिश्चात्र जडत्वम् । तथाहिईश्वरज्ञानान्यत्वे प्रमेयत्वे च सत्यपि यदेव जडं स्तम्भादि तदेव स्वस्मादन्येन प्रकाश्यते । स्वप्रकाशे परमुखप्रेक्षित्वं हि जंडस्य लक्षणम् । न च ज्ञानं जडस्वरूपम् । अतः साधनाव्यापकत्वं जडत्वस्य । साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव । जाड्यं विहाय स्वप्रकाशाभावस्य, तं च त्यक्त्वा जाड्यस्य कचिदप्यदर्शनात् इति । यच्चोक्तं “समुत्पन्नं हि ज्ञानमेकात्मसमवेतम्" इत्यादि । तदप्यसत्यम् । इत्थमर्थज्ञानतज्ज्ञानयोरुत्पद्यमानयोः क्रमानुपलक्षणत्वाद् , इति । आशुत्पादात् क्रमानुपलक्षणमुत्पलपत्रशतव्यातिभेदवद् इति चेत् । जिज्ञासाव्यवहितस्यार्थज्ञानस्योत्पादप्रतिपादनात् । नच ज्ञानानां जिज्ञासासमुत्पाद्यत्वं घटते । अजिनासितष्वपि योग्यदेशेषु विषयेषु तदुत्पादप्रतीतेः । नचार्थज्ञानमयोग्य १ 'समव्याप्तिकश्च' इति ख. घ. पुस्तकयोः पाठः । २ यत्र यत्र जाड्यं तत्र तत्र स्वप्रकाशाभावः । यम च स्वप्रकाशाभावस्ता तत्र जाड्यमिति सम्यग्हेतौ त्वेकविधैव व्याप्तिः। नहि भवति यत्र यत्रामिस्ता तत्र धूम इति । अङ्गारावस्थायां धूमानुपलम्भनातू । ३ मृदूनां कमलपत्राणां वेधः प्रतिपत्रं क्रमेण भवति तथापि तस्य शीघ्रभावित्वात्स क्रमो नोपलक्ष्यते तद्वदित्यर्थः। ४ 'तन्न' इति क. ख. ध. पुस्तकेषु अधिकम् । Page #167 -------------------------------------------------------------------------- ________________ ९७ स्याद्वादमञ्जरीसहिता श्लोक १३ देशम् | आत्मसमवेतस्यास्य समुत्पादात् । इति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः । अथोत्पद्यतां नामेदं - को दोष: ? इति चेत् । नन्वेवमेव तज्ज्ञानज्ञानेऽप्यपरज्ञानोत्पादप्रसङ्गः । तत्रापि चैवमेवार्यम् । इत्यपरापरज्ञानोत्पादपरम्परायामेवात्मनो व्यापारात् न विषयान्तरसंचारः स्यादिति । तस्माद्यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितज़ानान्तरव्यापारम्, यथा गोचरान्तरग्राहिज्ञानात् प्राग्भाविगोचरान्तरग्राहिधारावाहिज्ञान प्रबन्धस्यान्त्यज्ञानम् । ज्ञानं च विवादाध्यासितं रूपादिज्ञानम् इति न ज्ञानस्य ज्ञानान्तरज्ञेयता युक्तिं सहते । इति काव्यार्थः ॥ १२ ॥ , अथ ये ब्रह्माद्वैतवादिनोऽविद्यापरपर्यायमायावशात् प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुप्रपञ्चमपारमार्थिकं समर्थयन्ते, तन्मतमुपहसन्नाह माया सती चेद् द्वयतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः । मायैव चेदर्थसहा च तत्किं माता च वन्ध्याच भवत्परेषाम् ॥ १३ ॥ तैर्वादिभिस्तात्त्विकात्मब्रह्मव्यतिरिक्ता या माया - अविद्या प्रपञ्च हेतुः परिकल्पिता, सा सद्रूपा असद्रूपा वा द्वयी गतिः । सतीसद्रूपा चेत तदा द्वयतत्त्वासिद्धिः - द्वाववयवौ यस्य तद् द्वयं, तथाविधं यत तत्त्वं परमार्थः, तस्य सिद्धि: । अयमर्थः - एकं तावत् त्वर्दभि १ 'नत्वेवम्' इति क पुस्तके पाठः । २ 'न्याय' इत्यधिकं घ. पुस्तके | ३ एकस्मिन्नेव घटे 'घटोऽयम् ' 'घटोऽयम्' इत्येवमुत्पद्यमानान्युत्तरोत्तरज्ञानानि धारावाहिकज्ञानानि । ४ 'अभिमतम्' इति क पुस्तके पाठः । १३ Page #168 -------------------------------------------------------------------------- ________________ श्लोक १३ अन्ययोगव्यवच्छेदिका मतं तात्त्विकमात्मब्रह्म, द्वितीया च माया तत्त्वरूपा | सद्रूपतयाङ्गीक्रियमाणत्वात् । तथा चाद्वैतवादस्य मूले निहितः कुठारः । अथेति पक्षान्तरद्योतने । यदि असती —– गगनाम्भोजवद वस्तुरूपा सा माया, ततः, हन्त इत्युपदर्शने आश्चर्ये वा कुतः प्रपञ्चः ? अयं त्रिभुवनोदरविवरविवर्तिपदार्थसार्थरूपप्रपञ्चः कुतः ? नं कुतोऽपि संभवतीत्यर्थः । मायाया अवस्तुत्वेनाभ्युपगमात् अवस्तुनश्च तुरङ्गशृङ्गस्येव सर्वोपाख्याविरहितस्य साक्षात्क्रियमाणेदृशविवर्तजननेऽसमर्थत्वात् । किलेन्द्रजालादौ मृगतृष्णादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्थ्य दृष्टम्, अत्र तु तदुपलम्भात् कथं मायाव्यपदेश: श्रद्धीयताम् ? ' ९८ । अथ मायापि भविष्यति, अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा च भविष्यति इति चेत्, तर्हि स्ववचनविरोधः । नहि भवति माता च वन्ध्या चेति । एनमेवार्थं हृदि निधायोत्तरार्धमाह-मायैव चेदि - त्यादि । अत्रैवकारोऽप्यर्थः । अपिश्व समुच्चयार्थः । अग्रेतनचकारश्च तथा। उभयोश्च समुच्चयार्थयोर्योगपद्यद्योतकत्वं प्रतीतमेव । यथा रघुवंशे - ' ते चं प्रापुरुदन्वन्तं बुबुधे चादिपूरुष : ' । इति । तदयं वाक्यार्थः - माया च भविष्यति अर्थसहा च भविष्यति । अर्थसहा1 अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा, चेच्छन्दोऽत्र योज्यते इति चेत् । एवं परमाशङ्क्य तस्य स्ववचनविरोधमुद्भावयति - तत् किं भवत्परेषां माता च वन्ध्या च ? किमिति - संभावने । संभाव्यत एतत् - भवतो ये परे - प्रतिपक्षाः तेषां भवत्परेषां भवव्यतिरिक्तानां भवदाज्ञापृथग्भूतत्वेन तेषा वादिनां यन्माता च भविष्यति, वन्ध्या च भविष्य " १ 'सर्वोपेक्षा' इति क पुस्तके पाठः । २ ' अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ' । इत्युत्तरार्धम् । रघुवंशे दशमसर्गे श्लो. ६ | Page #169 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १३ तीत्युपहासः । माता हि प्रसवधर्मिणी वनितोच्यते । वन्ध्या च तद्विपरीता । ततश्च माता चेत्कथं वन्ध्या ? वन्ध्या चेत्कथं माता ? तदेवं मायाया अवास्तव्या अप्यर्थसहत्वेऽङ्गीक्रियमाणे, प्रस्तुतवाक्यवत् स्पष्ट एव स्ववचनविरोधः । इति समासार्थः । व्यासार्थस्त्वयम्-ते वादिन इदं प्रणिगदान्त–तात्त्विकमात्मब्रह्मैवास्ति“सर्व वै खल्विदं ब्रह्म नेह नानास्ति किंचन । आरामं तस्य तश्यन्ति न तत्पश्यति कश्चन" ॥१॥ इति न्यायात् । अयं तु प्रपञ्चो मिथ्यारूपः , प्रतीयमानत्वात् । यदेवं तदेवम् । यथा शुक्तिशकले कलधौतम्। तथा चायं, तस्मात् तथा। ___ तदेतद्वार्तम् । तथाहि-मिथ्यारूपत्वं तैः कीदृग् विवक्षितम् ? किमत्यन्तासत्त्वम् , उतान्यस्यान्याकारतया प्रतीतत्वम् , आहोस्विदनिर्वाच्यत्वम् ? प्रथमपक्षे-असत्ख्यातिप्रसङ्गः । द्वितीयेविपरीतख्यातिस्वीकृतिः । तृतीये तु किमिदमनिर्वाच्यत्वम् ? निः• स्वभावत्वं चेत् , निसः प्रतिषेधार्थत्वे, स्वभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे, असत्ख्यातिसत्ख्यात्यभ्युपगमप्रसंगः । भावप्रतिषेधे--असंत्ख्यातिः , अभावप्रतिषेधे-सव्यातिरित। प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत् । अत्र विरोधः-स प्रपञ्चो हि न प्रतीयते चेत् । कथं धर्मितयोपात्तः । कथं च प्रतीयमानत्वं हेतुतयोपात्तम् । तथोपादाने वा कथं न प्रतीयते । यथा प्रतीयते न तथेति चेत्, तर्हि विपरीतख्यातिरियमभ्युपगता स्यात् । किश्च इयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षबाधिता। घटोऽयमित्याद्या १ उत्तरार्धं क. ख. घ. पुस्तकेषु नास्ति । २ निःसारम् । ३ आत्मख्यातिरसत्रख्यातिरव्यातिः ख्यातिरन्यथा । तथानिर्वचनख्यातिरित्येतत्ख्यातिपञ्चकम् ॥ १॥ ४ 'स' इति क. ख. पुस्तकयो स्ति। . Page #170 -------------------------------------------------------------------------- ________________ श्लोक १३ अन्ययोगव्यवच्छेदिका कारं हि प्रत्यक्षं प्रपञ्चस्य सत्यतामेव व्यवस्यति । घटादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्योत्पादात् । इतरेतरविविक्तवस्तूनामेव च प्रपञ्चशब्दवाच्यत्वात् । 66 अथ प्रत्यक्षस्य विधायकत्वात् कथं प्रतिषेधे सामर्थ्यम् । प्रत्यक्षं हि इदमिति वस्तुस्वरूपं गृह्णाति, नान्यत्स्वरूपं प्रतिषेधति । आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते " ॥ १ ॥ इति वचनात् । इति चेत् । न अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः । पीतादिव्यवच्छिन्नं हि नीलं - नीलमिति गृहीतं भवति । नान्यथा । केवलवस्तुस्वरूपप्रतिपत्तेरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात् । मुण्डभूतलग्रहणे घटाभावग्रहणवत् । तस्माद् यथा प्रत्यक्षं विधायकं प्रतिपन्नं, तथा निषेधकमपि प्रतिपत्तव्यम् । १०० अपि च, विधायकमेव प्रत्यक्षमित्यङ्गीकृते यथा प्रत्यक्षेण विद्या विधीयते, तथा किं नाविद्यापीति । तथा च द्वैतापत्तिः । ततश्च सुव्यवस्थितः प्रपञ्चः । तदमी वादिनोविद्याविवेकेन सन्मात्रं प्रत्यक्षात् प्रतियन्तोऽपि न निषेधकं तदिति ब्रुवाणाः कथं नोन्मत्ताः । इति सिद्धं प्रत्यक्षबाधितः पक्ष इति । अनुमानवाधितश्च प्रपञ्चो मिथ्या न भवति, असद्विलक्षणत्वात्, आत्मवत् प्रतीयमानत्वं च हेतुर्ब्रह्मात्मना व्यभिचारी । स हि प्रतीयते, न च मिथ्या । अप्रतीयमानत्वे त्वस्य तद्विषयवचसामप्रवृ कतैव तेषां श्रेयसी । साध्याविकलश्च दृष्टान्तः- शुक्तिशकलकलधौतेsपि प्रपञ्चान्तर्गतत्वेन अनिर्वचनीयतायाः साध्यमानत्वात् । किञ्च, इदमनुमानं प्रपञ्चाद् भिन्नम्, अभिन्नं वा । यदि भिन्नं तर्हि सत्यमसत्यं वा । यदि सत्यं तर्हि तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्यात् १ 'तस्य' इति क्र. पुस्तके पाठः । Page #171 -------------------------------------------------------------------------- ________________ . स्याद्वादमञ्जरीसहिता श्लोक १३ अद्वैतवादमाकारे खैण्डिपातात् । अथासत्यम्, तर्हि न किश्चित् तेन साधयितुं शक्यम् , अवस्तुत्वात् । अभिन्नं चेत् , प्रपञ्चस्वभावतया तस्यापि मिथ्यारूपत्वापत्तिः । मिथ्यारूपं च तत् कथं स्वसाध्यसाधनायालम् । एवं च प्रपञ्चस्यापि मिथ्यारूपत्वासिद्धेः कथं परमब्रह्मणस्तात्त्विकत्वं स्यात् ? यतो बाह्यार्थाभावो भवेदिति । __ अथवा प्रकारान्तरेण सन्मात्रलक्षणस्य परमब्रह्मणः साधनं दूषणं चोपन्यस्यते । ननु परमब्रह्मण एवैकस्य परमार्थसतो विधिरूपस्य विद्यमानत्वात् प्रमाणविषयत्वम् । अपरस्य-द्वितीयस्य कस्यचिदप्यभावात् । तथाहि-प्रत्यक्षं तदावेदकमस्ति । प्रत्यक्षं द्विधा भिद्यते-निर्विकल्पकसविकल्पकभेदात् । ततश्च निर्विकल्पकप्रत्यक्षात सन्मात्रविषयात् तस्यैकस्यैव सिद्धिः । तथा चोक्तम् “ अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालम्कादिविज्ञानसदृशं शुद्धवस्तुजम् ॥१॥ न च विधिवत् परस्परव्यावृत्तिरध्यय॑क्षत एव प्रतीयते-इति द्वैतसिद्धिः । तस्य निषेधाविषयत्वात् । 'आहुर्विधातृ प्रत्यक्ष न निषे" इत्यादिवचनात् । यच्च सविकल्पकप्रत्यक्षं घटपटादिभेदसाधकं, तदपि सत्तारूपेणान्वितानामेव तेषां प्रकाशकत्वात् सत्ताद्वैतस्यैव साधकम् । सत्तायाश्च परमब्रह्मरूपत्वात् । तदुक्तम्-“यदद्वैतं तद् ब्रह्मणो रूपम्" इति । १ 'खड्गपातात् ' इति रा, पुस्तके पाठः । २ इदं च वादस्थलं काव्यार्थव्याख्यानुरोधेन नियन्त्रितमेवोपन्यस्तं सांप्रतमुक्तलक्षणमेवोपन्यस्यामः । ३ — द्वितीयस्य ' इति ख. पुस्तके नास्ति । ४ ' प्रत्यक्षं हि ' इति क. पुस्तके पाठः । ५ मीसांसाश्लोकवार्तिकसूत्र ४ प्रत्यक्षसूत्रे श्लोक ११.२ । ६ ' अपि प्रत्यक्षात् ' इति क. पुस्तके पाठः । तदने ' एव' इति ख. पुस्तके नास्ति । Page #172 -------------------------------------------------------------------------- ________________ श्लोक १३ अन्ययोगव्यवच्छेदिका अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि —विधिरेव तत्त्वं, प्रमेयत्वात् यतः प्रमाणविषयभूतोऽर्थः प्रमेयः प्रमाणानां च प्रत्यक्षानुमानागमोपमानार्थापत्तिसंज्ञकानां भावविषयत्वेनैव भट्टत्तेः । तथा चोक्तम् — "प्रत्यक्षाद्यवतारः स्याद् भावांशी गृह्यते यदा । व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षिते " ॥ १ ॥ १०२ यच्चाभावाख्यं प्रमाणं । तस्य प्रामाण्याभावाद्-नं तत् प्रमाणम् । तद्विषयस्य कस्यचिदप्यभावात् । यस्तु प्रमाणपञ्चकविषयः स विधिरेव । तेनैव च प्रमेयत्वस्य व्याप्तत्वात् । सिद्धं प्रमेयत्वेन विधिरेव तत्त्वम्, यत्तु न विधिरूपं तद् न प्रमेयम्, यथा खरविषाणम्, प्रमेयं चेदं निखिलं वस्तुतत्त्वम् तस्माद् विधिरूपमेव । अतो वा तत्सिद्धि: - ग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः, प्रतिभासमानत्वात्, यत्प्रतिभासते तत्प्रतिभासान्तः प्रविष्टम्, यथा प्रतिभासस्वरूपम्, प्रतिभासन्ते च ग्रामारामादयः पदार्थाः, तस्मात् प्रतिभासान्तः प्रविष्टाः । 'आगमोऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते -" पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ।" यजति, यन्नैजति, यद् दूरे, यदन्तिके । यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः" इत्यादि । “ श्रोतव्यो मन्तव्यो निदिध्यासितव्य :" इत्यादिवेदवाक्यै - CC १ प्रत्यक्षाद्यवतारस्तु भावांशो गृह्यते यदा । व्यापारस्तदनुत्पत्तिरभावांशे जिघृक्षिते " ॥ १७ ॥ इति मीमांसाश्लोकवार्तिकसूत्र ५ अभावपरिच्छेद । २ गृहीतुमिष्टे । ३ ऋग्वेद पुरुषसूक्ते । ४ ईशावास्योपनिषदि । ५ अत्र 'श्रोतव्योऽयमात्मा मन्तव्यो निदिध्यासितव्योऽनुमन्तव्य' इति विकृतः पाठो बहुषु स्याद्वादमञ्जरी पुस्तकेषूपलभ्यते । परं वेदवाक्यं तथा नास्ति । इदं बृ. उपनिषदि । Page #173 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १३ रपि तत्सिद्धेः । कृत्रिमेणापि आगमेन तस्यैव प्रतिपादनात् । उक्तं च “सर्व वै खल्विदं ब्रह्म नेह नानाऽस्ति किश्चन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन"॥१॥ इति प्रमाणतस्तस्यैव सिद्धेः परमपुरुष एक एव तत्त्वम्, सकलभेदानां तद्विवर्तत्वात् । तथा हि-सर्वे भावा ब्रह्मविवर्ताः, सत्त्वैकरूपेणान्वितत्वात् । यद् यद्रूपेणान्वितं तत् तदात्मकमेव । यथा-घटघटीशरावोदश्चनादयो मृद्रूपेणैकेनान्विता मृद्विवर्ताः सत्त्वैकरूपेणान्वितं च सकलं वस्तु, इति सिद्धं ब्रह्मविवर्तित्वं निखिलभेदानामिति । तदेतत् सर्व मदिरारसास्वादगद्गदोद्गदितमिवाभासते, विचारासहत्वात् । सर्व हि वस्तु प्रमाणसिद्धं, न तु वाङ्मात्रेण । अद्वैतमते च प्रमाणमेव नास्ति, तत् सद्भावे द्वैतप्रसङ्गात् । अद्वैतसाधकस्य प्रमाणस्य द्वितीयस्य सद्भावात् । अथ मतम् लोकप्रत्यायनाय तदपेक्षया प्रमाणमप्यभ्युपगम्यते । तदसत् । तन्मते लोकस्यैवासम्भवात्, एकस्यैव नित्यनिरंशस्य परब्रह्मण एव सत्त्वात् । __ अथास्तु यथा कथञ्चित् प्रमाणमपि । तात्किं प्रत्यक्षमनुमानमागमो का तत्साधकं प्रमाणमुररीक्रियते । न तावत् प्रत्यक्षम् । तस्य समस्तवस्तुजातगतभेदस्यैव प्रकाशकत्वात् । आबालगोपालं तथैव प्रतिभासनात्। यच्च 'निर्विल्पकं प्रत्यक्षं तदावेदकम्' इत्युक्तम्। तदपि न सम्यक् । तस्य प्रामाण्यानभ्युपगमात् । सर्वस्यापि प्रमाणतत्त्वस्य व्यवसायात्मकस्यैवाविसंवादकत्वेन प्रामाण्योपपत्तेः। सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परमब्रह्मणः स्वप्नेऽप्यप्रतिभासनात् । ___ यदप्युक्तं-" आहुर्विधातृ प्रत्यक्षम्" इत्यादि। तदपि १ 'सिद्धिः' इति ख, पुस्तके पाठः । Page #174 -------------------------------------------------------------------------- ________________ श्लोक १३ अन्ययोगव्यवच्छेदिका न पेशलम् । प्रत्यक्षेण ह्यनुवृत्तव्यावृत्ताकारात्मकवस्तुन एव प्रकाशनात् । एतच्च प्रागेव क्षुण्णम् । न ह्यनुस्यूतमेकमखण्डं सत्तामात्रं विशेषनिरपेक्षं सामान्यं प्रतिभासते। येन 'यदद्वैतं तब्रह्मणो रूपम्' इत्याद्युक्तं शोभते । विशेषनिरपेक्षस्य सामान्यस्य खरविपाणवदप्रतिभासनात् । तदुक्तम् "निर्विशेष हि सामान्यं भवेत् खरविषाणावत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि" ॥१॥ ___ ततः सिद्धे सामान्यविशेषात्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमब्रह्मणः प्रमाणविषयत्वम् । यच्च प्रमेयत्वादित्यनुमानमुक्तम्, तदप्येतेनैवापास्तं बोद्धव्यम् । पक्षस्य प्रत्यक्षबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् । यच्च तत्सिद्धौ प्रतिभासमानत्वसाधनमुक्तम् , तदपि साधनाभासत्वेन न प्रकृतसाध्यसाधनायालम् । प्रतिभासमानत्वं हि निखिलभावानां स्वतः परतो वा । न तावत् स्वतः। घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनासिद्धेः। परतः प्रतिभासमानत्वं च-परं विना नोपपद्यते इति । यच्च परमब्रह्मविवर्तवर्तित्वमखिलभेदानामित्युक्तम् । तदप्यत्र स्थलेऽन्वीयमानद्वयाविनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नात्येव । न च घटादीनां चैतन्यान्वयोऽप्यस्ति । मृदाद्यन्वयस्यैव तत्र दर्शनात् । ततो न किञ्चिदेतदपि । अतोऽनुमानादपि न तत्सिद्धिः । किञ्च, पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्नाः, अभिन्ना वा । भेदे द्वैतसिद्धिः। अभेदे त्वेकरूपतापत्तिः। तत् कथ १ विचारपूर्व खण्डितम् । २ 'शोभेत' इति रा. क. ख. घ. ह. पुस्तकेषु पाठः । __ ३ मीमांसाश्लोकवार्तिकसूत्र ५ आकृतिवादे " निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । सामान्यरहितत्वाच विशेषास्तद्रदेव हि " ॥१० ।। इति। Page #175 -------------------------------------------------------------------------- ________________ । स्याद्वादमञ्जरीसहिता श्लोक १४ मेतेभ्योऽनुमानमात्मानमासादयति । यदि च हेतुमन्तरेणापि साध्यसिद्धिः स्यात् , तर्हि द्वैतस्यापि वाङ्मात्रतः कथं न सिद्धिः। तदुक्तम् "हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद् हेतुसाध्ययोः। हेतुना चेद् विना सिद्धिद्वैतं वाङ्मावतो न किम् "॥१॥ "पुरुष एवेदं सर्वम्" इत्यादेः, “सर्व वै खल्विदं ब्रह्म" इत्यादेश्यागमादपि न तत्सिद्धिः। तस्यापि द्वैताविनाभावित्वेन अद्वैत प्रति प्रामाण्यासम्भवात् । वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापि दर्शनात् । तदुक्तम् "कर्मद्वैत फलद्वैतं लोकद्वैतं विरुध्यते ।। विद्याऽविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा" ॥१॥ ततः कथमागमादपि तत्सिद्धिः । ततो न पुरुषाद्वैतलक्षणमेकमेव प्रमाणस्य विषयः। इति सुव्यवस्थितः प्रपञ्चः। इति काव्यार्थः॥१३॥ अथ स्वाभिमतसामान्यविशेषोभयात्मकवाच्यवाचकभावसमर्थनपुरःसरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रतिभावैभवाभावमाह अनेकमेकात्मकमेव वाच्यं . द्वयात्मकं वाचकमप्यवश्यम् ।। अतोऽन्यथा वाचकवाच्यक्लप्ता... वतावकानां प्रतिभाप्रमादः॥१४॥ वाच्यम्-अभिधेयं, चेतनमचेतनं च वस्तु,एवकारस्याप्यर्थत्वात् १ आतमीमांसा. द्वितीयपरिच्छेदे श्लो. २६ । २ ऋग्वेदे पुरुषसूक्ते । ३ छां. उ. ३-१४ । ४ आतमीमांसा द्वितीयपरिच्छेदे श्लो. २५ । ५ मतान्तरीयवादिप्रकल्पितम् । Page #176 -------------------------------------------------------------------------- ________________ १८६ श्लोक १४ सामान्यरूपतया एकात्मकमपि व्यक्तिभेदेनानेकम् - अनेकरूपम् । अथवाऽनेकरूपमपि एकात्मकम् । अन्योऽन्यं संवलितत्वादित्यमपि व्याख्याने न दोषः । तथा च वाचकम् - अभिधायकं, शब्दरूपम् । तदप्यवश्यम् - निश्चितं । द्वयात्मकं सामान्यविशेषोभयात्मकत्वादएकानेकात्मकमित्यर्थः । उभयत्र वाच्यलिङ्गत्वेऽप्यव्यक्तत्वाद् नपुंसकत्वम् । अवश्यमितिपदं वाच्यवाचकयोरुभयोरप्येकानेकात्मकत्वं निश्चिन्वत् तदेकान्तं व्यवच्छिनत्ति । अतः - उपदर्शितप्रकारात्, अन्यथा - सामान्यविशेषैकान्तरूपेण प्रकारेण, वाचकवाच्यक्लृप्तौवाच्यवाचकभावकल्पनायाम्, अतावकानाम्--अत्वदीयानाम्, अन्ययूथ्यानाम् । प्रतिभाप्रमादः - प्रज्ञास्खलितम् इत्यक्षरार्थः । अत्र चाल्पस्वरत्वेन वाच्यपदस्य प्राग् निपाते प्राप्तेऽपि यदादौ वाचकग्रहणं, तत्मायोऽर्थप्रतिपादनस्य शब्दाधीनत्वेन वाचकस्यायत्वज्ञापनार्थम् । तथाच शाब्दिकाः 1 " नै सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते " ॥ १ ॥ इति । भावार्थत्वेवम् एके तीर्थिकाः सामान्यरूपमेव वाच्यतयाभ्युपगच्छन्ति । ते च द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः, सांख्याश्च । केचिच्च विशेषरूपमेव वाच्यं निर्वचन्ति । ते च पर्यायास्तिकनयानुसारिणः सौगताः । अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्षते । ते च नैगमनयानुरोधिनः काणादाः, आक्षपादाश्च । — अन्ययोगव्यवच्छेदिका १ 'व्याख्याते' इति ख. पुस्तके पाठः । २ “लध्वक्षरासखीदुत्स्वराद्यल्पस्वरार्च्यमेकम्” ३ [ १ । १६० इति है मशब्दानुशासनात् । ३ ' अर्घ्यत्व' इति क . पुस्तके पाठः । ४ श्रीभर्तृहरिकृत वाक्यपदीयस्य प्रथमकाण्डे श्लोक १२४ । ५ ' वाच्यतया शब्दार्थतया' इति क पुस्तके पाठः । Page #177 -------------------------------------------------------------------------- ________________ १०७ - स्याद्वादमञ्जरीसहिता श्लोक १४ ___एतच्च पक्षत्रयमपि किश्चित् चर्च्यते-तथाहि-संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति-सामान्यभेव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् । तथा सर्वमेकम् अविशेषेण सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वात् । तथा द्रव्यत्वमेव तत्त्वम् । ततोऽर्थान्तरभूतानां धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामनुपलब्धेः। किञ्च, ये सामान्यात् पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते, तेषु विशेषत्वं विद्यते, न वा । नो चेद्-निःस्वभावताप्रसङ्गः । स्वरूपस्यैवाभावात् । अस्ति चेत्-तर्हि तदेव सामान्यम् । यतः समानानां भावः सामान्यम् । विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव । अपि च विशेषाणां व्यावृत्तिप्रत्ययहेतुत्वं लक्षणम् । व्यावृत्तिप्रत्यय एव च विचार्यमाणो न घटते । व्यावृत्तिर्हि-विवक्षितपदार्थे इतरपदार्थप्रतिषेधः । विवक्षितपदार्थश्च स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी, कथं पदार्थान्तरप्रतिषेधे प्रगल्भते । न च स्वरूपसत्त्वादन्यत् तत्र किमापि, येन तनिषेधः प्रवर्तते । तत्र च व्यावृत्तौ क्रियमाणायां, स्वात्मव्यतिरिक्ता विश्वत्रयवर्तिनोऽतीतवर्तमानानागताः पदार्थास्तस्माद् व्यावर्तनीयाः । ते च नाज्ञातस्वरूपा व्यावतयितुं शक्याः । ततश्चैकस्यापि विशेषस्य परिज्ञाने प्रमातुः सर्वज्ञत्वं स्यात् न चैतत्प्रातीतिकं, यौक्तिकं वा । व्यावृत्तिस्तु-निषेधः । स चाभांवरूपत्वात् तुच्छः कथं प्रतीतिगोचरमञ्चति खपुष्पवत् । - १ विचार्यते। २ गतिमतां गतरुपग्रहो धर्मस्य लक्षणम् । स्थितिमतां स्थितेरुपग्रहोऽधर्मलक्षणम् । वर्तनालक्षणः कालः । द्रुमादिपुष्पोद्भेदादिनयत्यहेतु । तत्त्वार्थाधिगमसूत्रस्य पञ्चमाध्याये । ३ 'अज्ञातस्वरूपा' इति क, पुस्तके पाठः । ४ 'व्यावृत्तिश्च' इति क. ख. घ. पुस्तकेषु पाठः। ५ प्रतीतिगोचरं प्राप्नोति । Page #178 -------------------------------------------------------------------------- ________________ श्लोक १४ अन्ययोगव्यवच्छेदिका तथा येभ्यो व्यावृत्तिः, ते सद्रूपा असद्रूपा वा । असद्रूपाश्वेत्-तर्हि खरविषाणात् किं न व्यात्तिः । सद्रूपाश्चेत्-सामान्यमेव । या चेयं व्यावृत्तिर्विशेषैः क्रियते- सा सर्वासु विशेषव्यक्तिष्वेका अनेका वा, अनेका चेत्--तस्या अपि विशेषत्वापत्तिः, अनेकरूप-- त्वैकजीवितत्वाद् विशेषाणाम् । ततश्च तस्या अपि विशेषत्वान्यथानुपपत्तेावृत्त्या भाव्यम् । व्यावृत्तेरापि च व्यावृत्तौ विशेषाणामभाव एव स्यात् । तत्स्वरूपभूताया व्यावृत्तेः प्रतिषिद्धत्वात्, अनवस्थापा. ताच । एका चेत्-सामान्यमेव संज्ञान्तरेण प्रतिपन्नं स्यात्, अनुवृत्तिप्रत्ययलक्षणाव्यभिचारात् । किञ्च, अमी विशेषाः सामान्याद् भिन्ना अभिन्ना वा ? भिन्नाश्चेद् मण्डूकजटाभारानुकाराः। अभिनाश्चेत् तदेव, तत्स्वरूपवत् । इति सामान्यैकोन्तवादः। . पर्यायनयान्वयिनस्तु भाषन्ते-विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थः । ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वात् । नहि गवादिव्यक्त्यनुभवकाले वर्णसंस्थानात्मकं व्यक्तिरूपमपहाय, अन्यत्किञ्चिदेकमनुयायि प्रत्यक्षे प्रतिभासते । तादृशस्यानुभवाभावात् । तथा च पठन्ति"एतासु पञ्चस्ववभासनीषु प्रत्यक्षबोधे स्फुटमङ्गलीषु । साधारणं रूपमवेक्षते यःशृङ्गं शिरस्यात्मन ईक्षते सः"१॥ ____ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एवोत्पद्यते । इति न तेन सामान्यसाधनं न्याय्यम् । किञ्च, यदिदं सामान्यं परिकल्प्यते-तदेकमनेकं वा । एकमापि सर्वगतमसर्वगतं वा । सर्वगतं चेत्-किं न व्यक्त्यन्तरालेषूप१ मण्डूके केशा न भवन्ति । तेन जटानामसंभवः । २ 'सामान्यैकान्तः' इति क, ख. घ. पुस्तकेषु पाठः। ३ वर्णाकृतिरूपम् । संस्थानं-आकृतिः ।। ४ अशोकविरचितसामान्यदूषणादिक्प्रसारिताग्रन्थे । Page #179 -------------------------------------------------------------------------- ________________ १०९ स्याद्वादमञ्जरीसहिता श्लोक १४ I लभ्यते । सर्वगतैकत्वाभ्युपगमे च तस्य यथा गोत्वसामान्यं गोव्यक्ती: क्रोडीकरोति, एवं किं न घटपटादिव्यक्तीरपि, अविशेषात् । असर्वगतं चेद - विशेषरूपापत्तिः, अभ्युपगमबाधथ । अथानेकं गोत्वाश्वत्वघटत्व पटत्वादिभेदभिन्नत्वात् ते तर्हि विशेषा एव स्वीकृताः । अन्योन्यव्यावृत्तिहेतुत्वात् । न हि यद् गोत्वं तदश्वत्वात्मकमिति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् । तच्च विशेषेष्वेव स्फुटं प्रतीयते । नहि सामान्येन काचिदर्थक्रिया क्रियते । तस्य निष्क्रियत्वात् । वाहदोहादिकासु-- अर्थक्रियासु विशेपाणामेवोपयोगात । तथेदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा । भिन्नं चेद्-अवस्तु । विशेषविश्लेषणार्थक्रियाकारित्वाभावात् । अभिन्नं चेद - विशेषा एव तत्स्वरूपवत् । इति विशेषैकान्तवादः । नैगमनयानुगामिनस्त्वाहु: - स्वतन्त्रौ सामान्यविशेषौ । तथैव प्रमाणेन प्रतीतत्वात् । तथाहि - सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वात् यावेवं तावेवं, न्यथा पार्थः पावकों, तथा चेतौ, तस्मात् तथा । सामान्यं हि गोत्वादि सर्वगतम् । तद्विपरीताश्च शबलशाबलेयादयो विशेषाः । ततः कथमेषामैक्यं युक्तम् । , न सामान्यात् पृथग् विशेषस्योपलम्भ इति चेत्, कथं तर्हि तस्योपलम्भ इति वाच्यम् । सामान्यव्याप्तस्येति चेद्-न तर्हि स विशेषोपलम्भः । सामान्यस्यापि तेन ग्रहणात् ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता न चैतदस्ति । विशेषाभिधानव्यवहारयोः प्रवृत्ति १ व्याप्नोति । २ 'ते' इति क पुस्तके नास्ति । ३ वाहः – शकटवहनम् | ४ विश्लेषः - वियोगः । ५ पाथः - उदकम् । Page #180 -------------------------------------------------------------------------- ________________ श्लोक १४ अन्ययोगव्यवच्छेदिका दर्शनात् । तस्माद् विशेषमभिलषता, तत्रं च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः । एवं सामान्यस्थाने विशेषशब्दं, विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको बोधो विवक्तोऽङ्गीकर्तव्यः। तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक्प्रतिभासमानत्वाद् द्वावपतिरेतरविशकलितौ । ततो न सामान्यविशेषात्मकत्वं वस्तुनो घटते । इति स्वतन्त्रसामान्यविशेषवादः। तदेतत् पक्षत्रयमपि न क्षमते क्षोदम् । प्रमाणबाधितत्वात् । सामान्यविशेषोभयात्मकस्यैव च वस्तुनो निर्विगानमनुभूयमानत्वात् । वस्तुनो हि लक्षणम्-अर्थक्रियाकारित्वम् । तच्चानेकान्तवादे एवाविकलं कलयन्ति परीक्षकाः । तथाहि-यथा गौरित्युक्ते खुरककुत्सास्नालाङ्गुलविषाणाद्यवयवसंपन्नं वस्तुरूपं सर्वव्यक्त्यनुयाय प्रतीयते, तथा महिष्यादिव्यावृत्तिरपि प्रतीयते । यत्रापि च शबला गौरित्युच्यते, तत्रापि यथा विशेषप्रतिभासः, तथा गोत्वप्रतिभासोऽपि स्फुट एव । शबलेति केवलविशेषोच्चारणेऽपि, अर्थात् प्रकरणाद् वा गोत्वमर्नुवर्तते । अपिच, शबलत्वमपि नानारूपम् । तथा दर्शनात् । ततो वक्त्रा शवलेत्युक्ते क्रोडीकृतसकलशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शवलत्वं व्यवस्थाप्यते । तदेवमावालगोपालं प्रतीतिप्रसिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे, तदुभयैकान्तवादः प्रलापमात्रम् । नहि कचित् कदाचितू केनचित् सामान्यं विशेषविनाकृतमनुभूयते । विशेषा वा तद्विनाकृताः। १ 'तत्र' इति क. पुस्तके नास्ति । २ 'च' इति ख, पुस्तके नास्ति । ३ अनिन्द्यपद्धत्या। ४ अत्र 'इति' पदमधिकं क. पुस्तके । Page #181 -------------------------------------------------------------------------- ________________ १११ . स्याद्वादमञ्जरीसहिता श्लोक १५ केवलं दुर्नयप्रभावितमतिव्यामोहवशादेकमपलप्यान्यतरद व्यवस्थापयन्ति बालिशाः । सोऽयमन्धगजन्यायः । येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्गरप्रहारजर्जरितत्वाद् नोच्छासितुमपि क्षमाः । स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्यं प्रतिव्यक्ति कैथश्चिद् भिन्नं, कथञ्चिदभिन्न, कथञ्चित् तदात्मकत्वाद्, विसदृशपरिणामवत् । यथैव हि काचिद् व्यक्तिरुपलभ्यमानाद् व्यक्त्यन्तराद् विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति तेन समानो गौरयम् , सोऽनेन समान इति प्रतीतेः । न चास्य व्याक्तस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातः । यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, नच तेषां गुणरूपताव्याघातः । कथञ्चिद् व्यतिरेकस्तुरूपादीनामिव सदृशपरिणामस्याप्यस्त्येव । पृथव्यपदेशादिभाक्त्वात् । विशेषा अपि नैकान्तेन सामान्यात् पृथग्भवितुमर्हन्ति । यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् तदा तेषामसर्वगतत्वेन ततो विरुद्धधर्माध्यासः स्यात् । न च तस्य तत् सिद्धम् । प्रागुक्तयुक्त्या निराकृतत्वात् । सामान्यस्य विशेषाणां च कथञ्चित् परस्पराव्यतिरेकेणेकानेकरूपतया व्यवस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वाद्धि १ जन्मान्धैर्दशभियथाक्रमं पदचतुष्टयश्रोत्रद्वयशुण्डादन्तपुच्छरूपा गजावयवाः स्पृष्टाः । ततः तेऽन्धाः स्वस्पृष्टरूपं स्तम्भाद्याकारकं पूर्णतया गजस्वरूपं प्रतिपद्यमानास्तथैव स्थापयन्ति तदितरान्निषेधयन्ति तद्वत् । २ खण्डनीयाः । ३ 'कथंचिद्भिन्नम्' इति रा. पुस्तके नास्ति । ४ 'प्रतीतिः' इति क. पुस्तके पाठः । ५ 'व्यपदेश' इति क. पुस्तके पाठः । Page #182 -------------------------------------------------------------------------- ________________ श्लोक १४ अन्ययोगव्यवच्छेदिका ११२ सामान्यमप्यनेकमिष्यते । सामान्यात् तु विशेषाणामव्यतिरेकेण तेषामप्येकरूपता इति । - एकत्वं च सामान्यस्य संग्रहनयार्पणात् सर्वत्र विज्ञेयम् । प्रमाणार्पणात् तस्य कथञ्चिद् विरुद्धधर्माध्यासितत्वम् । सदृशपरिणामरूपस्य विसदृशपरिणामवत् कथञ्चित् प्रतिव्यक्तिभेदात् । एवं चासिद्धं सामान्यविशेषयोः सर्वथा विरुद्धधर्माध्यासितत्वम् । कथञ्चिद् विरूद्धधर्माध्यासितत्वं चेद विवक्षितम्-तदाऽस्मत्कशाप्रवेशः । कथञ्चिद् विरुद्धधर्माध्यासस्य कथञ्चिद् भेदाविनाभूतत्वात् । पाथ:पावकदृष्टान्तोऽपि साध्यसाधनविकलः । तयोरपि कथञ्चिदेव विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासः, भेदश्च । द्रव्यवादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्यविशेषात्मकत्वं वस्तुनो घटते इति । ततः सुष्टूक्तं वाच्यमेकमनेकरूपम् इति । ____ एवं वाचकमपि शब्दाख्यं द्वयात्मकम्-सामान्यविशेषात्मकम्। सर्वशब्दव्यक्तिष्वनुयायि शब्दत्वमेकम् । शाङ्खशातीव्रमन्दोदात्तानुदात्तस्वरितादिविशेषभेदादनेकम् । शब्दस्य हि सामान्याविशेषात्मकत्वं पौद्गलिकत्वाद् व्यक्तमेव। तथाहि-पोद्गलिकः शब्दः, इन्द्रियार्थत्वात् रूपादिवत् । यच्चास्य पौगलिकत्वनिषेधाय स्पर्शशून्याश्रयत्वात्' अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात् 'पूर्व पश्चाच्चावयवानुपलब्धेः; मूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वाद्,' गगनगुणत्वात् ' चति पञ्च हेतवो यौगैरुपन्यस्ताः, ते हेत्वाभासाः । तथाहि-शब्दपर्यायस्याश्रयो १ 'तेषाम्' इति ख, पुस्तके पाठः ।। २ तद्विपरीतम्' इति रा. ख. घ. पुस्तकेषु पाठः । . ३ शङः- कंजः-शृङ्ग- वाद्यविशेषः । उच्चैरुदात्तः। नीचैरनुदात्तः । समाहारः स्वरितः। Page #183 -------------------------------------------------------------------------- ________________ ११३ स्याद्वादमञ्जरीसहिता श्लोक १४ भाषांवर्गणा, न पुनराकाशम् । तत्र च स्पर्शो निर्णीयत एव । यथाशब्दाश्रयः स्पर्शकान्, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारद्रव्यपरमागुवत्, इति-असिद्धः प्रथमः । द्वितीयस्तु-गन्धद्रव्येण व्यभिचारादनैकान्तिकः। वय॑मानजात्यकस्तूरिकादि गन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तर्विशति, बहिश्च निति, न चापौद्गलिकम् । __ अथ तत्र सूक्ष्मरन्ध्रसंभवाद् नातिनिबिडत्वम्, अतस्तत्र तत्मवेशनिष्क्रमौ । कथमेन्यौद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वम् । सर्वथा नीरन्ध्र.तु प्रदेशे न तयोः संभवः, इति चेत्-तर्हि शब्देऽप्येतत्समानम् इत्यसिद्धो हेतुः । तृतीयस्तु तडिल्लतोल्कादिभिरनैकान्तिकः । चतुर्थोऽपि-तथैव । गन्धद्रव्यविशेषसूक्ष्मरजोधूमादिभिर्व्यभिचारात् । न हि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नश्मश्रुप्रेरकं दृश्यते । पञ्चमः पुनः-आसिद्धः । तथाहि न गगनगुणः शब्दः, अस्मदादिप्रत्यक्षत्वाद्, रूपादिवत् । इति सिद्धः पौगलिकत्वात् सामान्यविशेषात्मकः शब्द इति । • न च वाच्यम्-आत्मन्यपौद्गलिकेऽपि कथं सामान्यविशेषात्मकत्वं निर्विवादमनुभूयत इति । यतः-संसार्यात्मनः प्रतिप्रदेशमनन्तानन्तकर्मपरमाणुभिःसह वह्नितापितघनकुट्टितनिर्विभागपिण्डीभूतसूचीकलापवल्लोलीभावमापन्नस्य कथञ्चित् पौद्गलिकत्वाभ्यनुज्ञानादिति । यद्यपि स्याद्वादवादिनां पौगलिकमपौद्गलिकं च सर्व वस्तु सामान्यविशेषात्मकं, तथाप्यपौद्गलिकेषु धर्माधर्माकाशकालेषु तदात्मत्वमर्वाग्दृशां न तथा प्रतीतिविषयमायाति । पौद्गलिकेषु पुनस्तत् साध्य १ सजातीयवस्तुसमुदायो वर्गराशिर्वर्गणा । यां भाषार्थ जीवोऽवलम्बते यां च गृहीत्वा चतुर्विधभाषात्वेन परिणमय्य विसृजति सा भाषावर्गणा । १५ Page #184 -------------------------------------------------------------------------- ________________ श्लोक १४ अन्ययोगव्यवच्छेदिका मानं तेषां सुश्रद्धानम् । इत्यप्रस्तुतमपि शब्दस्य पौगलिकत्वमत्र सामान्यविशेषात्मकत्वसाधनायोपन्यस्तमिति । ११४ अत्रापि नित्यशब्दवादिसंमतः शब्दैकत्वैकान्तः, अनित्यशब्दवाद्यभिमतः शब्दानेकत्वैकान्तश्च प्राग्दर्शितदिशा प्रतिक्षेप्यः । अथवा वाच्यस्य घटादेरर्थस्य सामान्यविशेषात्मकत्वे तद्वाचकस्य ध्वनेरपि तत्त्वम् । शब्दार्थयोः कथञ्चित् तादात्म्याभ्युपगमात् । यदाहुर्भद्रबाहुस्वामिपादा: "अभिहाणं अभियाउ होइ भिण्णं अभिण्णं च । खुरअग्गिमोयगुच्चारणम्हि जंम्हा उ वयणसवणाणं ॥ १ ॥ नवि छेओ नवि दाहो ण पूरणं तेण भिन्नं तु । जम्हा य मोयगुच्चारणम्हि तत्थेव पच्चओ होइ ॥ २ ॥ न य होइ स अन्नत्थे नेण अभिन्नं तदत्थओ एतेन – “विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यपि " ॥ १ ॥ "" इति प्रत्युक्तम् | शब्दस्य ह्येतदेव तत्त्वं यदभिधेयं याथात्म्येनासौ प्रतिपादयति । स च तत् तथा प्रतिपादयन् वाच्यस्वरूपपरिणामपरिणत एव वक्तुं शक्यः, नान्यथा, अतिप्रसङ्गात् । घटाभिधानकाले पटाद्यभिधानस्यापि प्राप्तेरिति । अथ वा भङ्ग्यन्तरेण सकलं काव्यमिदं व्याख्यायते - वाच्यं १ अभिधानमभिधेयाद् भवति भिन्नमभिन्नं च । क्षुरा - ऽग्नि- मोदकाच्चारणे यस्मात् तु वदन-श्रवणयोः ॥ १ ॥ नाऽपि च्छेदो नापि दाह्रो न पूरणम्, तेन भिन्नं तु । यस्माच्च मोदकोच्चारेण तत्रैव प्रत्ययो भवति ॥ २ ॥ न च भवति अन्यार्थे तेनाऽभिन्नं तदर्थात् । २ 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति वचनात् । इति क. ह. पुस्तकयोरधिकम् । ३ 'सतत्त्वं' इति ख, पुस्तके पाठः । Page #185 -------------------------------------------------------------------------- ________________ . स्याद्वादमञ्जरीसहिता श्लोक १४ वस्तु, घटादिकम् । एकात्मकमेव-एकस्वरूपमपि सत् , अनेकम्अनेकस्वरूपम् । अयमर्थः-प्रमाता तावत् प्रमेयस्वरूपं लक्षणेन निश्चिनोति । तच्च-सजातीयविजातीयव्यवच्छेदादात्मलाभ लभते । यथा घटस्य सजातीया मृण्मयपदार्थाः, विजातीयाश्च पटादयः। तेषां व्यवच्छेदस्तल्लक्षणम् । पृथुबुध्नोदराद्याकारः कम्बुग्रीवो जलधारणाहरणादिक्रियासमर्थः पदार्थविशेषो घट इत्युच्यते । तेषां च सजातीयविजातीयानां स्वरूपं तत्र बुद्धया आरोप्य व्यवच्छिद्यते । अन्यथा प्रतिनियततत्स्वरूपपरिच्छेदानुपपत्तेः। सर्वभावानां हि भावाभावात्मकं स्वरूपम् । एकान्तभावात्मकत्वे वस्तुनो वैश्वरूप्यं स्यात् । एकान्ताभावात्मकत्वे च निःस्वभावता स्यात् । तस्मात् स्वरूपेण सत्त्वात् पररूपेण चासत्त्वाद् भावाभावात्मकं वस्तु । यदाह “सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसंभवः" ॥१॥ . ततश्चैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकात्मकत्वं घटस्य सूपपादम् । एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषामर्थानां ज्ञानम्।सर्वपदार्थपरिच्छेदमन्तरेण तनिषेधात्मन एकस्य वस्तुनो विविक्तंतया परिच्छेदासंभवात् । आगमोऽप्येवमेव व्यवस्थितः “जे एगं जाणइ से सव्वं जाणइ । जे सव्वं जाणइ से एगःजाणइ "॥ तथा—" एको भावः सर्वथा येन दृष्टः। सर्वे भावाः सर्वथा तेन दृष्टाः॥ सर्वे भावाः सर्वथा येन दृष्टा।। एको भावः सर्वथा तेन दृष्टः" ॥१॥ १ 'एकस्वरूपमेव' इति क. पुस्तके पाठः । २ विभिन्नतया । Page #186 -------------------------------------------------------------------------- ________________ श्लोक १४ अन्ययोगव्यवच्छेदिका ये तु सौगताः परासत्त्वं नाङ्गीकुर्वते, तेषां घटादेः सर्वात्मकत्वप्रसङ्गः । तथाहि यथा घटस्य स्वरूपादिना सत्त्वं, तथा यदि पररूपादिनापि स्यात् , तथा च सति स्वरूपादिसत्त्ववत् पररूपादिसत्त्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् । परासत्त्वेन तु प्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति परासत्त्वं, किन्तु स्वसत्त्वमेव तदिति चेद्-अहो वैदग्धी ! न खलु यदेव सत्त्वं तदेवासत्त्वं भवितुमर्हति । विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोरैक्यायोगात् । अथ युष्मत्पक्षेऽप्येवं विरोधस्तदवस्थ एवेति चेद् अहो ! वाचाटता देवानांप्रियस्य । नहि वयं येनैव प्रकारेण सत्त्वं, तेनैवासत्त्वं येनैव चासत्त्वं, तेनैव सत्त्वमभ्युपेमः, किन्तु स्वरूपद्रव्यक्षेत्रकालभावैः सत्त्वं, पररूपद्रव्यक्षेत्रकालभावैस्त्वसत्त्वम् । तदा क विरोधावकाशः। योगास्तु प्रगल्भन्ते-सर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेणैव पदार्थप्रतिनियमासिद्धेः, किं तेषामसत्त्वात्मकत्वकल्पनया इति । तदसत्-यथा हि पटाद्यभावरूपो घटो न भवति, तदा घटः पटादिरेव स्यात् । यथा च घटाभावाद् भिन्नत्वाद् घटस्य घटरूपता, तथा पटादेरापि स्यात् , घटाभावाद् भिन्नत्वादेव । इत्यलं विस्तरेण । __एवं वाचकमपि शब्दरूपं द्वयात्मकम्-एकात्मकमपि सद्अनेकमित्यर्थः । अर्थोक्तन्यायेन शब्दस्यापि भावाभावात्मकत्वात् । अथवा एकविषयस्यापि वाचकस्यानेकविषयत्वोपपत्तेः । यथा किल घटशब्दः संकेतवशात् पृथुबुध्नोदराद्याकारवति पदार्थे प्रवर्तते वाचकतया, तथा देशकालाद्यपेक्षया तद्वशादेव पदार्थान्तरेष्वपि तथा वर्तमानः केन वार्यते ? भवन्ति हि वक्तारो योगिनः-शरीरं प्रति घट इति संकेतानां पुरुषेच्छाधीनतयानियतत्वात् । यथा चौरशब्दोऽन्यत्र १ वैदग्धी-चातुर्यम् । २ देवानांप्रियः-मूर्खः । ३ अर्थपरिपाट्यनुसारमित्यर्थः। Page #187 -------------------------------------------------------------------------- ________________ ११७ स्याद्वादमञ्जरीसहिता श्लोक १४ तस्करे रूढोऽपि, दाक्षिणात्यानामोदने प्रसिद्धः। यथा च कुमारशब्दः पूर्वदेशे अश्विनमासे रूढः । एवं कर्कटीशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका ज्ञेयाः। कालापेक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धासंहननादिमति प्राचीनकाले, षड्गुरुशब्देन–शतमशीत्यधिकमुपवासानामुच्यते स्म, सांप्रतकाले तु, तद्विपरीते तेनैव षड्गुरुशब्देन-उपवासत्रयमेव सङ्केत्यते, जीतकल्पव्यवहारानुसारात् । शास्त्रापेक्षया तु यथा पुराणेषु द्वादशीशब्दे १. दृढीक्रियन्ते शरीरपुद्गलाः येन तत्संहननं तच्चास्थिनिचयः कीलिकादिरूपाणामस्थ्नां निचयो रचनाविशेषोऽस्थिनिचयः । शक्तिविशेष इत्यन्ये । तत्संहननं षट्प्रकारैर्भवति- १ वज्रऋषभनाराचं-द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वऋषभनाराचम् । २ ऋषभनाराचं-कीलिकारहितं संहननं तत् ऋषभनाराचम् । ३ नाराचं-मर्कटबन्धः केवलो भवति न पुनः कीलिका भवति ऋषभसंज्ञः पट्टश्च तन्नाराचम् । ४ अर्धनाराचं-एकपार्श्वन मर्कटबन्धो द्वितीयपार्श्वेन च कीलिका भवंति तदर्धनाराचम् । ५ कीलिका-अस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिकासंहननम् । ६ सेवार्त-यत्र तु परस्परं पर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षते तत्सेवार्तम् ।। __ २ श्रीजिनभद्रगणिक्षमाश्रमणकृतो गाथाग्रन्थो जीतकल्पाख्यः । जीतमाचरितं तस्य कल्पो वर्णना प्ररूपणा जीतकल्पः । तत्राद्यगाथापञ्चकेन शास्त्रप्रस्तावनामभिधाय (४) चतसृभिर्गाथाभिराद्यस्य, (४) चतसृभिर्द्वितीयस्य, (३) तिसृभिस्तृतीयस्य, (२) द्वाभ्यां चतुर्थस्य, (५) पंचमिः पञ्चमस्य, (५८) अष्टपञ्चाशद्भिर्गाथाभिर्ज्ञानाचारादि (आदिशब्देन दर्शनाचार-चारित्राचार-तपाचार-वीर्याचाराणां ग्रहणम् ) पंचकातिचारगोचरस्य षष्ठस्य, (३) तिसृभिः सप्तमस्य, (४) चतसृभिरष्टमस्य, (७) सप्तभिर्नवमस्य, (९) नवभिर्दशमस्य प्रायश्चित्तस्य व्याख्यानेन एष सर्वसमुदायात्मको जीतकल्पः । मूलसंख्या १०८, टीका १२०००, सेनकृतचूर्णिः (प्राकृतभाषाटीका) १०००, भाष्यम् ३१२४, सम्पूर्णसंख्या १६२३२। चूर्णिव्याख्या ११२०, अस्य लघुवृत्तिः श्रीसाधुरत्नकृता ५७०० श्रीतिलकाचार्यकृता च १५०० । Page #188 -------------------------------------------------------------------------- ________________ श्लोक १४ अन्ययोगव्यवच्छेदिका ११८ नैकादशी । त्रिपुरार्णवे च-अलिशब्देन मदिराभिषक्तम् च मैथुनशब्देन मधुसर्पिषोर्ग्रहणम् इत्यादि । न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं, स्वाभाविकसामर्थ्यसाचिव्यादेव तत्र तस्य प्रवृत्तेः, सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशकालादौ यदर्थप्रतिपादनशक्तिसहकारी संकेतस्तत्र तमर्थं प्रतिपादयति । ... तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवसूरिपादाः'स्वाभाविकसामर्थ्य समयाभ्यामर्थबोधनिबन्धनं शब्दः' इँति । अत्र शक्तिपदार्थसमर्थनं ग्रेन्थान्तरादवसेयम् । अतोऽन्यथेत्यादि उत्तरार्ध पूर्ववत् । प्रतिभाप्रमादस्तु तेषां सदसदेकान्ते वाच्यस्य । प्रतिनियतार्थविषयत्वे च वाचकस्य उक्तन्युक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः । तदयं समुदायार्थः-सामान्यविशेषात्मकस्य, भावाभावात्मकस्य च वस्तुनः-सामान्यविशेषात्मको, भावाभावात्मकश्च ध्वनिर्वाचक इति । अन्यथा प्रकारान्तरैः, पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां वादिनां प्रतिभैव प्रमाद्यति, न तु तद्भणितयो युक्तिस्पर्शमात्रमाप सहन्ते । . कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेत्-एते ब्रूमः । “अपोह एव शब्दार्थः" इत्येके । “अपोहः, शब्दलिङ्गाभ्यां न वस्तु विधिनोच्यते" इति वचनात् । अपरे १ अयं शाक्तमार्गीयो ग्रन्थः । २ 'मदिराभिषिक्तान्ने च' इति रा. पुस्तके पाठः । ३ प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थपरिच्छेदे सू. १.१ । ४ 'इति' पदं क. ख. रा. ह. च. पुस्तकेषु नास्ति । ५ स्याद्वादरत्नाकरपरि. २ सू. १ इत्यादयः । ६ बौद्धाः। ७ 'च' इत्याधिकं क. ख. घ. ह. पुस्तकेषु । Page #189 -------------------------------------------------------------------------- ________________ ११९ स्याद्वादमञ्जरीसहिता श्लोक १५ सामान्यमात्रमेव शब्दानां गोचरः । तस्य कचित् प्रतिपन्नस्य, एकरूपतया सर्वत्र संकेतविषयतोपपत्तेः। न पुनर्विशेषाः । तेषामानन्त्यतः कात्स्न्येनोपलब्धुमशक्यतया तद्विषयतानुपपत्तेः। विधिवादिनस्तुविधिरेव वाक्यार्थः, अप्रवृत्तप्रवर्तनस्वभावत्वात् तस्येत्याचक्षते । विधिरपि-तत्तद्वादिविप्रतिपत्त्यानेकप्रकारः। तथाहि वाक्यरूपः शब्द एव प्रवर्तकत्वाद् विधिरित्येके । तद्व्यापारो भावनापरपर्यायो विधिरित्यन्ये । नियोग इत्यपरे । प्रैषादय इत्येके । तिरस्कृततदुपाधिप्रवर्तनामात्रमित्यन्ये । एवं फलतदभिलाषकर्मादयोऽपि वाच्याः । एतेषां निराकरणं सपूर्वोत्तरपक्षं न्यायकुमुदचन्द्रादवसेयमिति । इति काव्यार्थः ॥ १४॥ .. इदानीं सांख्याभिमतप्रकृतिपुरुषादितत्त्वानां विरोधावरुद्धत्वं ख्यापयन् , तद्धालिशताविलसितानामपरिमितत्वं दर्शयति चिदर्थशून्या च जडा च बुद्धिः .' शब्दादितन्मात्रजमम्बरादि। न बन्धमोक्षौ पुरुषस्य चेति, कियद् जडैन ग्रथितं विरोधि ॥ १५॥ चित्-चैतन्यशक्तिः, आत्मस्वरूपभूता । अर्थशून्या-विषयपरिच्छेदविरहिता । अर्थाध्यवसायस्य बुद्धिव्यापारत्वाद्-इत्येका कल्पना । बुद्धिश्च महत्तत्त्वाख्या । जडा अनवबोधस्वरूपा-इति द्वितीया । अम्बरादि-व्योमप्रभृतिभूतपञ्चकं शब्दादितन्मात्रजम्-शब्दादीनि यानि पञ्चतन्मात्राणि सूक्ष्मसंज्ञानि, तेभ्यो जातमुत्पन्नं, शब्दादितन्मात्रजम् इति तृतीया । अत्र च शब्दो गम्यः । पुरुषस्य च १ अयं ग्रन्थः-भट्टाकलङ्कदेवकृतलघीयस्त्रयग्रन्थटीकात्मकः । इयं टीका दिगम्बराचार्य श्रीमाणिक्यनन्देरन्तेवासिना श्रीप्रभाचन्द्रेण प्रणीता । Page #190 -------------------------------------------------------------------------- ________________ १२० श्लोक १५ अन्ययोगव्यवच्छेदिका प्रकृतिविकृत्यनात्मकस्यात्मनो न बन्धमोक्षौ, किन्तु प्रकृतेरेव । तथा च कापिलाः"तस्माद् न बध्यते नापि मुच्यते, नापि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः"॥१॥ तत्र बन्धः-प्राकृतिकादिः। मोक्षः-पञ्चविंशतितत्त्वज्ञानपूर्वकोऽपवर्गः-इति चतुर्थी । इतिशब्दस्य प्रकारार्थत्वाद्-एवंप्रकारमन्यदपि, विरोधीति विरुद्धं, पूर्वापरविरोधादिदोषाघातम् । जडैः-मूईः, तत्त्वावबोधविधुरधीभिः कापिलैः। कियन्न ग्रथितं-कियद् न स्वशाटेषूपनिबद्धम्। कियदित्यसूयाग़र्भम् । तत्प्ररूपितविरुद्धार्थानामानन्त्येनेयत्तानवधारणात् । इति संक्षेपार्थः। व्यासार्थस्त्वयम्-साङ्ख्यमते . किल दुःखत्रयाभिहतस्य पुरुषस्य तदपघातहेतुतत्त्वजिज्ञासा उत्पद्यते । आध्यात्मिकमाधिदैविकमाधिभौतिकं चेति दुःखत्रयम् । तत्राध्यात्मिकं द्विविधम्-शारीरं मानसं च । शारीरं-वातपित्तश्लेष्मणां वैषम्यानिमित्तम् । मानसंकामक्रोधलोभमोहेाविषयादर्शननिबन्धनम् । सर्व चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा-आधिभौतिकमाधिदैविकं चेति । तत्राधिभौतिक-मानुषपशुपक्षिमृगसरीसृपस्थावरनिमित्तम् । आधिदैविक-यक्षराक्षसग्रहाद्यावेशहेतुकम् । अनेन दुःखत्रयेण रजःपरिणामभेदेन बुद्धिवर्तिना चेतनाशक्तेः प्रतिकूलतया, अभिसंबन्धो-आभघातः । ___ . तत्त्वानि पञ्चविंशतिः। तद्यथा-अव्यक्तम्-एकम् । महदहङ्कारपञ्चतन्मात्रैकादशेन्द्रियपञ्चमहाभूतभेदात् त्रयोविंशतिविधं व्यक्तम् । पुरुषश्च चिद्रूप इति । तथा च ईश्वरकृष्णः - . १ ईश्वरकृष्णविरचितसांख्यकारिका ६२ । २ तत्काल्पितेत्यर्थः । Page #191 -------------------------------------------------------------------------- ________________ १२१ 'स्याद्वादमञ्जरीसहिंता श्लोक १५ "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः" ॥१॥ प्रीत्यप्रीतिविषादात्मकानां लाघवोपष्टम्भगौरवधर्माणां परस्परोपकारिणां त्रयाणां गुणानां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः। प्रधानमव्यक्तमित्यनर्थान्तरम् । तच्च-अनादिमध्यान्तमनवयवं साधारणमशब्दमस्पर्शमरूपमगन्धमव्ययम् । प्रधानाद-बुद्धिर्महदित्यपरपर्याया उत्पद्यते । योऽयमध्यवसायो गवादिषु प्रतिपत्तिः–एवमेतद् नान्यथा, गौरेवायं नाश्वः, स्थाणुरेष नायं पुरुष इत्येषा बुद्धिः । तस्यास्त्वष्टौ रूपाणि-धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि । अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानि । बुद्धः अहङ्कारः। स च-अभिमानात्मकः, अहं शब्देऽहं स्पर्शेऽहं रूपेऽहं गन्धेऽहं रसेऽहं स्वामी, अहमीश्वरः, असौ मया हतः, ससत्त्वोऽहममुं हनिष्यामीत्यादिप्रत्ययरूपः । तस्मात-पञ्च तन्मात्राणि शब्दतन्मात्रादीनि अविशेषरूपाणि सूक्ष्मपर्यायवाच्यानि। शब्दतन्मात्रा हि शब्द एवोपलभ्यते, न पुनरुदात्तानुदात्तस्वरितकम्पितषड्जादिभेदाः। षड्जादयः-शब्दविशेषादुपलभ्यन्ते । एवं स्पर्शरूपरसगन्धतन्मात्रेप्वपि योजनीयमिति । तत एव चाहङ्काराद् एकादशेन्द्रियाणि च । तत्र चक्षुः, श्रोत्रं, घ्राणं, रसनं त्वगिति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाण । एकादशं मन इति । पञ्चतन्मात्रेभ्यश्च पञ्चमहाभूतान्युत्पद्यन्ते । शब्दतन्मात्रादाकाशं १ ईश्वरकृष्णकृतसांख्यकारिका ३ । २ अनर्थान्तरं-पर्यायः । _३ 'षड्जऋषभगान्धारा मध्यमः पंचमस्तथा । धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः' ॥ इति अभिधानचिन्तामणौ ६-३७ ॥ ४ 'तद्यथा' इत्यधिकं ह, पुस्तके । १६ Page #192 -------------------------------------------------------------------------- ________________ १२२ श्लोक १५ शब्दगुणम् । शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः । शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्दस्पर्शगुणरूपम् । शब्दस्पर्शरूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः । शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति । पुरुषस्तु - अन्ययोगव्यवच्छेदिका 66 अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने " ॥ १ ॥ इति | अन्धपङ्गुवत् प्रकृतिपुरुषयोः संयोगः । चिच्छक्तिश्च विषयपरिच्छेदशून्या यत इन्द्रियंद्वारेण सुखदुःखादयो विषया बुद्धौ प्रतिसंक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचारः । आत्मा हि स्वं बुद्धेरव्यतिरिक्तमभिमन्यते । आह च पतञ्जलिः- “शुद्धोऽपि पुरुषः प्रत्यहं बौद्धमनुपश्यति तमनुपश्यन् अतदात्मकोऽपि तदात्मक इव प्रतिभासते" इति । मुख्यतस्तु बुद्धेरेव विषयपरिच्छेदः । तथा च वांचस्पतिः – “ सर्वो व्यवहर्ता आलोच्य - नन्वहमन्त्राधिकृत — इत्यभिमत्य, कर्तव्यमेतन्मया, इत्यध्यवस्यति । ततश्च प्रवर्तते इति लोकतः सिद्धम् । तत्र कर्तव्यमिति योऽयं निश्चयश्चितिसन्निधानापन्नचैतन्याया बुद्धेः सोऽध्यवसायो बुद्धेरसाधारणो व्यापारः" इति । चिच्छक्ति १ सांख्यतत्वकौमुद्याः प्रणेता वाचस्पतिः । तेन २३ तम्यां सांख्यकारिकायां निर्दिष्टमिदम् । Page #193 -------------------------------------------------------------------------- ________________ १२३ स्याद्वादमञ्जरीसहिता श्लोक १५ सन्निधानाचाचेतनापि बुद्धिश्चेतनावतीवाभासते । वादमहार्णवोऽप्याह-" बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति । तदेव भोक्तृत्वमस्य, न त्वात्मनो विकारापत्तिः" इति। तथाचासुरिः "विविक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते।। प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि"॥१॥ विन्ध्यवासी त्वेवं भोगमाचष्टे "पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा" ॥१॥. न च वक्तव्यम्-पुरुषश्चेदगुणोऽपरिणामी, कथमस्य मोक्षः? मुचेर्बन्धनविश्लेषार्थत्वात् सवासनक्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषेऽपरिणामिन्यसम्भवात् । अत एव नास्य प्रेत्यभावापरनामा संसारोऽस्ति, निष्क्रियत्वादिति । यतः प्रकृतिरेव नानापुरुषाश्रया सती बध्यते, संसरति, मुच्यते च, न पुरुष इति बन्धमोक्षसंसाराः पुरुषे उपचर्यन्ते । यथा जयपराजयौ भृत्यगतावपि १ वेदान्तग्रन्थविशेषः । किंच-अयं ग्रन्थः-विक्रमीयदशमशताब्दीभाजां श्रीमदभयदेवसूरीणां श्वेताम्बरराजगच्छीयप्रद्युम्नसूरिशिष्यत्वेन प्रसिद्धानाम् । यथा प्रभावकचरित्रप्रशस्तौ 'शिष्योऽस्याभयदेवसूरिरभवज्जाड्यान्धकारं हरन् । गोभिभास्करवत्परां विरचयत् भव्याप्तवर्गच्छदम् ।। ग्रन्थो वादमहाणवोऽस्य विदितः प्रौढः प्रमेयोर्मि(भृ)त् । .. दत्तेथ (?) जिनशासनप्रवहणं सांयात्रिकाणां ध्रुवम् ॥ ४ ॥ " इति । अत्र 'यद्यपि वादमहार्णवस्तत्कृतित्वेन क्वचिदुल्लिखितो भाति तथापि दीर्घातिदीर्घवादमालाजटिलां प्रस्तुतां ( संमतितर्कस्य) टीकामेव वादमहार्णवत्वेन कल्पयन्ति केचित्' इति ( संमतितर्कप्रस्तावना श्रीसुखलालबेचरदासकृता )। २ अयं सांख्याचार्य ईश्वरकृष्णगुरुपरम्परायामुपलभ्यते । ३ ' नानाश्रया' इति घ. पुस्तके पाठः। Page #194 -------------------------------------------------------------------------- ________________ १२४ श्लोक १५ अन्ययोगव्यवच्छेदिका स्वामिन्युपचर्येते, तत्फलस्य कोशलाभादेः स्वामिनि संबन्धात् , तथा भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषे संबन्ध इति । - तदेतदखिलमालजालम् । चिच्छक्तिश्च, विषयपरिच्छेदशून्या चेति परस्परविरुद्धं वचः । चिती संज्ञाने; चेतनं, चित्यते वाऽनयेति चित् । सा चेत् स्वपरपरिच्छेदात्मिका नेष्यते, तदा चिच्छक्तिरेव सा न स्यात्, घटवत् । न चामूर्तायाश्चिच्छक्तेर्बुद्धौ प्रतिबिम्बोदयो युक्तः, तस्य मूर्तधर्मत्वात् । न च तथा परिणाममन्तरेण प्रतिसंक्रमोऽपि युक्तः, कथञ्चित् सक्रियात्मकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वानुपपत्तेः, अप्रच्युतप्राचीनरूपस्य च सुखदुःखादिभोगव्यपदेशानहत्वात् । तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्वापत्तिः । स्फटिकादावपि तथा परिणामेनैव प्रतिबिम्बोदयसमर्थनात् । अन्यथा कथमन्धोपलादौ न प्रतिबिम्बः । तथा परिणामाभ्युपगमे च बलादायातं चिच्छक्तेः कर्तृत्वं, साक्षाद्भोक्तृत्वं च । ____ अथ " अपरिणामिनी भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्ते च तद्वृत्तिमनुभवति" इति पतञ्जलिवचनादौपचारिक एवायं प्रतिसंक्रम इति चेत् । तर्हि “उपचारस्तत्त्वचिन्तायामनुपयोगी" इति प्रेक्षावतामनुपादेय एवायम् । तथा च प्रतिप्राणिप्रतीतं सुखदुःखादिसंवेदनं निराश्रयमेव स्यात् । न चेदं बुद्धरुपपन्नम् । तस्या जडत्वेनाभ्युपगमात् । अत एव .जडा च बुद्धिः, इत्यपि विरुद्धम् । न हि जडस्वरूपायां बुद्धौ १ अलीकभाषणसंरम्भ इत्यर्थः। २ चितै संज्ञाने । संज्ञानं संवित्तिः' इति हैमधातुपारायणे भ्वादिगणे धा. २७८ । ३ 'अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति' इति पातञ्जलयोगसूत्रोपरि व्यासभाष्यम् ४-२२ । ४ तत्त्वचिन्तायां लाक्षणिकोऽर्थो नोपयुज्यत इत्यर्थः । Page #195 -------------------------------------------------------------------------- ________________ १२५ स्याद्वादमञ्जरीसहिता श्लोक १५ विषयाध्यवसायः साध्यमानः साधीयस्तां दधाति । ननूक्तमचेतनापि बुद्धिश्चिच्छक्तिसान्निध्याचेतनावतीवावभासत इति । ___ सत्यमुक्तम् , अयुक्तं तूक्तम् , न हि चैतन्यवति पुरुषादौ प्रतिसंक्रान्ते दर्पणस्य चैतन्यापत्तिः। चैतन्याचैतन्ययोरपरावर्तिस्वभावत्वेन शक्रेणाप्यन्यथाकर्तुमशक्यत्वात् । किञ्च, अचेतनापि चेतनावतीव प्रतिभासत इति इवशब्देनारोपो ध्वन्यते । न चारोपोऽर्थक्रियासमर्थः । न खल्वतिकोपनत्वादिना समारोपिताग्नित्वो माणवकः कदाचिदपि मुख्याग्निसाध्यां दाहपाकाद्यक्रियां कर्तुमीश्वरः । इति चिच्छक्तेरेव विषयाध्यवसायो घटते न जडरूपाया बुद्धेरिति । अत एव धर्माद्यष्टरूपतापि तस्या वाङ्मात्रमेव । धर्मादीनामात्मधर्मत्वात् । अत एव चाहङ्कारोऽपि न बुद्धिजन्यो युज्यते । तस्याभिमानात्मकत्वेनात्मधर्मस्याचेतनादुत्पादायोगात् । अम्बरादीनां च शब्दादितन्मात्रजत्वं प्रतीतिपराहतत्वेनैव विहितोत्तरम् ।। _अपि च, सर्ववादिभिस्तावदविगानेन गगनस्य नित्यत्वमङ्गीक्रियते । अयं च शब्दतन्मात्रात् तस्याप्याविर्भावमुद्भावयन्नित्यैकान्तवादिनां च धुरि आसनं न्यासयन्नसंगतप्रलापीव प्रतिभाति । न च परिणामिकारणं स्वकार्यस्य गुणो भवितुमर्हतीति " शब्दगुणमाकाशम् ' इत्यादि वाङ्मात्रम् । वागादीनां चेन्द्रियत्वमेव न युज्यते, इतरासाध्यकार्यकारित्वाभावात् । परप्रतिपादनग्रहणविहरणमलोत्सर्गादिकार्याणामितरावयवैरपि साध्यत्वोपलब्धेः । तथापि तत्कल्पने इन्द्रियसंख्या न व्यवतिष्ठते, अन्याङ्गोपाङ्गानामपीन्द्रियत्वप्रसङ्गात् । - १ इन्द्रेण । Page #196 -------------------------------------------------------------------------- ________________ श्लोक १५ अन्ययोगव्यवच्छेदिका ___यच्चोक्तं “नानाश्रयायाः प्रकृतेरेव बन्धमोक्षौ संसारश्च । न पुरुषस्य" इति । तदप्यसारम् । अनादिभवपरम्परानुबद्धया प्रकृत्या सह यः पुरुषस्य विवेकाग्रहणलक्षणोऽविष्वग्भावः स एव चेन्न बन्धः, तदा को नामान्यो बन्धः स्यात् ? प्रकृतिः सर्वोत्पत्तिमतां निमित्तम् इति च प्रतिपद्यमानेनायुष्मता संज्ञान्तरेण कमैव प्रतिपन्नं तस्यैवस्वरूपत्वात् , अचेतनत्वाच्च । ___ यस्तु प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधो बन्धः। तद्यथाप्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः पुरुषबुद्ध्योपासते तेषां वैकारिकः। इष्टापूर्ते दाक्षिणः । पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति । " इष्टापूर्त मन्यमाना वरिष्ठं । नान्यच्छ्रेयो येभिनन्दन्ति मूढाः। नाकस्य पृष्ठे ते सुकृतेन भूत्वा । इमं लोकं हीनतरं वा विशन्ति" ॥ १ ॥ इति वचनात् । स त्रिविधोऽपि कल्पनामात्रं कथञ्चिद् मिथ्यादर्शनाविरतिप्रमादकषाययोगेभ्योऽभिन्नस्वरूपत्वेन कर्मबन्धहेतुष्वेवान्तर्भावात् । १ तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥ इति सांख्यकारिकायाम् । . २ मुं. १।२।१०। । ३ मिथ्या विपरीतं दर्शनं-मिथ्यादर्शनम् । अविरतिः--सावद्ययोगेभ्यो निवृत्त्यभावः सा च द्वादशप्रकारा । मनः स्वान्तं करणानि इन्द्रियाणि पञ्च तेषां स्वस्वविषये प्रवर्तमानानामनियमोऽनियन्त्रणम् । तथा षण्णां पृथिव्यतेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः । प्रमादः-प्रकर्षेण माद्यन्त्यनेनेति प्रमादः । विषयक्रीडाभिष्वङ्गः । कषायःकष्यन्ते बध्यन्ते प्राणिनोऽनेनेति कषं कर्मभवो वा । तद् आयो लाभो येषां यतस्ततः कषायाः । यदि वा कलुषयन्ति शुद्धस्वभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति कषायाः। ते चत्वारः क्रोधमानमायालोभाख्याः । Page #197 -------------------------------------------------------------------------- ________________ १२७ - स्याद्वादमञ्जरीसहिता श्लोक १५ बन्धसिद्धौ च सिद्धस्तस्यैव. निर्वाधः संसारः । बन्धमोक्षयोश्चैकाधिकरणत्वाद् य एव बद्धः स एव मुच्यत इति पुरुषस्यैव मोक्षः, आबालगोपालं तथैव प्रतीतेः। प्रकृतिपुरुषविवेकदर्शनात् प्रवृत्तेरुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति चेत् । न, प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात् । अथ पुरुषार्थनिबन्धना तस्याः प्रवृत्तिः, विवेकख्यातिश्च पुरुषार्थः तस्यां जातायां निवर्तते, कृतकार्यत्वात् । " रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥१॥ ___इति वचनादिति चेत् । नैवम् , तस्या अचेतनाया विमृश्यकारित्वाभावात् । यथेयं कृतेऽपि शब्दाद्युपलम्भे पुनस्तदर्थ प्रवर्तते, तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थ प्रवर्तिष्यते । प्रवृत्तिलक्षणस्य स्वभावस्यानपेतत्वात् । नर्तकीदृष्टान्तस्तु स्वेष्टविघातकारी, यथा हि नर्वकी नृत्यं पारिषदेभ्यो दयित्वा निवृत्तापि पुनस्तत्कुतूहलात् प्रवर्तते, तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्तापि पुनः कथं न प्रवर्ततामिति ? तस्मात् कृत्स्नकर्मक्षये पुरुषस्यैव मोक्ष इति प्रतिपत्तव्यम् । एवंमन्यासामपि तत्कल्पनानां तमोमोहमहामोहतामिस्रान्धतामिस्रभेदात् पञ्चधाऽविद्यास्मितारागद्वेषाभिनिवेशरूपो विपर्ययः । ब्राह्मप्राजापत्यसौम्येन्द्रगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधो दैवः १ 'निर्बाधोऽयम्' इति क. पुस्तके पाठः । २ सांख्यकारिका ५९।। ३ विमृश्यकारित्वं-विचारपूर्वककार्यकारित्वम् । ४ पारिषदाः- परिषद्भवाः सभ्याः । ५ सांख्यतत्त्वकौमुदी कारिका ४७ । ६ सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ४७ । Page #198 -------------------------------------------------------------------------- ________________ श्लोक १५ अन्ययोगव्यवच्छेदिका सर्गः । पशुमृगपक्षिसरीसृपस्थावरभेदात् पञ्चविधस्तैर्यग्योनः । ब्राह्मणत्वाद्यवान्तरभेदाविवक्षया चैकविधो मानुषः । इति चतुर्दशधा भूतंसर्गः । बाधिर्यकुण्ठतान्धत्वजडताजिघ्रतामूकताकोण्यपङ्गत्वक्लैब्योदावर्तमत्ततारूपैकादशेन्द्रियवधतुष्टिनवकविपर्ययसिध्यष्टकविपर्ययलक्षणसप्तदशबुद्धिवधभेदादष्टाविंशतिविधा शक्तिः। प्रकृत्युपादानकालभोगाख्या अम्भःसलिलौघदृष्टयपरपर्यायवाच्याश्चतस्र आध्यात्मिक्यः, शब्दादिविषयोपरतयश्चार्जनरक्षणक्षयभोगहिंसांदोषदर्शनहेतुजन्मानः पञ्च बाह्यास्तुष्टयः । ताश्च पारसुपारपारापारानुत्तमाम्भउत्तमाम्भःशब्दव्यपदेश्याः । इति नवधा तुष्टिः । त्रयो दुःखविधाता इति मुख्यास्तिस्रः सिद्धयः प्रमोदमुदितमोदमानाख्याः । तथाध्ययनं शब्द ऊहः सुहृत्प्राप्तिर्दानमिति दुःखविघातोपायतया गौण्यः पञ्च तारसुतारतारताररम्यकसदामुदिताख्याः । इत्येवमष्टेधा सिद्धिः । धृतिश्रद्धासुखविविदिषाविज्ञप्तिभेदात् पञ्च कर्मयोनयः । इत्यादीनां संवरप्रतिसंवरादीनां च तत्त्वकौमुदीगौडपादभाष्यादिपसिद्धानां विरुद्धत्वमुद्भावनीयम् ॥ इति काव्यार्थः ॥ १५ ॥ इदानीं ये प्रमाणादेकान्तेनाभिन्न प्रमाणफलमाहुः, ये च बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुवते तन्मतस्य विचार्यमाणत्वे विशरारुतामाह १ सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ५३ । २ सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ४९।५०५१ । ३ 'संचारप्रतिसंचारादीनाम्' इति क. पुस्तके पाठः । ४ विशरारुता-विनश्यमानता । . ५ 'आहुः' इति क. ख. रा. पुस्तकेषु पाठः । Page #199 -------------------------------------------------------------------------- ________________ १२९ . स्याद्वादमञ्जरीसहिता श्लोक १६ __ . न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः। . न संविदद्वैतपथेऽर्थसंविद् विलूनशीष सुगतेन्द्रजालम् ॥ १६ ॥ बौद्धाः किल प्रमाणात् तत्फलमेकान्तेनाभिन्नं मन्यन्ते । तथाच तत्सिद्धान्तः-"उभयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात्"। उभयत्रेति प्रत्यक्षेऽनुमाने च, तदेव ज्ञानं प्रत्यक्षानुमानलक्षणं फलं, कार्यम् । कुतः ? अधिगमरूपत्वादिति परिच्छेदरूपत्वात् । तथाहि-परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदाहतेऽन्यद् ज्ञानफलम् अभिन्नाधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति । एतच्च न समीचीनम् । यतो यद्यस्मादेकान्तेनाभिन्नं, तत्तेन सहैवोत्पद्यते । यथा घटेन घटत्वम् । तैश्च प्रमाणफलयोः कार्यकारणभावोऽभ्युपगम्यते---प्रमाणं कारणं फलं कार्यमिति । स चैकान्ताभेदे न घटते । नहि युगपदुत्पद्यमानयोस्तयोः सव्येतरगोविषाणयोरिव कार्यकारणभावो युक्तः, नियतप्राकालभावित्वात् - कारणस्य । नियतोत्तरकालभावित्वात् कार्यस्य । एतदेवाह-न तुल्यकालः फलहेतुभावः इति । फलं कार्य, हेतुः कारणम् , तयोर्भावः स्वरूपम् , कार्यकारणभावः स तुल्यकालः समानकालो न युज्यत इत्यर्थः । अथ क्षणान्तरितत्वात् तयोः क्रमभावित्वं भविष्यतीत्याश१ धर्मकीर्तिप्रणीतन्याबिन्दौ पृ. २५ परि. १ सू. १८ इत्यत्रैतदर्थकं शब्दासम् । तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् । २ वामदक्षिणगोशृङ्गयोः। Page #200 -------------------------------------------------------------------------- ________________ १३० श्लोक १६ अन्ययोगव्यवच्छेदिका न्याह-हेतौ विलीने न फलस्य भावः इति हेतौ कारणे प्रमाणलक्षणे विलीने क्षणिकत्वादुत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न भावः सत्ता, निर्मूलत्वात् । विद्यमाने हि फलहेतावस्येदं फलमिति प्रतीयते । नान्यथा, अतिप्रसङ्गात् । किञ्च, हेतुफलभावः सम्बधः, स च द्विष्ठ एव स्यात् । न चानयोः क्षणक्षयैकदीक्षितो भवान् सम्बन्धं क्षमते । ततः कथम 'अयं हेतुरिदं फलम्' इति प्रतिनियता प्रतीतिः, एकस्य ग्रहणेऽप्यन्यस्याग्रहणे तदसंभवात् । "द्विष्ठसंबन्धसंवित्तिनैकरूपप्रवेदनात् । . द्वयोः स्वरूपग्रहणे सति संबन्धवेदनम्" ॥१॥ इति वचनात् । यदपि धर्मोत्तरेण –" अर्थसारूप्यमस्य प्रमाणम् । तंदशादर्थप्रतीतिसिद्धेः" इति न्यायबिन्दुसूत्रं विवृण्वता भणितम् “ नीलनिर्भासं हि विज्ञानं, यतस्तस्माद् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो ज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुं, नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते। न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः। येनैकस्मिन् वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन, तत एकस्य वस्तुनः किश्चिद्रूपं प्रमाणं किञ्चित् प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च १ म्यायबिन्दौ प्रथमपरिच्छेदे सूत्रम् १९ पृ. २५।२६ । २ न्यायबिन्दुप्रथमपरिच्छेदे सूत्रम् २० । ३ न्यायबिन्दुप्रथमपरिच्छेदे २० सूत्रे स्वोपशटीकायाम् । Page #201 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १६ नीलसंवेदनरूपम् " इत्यादि । तदप्यसारम् । एकस्य निरंशस्य ज्ञानक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयायोगात्, १३१ व्यवस्थाप्यव्यवस्थापकभावस्यापि च संबन्धत्वेन द्विष्टत्वादेकस्मिन्नसंभवात । । किञ्च, अर्थसारूप्यमर्थाकारता । तच्च निश्चयरूपम्, अनिश्चयरूपं वा । निश्चयरूपं चेत्, तदेव व्यवस्थापकमस्तु, किमुभयकल्पनया । अनिश्चितं चेत्, स्वयमव्यवस्थितं कथं नीलादिसंवेदनव्यवस्थापने समर्थम् । अपि च, केयमर्थाकारता । किमर्थग्रहणपरिणामः, । आहोस्विदर्थाकारधारित्वम् ? नाद्यः सिद्धसाधनात् । द्वितीयस्तु ज्ञाप्रमेयाकारानुकरणाज्जडत्वोपपत्त्यादिदोषाघातः । तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा तादात्म्ये सिध्यति अतिप्रसङ्गात् । नस्य ननु प्रमाणस्यासारूप्यव्यावृत्तिः सारूप्यम्, अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत् । नैवम्, स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्यानुपपत्तेः । कथं च प्रमाणस्य फलस्य चाप्रमाणाफलव्यावृत्त्याः प्रमाणफलव्यवस्थावत् प्रमाणान्तरफलान्तरव्यावृत्त्याप्यप्रमाणत्वस्याफलत्वस्य च व्यवस्था न स्यात्, विजातीयादिव सजातीयादपि व्यावृत्तत्वाद् वस्तुनः । तस्मात् प्रमाणात् फलं कथञ्चिद्भिन्नमेवैष्टव्यं साध्यसाधनभावेन प्रतीयमानत्वात् । ये हि साध्यसाधनभावेन प्रतीयेते ते परस्परं भिद्येते, यथा कुठारच्छिदिक्रिये इति । एवं यौगाभिप्रेतः प्रमाणात् फलस्यैकान्त १ 'अतिप्रसक्तेः' इति क पुस्तके पाठः । " Page #202 -------------------------------------------------------------------------- ________________ श्लोक १६ अन्ययोगव्यवच्छेदिक १३२ भेदोऽपि निराकर्तव्यः, तस्यैकप्रमातृतादात्म्येन प्रमाणात् कथश्चिदभेदव्यवस्थितेः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः। यः प्रमिमीते स एवोपादत्ते, परित्यज्यति, उपेक्षते चेति सर्वव्यवहारिभिरस्खलितमनुभवात् । इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्यत इत्यलम् । ... अथवा पूर्वार्धमिदमन्यथा व्याख्येयम् । सौगताः किलेत्थं प्रमाणयन्ति सर्व सत् क्षणिकम् । यतः सर्व तावद् घटादिकं वस्तु मुद्रादिसंनिधौ नाशं गच्छद् दृश्यते। तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चेत्स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन विनष्टव्यम् , इति व्यक्तमस्य क्षणिकत्वम् । अथेदृश एव स्वभावस्तस्य हेतुतो जातो यत्कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुद्रादिसंनिधानेऽपि स एष एव तस्य स्वभावः इति पुनरप्येतेन तावन्तमेव कालं स्थातव्यम् । इति नैव विनश्येदिति। सोऽयं "अदित्सोर्वणिजः प्रतिदिनं पत्रलिग्विनश्वस्तनदिनभणनन्यायः" । तस्मात् क्षणद्वयस्थायित्वेनाप्युत्पत्तौ प्रथमक्षणवद् द्वितीयेऽपि क्षणे क्षणद्वयस्थायित्वात् पुनरपरक्षणद्वयमवतिष्ठेत । एवं तृतीयेऽपि क्षणे तत्स्वभावत्वाद् नैव विनश्येदिति । स्यादेतत् , स्थावरमेव तत् स्वहेतोर्जातम् , परं बलेन विरोधकेन मुद्गरादिना विनाश्यत इति । तदसत् । कथं पुनरेतद् घटिप्यते न च तद् विनश्यति स्थावरत्वात् , विनाशश्च तस्य विरोधिना बलेन क्रियते-इति । न ह्येतत्सम्भवति-जीवति च देवदत्तो, मरणं चास्य भवतीति । अथ विनश्यति, तर्हि कथमविनश्वरं तद् वस्तु १ 'स्वहेतुतः' इति ह. पुस्तके पाठः । २ कश्चिद् वणिक् द्रव्यमदित्सुः पत्रद्वारा प्रत्यहमुत्तमय श्वस्तवधनं दास्य इति बोधयति तद्वत् । Page #203 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १६ I स्वहेतोर्जातमिति ? न हि म्रियते च, अमरणधर्मा चेति युज्यते वक्तुम् । तस्मादविनश्वरत्वे कदाचिदपि नाशायोगात् दृष्टत्वाच्च नाशस्य, नैश्वरमेव तद्वस्तु स्वहेतोरुपजातमङ्गीकर्तव्यम् । तस्मादुत्पमात्रमेव तद्विनश्यति । तथा च क्षणक्षयित्वं सिद्धं भवति । प्रयोगस्त्वेवम्-यद्विनश्वरस्वरूपं तदुत्पत्तेरनन्तरानवस्थायि, यथान्त्यक्षणवर्ति घटस्य स्वरूपम्, विनश्वरस्वरूपं च रूपादिकमुदयकाले, इति स्वभावहेतुः । यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवायमिति प्रत्यभिज्ञा स्यात् ? उच्यते-निरन्तरसदृशापरापरोत्पादात्, अविद्यानुबन्धाच्च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते । तेनाकारविलक्षणत्वाभावादव्यवधानाच्चात्यन्तोच्छेदेऽपि स एवायमित्यभेदाध्यवसायी प्रत्ययः प्रसूयते । अत्यन्तभिन्नेष्वपि लूनपुनरुत्पन्नकुशकाशकेशादिषु दृष्ट एवायं स एवायम्' इति प्रत्ययः, तथेहापि किं न संभाव्यते ? तस्मात् सर्वे सत् क्षणिकमिति सिद्धम् । अत्र च पूर्वक्षण उपादानकारणम्, उत्तरक्षणं उपादेयम्, इति पराभिप्रायमङ्गीकृत्याह — न तुल्यकालः इत्यादि । ते विशँकलितमुक्तावलीकल्पा निरन्वयविनाशिनः पूर्वक्षणा उत्तरक्षणात् जनयन्तः किं स्वोत्पत्तिकाले एव जनयन्ति, उत क्षणान्तरे । न तावदाद्यः, समकालभाविनोर्युबतिकुचयोरिवोपादानोपादेयभावाभावात् । अतः साधूक्तम् १३३ १ 'विनश्वरम्' इति क . पुस्तके पाठः । २ न्यायबिन्दौ - (पृ. ६५ ७३ ) तथा स्वभावहेतोः प्रयोगः - यत्सत्तत्सर्वमनित्यं यथा घटादिरिति । शुद्धस्य स्वभावहेतोः प्रयोगः । यदुत्पत्तिमत्तदनित्यमिति । स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः । यत्कृतकं तदनित्यमित्युपाधिभेदेन । असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा । असंश्च शब्द उत्पत्तिमान् कृतको बेति स्वभावहेतोः प्रयोगः । ३ पूर्व लूनाश्छिन्नाः कुशादयः पुनरुत्पद्यन्ते । ४ सूत्रविगलितमौक्तिकमालासदृशाः । Page #204 -------------------------------------------------------------------------- ________________ श्लोक १६ अन्ययोगव्यवच्छेदिका न तुल्यकालः फलहेतुभावः इति । न च द्वितीयः, तदानीं निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वादुत्तरक्षणजनने कुतः संभावनापि । न चानुपादानस्योत्पत्तिर्दृष्टा, अतिप्रसङ्गात् । इति सुष्ठु व्याहृतं - हेतौ विलीने न फलस्य भावः इति । पदार्थस्त्वनयोः पादयोः प्रागेवोक्तः । केवलमत्र फलमुपादेयं हेतुरुपादानं तद्भाव उपादानोपादेयभाव इत्यर्थः। १३४ यच्च क्षणिकत्वस्थापनाय मोक्षाकरगुप्तेनानन्तरमेव मलपितं तत् स्याद्वादवादे निरवकाशमेव, निरन्वयनाशवर्ज कथंचित्सिद्धसाधनात्, प्रतिक्षणं पर्यायनाशस्यानेकान्तवादिभिरभ्युपगमात् । यदप्यभिहितम् - न ह्येतत् संभवति — जीवति च देवदत्तो, मरणं चास्य भवतीति । तदपि संभवादेव न स्याद्वादिनां क्षतिमावहति । यतो जीवनं प्राणधारणं, मरणं चायुर्दलिकक्षयः । ततो जीवतोऽपि देवदत्तस्य प्रतिसमयमायुर्दलिकानामुदीर्णानां क्षयादुपपन्नमेव मरणम् । न च वाच्यमन्त्यावस्थायामेव कृत्स्नायुर्दलिकक्षयात् तत्रैव मरणव्यपदेशो युक्त इति । तस्यामप्यवस्थायां न्यक्षेणे तत्क्षयाभावात् । तत्रापि ह्यावशिष्टानामेव तेषां क्षयो न पुनस्तत्क्षण एव युगपत्सर्वेषाम् । इति सिद्धं गर्भादारभ्य प्रतिक्षणं मरणम् । इत्यलं प्रसङ्गेन । अथवापरथा व्याख्या -सौगतानां किलार्थेन ज्ञानं जन्यते । तच्च ज्ञानं तमेव स्वोत्पादकमर्थं गृह्णातीति, “ नाकारणं विषयः” इति वचनात् । ततश्चार्थः कारणं ज्ञानं च कार्यमिति । एतच्च न चारु, यतो यस्मिन् क्षणेऽर्थस्य स्वरूपसत्ता तस्मिन्नद्यापि ज्ञानं नोत्पद्यते, तस्य तदा स्वोत्पत्तिमात्रव्यग्रत्वात् । यत्र च क्षणे ज्ञानं १ यां प्रकृतिं बध्नाति जीवस्तदनुभावेन प्रकृत्यन्तरस्थं दलिकं परमाण्वात्मकम् । आयुःपरमाणुक्षय इत्यर्थः । २ न्यक्षेण- पूर्णतया । ३ 'ज्ञानकारणं विषयः' इति कचित्पाठः | Page #205 -------------------------------------------------------------------------- ________________ १३५ स्याद्वादमञ्जरीसहिता श्लोक १६ समुत्पन्नं तत्रार्थोऽतीतः । पूर्वापरकालभावनियतश्च कार्यकारणभावः । क्षणातिरिक्तं चावस्थानं नास्ति । ततः कथं ज्ञानस्योत्पत्तिः, कारणस्य विलीनत्वात् । तद्विलये च ज्ञानस्य निर्विषयतानुषज्यते, कारणस्यैव युष्मन्मते तद्विषयत्वात् । निर्विषयं च ज्ञानमप्रमाणमेवाकाशकेशज्ञानवत् । ज्ञानसहभाविनश्चार्थक्षणस्य न ग्राह्यत्वम् तस्याकारणत्वात् । अत आह—न तुल्यकालः इत्यादि । ज्ञानार्थयोः फलहेतुभावः कार्यकारणभावस्तुल्यकालो न घटते । ज्ञानसहभाविनोऽर्थक्षणस्य ज्ञानानुत्पादकत्वात् । युगपद्भाविनोः कार्यकारणभावायोगात् । अथ प्राचोऽर्थक्षणस्य ज्ञानोत्पादकत्वं भविष्यति । तन्न, यत आह- हेतौ इत्यादि । तावर्थरूपे ज्ञानकारणे विलीने क्षणिकत्वान्निरन्वयं विनष्टे न फलस्य ज्ञानलक्षणकार्यस्य भाव आत्मलाभः स्यात् । जनकस्यार्थ - क्षणस्यातीतत्वाद् निर्मूलमेव ज्ञानोत्थानं न स्यात् । जनकस्यैव च ग्राह्यत्वे इन्द्रियाणामपि ग्राह्यत्वापत्तिः, तेषामपि ज्ञानजनकत्वात् । न चान्वयव्यतिरेकाभ्यामर्थस्य ज्ञानहेतुत्वं दृष्टं, मृगतृष्णादौ जलाभावेऽपि जलज्ञानोत्पादात्, अन्यथा तमवृत्तेरसंभवात् । भ्रान्तं तज्ज्ञानमिति चेत । ननु भ्रान्ताभ्रान्ताविचारः स्थिरीभूय क्रियतां त्वया, सांप्रतं प्रतिपद्यस्व तावदनर्थजमपि ज्ञानम् । अन्वयेनार्थस्य ज्ञानहेतुत्वं दृष्टमेवेति चेत् । न । न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम् अपि तु तद्भावेऽभावलक्षणो व्यतिरेकोsपि । स चोक्तयुक्तया नास्त्येव । योगिनां चातीतानागतार्थग्रहणे किमर्थस्य निमित्तत्वम्, तयोरसत्त्वात् । " णिहाणगया भग्गा पुंजो णत्थि अणागए । णिव्वुया णेव चिठ्ठेति आरग्गे सरिसवोवमा " ॥ इति वचनात् । १ अतः परं ' एवमन्यतरेष्वप्यर्थेषु भावनीयम् ' इत्यधिकं के. पुस्तके | २ न निधानगता भग्नाः पुंजो नास्त्यनागते । निर्वृत्ता नैव तिष्ठन्ति आरा सर्प पोपमाः ॥ १ ॥ इति छाया । Page #206 -------------------------------------------------------------------------- ________________ लोक १६ अन्ययोगव्यवच्छेदिका १३६ निमित्तत्त्वे चार्थक्रियाकारित्वेन सत्त्वादतीनागतत्वक्षतिः । न च प्राकाश्यादात्मलाभ एव प्रकाशकस्य प्रकाशकत्वं प्रदीपादेर्घटादिभ्योऽनुत्पन्नस्यापि तत्प्रकाशकत्वात् । जनकस्यैव च ग्राह्यत्वाभ्युपगमे स्मृत्यादेः प्रमाणस्याप्रामाण्यप्रसङ्गः, तस्यार्थाजन्यत्वात् । न च स्मृतिर्न प्रमाणम्, अनुमानप्रमाणप्राणभूतत्वात् । साध्यसाधनसम्बन्धस्मरणपूर्वकत्वात् तस्य । जनकमेव च चेद् ग्राह्यम्, तदा स्वसंवेदनस्य कथं ग्राहकत्वम् । तस्य हि ग्राह्यं स्वरूपमेव । न च तेन तज्जन्यते, स्वात्मनि क्रियाविरोधात् । ____ तस्मात् स्वसामग्रीप्रभवोर्घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यपकाशकभावसंभवाद् न ज्ञानानिमित्तत्वमर्थस्य। नन्वर्थाजन्यत्वे ज्ञानस्य कथं प्रतिनियतकर्मव्यवस्था । तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्यविशेषात् सर्वग्रहणं प्रसज्येत। नैवम् । तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः । तदुत्पत्तावपि च योग्यतावश्यमेष्टव्या । अन्यथाशेषार्थसान्निध्ये तत्तदर्थासांनिध्येऽपि कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभागः। तदाकारता त्वाकारसंक्रान्त्या तावदनुपपन्ना, अर्थस्य निराकाराकारत्वप्रसङ्गात् ज्ञानस्य साकारत्वप्रसङ्गाच्च । अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृश्यम् । इत्यर्थविशेषग्रहणपरिणाम एव साभ्युपेया। ततः" अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । तस्मात् प्रमेयाधिगतेःप्रमाणं मेयरूपता"॥१॥ इति यत्किञ्चिदेतत् । १ कुतः कुत आगतः कौतस्कुतः । २ 'जडत्वप्रसंगाद्वा' इति क. पुस्तके पाठः । Page #207 -------------------------------------------------------------------------- ________________ - स्याद्वादमञ्जरीसहिता श्लोक १६ ___अपि च, व्यस्ते समस्ते वैते ग्रहणकारणं स्याताम् , यदि व्यस्ते, तदा कपालाद्यक्षणो घटान्त्यक्षणस्य, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः प्राप्नोति । यथासंख्यं तदुत्पत्तेः तदाकारत्वाच । अथ संमस्ते, तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसज्जते, तयोरुभयोरपि सद्भावात् । ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत् । तर्हि समानजातीयज्ञानस्य समनन्तरज्ञानग्राहकत्वं प्रसज्येत, तयोर्जन्यजनकभावसद्भावात् । तन्न योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्याम इति । ___अथोत्तरार्धं व्याख्यातुमुपक्रम्यते । तत्र च बाह्यार्थनिरपेक्ष ज्ञानाद्वैतमेव ये बौद्धविशेषा मन्वते तेषां प्रतिक्षेपः। तन्मतं चेदम्ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्पपञ्चं ज्ञानमात्रं परमार्थसत् । बाह्यार्थस्तु विचारमेव न क्षमते, तथाहि-कोऽयं बाह्योऽर्थः किं परमाणुरूपः, स्थूलावयविरूपो वा । न तावत् परमाणुरूपः, प्रमाणाभावात् । प्रमाणं हि प्रत्यक्षमनुमानं वा । न तावत्प्रत्यक्षं तत्साधनबद्धकक्षम् । तद्धि योगिनां स्यात् , अस्मदादीनां वा । नाद्यम् । अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वात् । न द्वितीयम्, अनुभवबाधितत्वात् न हि वयमयं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः स्तम्भोऽयं कुम्भोऽयमित्येवमेव नः सदैव संवेदनोदयात् । नाप्यनुमानेन तात्सिद्धिः । अणूनामतीन्द्रियत्वेन तैः सहाविनाभावस्य कापि लिङ्गे ग्रहीतुमशक्यत्वात् । किञ्च, अमी नित्या अनित्या वा स्युः । नित्याश्चेत्, क्रमेणार्थक्रियाकारिणो युगपद्वा ? । न क्रमेण स्वभावभेदेनानित्यत्वापत्तेः। न युगपत्, एकक्षण एव कृत्स्नार्थक्रियाकरणात् क्षणान्तरे तदभावादसत्त्वापत्तिः । अनित्याश्चेत् क्षणिकाः, कालान्तरस्थायिनो वा । क्षणिकाश्चेत्, सहेतुका निर्हेतुका वा । निर्हेतुकाश्चेत् , नित्यं सत्त्वम१ प्रतिक्षेपः-खण्डनम् । १८ Page #208 -------------------------------------------------------------------------- ________________ श्लोक १६ अन्ययोगव्यवच्छेदिका १३८ सत्त्वं वा स्यान्निरपेक्षत्वात् । अपेक्षातो हि कादाचित्कत्वम् । सहेतुकाचेत्, किं तेषां स्थूलं किंचित् कारणं परमाणवो वा । न स्थूलं परमाणुरूपस्यैव बाह्यार्थस्याङ्गीकृतत्वात् । न च परमाणवः, ते हि सन्तोऽसन्तः सदसन्तो वा स्वकार्याणि कुर्युः । सन्तश्चेत्, किमुत्पत्तिक्षण एव, क्षणान्तरे वा । नोत्पत्तिक्षणे, तदानीमुत्पत्तिमात्रव्यग्रत्वात् तेषाम् । अथ “भूतिर्येषां क्रिया सैव कारणं सैव चोच्यते” इति वचनाद् भवनमेव तेषामपरोत्पत्तो कारणमिति चेत्, एवं तर्हि रूपाणवो रसाणूनाम्, ते च तेषामुपादानं स्युः, उभयत्र भवनाविशेषात् । न च क्षणान्तरे, विनष्टत्वात् । अथासन्तस्ते तदुत्पादकाः, तर्हि एकं स्वसत्ताक्षणमपहाय सदा तंदुत्पत्तिप्रसङ्गः, तदसत्त्वस्य सर्वदाविशेषात् । सदसत्पक्षस्तु “प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः" इति वचनाद्विरोधाघ्रात एव । तन्नाणवः क्षाणकाः । नापि कालान्तरस्थायिनः क्षणिकपक्षसदृक्षयोगक्षेमत्वात् । किञ्च, अमी कियत्कालस्थायिनोऽपि किमर्थक्रियापराङ्मुखाः तत्कारिणो वा । आये खपुष्पवदसत्त्वापत्तिः । उदग्विकल्पे किमसद्रूपं सद्रूपमुभयरूपं वा ते कार्य कुर्युः । असद्रूपं चेत्, शशविषाणादेरपि किं न करणम् । सद्रूपं चेत् , सतोऽपि करणेऽनवस्था । तृतीयभेदस्तु प्राग्वद्विरोधदुर्गन्धः । तन्नाणुरूपोऽर्थः सर्वथा घटते । ___ नापि स्थूलावयविरूपः एकपरमाण्वसिद्धौ कथमनेकतत्सिद्धिः तद्भावे च तत्प्रचयरूपः स्थूलावयवी वाङ्मात्रम् । किञ्च, अयमनेकावयवाधार इष्यते । ते चावयवा यदि विरोधिनः, तर्हि नैकस्थूलावयवी, विरुद्धधर्माध्यासात् । अविरोधिनश्चेत्, - प्रतीतिबाधः, १ 'निरपेक्षत्वात्' इति ख पुस्तके नास्ति । २ 'कारणता' इति क, पुस्तके पाठः। Page #209 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक १६ एकस्मिन्नेव स्थूलावयविनि चलाचलरक्तारक्ततानातादिविरुद्धावयवानामुपलब्धेः । अपि च, असौ तेषु वर्तमानः कात्स्न्र्येन, एकदेशेन वा वर्तते । कात्स्न्येन वृत्तावेकस्मिन्नेवावयवे परिसमाप्तत्वादनेकावयवत्तित्वं न स्यात् प्रत्यवयवं कात्स्न्येन वृत्तौ चावयविबहुत्वापत्तेः। एकदेशेन वृत्तौ च तस्य निरंशत्वाभ्युपगमविरोधः । सांशत्वे वा तेंऽशास्ततो भिन्नाः, अभिन्ना वा । भिन्नत्वे पुनरप्यनेकांशहत्तेरेकस्य कात्स्न्यैकदेशविकल्पानतिक्रमादनवस्था । अभिन्नत्वे न केचिदंशाः स्युः । इति नास्ति बाह्योऽर्थः कश्चित् । किन्तु ज्ञानमेवेदं सर्व नीलाद्याकारेण प्रतिभाति, बाह्यार्थस्य जडत्वेन प्रतिभासायोगात् । यथोक्तम् “ स्वाकारबुद्धिजनका दृश्या नेन्द्रियगोचराः" । अलङ्कारेकारेणाप्युक्तम् “ यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत् संवेद्यते नीलं कथं बाह्यं तदुच्यते ?॥" यदि बाह्योऽर्थो नास्ति, किंविषयस्त_यं घटपटादिप्रतिभासः इति चेत् । ननु निरालम्बन एवायमनादिवितथवासनाप्रवर्तितः, निर्विषयत्वात् , . आकाशकेशज्ञानवत् , स्वमज्ञानवद् वेति । अत एवोक्तम्-- . "नान्योऽनुभाव्यो बुध्द्यास्ति तस्या नानुभवोऽपरः। ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥१॥ बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाभासे प्रवर्तते" ॥२॥ इति । तदेतत्सर्वमवद्यम् , ज्ञानमिति हि क्रियाशब्दः, ततो ज्ञायतेऽनेनेति ज्ञानं, ज्ञप्तिर्वा ज्ञानमिति । अस्य च कर्मणा भाव्यं, निर्वि१ बाधः' इति ख. घ. रा. पुस्तकेषु पाठः ।। २ प्रज्ञाकरगुप्तकृतः प्रमाणवार्तिकालङ्कारौख्यो बौद्धग्रन्थोऽस्ति । Page #210 -------------------------------------------------------------------------- ________________ श्लोक १६ अन्ययोगव्यवच्छेदिका षयाया जप्तेरघटनात् । न चाकाशकेशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यम् । तस्याप्येकान्तेन निर्विषयत्वाभावात् । न हि सर्वथागृहतिसत्यकेशज्ञानस्य तत्प्रतीतिः । स्वमज्ञानमप्यनुभूतदृष्टाद्यर्थविषयत्वान्न निरालम्बनम् । तथा च महाभाष्यकारः-. " अणुहूयदिठ्ठचिंतियसुयपयइवियारदेवयाणूवा । सुप्रिणस्य निमित्ताइं पुण्णं पावं च णाभावो" ॥१॥ यश्च ज्ञानविषयः स बाह्योऽर्थः । भ्रान्तिरियमिति चेत् । चिरं जीव, भ्रान्तिर्हि मुख्येऽर्थे क्वचिद् दृष्टे सति करणापाटवादिनान्यत्र विपर्यस्तग्रहणे प्रसिद्धा, यथा शुक्तौ रजतभ्रान्तिः । अर्थक्रियासमर्थेऽपि वस्तुनि यदि भ्रान्तिरुच्यते, तर्हि प्रलीना भ्रान्ताभ्रान्तव्यवस्था । तथा च सत्यमेतद्वचः - "आशामोदकतृप्ता ये ये चास्वादितमोदकाः। रसवीर्यविपाकादि तुल्यं तेषां प्रसज्यते"॥१॥ न चामून्यर्थदूषणानि स्याद्वादवादिनां बाधां विदधते, परमाणुरूपस्य, स्थूलावयविरूपस्य चार्थस्याङ्गीकृतत्वात् । यच्च परमाणुपक्षखण्डनेऽभिहितं-प्रमाणाभावादिति । तदसत् , तत्कार्याणां घटादीनां प्रत्यक्षत्वे तेषामाप कथञ्चित् प्रत्यक्षत्वं, योगिप्रत्यक्षेण च साक्षात्प्रत्यक्षत्वमवसेयम् । अनुपलब्धिस्तु सौक्ष्म्यात् । अनुमानादपि तत्सिद्धिः, यथा सन्ति परमाणवः, स्थूलावयविनिष्पत्त्यन्यथानुपपत्तेः, इत्यन्तयाप्तिः । न चाणुभ्यः स्थूलो १ अयं महाभाष्यकारः युगप्रधानाचार्यः श्रीजिनभद्रगणिक्षमाश्रमणपादाः । अनेन आवश्यकसूत्रस्य सामायिकाख्यस्य प्रथमाध्ययनस्य मूलसूत्रोपरि तदेव विशेषावश्यकसंज्ञकं गाथात्मकं भाष्यं रचितमस्ति । तत् महाभाष्यमभिधीयते तत्रेयं १७०३ परिमिता गाथा। २ छाया-अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदैविकाऽनूपाः वा । स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥१७०३।। Page #211 -------------------------------------------------------------------------- ________________ श्लोक १६ त्पाद इत्येकान्तेः स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भावविभावनात् । आत्माकाशादेरपुद्गलत्वकक्षीकाराच्च । यत्र पुनरणुभ्यस्तदुत्पत्तिस्तत्र तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रांदुर्भूतं संयोगातिशयमपेक्ष्येयमावतैथैव । यदपि किञ्श्चायमनेकावयवा - धार इत्यादि न्यगादि, तत्रापि कथञ्चिद्विरोध्यनेकावयवाविष्वग्भूतवृत्तिरवयव्यभिधीयते । तत्र च यद्विरोध्यनेकावयवधारतायां विरुद्धधर्माध्यासनमभिहितं तत्कथञ्चिदुपेयत एव । तावदवयवात्मकस्य तस्यापि कथञ्चिदनेकरूपत्वात् । यच्चोपन्यस्तम् - अपिच, असौ तेषु वर्तमानः कात्स्न्येनैकदेशेन वा वर्तेतेत्यादि । तत्रापि विकल्पद्वयानभ्युपगम एवोत्तरम् | अविष्वग्भावेनावयविनोऽवयवेषु वृत्तेः स्वीकारात् । किञ्च यदि बाह्योऽर्थो नास्ति, किमिदानीं नियताकारं प्रतीयते नीलमेतत् इति । विज्ञानाकारोऽयमिति चेत् । न, ज्ञानाद वहिर्भूतस्य संवेदनात् 1 ज्ञानाकारत्वे तु ' अहं नीलम् ' इति प्रतीतिः स्यान्न तु ' इदं नीलम्' इति । ज्ञानानां प्रत्येकमाकारभेदात् कस्यचित् ' अहम् ' इति प्रतिभासः, कस्यचित् ' नीलमेतत् ' इति चेत् । नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्वाभावात् । तथा च यदेकेनाहमिति प्रतीयते तदेवापरेण त्वमिति प्रतीयते । नीलाद्याकारस्तु व्यवस्थितः सर्वैरप्येकरूपतया ग्रहणात् । भक्षितहृत्पूरादिभिस्तु यद्यपि नीलादिकं पीतादितया गृह्यते, तथापि तेन न व्यभिचारः, तस्य भ्रान्तत्वात् । स्वयं स्वस्य संवेदनेऽहमिति प्रतिभास इति चेत् । ननु किं परस्यापि संवेदनमस्ति, कथमन्यथा स्वशब्दस्य " १४१ स्याद्वादमञ्जरीसहिता १ एकान्तः - नियमः । २ ' पुद्गलकार्यत्व' इति ह पुस्तके पाठः । ३ 'अविरुद्धैव' इति क . पुस्तके पाठः । ४ हृत्पूरः पित्तरोगकरः फलविशेषस्तद्भक्षणेन पित्तपीतिम्ना सर्वे पदार्थाः पीता इव भासते । Page #212 -------------------------------------------------------------------------- ________________ श्लोक १६ अन्ययोगव्यवच्छेदिका १४२ प्रयोगः, प्रतियोगिशब्दो ह्ययं परमपेक्षमाण एव प्रवर्तते । स्वरूपस्यापि भ्रान्त्या भेदप्रतीतिरिति चेत् । हन्त! प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः । भ्रान्तं प्रत्यक्षमिति चेत् । ननु कुत एतत् । अनुमानेन ज्ञानार्थयोरभेदसिद्धरित चेत् । किं तदनुमानमिति पृच्छामः । यद्येन सह नियमेनोपलभ्यते तत् ततो न भिद्यते, यथा सच्चन्द्रादसचन्द्रः, नियमेनोपलभ्यते च ज्ञानेन सहार्थः, इति व्यापकानुपलब्धिः–प्रतिषेध्यस्य ज्ञानार्थयोर्भेदस्य व्यापकः सहोपलम्भानियमस्तस्यानुपलब्धिः, भिन्नयोर्नीलपीतयोर्युगपदुपलम्भनियमाभावात्, इत्यनुमानेन तयोरभेदसिद्धिरित चेत् । न, संदिग्धानकान्तिकत्वेनास्यानुमानाभासत्वात्। ज्ञानं हि स्वपरसंवेदनम्, तत्परसंवेदनतामात्रेणैव नीलं गृह्णाति, स्वसंवेदनतामात्रेणैव च नीलबुद्धिम् । तदेवमनयोर्युगपदग्रहणात्सहोपलम्भनियमोऽस्ति, अभेदश्च नास्ति । इति सहोपलम्भनियमरूपस्य हेतोर्विपक्षाद् व्यावृत्तेः संदिग्धत्वात् संदिग्धानैकान्तिकत्वम् । . . असिद्धश्च सहोपलम्भनियमः · नीलमेतत्' इति बहिर्मुखतयार्थेनुभूयमाने तदानीमेवान्तरस्य नीलानुभवस्याननुभावात् । इति कथं प्रत्यक्षम्यानुमानेन ज्ञानार्थयोरभेदसिध्या भ्रान्तत्वम् । अपि च, प्रत्यक्षस्य भ्रान्तत्वेनाबाधितविषयत्वादनुमानस्यात्मलाभः, लब्धात्मके चानुमाने प्रत्यक्षस्य भ्रान्तत्वम्, इत्यन्योन्याश्रयदोषोऽपि दुर्निवारः। अर्थाभावे च नियतदशाधिकरणाप्रतीतिः कुतः । न हि तत्र विवक्षितदेशेऽयनारोपयितव्यो नान्यत्रेत्यस्ति नियमहेतुः । वासनानियमात्तदारोपनियम इति चेत् । न, तस्या अपि तद्देशानियमकार णाभावात् । सति ह्यर्थसद्भावे यद्देशोऽर्थस्तद्देशोऽनुभवः तदेशा च तत्पूर्विका वासना । बाह्यार्थाभावे तु तस्याः किंकृतो देशनियमः । अथास्ति तावदारोपनियमः । न च कारणविशेषमन्तरण Page #213 -------------------------------------------------------------------------- ________________ १४३ स्याद्वादमञ्जरीसहिता . श्लोक १६ कार्यविशेषो.घटते । बाह्यश्चार्थो नास्ति । तेन वासनानामेव वैचित्र्यं तत्र हेतुरित चेत् तद्वासनावैचित्र्यं बोधाकारादन्यत् , अनन्यद्वा । अनन्यच्चेत् । बोधाकारस्यैकत्वात्कस्तासां परस्परतो विशेषः । अन्यच्चेत् । अर्थे कः प्रद्वेषः, येन सर्वलोकप्रतीतिरपह्लयते । तदेवं सिद्धो ज्ञानार्थयोर्भेदः । तथा च प्रयोगः-विवादाध्यासितं नीलादि ज्ञानाव्यतिरिक्तं, विरुद्धधर्माध्यस्तत्वात् । विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः, अर्थस्य च बहिः। ज्ञानस्यापरकाले, अर्थस्य च पूर्वकाले वृत्तिमत्त्वात् । ज्ञानस्यात्मनः सकाशात् , अर्थस्य च स्वकारणेभ्य उत्पत्तेः । ज्ञानस्य प्रकाशरूपत्वात् , अर्थस्य च जडरूपत्वादिति। अतो न ज्ञानाद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमानार्थप्रतीतिः कथमपि सङ्गतिमङ्गति । न च दृष्टमपह्नोतुं शक्यमिति । अत एवाह स्तुतिकारःन संविदद्वैतपथेऽर्थसंवित् इति । सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तुस्वरूपमनयेति संवित् । स्वसंवेदनपक्षे तु संवेदनं संवित् ज्ञानम् , तस्या अद्वैतम् , द्वयोर्भावो द्विता, द्वितैव द्वैतं, प्रज्ञादित्वात् स्वार्थिकेऽणि, न द्वैतमद्वैतम् बाह्यार्थप्रतिक्षेपादेकत्वं संविदद्वैतं ज्ञानमेवैकं तात्त्विकं न बाह्योऽर्थ इत्यभ्युपगम्यत इत्यर्थः, तस्य पन्था मार्गः संविदद्वैतपथस्तस्मिन् ज्ञानाद्वैतवादपक्ष इति यावत् । किमित्याहनार्थसंवित् । येयं बहिर्मुखतयार्थप्रतीतिः साक्षादनुभूयते सा न घटते इत्युपस्कारः। एतच्चानन्तरमेव भावितम् । एवं च स्थिते सति किमित्याह-विलूनशीर्ण सुगतेन्द्रजालम् इति । सुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातमिन्द्रजालमिवेन्द्रजालं, मतिव्यामोहविधातृत्वात् , सुगतेन्द्रजालं सर्वमिदं विलूनशीर्णम् १ अङ्गति--प्राप्नोति । २ 'प्रज्ञादिभ्योऽण' हैमसूत्र ७-२-१६५ । ३ 'विधायित्वात्' इति क. ह. पुस्तकयोः पाठः । Page #214 -------------------------------------------------------------------------- ________________ श्लोक १७ अन्ययोगव्यवच्छेदिका १४४ पूर्व विलूनं पश्चात् शर्णि विलूनशीर्णम् ॥ यथा किश्चित् तृणस्तम्बादि विलूनमेव शीर्यते विनश्यात, एवं तत्कल्पितमिदमिन्द्रजालं तृणप्रायं धारांलयुक्तिशस्त्रिकया छिन्नं सद् विशीर्यत इति । अथवा यथानिपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तवतत्तद्वस्त्वद्भुततोपदर्शनेन तथाविधं बुद्धिदुर्विधं जैनं विप्रतार्य पश्चादिन्द्रधनुरिव निरवयवं विलूनर्णितां कलयति, तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्कलाभेदक्षणक्षयज्ञानार्थहेतुकत्वज्ञानाद्वैताभ्युपगमादि सर्व प्रमाणानभिज्ञ लोकं व्यामोहयमानमपि युक्त्या विचार्यमाणं विशरारुतामेव सेवत इति । अत्र च सुगतशब्द उपहासार्थः । सौगता हि शोभनं गतं ज्ञानमस्येति सुगतं इत्युशन्ति । ततश्चाहों ? तस्य शोभनज्ञानता, येनेस्थमयुक्तियुक्तमुक्तम् । इति काव्यार्थः ॥१६॥ अथ तत्त्वव्यवस्थापकप्रमाणादिचतुष्टयव्यवहारापलापिनः शून्यवादिनः सौगतजातीयांस्तत्कक्षीकृतपक्षसाधकस्य प्रमाणस्याङ्गीकारानङ्गीकारलक्षणे पक्षद्वयेऽपि तदभिमताथासिद्धिप्रदर्शनपूर्वकमुपहसन्नाह विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्नुवीत । कुप्यत्कृतान्तः स्पृशते प्रमाण ... महो! सुदृष्टं त्वदसूयिदृष्टम् ॥१७॥ शून्यः शून्यवादी प्रमाणं प्रत्यक्षादिकं विना अन्तरेण स्वपक्षसिद्धेः स्वाभ्युपगतशून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाश्नुवीत न १ तीक्ष्णधारायुक्तशस्त्रिका । बरच्छीति भाषायाम् । २ 'दुर्विदग्ध' इति ह. पुस्तके पाठः । ३ विशरारुला-विशीर्णशीलता । ४ उशन्ति-इच्छन्ति Page #215 -------------------------------------------------------------------------- ________________ १४५ स्याद्वादमञ्जरीसहिता श्लोक १७ प्रामुयात् । किंवत् , परवत्-इतरप्रामाणिकवत् । वैधये॒णायं दृष्टान्त । यथा इतरे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिमश्नुवते, एवं नायम् । अस्य मते प्रमाणप्रमेयादिव्यवहारस्यापारमार्थिकत्वात् "सर्व एवायमनुमानानुमेयव्यवहारो बुध्द्यारूढेन धर्मधर्मिभावेन न बहिःसदसत्त्वमपेक्षते" इत्यादिवचनात् । अप्रमाणकश्च शून्यवादाभ्युपगमः कथमिव प्रेक्षावतामुपादेयो भविप्यति । प्रेक्षावत्त्वव्याहतिप्रसंगात् । अथ चेत् स्वपक्षसंसिद्धये किमपि प्रमाणमयमङ्गीकुरुते, तंत्रायमुपालम्भः-कुप्येदित्यादि, प्रमाणं प्रत्यक्षाद्यन्यतमत् स्पृशते आश्रयमाणाय, प्रकरणादस्मै शून्यवादिने, कृतान्तस्तत्सिद्धान्तः कुप्येत्कोपं कुर्यात सिद्धान्तबाधः स्यादित्यर्थः । यथा किल सेवकस्य विरुद्धवृत्त्या कुपितो नृपतिः सर्वस्वमपहरति, एवं तत्सिद्धान्तोऽपि शून्यवादविरुद्धं प्रमाणव्यवहारमङ्गीकुर्वाणस्य तस्य सर्वस्वभूतं सम्यग्वादित्वमपहरति । किच, स्वागमोपदेशेनैव तेन वादिना शून्यवादः प्ररूप्यते, इति स्वीकृतमागमस्य प्रामाण्यमिति कुतस्तस्य स्वपक्षसिद्धिः, प्रमाणाझीकरणात् । किञ्च, प्रमाणं प्रमेयं विना न भवतीति प्रमाणनङ्गीकरणे प्रमेयमपि विशीर्णम् । ततश्चास्य मूकतैव युक्ता, न पुनः शून्यवादोपन्यासाय तुण्डताण्डवाडम्बरं, शून्यवादस्यापि प्रमेयत्वात् । अत्र च स्पृशिधातुं कृतान्तशब्दं च प्रयुञ्जानस्य सूरेरयमभिप्राय:यद्यसौ शून्यवादी दूरे प्रमाणस्य सर्वथाङ्गीकारो यावत् प्रमाणस्पर्शमात्रमपि विधत्ते, तदा तस्मै कृतान्तो यमराजः कुप्येत् , तत्कोपो हि मरणफलः । ततश्च स्वसिद्धान्तविरुद्धमसौ प्रमाणयन् निग्रहस्थानापन्नत्वाद् मृत एवेति । एवं सति । अहो इत्युपहासप्रशंसायाम् । तुभ्यमसूयन्ति गु१ तुण्डं-आननम् । ताण्डवं-नर्तनम् । आडम्बरम्-आटोपः । Page #216 -------------------------------------------------------------------------- ________________ श्लोक १७ अन्ययोगव्यवच्छेदिक १४६ णेषु दोषानाविष्कुर्वन्तीत्येवं शीलास्त्वदमूयिनस्तत्रान्तरीयास्तैदृष्टं मत्यज्ञानचक्षुषा निरीक्षितमहो । सुदृष्टं-साधु दृष्टम् । विपरीतलक्षणयोपहासान्न सम्यग् दृष्टमित्यर्थः। अत्राम्यधातोस्ताच्छलिकणक्मातावपि बाहुलकाण्णिन् । असूयास्त्येषामित्यमूयिनस्त्वय्यमूयिनस्त्वदायिन इति मत्वर्थीयान्तं वा । त्वदसूयुदृष्टमिति पाठेऽपि न किश्चिदचारु, असूयुशब्दस्योदन्तस्योदयनाद्यैायतात्पर्यपरिशुध्द्यादौ मत्सरिणि प्रयोगादिति । . इह शून्यवादिनामयमभिसंधिः-प्रमाता, प्रमेयं प्रमाणं, प्रमितिरिति तत्त्वचतुष्टयं परपरिकल्पितमवस्त्वेव, विचारासहत्वात् , तुर शृङ्गवत् । तत्र प्रमाता तावदात्मा, तस्य च प्रमाणग्राह्यत्वाभावादभावः । तथाहि न प्रत्यक्षेण तत्सिद्धिरिन्द्रियगोचरातिक्रान्तत्वात् । यत्तु अहङ्कारप्रत्ययेन तस्य मानसप्रत्यक्षत्वसाधनम् , तदप्यनैकान्तिकम् , तस्याहं गौरः, श्यामो वेत्यादौ शरीराश्रयतयाण्युपपत्तेः। किञ्च, यद्ययमहङ्कारप्रत्यय आत्मगोचरः स्यात् तदा न कादाचित्कः स्यात् आत्मनः सदा सन्निहितत्वात्, कादाचित्कं हि ज्ञानं,कादाचिककारणपूर्वकं दृष्टम् । यथा सौदामिनीज्ञानमिति । नाप्यनुमानेन, अव्यभिचारिलिङ्गाग्रहणात् । आगमानां च परस्परविरुद्धार्थवादिनां नास्त्येव प्रामाण्यम् । तथाहि एकेन कथमपि कश्चिदर्थो व्यवस्थापितः, अभियुक्ततरेणापरेण स एवान्यथा व्यवस्थाप्यते, स्वयमव्यवस्थितप्रामाण्यानां च तेषां कथमन्यव्यवस्थापने सामर्थ्यम्, इति नास्ति प्रमाता । प्रमेयं च वाह्योऽर्थः, स चानन्तरमेव बाह्यार्थप्रतिक्षेपक्षणे निर्लो१ अभिसंधिः-समाधानम् । २ 'वेत्यादि' इति ह. पुस्तके पाठः । ३ सौदामनी--विद्युत् । Page #217 -------------------------------------------------------------------------- ________________ १४७ ___स्याद्वादमञ्जरीसहिता श्लोक १७ ठितः । प्रमाणं. च स्वपरावभासि ज्ञानम्, तच्च प्रमेयाभावे कस्य ग्राहकमस्तु, निर्विषयत्वात् । किं च, एतत् अर्थसमकालम्, तद्भिन्नकालं वा तद्ग्राहकं कल्प्येत । आद्यपक्षे, त्रिभुवनवर्तिनोऽपि पदार्थास्तत्रावभासेरन् । समकालत्वाविशेषात् । द्वितीये तु , निराकारम्, साकारम् , वा तत्स्यात् । प्रथमे, प्रतिनियतपदार्थपरिच्छेदानुपपत्तिः । द्वितीये तु, किमयमाकारो व्यतिरिक्तः , अव्यतिरिक्तो वा ज्ञानात् । अव्यतिरके, ज्ञानमेवायम्, तथा च निराकारपक्षदोषः । व्यतिरेके, यद्ययं चिद्रूपस्तदानीमाकारोऽपि वेदकः स्यात्तथा चायमपि निराकारः साकारो वा तद्वेदको भवेत् इत्यावर्त्तनेनानवस्था । अथ, अचिद्रूपः, किमज्ञातः, ज्ञातो वा तज्ज्ञापकः स्यात् । प्राचीने विकल्पे, चैत्रस्येव मैत्रस्यापि तज्ज्ञापकोऽसौ स्यात् । तदुत्तरे तु, निराकारेण, साकारेण वा ज्ञानेन, तस्यापि ज्ञानं स्यात् , इत्याद्यावृत्तावनवस्थैवेति । ___ इत्थं प्रमाणाभावे तत्फलरूपा प्रमितिः कुतस्तनी, इति सर्वशून्यतैव परं तत्त्वमिति । तथा च पठन्ति__ "यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यदेतद् स्वयमर्थेभ्यो रोचते तत्र के वयम्" ॥१॥ इति पूर्वपक्षः । ... विस्तरतस्तु प्रमाणखण्डनं तत्त्वोपप्लवसिंहादवलोकनीयम् । ___ अत्र प्रतिविधीयते-ननु यदिदं शून्यवादव्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तम् । तत् शून्यम्, अशून्यम् वा ? । शून्यं चेत् । सर्वोपाख्याविरहितत्वात् खपुष्पेणेव नानेन किञ्चित्साध्यते, १ 'द्वितीयेऽपि' इति क. पुस्तके पाठः । २ 'स्यात्' इति घ. पुस्तके पाठः । ३ अयं ग्रन्थः केन प्रणीत इति न ज्ञायते । Page #218 -------------------------------------------------------------------------- ________________ श्लोक १७ अन्ययोगव्यवच्छेदिका १४८ निषिध्यते वा । ततश्च निष्पतिपक्षा प्रमाणादितत्त्वचतुष्टयीव्यवस्था । अशून्यं चेत् । प्रलीनस्तपस्वी शून्यवादः। भवद्वचनेनैव सर्वशून्यताया व्यभिचारात् , तत्रापि निष्कण्टकैव सा भगवती । तथापि प्रामाणिकसमयपरिपालनार्थ किञ्चित् तत्साधनं दृष्यते । तत्र यत्तावदुक्तम् प्रमातुः प्रत्यक्षेण न सिद्धिः, इन्द्रियगोचरातिक्रान्तत्वादिति, तत्सिद्धसाधनम् । यत्पुनः, अहंप्रत्ययेन तस्य मानसप्रत्यक्षत्वमनैकान्तिकमित्युक्तम् । तदसिद्धम् । 'अहं सुखी' 'अहं दुःखी' इति–अन्तर्मुखस्य प्रत्ययस्य आत्मालम्बनतयैवोपपत्तेः । तथा चाहुः---- " सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेनुधात्तु सिद्धं ग्रहणमात्मनः ॥१॥ इदं सुखमिति ज्ञानं दृश्यते नं घटादिवत् । अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥२॥" यत्पुनः 'अहं गौरः, अहं श्यामः' इत्यादिबहिर्मुखः प्रत्ययः, स खल्वात्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते । यथा-प्रियभृत्येऽहमितिव्यपदेशः। ___ यच्च, अहंप्रत्ययस्य कादाचित्कत्वम् , तत्रेयं वासना-आत्मा तावदुपयोगलक्षणः, सच साकारानाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति । अहंप्रत्ययोऽपि चोपयोगविशेष एव, तस्य च कर्मक्षयोपशमवैचित्र्यात् इन्द्रियानिन्द्रियालोकविषयादिनिमित्तसव्यपेक्षतया प्रवर्त्तमानस्य कादाचित्कत्वमुपपन्नमेव । यथा-बीजं सत्यामप्यकुरोपजननशक्तौ पृथिव्युदकादिसहकारिकारणकलापसमवहितमेवाङ्कुरं जनयात । नान्यथा । न चैतावता तस्याङ्कुरोत्पादने कादाचित्केऽपि तदुत्पादनशक्तिरापि कादाचित्की । तस्याः १ चेत्यमानम्-ज्ञायमानम् । Page #219 -------------------------------------------------------------------------- ________________ १४९ स्वाद्वादमञ्जरीसहिता श्लोक १७ कथंचिन्नित्यत्वात् । एवमात्मनः सदा सन्निहितत्वेऽप्यहंप्रत्ययस्य कादाचित्कत्वम् । । यदप्युक्तम्-तस्या व्यभिचारि लिङ्ग किमपि नोपलभ्यत इति। तदप्यसारं,साध्याविनाभाविनोऽनेकस्य लिङ्गस्य तत्रोपलब्धः,तथाहिरूपायुपलब्धिः सकर्तृका, क्रियात्वात् , छिदिक्रियावत् । यश्चास्याः कर्ता स आत्मा । न चात्र चैषां पौद्भलिकत्वेनाचेतनत्वात् , परप्रेर्यत्वात् , प्रयोक्तृव्यापारनिरपेक्षप्रवृत्त्यभावात् । यदि हि', इन्द्रियाणामेव कर्तृत्वं स्यात् , तदा तेषु विनष्टेषु पूर्वानुभूतार्थस्मृतेः, 'मया दृष्टम् , स्पृष्टम् , घातम् , आस्वादितम् , श्रुतम् ' इति प्रत्ययानामेककर्तृकत्वप्रतिपत्तेश्च कुतः संभवः । किञ्च, इन्द्रियाणां स्वस्वविषयनियतत्वेन रूपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम् । अस्ति च, तथाविधफलादे रूपग्रहणानन्तरं तत्सहचरितरसानुस्मरणम् , दन्तोदकसंप्लवान्यथानुपपत्तेः । तस्मादुभयोर्गवाक्षयोरन्तर्गतः प्रेक्षक इव, द्वाभ्यामिन्द्रियाभ्यां रूपरसयोर्दी कश्चिदेकोऽनुमीयते । तस्मात्करणान्येतानि, यश्चैषां व्यापारयितां स आत्मा, तथा, साधनोपादानपरिवर्जनद्वारेण हिताहितप्राप्तिपरिहारसमर्था चेष्टा प्रयत्नपूर्विका, विशिष्टक्रियात्वात् , रथक्रियावत्.। शरीरं च प्रयत्नवदधिष्ठितम् , विशिष्टक्रियाश्रयत्वात् , रथवत् । यश्चास्याधिष्ठाता, स आत्मा, सारथिवत् । तथात्रैव पक्षे, इच्छापूर्वकविकृतवाय्वाश्रयत्वाद् भस्वावत् , वायुश्च-प्राणापानादिः । यश्चास्याधिष्ठाता, स आत्मा, भस्त्राध्मापयितृवत् । तथात्रैव पक्षे, इच्छाधीननिमेषोन्मेषवदवयवयोगित्वाद् , दारुयन्त्रवत् । तथा शरीरस्य वृद्धिक्षतभग्नसंरोहणं च प्रयत्नवत्कृतम् वृद्धिक्षतभनसंरोहणत्वाद् , गृहवृद्धिक्षतभनसंरोहणवत् । वृक्षादिगतेन वृध्यादिना व्यभिचार इति चेत् । न । तेषामपि एकेन्द्रियजन्तुत्वेन सात्मकत्वात् । १ 'हि' इति क. ख. रा. पुस्तकेषु नास्ति । २ 'प्रतीतेश्च' इति ख. पुस्तके पाठः । Page #220 -------------------------------------------------------------------------- ________________ श्लोक १७ अन्ययोगन्यवच्छेदिका यश्चैषां कर्ता, स आत्मा, गृहपतिवत् । वृक्षादीनां च सात्मकत्वमाचाराङ्गादेरवसेयम् , किंचिक्ष्यते च । - तथा प्रेर्य मनः, अभिमतविषयसम्बन्धनिमित्तक्रियाश्रयत्वाद्, दारकहस्तगतगोलकवत् । यश्चास्य प्रेरकः, स आत्मा, इति । तथा, आत्म-चेतनक्षेत्रज्ञ-जीव-पुरुषादयः पर्याया न निर्विषयाः, पर्यायत्वाद् , घट-कुट-कलशादिपर्यायवत् , व्यतिरेके षष्ठभूतादि । यश्चैषां विषयः, स आत्मा । तथा, अस्त्यात्मा, असमस्तपर्यायवाच्यत्वात् , यो योऽसाङ्केतिकशुद्धपर्यायवाच्यः, स सोऽस्तित्वं न व्यभिचरति, यथा घटादिः, व्यतिरेके खरविषाणनभोऽम्भोरुहादयः । तथा सुखादीनि द्रव्याश्रितानि, गुणत्वाद् , रूपवत् , योऽसौ गुणी, स आत्मा । इत्यादिलिङ्गानि तस्मादनुमानतोऽप्यात्मा सिद्धः। आगमानां च येषांपूर्वापरविरुद्धार्थत्वम् , तेषामप्रामाण्यमेव । यस्त्वाप्तपणीत आगमः, स प्रमाणमेवं, कष-च्छेद-तापलक्षणोपाधित्रयविशुद्धत्वात् । कषादीनां च स्वरूपं पुरस्ताद्वक्ष्यामः। न च वाच्यमाप्तः क्षीणसर्वदोषः । तथाविधं चाप्तत्वं कस्यापि नास्तीति । यतः रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते, अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात्, सूर्याद्यावरकजलदपटलवत् । तथा चाहुः १ 'आचाराङ्गात्' इति क. पुस्तके पाठः । आचाराङ्गसूत्रश्रुतस्कंध १ अध्ययन १ उद्देश ५। २ श्लोक २९ । ३ 'पुद्गलादयः' इति क. पुस्तके पाठः । ४ 'समस्तपर्यायवाच्यत्वात्' इति क. पुस्तके पाठः । ५ आगमो ह्याप्तवचनमाप्तदोषक्षयं विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयादेव संभवात् ॥ १ ॥ इत्यधिक क. पुस्तके । ६ तापाच्छेदानिकषात्सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षबो ग्राह्यं मद्वचो न तु गौरवात् ।। १॥ इत्याधिक क. पुस्तके । ७ श्लोक, ३२ प्र. ४. Page #221 -------------------------------------------------------------------------- ________________ १५१ स्याद्वादमञ्जरीसहिता श्लोक १७ "देशतो नाशिनो भावा दृष्टा निखिलनश्वराः। मेघपङ्क्त्यादयो यद्वत् एवं रागादयो मताः" ॥१॥ इति । ____ यस्य च निरवयवतयैते विलीनाः, स एवाप्तो भगवान् सर्वज्ञः। अथ अनादित्वाद् रागादीनां कथं प्रक्षयः ? इति चेत् । न । उपायतस्तद्भावात् । अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् । तद्वदेवानादीनामपि रागादिदोषाणां प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः । क्षीणदोषस्य च केवलज्ञानाव्यभिचारात् सर्वज्ञत्वम् । तत्सिद्धिस्तु-ज्ञानतारतम्यं कचिद् विश्रान्तम् , तारतम्यत्वात् , आकाशे परिणामतारतम्यवत् । तथा सूक्ष्मान्तरितदूरार्थाः, कस्यचित्प्रत्यक्षाः, अनुमेयत्वात् , क्षितिधरकन्धराधिकरणभूमध्वजवत् । एवं चन्द्रसूर्योपरागादिसूचकज्योतिर्ज्ञानाविसंवादान्यथानुपपत्तिप्रभृतयोऽपि हेतवो वाच्याः । तदेवमाप्तेन सर्वविदा प्रणीत आगमः प्रमाणमेव । तदप्रामाण्यं हि प्रणायकदोषनिबन्धनम् । " रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ?" ॥१॥ इति वचनात् । प्रणेतुश्च निर्दोषत्वमुपपादितमेवेति सिद्ध आगमादप्यात्मा, "एंगे आया". इत्यादि वचनात् , तदेवं प्रत्यक्षानुमानागमैः सिद्धः प्रमाता। प्रमेयं चानन्तरमेव बाह्यार्थसाधने साधितम् । तत्सिद्धौ च 'प्रमाणं ज्ञानम् , तच्च प्रमेयाभावे कस्य ग्राहकमस्तु निर्विषयत्वात्' इति प्रलापमात्रम् । करणमन्तरेण क्रियासिद्धरयोगाद् , लवनादिषु तथा १ शानदर्शनचारित्रेति रत्नत्रयम् ।। २ उपरागः--चन्द्रसूर्ययो राहुकृतं ग्रहणम् । ३ स्थानाङ्गसूत्र १ स्थाने १ सूत्रे । ४ लवनं-छेदनम् । Page #222 -------------------------------------------------------------------------- ________________ श्लोक १७ अन्ययोगव्यवच्छेदिका १५२ दर्शनात् । यच्च, अर्थसमकालमित्याद्युक्तम् । तत्र, विकल्पद्वयमपि स्वीक्रियत एव । अस्मदादिप्रत्यक्षं हि समकालार्थाकलनकुशलम् , स्मरणमतीतार्थस्य ग्राहकम् , शब्दानुमाने च त्रैकालिकस्याप्यर्थस्य परिच्छेदके । निराकारं चैतद् द्वयमपि । न चातिप्रसङ्गः, स्वज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषवशादेवास्य नैयत्येन प्रवृत्तेः । शेषविकल्पानामस्वीकार एव तिरस्कारः। प्रमितिस्तु, प्रमाणस्य फलं स्वसंवेदनसिदैव । न बनुभवेऽप्युपदेशापेक्षा । फलं च द्विधा, आनन्तर्यपारम्पर्यभेदात् , तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् , पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम् , शेषप्रमाणानां तु हानोपादानोपेक्षाबुद्धयः इति सुव्यवस्थितं प्रमात्रादिचतुष्टयम् । ततश्च"नासन्न सन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिमुक्तं तत्त्वमाध्यात्मिका विदुः" ॥१॥ इत्युन्मत्तभाषितम्। किश्च इदं प्रमात्रादीनामवास्तवत्वं शून्यवादिना वस्तुवृत्त्या तावदेष्टव्यम् , तच्चासौ प्रमाणात् अभिमन्यते, अप्रमाणाद्वा । न तावदप्रमाणात्, तस्याकिश्चित्करत्वात् । अथ प्रमाणात् , तन्न । अवास्तवत्वग्राहकं प्रमाणं सांवृत्तम् , ओसांवृत्तं वा स्यात् । यदि सांवृत्तम्, कथं तस्मादवास्तवाद् वास्तवस्य शून्यवादस्य सिद्धिः, तथा च वास्तव एव समस्तोऽपि प्रमात्रादिव्यवहारः प्राप्तः । अथ पं अस्मन्मुद्रापितप्रमाणमीमांसा पृ. १८ टिप्पन्याम् । २ वीर्यान्तरायः कर्मविशेषः-यस्योदये सति उत्साहप्रतिघातो भवति तद्रूपत्वं वीर्यान्तरायस्य लक्षणम् । क्षयोपशमः-ज्ञानादिघातिनां पुद्गलानां क्षयोपशमौ, केचित् क्षपिताः केचिदुपशान्ता इति क्षयोपशमावुच्येते, ताभ्यां निवृत्तोऽध्यवसायः क्षायोपशामिक इति । ३ अनिरूपिततत्त्वार्थी प्रतीतिः संवृत्तिमता । . ४ 'तदसिद्धौ' इत्यधिकं क. ह. पुस्तकयोः।। Page #223 -------------------------------------------------------------------------- ________________ १५३ . स्याद्वादमञ्जरीसहिता श्लोक १८ तद्ग्राहकं प्रमाणं स्वयमसांवृत्तम् , तर्हि क्षीणा प्रमात्रादिव्यवहारावास्तवत्वप्रतिज्ञा, तेनैव व्यभिचारात् । तदेवं पक्षद्वयेऽपि 'इतो व्याघ्र इतस्तटी' इति न्यायेन व्यक्त एव परमार्थतः स्वाभिमतसिद्धिविरोधः । इति काव्यार्थः ॥ १७ ॥ ___ अधुना क्षणिकवादिन ऐहिकामुष्मिकव्यवहारानुपपन्नार्थसमर्थनमाविमुंश्यकारितं दर्शयन्नाह कृतप्रणाशा-कृतकर्मभोग भव-प्रमोक्ष-स्मृतिभगदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन् अहो ! महासाहसिकः परस्ते ॥१८॥ कृतप्रणाशदोषम्, अकृतकर्मभोगदोषम्, भवभङ्गदोषम्, प्रमोक्षभङ्गदोषम्, स्मृतिभङ्गदोषामित्येतान् दोर्षांन् । साक्षादित्यनुभवसिद्धान्, उपेक्ष्यानादृत्व, साक्षात् कुर्वन्नपि गजनिमीलिकामवलम्बमानः । सर्वभावानां क्षणभङ्गम्-उदयानन्तरविनाशरूपां क्षणक्षयिताम्, इच्छन् प्रतिपद्यमानः, ते तव, परः प्रतिपक्षी वैनाशिकः, सौगत इत्यर्थः । अहो! महासाहसिकः-सहसा अविमर्शात्मकेन बलेन, वर्तते साहसिकः। भाविनमनर्थमविभाव्य यः प्रवर्तते स एवमुच्यते, महां१ 'क्षणिकवादिनाम् ' इति घ. पुस्तके पाठः । २ 'अविमर्श' इति घ, पुस्तके पाठः। 'अविमृश्यकारिताकारितम् ' इति क, ख. पुस्तकयोः पाठः।। ३ 'बन्ध' इति क. पुस्तके पाठः । ४ 'दोषान् ' इति पदं नास्ति क, ख, घ, रा. पुस्तकेषु । ५ गजो नेत्रे निमील्य जलपानादि करोति नेत्रनिमीलनेन न किंचित्करोमीति भावयति च तद्वदयं यादी कृतप्रणाशादीन् दोषान् साक्षादनुभवन् सर्वभावानां क्षणभङ्गरतां प्रतिपद्यते । Page #224 -------------------------------------------------------------------------- ________________ १५४ श्लोक १८ अन्ययोगव्यवच्छेदिका श्वासौ साहसिकश्च महासाहसिकोऽत्यन्तसविमृश्य प्रवृत्तिकारी । इति मुकुलितार्थः। विकृतार्थस्त्वयम्-बौद्धा बुद्धिक्षणपरम्परामात्रमेवात्मानमामनन्ति न पुनर्मोक्तिककणनिकरानुस्यूतैकसूत्रवत्, तदन्वयिनमेकम् । तन्मते, येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा कृतम्, तस्य निरन्वयविनाशान्न तत्फलोपभोगः, यस्य च फलोपभोगः, तेन तत् कर्म न कृतम् । इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः, स्वकृतकर्मफलानुपभोगात् । उत्तरज्ञानक्षणस्य चाकृतकर्मभोगः, स्वयमकृतस्य परकृतस्य कर्मणः, फलोपभोगादिति । अत्र च कर्मशब्द उभयत्रापि योज्यः, तेन कृतप्रणास इत्यस्य कृतकर्मप्रणाश इत्यर्थो दृश्यः । बन्धानुलोम्यान्चेत्थमुपन्यासः। तथा भवभङ्गदोषः-भव आर्जवीभावलक्षणः संसारः, तस्य भङ्गो विलोपः, स एव दोषः क्षणिकवादे प्रसज्जते परलोकाभावप्रसङ्ग इत्यर्थः । परलोकिनः कस्यचिदभावात् । परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति । तच्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात् केन नामोपभुज्यतां जन्मातरे । यच्च मोक्षाकरगुप्तेन “यच्चित्तं तच्चित्तान्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि" इति भवपरम्परा सिद्धये प्रमाणमुक्तम्, तद् व्यर्थम् । चित्तक्षणानां निरवशेर्पनाशिनां चित्तान्तरपतिसंधानायोगात् । द्वयोरवस्थितयोहि प्रतिसंधानमुभयानुगामिना केनचित् क्रियते । यश्चानयोः प्रतिसंधाता, स तेन नाभ्यु १ संक्षिप्तार्थः । २ 'कृतकर्मणा इत्यर्थः ' इति क. पुस्तके पाठः । ३ श्लोकाक्षराधिक्येन वृत्तविघातो मा भवत्वतश्छन्दः--शास्त्रानुरोधात् कृतकर्मप्रणाश इत्यर्थे कृतप्रणाश इति श्लोके शब्दनिवेश इत्यर्थः । ४ 'विनाशिनाम् ' इति क, रा. ह. पुस्तकेषु पाठः । Page #225 -------------------------------------------------------------------------- ________________ १५५ - स्याद्वादमञ्जरीसहिता श्लोक १८ पगम्यते स ह्यात्मान्वयी । न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः, कार्यहेतुप्रसङ्गात् । तेन वादिनास्य हेतोः स्वभावहेतुत्वेनोक्तत्वात्, स्वभावहेतुश्च तादात्म्ये सति भवति, भिन्नकालभाविनोश्च चित्तचित्तान्तरयोः कुतस्तादात्म्यम् । युगपद्भाविनोश्च प्रतिसन्धेय-प्रतिसन्धायकत्वाभावापत्तिः, युगपद्भावित्वेऽविशिष्टेऽपि किमत्र नियाम कम् , यदेकः प्रतिसन्धायकोऽपरश्च प्रतिसन्धेय इति । अस्तु वा प्रतिस न्धानस्यजननमर्थः । सोऽप्यनुपपन्नः । तुल्यकालत्वे, हेतुफलभाव स्याभावात् । भिन्नकालत्वे च, पूर्वचित्तक्षणस्य विनष्टत्वात् उत्तर चित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ? इति यत्किञ्चिदेतत् । तथा प्रमोक्षभङ्गदोषः-प्रकर्षणापुनर्भावेन कर्मबन्धनाद् मोक्षो मुक्तिः प्रमोक्षस्तस्यापि भङ्गः प्राप्नोति । तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनाथ यतिष्यते । ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते । न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव सार्ध दध्वंसे, सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु, आत्माभ्युपगमप्रसङ्गः। अपि च बौद्धाः “निविलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्षः" इत्याहुस्तच्च न घटते, कारणाभावादेव तदनुपपत्तेः-भावनापचयो हि तस्य कारणमिष्यते, स च स्थिरैकाश्रयाभावाद विशेषानाधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङनाभ्यासवत् अनासादितप्रकर्षों न स्फुटाभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेव तस्य । समलचित्त १ ' भङ्गमाप्नोति ' इति क. पुस्तके पाठः । २ सर्व क्षणिकं सर्व क्षणिकमिति धारावाहिकबुद्धिरूपा भावनास्तासां प्रचयः समुदायः । Page #226 -------------------------------------------------------------------------- ________________ श्लोक १८ अन्ययोगव्यवच्छेदिका १५६ क्षणानां स्वाभाविक्याः सदृशारम्भणशक्तेरसदृशारम्भम् प्रत्यशक्तेश्च, अकस्मादनुच्छेदात् । किं च, समलचित्तक्षणाः पूर्वे स्वरसपरिनिर्वाणाः, अयमपूर्वो जातः सन्तानश्चैको न विद्यते, बन्धमोक्षौ चैकाधिकरणौन विषयभेदेन वर्तेते । तत् कस्येयं मुक्तिर्य एतदर्थ प्रयतते । अयं हि मोक्षशब्दो बन्धनच्छेदपर्यायः । मोक्षश्च तस्यैव घटते यो बद्धः, क्षणक्षयवादे त्वन्यः क्षणो बद्धः । क्षणान्तरस्य च मुक्तिरिति प्राप्नोति मोक्षाभावः । .. तथा स्मृतिभङ्गदोषः, तथा हि-पूर्वबुध्यानुभूतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति, ततोऽन्यत्वात्, सन्तानान्तरबुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मयते, अन्यथा एकेन दृष्टोऽर्थः सर्वैः स्मर्यंत स्मरणाभावे च कौतस्कुती प्रत्यभिज्ञाप्रमूतिः । तस्याः स्मरणानुभवोभयसंभवत्वात्-पदार्थप्रेक्षणप्रबुद्धप्राक्तनसंस्कारस्य हि प्रमातुः स एवायमित्याकारेण इयमुत्पद्यते । अथ स्यादयं दोषः, यद्यविशेषेणान्यदृष्टमन्यः स्मरतीत्युच्यते । किन्तु, अन्यत्वेऽपि कार्यकारणभावाद् एव च स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति, तेन सन्तानान्तराणां स्मृतिर्न भवति । न चैकसांतानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुध्यनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात् । तदप्यनवदातम्, एवमपि अन्यत्वस्य तदवस्थत्वात्, न हि कार्यकारणभावाभिधानेऽपि तदपगतं, क्षणिकत्वेन सर्वासां भिन्नत्वात् । न हि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः अथ“यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव संधत्ते कसे रक्तता यथा" ॥१॥ इति १ परिनिर्वाणः-लयः। २ कुतः कुत आगता प्रत्यभिज्ञायाः प्रसूतिः-उत्पत्तिः । • ३ असंगतम् । Page #227 -------------------------------------------------------------------------- ________________ १५७ स्याद्वादमञ्जरीसहिता श्लोक १८ कर्पासे रक्ततादृष्टान्तोऽस्तीति चेत् । तदसाधीयः, साधनदूषणयोरसम्भवात् , । तथाहि-अन्वयाद्यसम्भवान्न साधनम् । न हि कार्यकारणभावो यत्र तत्र स्मृतिः, कपासे रक्ततावदित्यन्वयः सम्भवति, नापि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुद्भावनाच न दूषणम् । न हि, ततोऽन्यत्वात् इत्यस्य हेतोः कर्पासे रक्ततावत् इत्यनेन कश्चिदोषः प्रतिपाद्यते । किञ्च, यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याचार्यादिबुद्धीनामाप कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात् । अथ नायं प्रसङ्गः, .एकसंतान त्वे सतीति विशेषणादिति चेत् । तदप्ययुक्तम् , भेदाभेदपक्षाभ्यां तस्योपक्षीणत्वात् । क्षणपरम्परातस्तस्याभेदे हि क्षणपरम्परैव सा, तथा च संतान इति न किश्चिदतिरिक्तमुक्तं स्यात् । भेदे तु, पारमार्थिकः, अपारमार्थिको वासौ स्यात् ? अपारमार्थिकत्वेऽस्य तदेव दूषणम् , अकिश्चित्करत्वात् । पास्मार्थिकत्वे, स्थिरो वा स्यात् , क्षणिको वा ? । क्षाणकत्वे, संतानिनिर्विशेष एवायम् , इति किमनेन स्तेन भीतस्य स्तेनान्तरशरणस्वीकरणानुकरणिना । स्थिरश्चेत् आत्मैव संज्ञाभेदतिरोहितः प्रतिपन्नः । इति न स्मृतिर्घटते क्षणक्षयवादिनाम् । तदभावे च, अनुमानस्यानुत्थानमित्युक्तम् प्रागेव । अपि च, स्मृतेरभावे निहितप्रत्युन्मार्गण-प्रत्यर्पणादिव्यवहारा विशीर्येरन्"इत एकनवते कल्पे शक्त्या में पुरुषो हतः।। तेन कर्मविपाकेन पादे विद्वोऽस्मि भिक्षवः !॥१॥ इति वचनस्य का गतिः । एवमुत्पत्तिरुत्पादयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो नाशयतीति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः, तदेवमनेकदोषापातेऽपि यः क्षणभगमभिप्रैति, तस्य महत् साहसम् । इति काव्यार्थः ॥ १८ ॥ - अथ ताथागताः क्षणक्षयपक्षे सर्वव्यवहारानुपपत्तिं परैरु Page #228 -------------------------------------------------------------------------- ________________ श्लोक १९ अन्ययोगव्यवच्छेदिका १५८ द्भावितामाकर्ण्य, इत्थं प्रतिपादयन्ति यत् पदार्थानां क्षणिकत्वेऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन ऐहिकामुष्मिकव्यवहारप्रवृत्तेः कृतप्रणाशादिदोषा निरवकाशा एव, इति । तदाकूतं परिहर्तुकामस्तत्काल्पतवासनायाः क्षणपरम्परातो भेदाभेदानुभयलक्षणे पक्षत्रयेऽप्यघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्याद्वादमकामयमानानपि तानङ्गीकारयितुमाह सा वासना सा क्षणसन्ततिश्च नाभेद-भेदा-नुभयैर्घटेते । ततस्तटादर्शिशकुन्तपोत न्यायात् त्वदुक्तानि परे श्रयन्तु ॥ १९॥ सा शास्त्रपरिकल्पिता, त्रुटितमुक्तावलीकल्पानां परस्परविशकलितानां क्षणानामन्योन्यानुस्यूतप्रत्ययजनिका, एकमूत्रस्थानीया सन्तानापरपर्याया वासना । वासनेति-पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः सा च, क्षणसन्ततिस्तद्देशनप्रसिद्धा । प्रदीपकलिकावत् नवनवोत्पद्यमानापरापरसदृशक्षणपरम्परा, एते द्वे अपि अभेद-भेदानुभयैर्न घटेते-न तावदभेदेन तादात्म्येन, ते घटेते । तयोर्हि अभेदे, वासना वा स्यात् क्षणपरम्परा वा । न द्वयम् , यद्धि यस्मादभिन्न न तत् ततः पृथगुपलभ्यते, यथा घटाद् घटस्वरूपम् । केवलायां वासनायामन्वयिस्वीकारः, वास्याभावे च किं तया वासनीयमस्तु । इति तस्या आपे न स्वरूपमवतिष्ठते । क्षणपरम्परामात्राङ्गीकरणे च प्राञ्च एव दोषाः। १ ' प्रतिपादयिष्यन्ति ' इति क. ख. घ. रा. पुस्तकेषु पाठः। २ सर्वपदार्थानाम् ' इति क. पुस्तके पाठः । • ३ पूर्वोक्ता अष्टादशश्लोकोक्ताः । Page #229 -------------------------------------------------------------------------- ________________ १५९ स्थाद्वादमञ्जरीसहिता श्लोक १९ न च भेदेन ते युज्यते । सा हि भिन्ना वासना क्षाणका वा स्यात् , अक्षणिका वा। क्षणिका चेत् । तर्हि क्षणेभ्यस्तस्याः पृथक् कल्पनावैयर्थ्यम् । अक्षणिका चेत् । अन्वयिपदार्थाभ्युपगमेनागमबाधः, तथा च पदार्थान्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् । __अनुभयपक्षेणापि न घटेते । स हि कदाचित् एवं ब्रूयात्, नाहं वासनायाः क्षणश्रोणितोऽभेदं प्रतिपद्ये, न च भेदं किंत्वनुभयमिति । तदप्यनुचितम् , भेदाभेदयोविधिनिषेधरूपयोरेकतरप्रतिषेधेऽन्यतरस्यावश्यं विधिभावात् अन्यतरपक्षाभ्युपगमः, तत्र च प्रागुक्त एव दोषः । अथवानुभयरूपत्वेऽवस्तुत्वप्रसङ्गः, भेदाभेदलक्षणपक्षद्वयव्यतिरिक्तस्य मार्गान्तरस्य नास्तित्वात् । अनाहतानां हि वस्तुना भिन्नेन वा भाव्यम् , अभिन्नेन वा । तदुभयातीतस्य वन्ध्यास्तनन्धयप्रायत्वात्। एवं विकल्पत्रयेऽपि क्षणपरम्परा-वासनयोरनुपपत्तौ पारिशेष्याद् भेदाभेदपक्ष एव कक्षीकरणीयः । न च "प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः।” इति वचनादत्रापि दोषतादवस्थ्यमिति वाच्यं कुक्कुटसर्प-नरसिंहादिवद् जात्यन्तरत्वादनेकान्तपक्षस्य । ननु आर्हतानां वासना-क्षणपरम्परयोरङ्गीकार एव नास्ति । तत्कथं तदाश्रयभेदाभेदचिन्ता चरितार्था इति चेत् । नैवम् । स्याद्वादवादिनामपि हि प्रतिक्षणं नवनवपर्यायपरम्परोत्पत्तिराभिमतैव, १ ' पृथक् कल्पनं व्यर्थम् ' इति ख. ह. घ. रा. पुस्तकेषु पाठः । २ केवलं संकटपरम्परेत्यर्थः । ३ ' अवश्यम् ' इति क. ह. पुस्तकयोरधिकम् । ४ यथा नरसिंहे नरत्वसिंहत्वोभयजातिव्यतिरिक्तं नरसिंहत्याख्यं जात्यन्तरम् । तद्वदित्यर्थः । कुक्कुटसर्पोऽपि कश्चन कुक्कुटत्वसर्पत्वेत्युभयजातिव्यतिरिक्तः कुक्कुटसर्पत्वजातिमान् प्राणिविशेषः स्यात् । Page #230 -------------------------------------------------------------------------- ________________ १६० श्लोक १९ अन्ययागव्यवच्छेदिका तथा च क्षणिकत्वम् । अतीतानागतवर्तमानपर्यायपरम्परानुसंधायक चान्वयिद्रव्यम् , तच्च वासनोत संज्ञान्तरभाक्त्वेऽप्यभिमतमेव । न खलु नामभेदाद् वादः कोऽपि कोविदानाम् । सा च प्रतिक्षणोत्पदिष्णुपर्यायपरम्परा अन्वयिद्रव्यात् कथंचिद् भिन्ना, कथंचिदभिन्ना च । तथा तदापि तस्याः स्याद् भिन्नं स्यादभिन्नम् । इति पृथक्प्रत्ययव्यपदेशविषयत्वाद् भेदः, द्रव्यस्यैव च तथा तथा परिणमनादभेदः । एतच्च सकलादेशविकलादेशव्याख्याने पुरस्तात् प्रपञ्चयिष्यामः । अपि च, बौद्धमते वासनापि तावन्न घटते; इति निर्विषया तत्र भेदादिविकल्पचिन्ता । तल्लक्षणं हि-पूर्वक्षणेनोत्तरक्षणस्य वास्यता । न चास्थिराणां भिन्नकालतयान्योन्यासंबद्धानां च तेषां वास्यवासकभावो युज्यते, स्थिरस्य संवद्धस्य च वस्त्रादेमंगमैदादिना वास्यत्वं दृष्टमिति । अथ पूर्वचित्तसहजात् चेतनाविशेषात् पूर्वशक्तिविशिष्टं चित्तमुत्पद्यते, सोऽस्य शक्तिविशिष्टचित्तोत्पादो वासना, तथाहिपूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत्तत् षड्वि धं पञ्च रूपादिविज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम्, तेन सह जातः समानकालश्चेतनाविशेषोऽहङ्कारास्पदमालयविज्ञानम्, तस्मात् पूर्वशक्तिविशिष्टचित्तोत्पादो वासनेति। तदपि न, अस्थिरत्वाद्वासकेनासंबन्धाच्च । यश्चासौ चेतनाविशेषः पूर्वचित्तसहभावी, स न वर्तमाने चेतस्युपकारं करोति-वर्तमानस्याशक्यापनेयोपनेयत्वेनाविकार्यत्वात्, तद्धि यथाभूतं जायते तथाभूतं विनश्यतीति । नाप्यनागते उपकारं करोति । तेन सहासंवद्धत्वात् , असंबद्धं च न भावयतीत्युक्तम् । तस्मात् सौगतमते वासनापि न घटते । अत्र च स्तुति १ कोविदाः-पण्डिताः। २ त्रयोविंशश्लोके प्र. १५ इत्यत्र । ३ मृगमदः-कस्तूरिका । Page #231 -------------------------------------------------------------------------- ________________ - स्याद्वादमञ्जरीसहिता श्लोक १९ कारेणाभ्युफेत्यापि ताम्, अन्वयिद्रव्यव्यवस्थापनाय भेदाभेदादिचर्चा विवेरितोत भावनीयम् । _अथोत्तरार्धव्याख्या-तत इति पक्षत्रयेऽपि दोषसद्भावात् त्वदुक्तानि भवद्वचनानि भेदाभेदस्याद्वादसंवादपूतानि, परे कुतीर्थ्याः प्रकरणात् मायातनयाः, श्रयन्तु आद्रियन्ताम् । अत्रोपमानमाहतटादर्शीत्यादि-तटं न पश्यतीति तटादर्शी, यः शकुन्तपोतः पक्षिशावकः, तस्य न्याय उदाहरणम्, तस्मात् । यथा किल कथमप्यपारपारावारान्तः पतितः काकादिशकुनिशावको बहिर्निर्जगमिषया प्रवहणकूपस्तम्भादेस्तटप्राप्तये मुग्धतयोड्डीनः, समन्ताज्जलैकार्णवमेवावलोकयंस्तटमदृष्ट्वैव निर्वेदाद व्यावृत्त्य तदेव कूपस्तम्भादिस्थानमाश्रयते । गत्यन्तराभावात्, एवं तेऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रयेऽपि वस्तुसिद्धिमनासादयन्तस्त्वदुक्तमेव चतुर्थ भेदाभेदपक्षमनिच्छयापि कक्षीकुर्वाणास्त्वच्छासनमेव प्रतिपद्यन्ताम् । नहि स्वस्य बलविकलतामाकलय्य बलीयसः प्रभोः शरणाश्रयणं दोषपोषाय नीतिशालिनाम् | त्वदुक्तानीति बहुवचनं सर्वेषामाप तत्रान्तरीयाणां पदे पदेऽनेकान्तवादप्रतिपत्तिरेव यथावस्थितपदार्थप्रतिपादनौपायक नान्यदिति ज्ञापनार्थम् । अनन्तधर्मात्मकस्य सर्वस्य वस्तुनः सर्वनयात्मकेन स्याद्वादेन विना यथावद् ग्रहीतुमशक्यत्वात् । इतर१ ' भेदाभेदचर्चा ' इति क. पुस्तके पाठः । २' विरचितेति' ह, क. पुस्तकयोः पाठः । ३ ' विभावनीयम् ' इति ख. पुस्तके पाठः । ४ ' मायासूनवीयाः ' इति क. ह. पुस्तकयोः पाठः । ५ उद्वेगात् । ६ ' अनेकधर्मात्मनः सर्वस्यापि ' इति क. पुस्तके पाठः । २१ Page #232 -------------------------------------------------------------------------- ________________ श्लोक १९ अन्ययोगव्यवच्छेदिका १६२ थान्धंगजन्यायेन पल्लवग्राहिताप्रसङ्गात् । श्रयन्तीति वर्तमानान्तं केचित्पठन्ति, तत्राप्यदोषः । अत्र च समुद्रस्थानीयः संसारः, पोतसमानं त्वच्छासनम्, कूपस्तम्भसंन्निभः स्याद्वादः, पक्षिपोतोपमा वादिनः, ते च स्वाभिम तपक्षप्ररूपणोड्डयनेन मुक्तिलक्षणतटमाप्तये कृतप्रयत्ना अपि तस्माद् इष्टार्थसिद्धिमपश्यन्तो व्यावृत्त्य स्याद्वादरूपकूपस्तम्भालङ्कृततावकीन शासनप्रवहणोपसर्पणमेव यदि शरणीकुर्वते, तदा तेषां भवार्णवाद वहिर्निष्क्रमणमनोरथः सफलतां कलयति, नापरथा इति काव्यार्थः ॥ १९ ॥ एवं क्रियावादिनां प्रावादुकानां कतिपय कुग्रहनिग्रहं विधाय सांप्रतमक्रियावादिनां लौकायतिकानां मतं सर्वाधमत्वादन्त उपन्यस्यन् तन्मतमूलस्य प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकारेऽकिंचित्करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति , १ अन्धगजन्यायः ( १११ ) पत्रे द्रष्टव्यः । २ लक्षणं - - १ किंचिन्मात्रग्राहिणः २ पल्लवग्राहिणः ३ त्वरितग्राहिणः एवमेषा दुर्विदग्धत् त्रिविधा भणिता । तेषु पल्लवग्राहिणीमाह 6 न कत्थइ निम्तो ण य पुच्छइ परिभवस्स दोसेणं । बत्थीव वायपुण्णो फुट्टइ गामिल्ल गवियो || ग्रामेयकेषु विदग्धो ग्रामेयकविदग्धो न च कुत्रचिन्निर्मातः सर्वत्र पल्लवमात्रग्रा हित्वात् । न च परं पृच्छति परिभवो मे भविष्यतीति । परिभवस्य दोषेण केवलं वस्तिरिव वातपूर्णः पण्डितोऽयमिति लोकप्रवादगर्वितः स्फुटति स्फुटन्निव तिष्ठति । इति सभाष्या बृहत्कल्पवृत्तिः उ १ प्र १ । ३ ' पोतसमम् ' इति क . पुस्तके पाठ: । ४ प्रावादुकाः - वाग्मिनः । लौकायतिकाः - चार्वाकाः । Page #233 -------------------------------------------------------------------------- ________________ . १६३ . स्याद्वादमञ्जरीसहिता श्लोक २० विनानुमानेन पराभिसन्धि मसंविदानस्य तु नास्तिकस्य । . न साम्प्रतं वक्तुमपि क चेष्टा क दृष्टमात्रं च हहा ! प्रमादः ॥२०॥ प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चार्वाकः । तत्र सन्नद्यतेअनु पश्चाद् लिङ्गसंबन्धग्रहणस्मरणानन्तरम्, मीयते परिच्छिद्यते, देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषेण, इत्यनुमानं प्रस्तावात् स्वार्थानुमानम् । तेनानुमानेन लैङ्गिकप्रमाणेन विना पराभिसंधिपराभिप्रायम् , असंविदानस्य-सम्यग् अजानानस्य । तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः-पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतः । नास्तिकस्य तु वक्तुमपि नौचिती, कुत एव तेन सह लोदः ? इति तुशब्दार्थः । नास्ति परलोकः, पुण्यम्, पापम् इति वा मतिरस्य "नास्तिकास्तिकदैष्टिकम्" इति निपातनात् नास्तिकः, तस्य नास्तिकस्य लौकायतिकस्य, वक्तुमपि न सांप्रतं वचनमप्युच्चारयितुं नोचितम्, ततस्तूष्णींभाव एवास्य श्रेयान् दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी । वचनं हि परप्रत्ययनाय प्रतिपाद्यते । परेण चाप्रतिपित्सितमर्थ प्रतिपादयेन् नासौ सतामवधेयवचनो भवति, उन्मत्तवत् । ननु १ खण्डनार्थ प्रयत्यते । २ अनुमानं द्विविधं-स्वार्थ परार्थ च-' तत्र हेतुग्रहणसम्बन्धस्मरणकारकं साध्यविधानं स्वार्थम् । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ' इति प्रमाणनयतत्त्वालोकालङ्कारे तृतीयपरिच्छेदे सूत्र १०, २३ । ३ क्षोदः—विचारः । ४ हैमसूत्रम् ६-४-६६।। ५ ' प्रतिपादयन्नसौ' इति क. ख. घ. रा. पुस्तकेषु पाठः । Page #234 -------------------------------------------------------------------------- ________________ श्लोक २० अन्ययोगव्यवच्छेदिका कथमिव तूष्णीकतैवास्य श्रेयसी, यावता चेष्टाविशेषादिना प्रतिपावल्याभिप्रायमनुमाय सुकरमेवानेन वचनोच्चारणम् । इत्याशङ्कयाहक चेष्टा क दृष्टमात्रं च इति । कति बृहदन्तरे, चेष्टा इङ्गितम्पराभिप्रायस्यानुमेयस्य लिङ्गम् । क च दृष्टमात्रम् । दर्शनं दृष्ट, भावे तः। दृष्टमेव दृष्टमात्रम् प्रत्यक्षमात्रम्, तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात अत एव दूरमन्तरमेतयोः । न हि प्रत्यक्षेणातीन्द्रियाः परचेतोवृत्तयः परिज्ञातुं शक्याः, तस्यैन्द्रियकत्वात् । मुखप्रसादादिचेष्टया तु लिङ्गभूतया पराभिप्रायस्य निश्चये अनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितम् । तथाहि-मद्वचनश्रवणाभिप्रायवानयं पुरुषः, तादृग् मुखप्रसादादिचेष्टान्यथानुपपत्तरिति । अतश्च हहा ! प्रमादः--हहा इति खेदे अहो ! तस्य प्रमादः प्रमत्तता, यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापह्नते। अत्र संपूर्वस्य वेत्तेरकर्मकत्व एवात्मनेपदम्, अत्र तु कर्मास्ति, तत्कथमत्रानश् । अत्रोच्यते-अत्र संवेदितुं शक्तः संविदान इति कार्यम् , “ वयः शक्तिशाले" इति शक्तौ शानविधानात् । ततश्चायमर्थः-अनुमानेन विना पराभिसंहितं सम्यग् वेदितुमशक्तस्येति । एवं परबुद्धिज्ञानान्यथानुपपत्त्यायमनुमानं हठाद अङ्गीकारितः । तथा प्रकारान्तरेणाप्ययमङ्गीकारयितव्यः, तथाहिचार्वाकः काचित् ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्य, अन्याश्च विसंवादित्वेन व्यभिचारिणीः । पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणतेतरते व्यवस्थापयेत् । न च सनिहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकाल १ 'क्तक्तवतू' इति हैमसूत्रम् ५।१।१७४ हैमसूत्रम् । २ — समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदृशः । ३-३-८४ संपूर्वेभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् । ३ हैमसूत्र. ५।२।२४ Page #235 -------------------------------------------------------------------------- ________________ श्लोक २० १६५ भाविनीनां ज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं क्षमते । न च अयं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति । तस्माद् यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकम् । परप्रतिपादकं च प्रामाणान्तरमनुमानरूपमुपासीत । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम्, संनिहितमात्रविषयत्वात् तस्यं । परलोकादिकं चाप्रतिषिध्य नायं सुखमास्ते, प्रमाणान्तरं च नेच्छतीति डिम्भहेोकः । - स्याद्वादमञ्जरीसहिता किञ्च, प्रत्यक्षस्याप्यर्थाव्यभिचारादेव प्रामाण्यम् । कथमितरथा स्नान - पानावगाहनाद्यर्थक्रियासमर्थे मरुमरीचिकानिचय चुम्बिनि जलज्ञाने न प्रामाण्यम् । तच्च अर्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मज्जतोरनुमानागमयोरप्यर्थाव्यभिचारादेव किं नेष्यतेः । व्यभिचारिणोरप्यनयोर्दर्शनाद अप्रामाण्यमिति चेत् । प्रत्यक्षस्यापि तिमिरादिदोषाद् निशीथिनीनाथयुगलावलम्बिनोऽप्रमाणस्य दर्शनात् सर्वत्राप्रामाण्यप्रसङ्गः । प्रत्यक्षाभासं तदिति चेत् । इतरत्रापि तुल्यमेतत् अन्यत्र पक्ष - पातात् । एवं च प्रत्यक्षमात्रेण वस्तुव्यवस्थानुपपत्तेः, तन्मृला जीवपुण्यापुण्यपरलोकनिषेधादिवादा अप्रमाणमेव । एवं नास्तिकाभि मतो भूतचिद्वादोऽपि निराकार्यः । तथा च द्रव्यालङ्कारकार उपयोगवर्णने – “न चायं भूतधर्मः सत्त्वकठिनत्वादिवद्, मद्याङ्गेषु भ्रम्यादिशक्तिवद् वा प्रत्येकमनुपलम्भात् । अनभिव्यक्तावात्मसिद्धिः । कायाकारपरिणतेभ्यस्तेभ्यः स उत्पद्यते इति चेत् । कायपरिणामोऽपि तन्मात्रभावी १ 'परप्रतिपादकं' इत्यधिकं क . पुस्तके | २ बालहठः । ३ मरुमरीचिका - मृगजलम् । ४ 'न' इत्यधिकं क पुस्तके | Page #236 -------------------------------------------------------------------------- ________________ श्लोक २. अन्ययोगव्यवच्छेदिका १६६ न कादाचित्कः, अन्यस्त्वात्मैव स्यात् । अहेतुत्वे न देशादिनियमः, मृतादपि च स्यात् । शोणिताद्युपाधिः सुप्तादावप्यस्ति, न च सतस्तस्योत्पत्तिः भूयो भूयः प्रसङ्गात्, अलब्धात्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते । असतः सकलशक्तिविकलस्य कथमुत्पत्तौ कर्तृत्वम् अन्यस्यापि प्रसङ्गात् । तन्न भूतकार्यमुपयोगः। कुतस्तर्हि सुप्तोत्थितस्य तदुदयः? असंवेदनेन चैतन्यस्याभावात् । न, जाग्रदवस्थानुभूतस्य स्मरणात् असंवेदनं तु निद्रोपघातात् । कथं तर्हि कायविकृतौ चैतन्यविकृतिः । नैकान्तः, श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धः, अविकारे च भावनाविशेषः प्रीत्यादिभेददर्शनात्, शोकादिना बुद्धिविकृतौ कायविकारादर्शनाच्च । परिणामिनो विना च न कार्योत्पत्तिः । न च भूतान्येव तथा परिणमन्ति । विजातीयत्वात् , काठिन्यादेरनुपलम्भात् । अणव एवेन्द्रियग्राह्यत्वरूपां स्थूलतां प्रतिपद्यन्ते, तज्जात्यादि चोपलभ्यते । तन्न भूतानां धर्मः, फलं वा उपयोगः । तथा भवांश्च यदाक्षिपति तदस्य लक्षणम् । स चात्मा स्वसंविदितः । भूतानां तथाभावे बहिर्मुखं स्याद् गौरोऽहमित्यादि तु, नान्तर्मुखं; बाह्यकरणजन्यत्वात् । अनभ्युपगतानुमानप्रामाण्यस्य चात्मनिषेधोऽपि दुर्लभः।। . धर्मः फलं च भूतानम् उपयोगो भवेद् यदि । प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥१॥ इति काव्यार्थः ॥२०॥ १ श्वित्रं-कुष्ठम् । २ 'अपि' इति क. पुस्तके नास्ति । Page #237 -------------------------------------------------------------------------- ________________ १६७ स्याद्वादमञ्जरीसहिता श्लोक २१ एवमुक्तयुक्तिभिरेकान्तवादप्रतिक्षेपमाख्याय साम्पतमनाद्यविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षोपलक्ष्यमाणमप्यनेकान्तवादं येऽवमन्यन्ते, तेषामुन्मत्ततामाविर्भावयन्नाह-. प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः। जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वो ॥२१॥ प्रतिक्षणं प्रतिसमयम् उत्पादेनोत्तराकारस्वीकाररूपेण, विनाशेन च पूर्वाकारपरिहारलक्षणेन, युज्यत इत्येवं शीलं प्रतिक्षणोत्पादविनाशयोगि । किं तत् , स्थिरैकं कर्मतापन्न-स्थिरमुत्पादविनाशयोरनुयायित्वात् त्रिकालवर्ति यदेकं द्रव्यं स्थिरैकम् । एकशब्दोऽत्र साधारणवाची । उत्पादे विनाशे च तत्साधारणम् , अन्वयिद्रव्यत्वात् । यथा चैत्रमैत्रयोरेका जननी साधारणेत्यर्थः। इत्थमेव हि तयोरेकाधिकरणता । पर्यायाणां कथश्चिदनेकत्वेऽपि तस्य कथञ्चिदेकत्वात् । एवं त्रयात्मकं वस्तु, अध्यक्षमपीक्षमाणः प्रत्यक्षमवलोकयन् अपि, हे जिन ! रागादिजैत्र ! त्वदाज्ञाम्-आ सामस्त्येनानन्तधर्मावशिष्टतया ज्ञायन्तेऽवबुध्यन्ते जीवादयः पदार्था यया सा आज्ञा आगमः शासनं, तवाज्ञा त्वदाज्ञा तां त्वदाज्ञां-भवत्प्रणीतस्याद्वादमुद्राम् , यः कश्चिदविवेकी, अवमन्यतेऽवजानाति, जात्यपेक्षमेकवचनमवज्ञया वा । स पुरुषपशुर्वातकी पिशाचकी वा-वातो रोगविशेषोऽस्तीति वातकी वातकीव वातकी, वातूल इत्यर्थः । एवं पिशाचकीव पिशाचकी, भूताविष्ट इत्यर्थः । अत्र १ च ' इति क. पुस्तकं पाठः । २ ' जीवाजीवादयः ' इति क. ह. पुस्तकयोः पाठः । Page #238 -------------------------------------------------------------------------- ________________ १६८ श्लोक २१ अन्ययोगव्यवच्छेदिका वाशब्दः समुच्चयार्थः, उपमानार्थो वा । स पुरुषापसदो वातकिपिशाचकिभ्यामधिरोहति तुलामित्यर्थः' “वातातीसारपिशाचात्कश्चान्तः" इत्यनेन मत्वर्थीयः, कश्चान्तः । एवं पिशाचकीत्याप । यथा किल वातेन पिशाचेन वाक्रान्तवपुर्वस्तुतत्त्वं साक्षाकुर्वन्नपि तदावेशवशात् अन्यथा प्रतिपद्यते, एवमयमप्येकान्तवादापस्मारपरवश इति । अत्र च जिनेति साभिप्रायम्-रागादिजेतृत्वाद् हि जिनः, ततश्च यः किल विगलितदोषकालुष्यतयावधेयवचनस्यापि तत्र भवतः शासनमवमन्यते, तस्य कथं नोन्मत्ततेति भावः । नाथ ! हे स्वामिन् , अलब्धस्य सम्यग्दर्शनादेर्लम्भकतया, लब्धस्य च तस्यैव निरतिचारपरिपालनोपदेशदायितया च योगक्षेमकरत्वोपपत्तेथिः; तस्यामन्त्रणम् । वस्तुतत्त्वं चोत्पादव्ययध्रौव्यात्मकम् । तथाहि-सर्व वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा । परिस्फुटमन्वयदर्शनात् । लूनपुनजर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात् । न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात्"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः। सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात्" ॥१॥ इति वचनात् । । ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूत्पद्यते विपद्यते च । अस्खलितपर्यायानुभवसद्भावात् । न १ च शब्दः' इति क. पुस्तके पाठः। २ हैमसूत्रम् ७।२।६१ ३ यत्र विरुद्धं प्रलपति रोगी तादृशो ज्वरविशेषोऽपस्मारशब्दवाच्यः । ४ नखकेशादि लूनं छिन्नमपि पुनर्जायते । Page #239 -------------------------------------------------------------------------- ________________ ___ स्याद्वादमञ्जरीसहिता श्लोक २१ चैवं शुक्ले शङ्ख पीतादिपर्यायानुभवेन व्यभिचारः तस्य स्खलद्रूपत्वात् , न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशाजहद्धृतोत्तराकारोत्पादाविनाभावि भवेत् , न च जीवादी वस्तुनि हर्षामाँदासीन्यादिपर्यायपरम्परानुभवः स्खलद्रूपः, कस्यचिद् बाधकस्याभावात् । ननूत्पादादयः परस्परं भिद्यन्ते न वा ? । यदि भिद्यन्ते, कथमेकं वस्तु त्रयात्मकम् ? न भिद्यन्ते चेत् । तथापि कथमेकं त्रयात्मकम् ? तथाच यद्युत्पादादयो भिन्नाः कथमेकं त्रयात्मकम् । अथोत्पादादयोऽभिन्नाः कथमेकं त्रयात्मकम् ॥१॥ इति चेत् । तदयुक्तं कथंचिद्भिन्नलक्षणत्वेन तेषां कथञ्चिद्भेदाभ्युपगमात् । तथाहि-उत्पादविनाशध्रौव्याणि स्याद् भिन्नानि, भिन्नलक्षणत्वात् , रूपादिवदिति । न च भिन्नलक्षणत्वमसिद्धम् । असत आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयानुवर्तनं च खलुत्पादादीनां . परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव । .. न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः । तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् कूर्मवत् तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत् । एवं स्थितिः केवला नास्ति, विनाशोत्पादशून्यत्वात्, तद्वदेव । इत्यन्योऽन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा चोक्तम्१ ' स्वल्वसौ ' इति क. पुस्तके पाठः । २२ Page #240 -------------------------------------------------------------------------- ________________ श्लोक २२ अन्ययोगव्यवच्छेदिका १७. “घंट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम्। शोक-प्रमोद-माध्यस्थं जनो याति सहेतुकम् ॥१॥ पयोवृत्तो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥२॥" इति काव्यार्थः ॥२१॥ अथान्ययोगव्यवच्छेदस्य प्रस्तुतत्वात् आस्तां तावत्साक्षाद् भवान्, भवदीयप्रवचनावयवा अपि परतीर्थिकतिरस्कारबद्ध कक्षा इत्याशयवान् स्तुतिकारः स्याद्वादव्यवस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह अनन्तधर्मात्मकमेव तत्त्व मतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादि कुरङ्गसंत्रासनसिंहनादाः ॥२२॥ तत्त्वं परमार्थभूतं वस्तु-जीवाज़ीवलक्षणम्, अनन्तधर्मात्मकमेव-अनन्तात्रिकालविषयत्वाद् अपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्यायाः। त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम्, एवकारः प्रकारान्तरव्यवच्छेदार्थः । अत एवाह-अतोऽन्यथा इत्यादि । अतोऽन्यथा उक्त कारवैपरीत्येन सत्त्वं, वस्तुतत्त्वमसूपपाद-सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति मूपपादं न तथा असूपपादं दुर्घटामत्यर्थः । अनेन साधनं दर्शितम् । तथाहि-तत्त्वमिति धर्मि, अनन्तधर्मात्मकत्वं साध्यो धर्मः, सत्त्वान्यथानुपपत्तेरिति हेतुः, अन्यथानुपपत्त्येकलक्षणत्वाद्धेतोः । अन्तर्व्याप्त्यैव साध्यस्य सिद्ध१ श्रीसमन्तभद्रस्वामिकृता आप्तमीमांसा श्लो. ५९।६० । २ अयं श्लोकः क. पुस्तके नास्ति । ३ ' लक्षणात् ' इति क, पुस्तके पाठः । Page #241 -------------------------------------------------------------------------- ________________ १७१ स्याद्वादमञ्जरीसहिता श्लोक २२ त्वाद् दृष्टान्तादिभिर्न प्रयोजनम्, यदनन्तधर्मात्मकं न भवति तत् सदपि न भवति, यथा वियदिन्दीवरम्, इति केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगात्। ___अनन्तधर्मात्मकत्वं च-आत्मनि तावद् साकारानाकारोपयोगिता, कर्तृत्वं भोक्तृत्वं, प्रदेशाष्टकनिश्चलता, अमूर्तत्वम् , असंख्यातप्रदेशात्मकता, जीवत्वमित्यादयः सहभाविनो धर्माः । हर्ष-विषाद--शोक सुख-दुःख-देव-नर-नारक-तिर्यक्त्वादयस्तु क्रमभाविनः । धर्मास्तिकायादिष्वपि असंख्येयप्रदेशात्मकत्वम् , १ आकाशकमलम् । २ पक्षान्तर्गत्वेनेत्यर्थः।। ३ श्रीहरिभद्रसूरिणा धर्मसंग्रहण्यां ५४६ गाथामारभ्य पंचत्रिंशद्भिर्गाथाभिःसमुपपादितम् । ४ धर्मसंग्रहण्यां ५८१ गाथामारभ्य पञ्चविंशतिभिर्गाथाभिः प्रसाधितम् । ५ धर्मसंग्रहणीगाथा १९२।१९३ . ६ धर्मसंग्रहण्यां ३६ गाथामारभ्य त्रयोविंशत्यधिकेन गाथाशतकेन जीवसत्ता प्रसाधिता। ___ ७ अस्तीत्ययं त्रिकालवचनो निपातः । अभूवन् भवन्ति भविष्यन्ति चेति भावना । अतोऽस्ति च ते प्रदेशानां ( तादृशदेशसम्बन्धकत्वे सति अविभागभागविशेषकल्पनारूपःप्रदेशः ) कायाश्च रांशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः । सा चतुर्धा धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायश्च । एत एव कालेन सह पञ्च अजीवसामान्यमस्ति जीवेन सह च षड् द्रव्याणीति कथ्यन्ते । १ स्वभावतः सञ्चरतां जीवघुद्गलानां गमनागमनादिचेष्टासु भाषामनोवचःकाययोगादिषु मीनानां पानीयमिव यदापेक्षितकारणं तद्रूपत्वम् , गतिरूपेण परिणतानां जीवपुद्गलानां गतौ यदापेक्षितकारणं तद्रूपत्वं वा धर्मास्तिकायस्य लक्षणम् । २ स्वभावतः स्थितिमतां जीवपुद्गलानां, पान्थानां छायास्थलमिव शयननिषदनस्थानालम्बनादिषु यत्साधारणनिमित्तं तद्रूपत्वं, स्थितिरूपेण परिणतानां जीवपुद्गलानां यत् साधारणनिमित्तत्वं तद्रूपत्वं वाऽधर्मास्तिकायस्य लक्षणम् । ३ अवगाहमानानां पदार्थानामवकाशे शर्करावह्नयोर्दुग्धायोगोलकवत् हेतुताधारकत्वमाकाशस्य लक्षणम् । ४ ग्रहणधारणादिपरिणामत्वे सति रूपादिमत्त्वम् , रूपादिसंस्थानपरिणामरूपत्वं वा पुद्गलास्तिकायस्य Page #242 -------------------------------------------------------------------------- ________________ १७२ श्लोक २२ अन्ययोगव्यवच्छेदिका गत्यायुपग्रहकारित्वम् , मत्यादिज्ञानविषयत्वम् , तत्तदवच्छेदकावच्छेद्यत्वम् , अवस्थितत्वम् , अरूपित्वम् , एकद्रव्यत्वम् , निष्क्रयत्वमित्यादयः । घटे पुनरामत्वम् , पाकजरूपादिमत्त्वम् , पृथुबन्धोदरत्वम् , कम्बुग्रीवत्वम् , जलादिधारणाहरणादिसामर्थ्यम् , मत्यादिज्ञानज्ञेयत्वम् , नवत्वम् , पुराणत्वमित्यादयः । एवं सर्वपदार्थेष्वपि नानानयमताभिज्ञेन शाब्दानार्थाश पर्यायान् प्रतीत्य वाच्यम् । अत्र चात्मशब्देनानन्तेष्वपि धर्मेष्वनुवृत्तिरूपमन्वयिद्रव्यं ध्वनितम् , ततश्च "उत्पाद-व्यय ध्रौव्ययुक्तं सत्” इति व्यवस्थितम् , एवं तावदर्थेषु । शब्देष्वपि उदात्तानुदात्त-स्वरित-विवृत्तसंवृत्त-घोषवदघोषताल्पंप्राणमहाप्राणतादयः, तत्तदर्थप्रत्यायनशक्तयादयश्चावसेयाः । अस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वालक्षणम् । ५ वर्तन्ते भवन्ति भावास्तेन रूपेण तानं प्रति प्रयोजकत्वं वर्तना सा लक्षणमस्येति वर्तनालक्षणः कालः द्रुमादिपुप्पोद्भेदादिनयत्यहेतु: । ६ उपयोगवत्वं जीवस्य लक्षणम् । ज्ञानदर्शनयोः सम्यक् स्वविषयकसीमानुल्लङ्गनेन धारणरूपवत्त्वम् , बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्यानकारिपरिणामविशेषरूपत्वं वोपयोगस्य लक्षणम् । पुद्गलं विना सर्वद्रव्याण्यरूपाणि नित्यावस्थितानि च तत्र नित्यत्वं नाम परिणामान्तरापत्तौ सत्यामप्यन्वयिनोंऽशादप्रच्युतरूपत्वं कदाचिदपि पञ्चभूतार्थं न व्यभिचरतीत्यवरूपत्वमवस्थितस्य लक्षणम् । जीवपुद्गलौ विना निष्क्रियाण्यपि तानि सन्ति । तत्र क्रियावत्त्वं नाम कर्मबन्धनिबन्धनचेष्टाविशेषरूपत्वम् , निमित्तशब्दयापेक्षत्वे सति द्रव्यस्य देशान्तरप्राप्तिहेतुभूतपर्यायविशेषरूपत्वं वा । तदभाववत्त्वं निष्क्रियत्वम् । १ 'पकत्वम्' इति क, पुस्तके पाठः ।। २ 'धारणाहरणसामर्थ्यम्' इति क. ह. पुस्तकयोः पाठः । ३ तत्त्वार्थसूत्रे अ. ५ सू. २९ उत्पादव्ययध्रौव्ययुक्तत्वं पदार्थसामान्यस्य लक्षणम् । तत्र-स्वजातित्वापरित्यागपूर्वकपरिणामान्तरप्रातिरूपत्वमुत्पादस्य लक्षणम् । स्वजातित्वापरित्यागपूर्वकपूर्वपरिणामविगमरूपत्वं व्ययस्य लक्षणम् । स्वजातिस्वरूपेण व्ययोत्पादाभावरूपत्वं, स्वजातित्वारूपेणानुगतरूपत्वं वा ध्रौव्यम्य लक्षणंम् । Page #243 -------------------------------------------------------------------------- ________________ १७३ . स्याद्वादमञ्जरीसहिता . श्लोक २२ दिकण्टकोद्धारः स्वयमभ्यूह्यः । इत्येवमुल्लेखशेखराणि, ते तव प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि-आस्तां तावद् साक्षात्कृतद्रव्यपर्यायनिकायो भवान् यावदेतान्याप, कुवादिकुरङ्गसनासनसिंहनादाः कुवादिनः कुत्सितवादिन एकांशग्राहकनयानयानुयायिनोऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास्तेषां सम्यक्त्रासने सिंहनादा इव सिंहनादाः । यथा सिंहस्य नादमप्याकर्ण्य कुरङ्गास्त्रासमासूत्रयन्ति, तथा भवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनस्त्रस्नुतामश्नुवते-प्रतिवचनप्रदानकातरतां बिभ्रतीति यावत् , एकैकं त्वदुपज्ञं प्रमाणमन्ययोगव्यवच्छेदकमित्यर्थः। अत्र प्रमाणानि इति बहुवचनमेवंजातीयानां प्रमाणानां भगवच्छासने आनन्त्यज्ञापनार्थम् । एकैकस्य मूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकानन्तगुणार्थत्वात् । तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् । अथवा 'इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्ति.' इति न्यायाद् इतिशब्देन प्रमाणबाहुल्यसूचनात् पूर्वार्दै एकस्मिन् अपि प्रमाणे उपन्यस्ते उचितमेव बहुवचनम् । इति काव्यार्थः ॥ २२ ॥ ___अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुंकुलितमुक्तम्, तदेव सप्तभंङ्गीप्ररूपणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाह १ कण्टकोद्धारः-दूषणोद्धारः। २ 'त्रासताम्' इति क. ख. पुस्तकयोः पाठः । । ३ त्वत्त एव प्रथमत उद्गमो यस्येत्यर्थः । ४ मुकुलितं-संक्षिप्तम् । Page #244 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका अपर्ययं वस्तु समस्यमान__ मद्रव्यमेतच विविच्यमानम् । आदेशभेदोदितसप्तभङ्गम दीदृशस्त्वं बुधरूपवेद्यम् ॥२३॥ समस्यमानं संक्षेपेणोच्यमानं वस्तु, अपर्ययमविवक्षितपर्यायम् वसन्ति गुणपर्याया अस्मिन्निति वस्तु-धर्मा-धर्मा-काश-पगल-कालजीवलक्षणं द्रव्यषट्कम् । अयमभिप्रायः-यदैकमेव वस्तु आत्मघटादिकं चेतनाचेतनं सतामपि पर्यायाणामविवक्षया द्रव्यरूपमेव वस्तु वक्तुमिष्यते । तदा संक्षेपेणाभ्यन्तरीकृतसकलपर्यायनिकायत्वलक्षणेनाभिधीयमानत्वात् अपर्ययमित्युपदिश्यते-केवलद्रव्यरूपमेवे इत्यर्थः, यथात्मायं घटोऽयमित्यादि पर्यायाणां द्रव्यानतिरेकात् , अत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रमेवेच्छन्ति, पर्यायाणां तदविष्वग्भूतत्वात् । पर्ययः, पर्यवः, पर्याय इत्यनान्तरम् । अद्रव्यमित्यादि-चः पुनरर्थे, स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमश्चविविच्यमानं चेति, विवेकेन पृथपतयोच्यमानं पुनरेतद् वस्तु अद्रव्यमेव-अविवक्षितान्वयिद्रव्यं केवलपर्यायरूपमित्यर्थः । यदा ह्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्याय विचार्यते, तदा पर्याया एव प्रतिभासन्ते, न पुनरात्माख्यं किमपि द्रव्यम् । एवं घटोऽपि कुण्डलौष्ठपृथुबुध्नोदरपूर्वापरादिभागाद्यवयवापेक्षया विविच्यमानः पर्याया एव, न पुनर्घटाख्यं तदतिरिक्त वस्तु । अत एव पर्यायास्तिकनयानुपातिनः पठन्ति १ एतल्लक्षणानि (१७१) पृष्ठ उक्तानि । २ ' एव' इति रा. पुस्तके नास्ति । ३ प्रतिशब्दा इत्यर्थः । Page #245 -------------------------------------------------------------------------- ________________ १७५ श्लोक २३ "भागा एव हि भासन्ते संनिविष्टास्तथा तथा । तद्वान् नैव पुनः कश्चिन्निर्भागः संप्रतीयते " ॥ १ ॥ इति । ततश्च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यनयार्पणया पर्यायनयानर्पणया च द्रव्यरूपता, पर्यायनयार्पणया द्रव्यनयानर्पणया च पर्यायरूपता, उभयनयार्पणया च तदुभयरूपता । अत एवाह वाचकमुख्यः - " अर्पितानर्पित सिध्देः" इति । एवंविधं द्रव्यपर्यायात्मकं वस्तु त्वमेवादीदृशस्त्वमेव दर्शितवान्, नान्य इति काकावैधारणावगतिः । स्याद्वादमञ्जरीसहिता " नन्वन्याभिधानप्रत्यययोग्यं द्रव्यम् अन्याभिधानप्रत्ययविषयाश्च पर्यायाः । तत्कथमेकमेव वस्तूभयात्मकम् इत्याशङ्कां विशेषणद्वारेण परिहरति- आदेशभेदेत्यादि - आदेशभेदेन सकलादेशविकलादेशलक्षणेन आदेशद्वयेन, उदिताः प्रतिपादिताः, सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा । ननु यदि भगवता त्रिभुवनबन्धनता निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्त्वमुपदर्शितम्, तर्हि किमर्थं तीर्थान्तरीयाः तत्र विपद्यन्ते इत्याह-बुधरूपवेद्यम् इति बुध्यन्ते यथावस्थितं वस्तुतत्त्वं सारैतरविषयविभागविचारणया इति बुधाः, प्रकृष्टा बुधा बुधरूपा नैसर्गिकाधिगमिकान्यतरसम्यग्दर्शन विशदीकृतज्ञ नशालिनः प्राणिनः, तेनैव वेदितुं शक्यं वेद्यं परिच्छेद्यम् । न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाकशाणीनिशातबुद्धिभिरप्यन्यैः । तेषामनादिमिथ्यादर्शनवासना , १ तत्त्वार्थसूत्र ५ । ३१ । उमास्वातिः - वाचकमुख्यः । २ कार्थेन निश्चयताबोधनम् । ३ ' इत्याशङ्कय ' इति ख. घ. ह. रा. पुस्तकेषु पाठः । ४ इदं सारमुत्कृष्टम् इदमसारं निकृष्टमिति विषयविभागः । ५ शाणा-रत्नादिनिघर्षणशिला सा चात्र स्वशास्त्रतत्त्वाभ्यासपरिपाकस्तत्र निशाता तीक्ष्णीकृता बुद्धिर्येषां तैरित्यर्थः । Page #246 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका १७६ दूषितमतितया यथावस्थितवस्तुतत्त्वानवबोधेन बोधरूपत्वाभावात्। तथा चागमः"सदसदविसेसणाउ भवहेउजदिच्छिओवलंभाउ। णाणफलाभावाउ मिच्छादिहिस्स अण्णाणं" ॥१॥ __ अत एव तत्परिगृहीतं द्वादशाङ्गमपि मिथ्याश्रुतमामनन्ति । १ 'यथास्थित' इति क, ख, रा. पुस्तकेषु पाठः ।। २ विशेषावश्यक गाथा ११५ । सदसदविशेषणोद्भवहेतुयदृच्छोपलम्भात् । ज्ञान फलाभावान्मिथ्यादृष्टरज्ञानम् ॥१॥ इति छाया । ३ द्वादस्याङ्गस्य मूलत उपदेष्टा श्रीसर्वज्ञो वीतरागः । यस्य स्वरूपं महात्मानो निरन्तरं ध्यायन्ति । स्वप्रतीत्या च तत्पदप्राप्तिमेव सर्वस्वप्रातिमनुभवन्ति । सर्वज्ञवचनानि संप्रधार्य महाचार्यैस्तद् न्यबन्धि । द्वादशाङ्गनामानि चैवम्-१ आचाराङ्गम् २ सूत्रकृतं ३ स्थानाङ्गं ४ समवाययुक् । ५ पंचमं भगवत्यंगं ६ ज्ञाता धर्मकथापि च ॥१५७|| ७ उपासका ८ न्तकृदनुत्तरोपपातिकादृशाः । १० प्रश्नव्याकरणं चैव ११ विपाकश्रुतमेव च ॥१५८॥ १२ द्वादशं पुनदृष्टिवादः ॥१५९॥ अत्रान्तिमस्य दृष्टिवादस्य व्युच्छेदात् एकादशैवाङ्गानि एकादशाङ्गेतिसंज्ञया श्वेताम्बरेषु प्रसिद्धानि । (आचरणमाचारः । आचर्यते आसेव्यत इति वा शिष्टाचरितो ज्ञानादि 'आदिशब्दादर्शनाचारचारित्राचारतप आचारवीर्याचाराणां ग्रहणम्' आसेवनविधिरित्यर्थः । तत्प्रतिपादको ग्रन्थोऽप्याचारः स चासावङ्गं च । आचाराङ्गम् । तस्य द्वौ श्रुतस्कन्धौ । तत्र प्रथमो नवाध्यायनात्मकः ( तत्र सप्तमाध्यायनम् व्युच्छिन्नम् ) । द्वितीयः षोडशाध्ययनात्मकः । एवं पंचविंशतरेध्ययनानां पंचविंशतिशतसंख्यांकाश्लोकाः । तत्र श्रीशीलांकाचार्यकृतटीका १२००० चूर्णि ८३०० श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा ३६८) श्लोकसंख्या ४५० संपूर्णसंख्या २३२५० श्लोकपरिमिता ।। (२) सूचनात्सूत्रं सूत्रेण स्वपरसमयसूचनेन कृतं सूत्रकृतम् तस्य द्वौ श्रुतस्कंधौ । तत्र प्रथमः षोडशाध्ययनात्मकः द्वितीयः सप्ताध्ययनात्मकः । एवं त्रयोविंशतेरध्ययनानां मूलश्लोकसंख्या २१०० । श्रीशीलांकाचार्यकृतटीका १२८५० चूर्णि १०००० । श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा २०८) श्लोकसंख्या २५० संपूर्णणंख्या २५२०० परिमिता । १५८३ संवत्सरे श्रीहेमविमलसूरिभिर्दीपिका प्रणीता । एतत्संख्या तु पूर्वोक्तसंख्यायां नान्तर्भाविता । Page #247 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरी सहित श्लोक २३ तेषामुपपत्तिनिरपेक्षं यदृच्छया वस्तुतत्त्वोपलम्भसंरम्भात् । सम्यग्हष्टिपरिगृहीतं तु मिथ्याश्रुतमपि सम्यक् श्रुततया परिणमति, सम्यग्दृशां सर्वविदुपदेशानुसारिप्रवृत्तितया मिथ्या श्रुतोक्तस्याप्यर्थस्य यथावस्थितविधिनिषेधविषयतयोन्नयनात् । तथा हि किल वेदेअजैर्यष्टव्यम् " इत्यादिवाक्येषु मिथ्यादृशोऽजशब्दं पशुवाच १७७ "" (३) तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं एकादिदशान्तसंख्याभेदो वा स्थानं तत्प्रतिपादको ग्रन्थोऽपि स्थानं तच्च तदंगं च स्थानांगम् । अस्य दशाध्ययनानि ( स्थानानि ) । मूलश्लोकसंख्या ३७७० श्री अभयदेवसूरिकृतटीका १५२५० संपूर्ण - संख्या १९०२० । (४) समवायनं समवायः एका दिशतान्तसंख्या समाविष्टानां पदार्थानां सङ्ग्रहः तखे । तुश्च ग्रन्थोऽपि समवायः । मूलश्लो० १६६७ श्रीअभयदेवसूरिकृतटीका ३७७६ - पूर्वाचार्यकृता चूर्णि : ४०० संपूर्णसंख्या ५८४३ श्लोकपरिमिता । (५) भगवतीति पूजाभिधानं व्याख्याप्रज्ञतेः पंचमांगस्य सा चासौ अंगं च भगवत्यङ्गम् । तस्याः ४१ शतकानि । मूलश्लो. १७७५२ श्री अभयदेवसूरिकृतटीका १८६१६ । पूर्वाचार्यकृता चूर्णिः ४००० संपूर्णसंख्या ३८३६८ श्लोकपरिमिता | संवत् १५६८ वर्षे श्रीमद्दानशेखरोपाध्यायेन १२००० श्लोकपरिमिता लघुवृत्तिः कृता । (६) ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा तत्प्रतिपादको ग्रन्थोऽपि तथा । एकोनविंशतिरध्ययनात्मकः । मूल ५५०० श्रीअभयदेवसूरिकृतटीका ४२५२ संपूर्णसंख्या ९७५२ श्लोकपरिमिता । (७) उपासकाः श्रावकाः तद्गत क्रियाकलापप्रतिबद्धा दशा दशाध्ययनरूपा उपासक दशाः बहुवचनान्तमेतद्गन्थनाम । दशाध्ययनात्मक : मूलश्लो. ८१२ श्रीअभयदेवसूः रिकृतटीका ९०० संपूर्णसंख्या १७१२ श्लोकपरिमिता । (८) अंतो विनाशः स च कर्मणः तत्फलभूतस्य वा संसारस्य तं कुर्वन्ति ये तीर्थकरादयस्तेऽन्तकृतः तेषां दशाः प्रथमवर्गो दशाध्ययनात्मकत्वात् तत्संख्यया अंतकृद्दशाः । अध्ययनानि नवतिः ( ९० ) । मूलश्लो. ९०० श्रीमदभयदेवसूरिकृतटीका ३०० संपूर्णसंख्या १२०० श्लोकपरिमिता । ( ९ ) न विद्यते उत्तरः प्रधानोऽस्मादित्यनुत्तर उपपतनं उपपातो जन्म अनुत्तरप्रध नः संसारेऽन्यस्य तथाविधस्याभावात् उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः विजयवैजयन्त जयंता पराजित सर्वार्थसिद्ध विमानपंचकजन्मानो देवाः तद्वक्तव्यता प्रतिबद्धदशाः २३ Page #248 -------------------------------------------------------------------------- ________________ १७८ श्लोक २३ अन्ययोगव्यवच्छेदिका कतया व्याचक्षते, सम्यग्दृशस्तु जन्मापायोग्यं त्रिवार्षिकं यवत्रीह्यादि, पञ्चवार्षिकं तिलमसूरादि, सप्तवार्षिकं कङ्गसर्षपादि । धान्यपर्यायतया पर्यवसाययन्ति । अत एव च भगवता श्रीवर्द्धमानस्वामिना, "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य संज्ञास्ति' इत्यादिऋचः श्रीमदिन्द्रभूत्यादीनां द्रव्यगणधरदेवानां जीवादिनिषेधकतया प्रतिभासमाना अपि तद्व्यवस्थापकतया व्याख्याताः । तथा स्मार्ता अपिदशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः । अध्ययनानि त्रयोविंशतिः मूलश्लो० २९२ श्रीअभयदेवसूरकृतटीका १०० संर्णसंख्या ३९२ श्लोकपरिमिता । . (१०) प्रश्नः पृच्छा तन्निर्वचनं व्याकरणं प्रश्नव्याकरणं तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणम् । दशाध्ययनात्मकम् । मूल श्लो. १२५० श्रीअभयदेवसूरिकृतटीका १६० संपूर्णसंख्या ५८५० श्लोकपरिमिता । (११) विषचनं विपाकः शुभाशुभकर्मपरिणामः तत्प्रतिपादकं श्रुतं विषाकश्रुतम् । विंशत्यध्ययनात्मकः । मूलश्लो. १२१६ श्रीअभयदेवसूरिकृतटीका ९०० संपूर्णसंख्या २११६ श्लोकपरिमिता । (१२) दृष्टयो दर्शनानि तासां वदनं दृष्टिवादः दृष्टीनां पातो यत्रासौ दृष्टिपातोऽपि सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः । सर्वमिदं प्रायो व्यवच्छिन्नम् । एकादशांगानां मूलसंख्या ३५६५९ श्लोकपरिमिता । टीका च ७३५४४ ( श्रीअभयदेवसू रिणा (नवांगीवृत्तिकारण) तृतीयादेकादशांगपर्यन्ता कृता ४८६९४ प्रथमद्वितीयाङ्गस्य श्रीशीलांकाचार्येग कृता च टीका २४८५० श्लोकपरिमिता) चर्णिः २३७०० नियुक्तिः ७०० संपूर्णसंख्या १३२६०३ श्लोकपरिमिता। १ बृ. २।४।१२ . २ १ इंद्रभूति २ रमिभूति ३ वायुभूतिः सहोद्भवाः । ४ व्यक्तः ५ सुधर्मा ६ मण्डित ७ मौर्यपुत्रौ सहोदरौ ॥ ८ अकम्मितो ९ ऽचलभ्राता १० मेतार्यश्च ११ प्रभासकः । इत्येकादश गणधराः।। ३ अनुतरज्ञानदर्शनादिधर्मगणं धरतीति--गणधरः ।। ४ यदा भगवान्महावीरः केवलज्ञानदर्शनोत्पत्तिनंतरं विहरन् अपापापुर्या (प्राक्किल तस्या नगर्या अपापति नमःसीत् भगवांस्तत्र कालगतत्वात् देवैस्तु पापेति उक्तं) (अपापायां मध्यमायां) महसेनवने जगाम तदा तत्र सोमिलायों नाम ब्राह्मणः Page #249 -------------------------------------------------------------------------- ________________ १७९ स्याद्वादमञ्जरीसहिता श्लोक २३ | स यज्ञं यष्टुमुद्यतः । तत्र चैकादशोपाध्यायाः खल्वागताः तेषां च संदेहाः क्रमेण १ जीवः २ कर्म ३ तज्जीवतच्छरीरे ४ पंचभूलानि सन्ति न वा ५ यो यादृशः स तादृशः ६ बंधः ७ देवः ८ नैरयिकः (नारक) ९पुण्यं १० परलोकः ११ मोक्षः इति । ते चैक देशापि द्विजा एकेकसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति । अत्रान्तरे वने च भगवन्नमस्यार्थमागच्छतः । सुरासुरान्विलोक्य ते चिन्तयन्ति अहो यज्ञस्य महिमा यदेते सुराः साक्षात्समागताः । अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः ततोऽमी सर्वज्ञं वंदितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान् अहो मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति दुःश्रवम् एतत्कर्णकटु कथं नाम श्रूयते । किं च कदाचित्कोऽपि मूर्खः केन - चिर्त्तेन वञ्चयते अनेन तु सुरा अपि वंचिताः यदेवं यज्ञमण्डपम् मां सर्वज्ञं च विहाय तत्समीपं गच्छन्ति | 'अहो सुराः कथं भ्रान्तास्तीर्थम्भ इव वायसाः । कमलाकरवद्भेकाः मक्षिकाश्चन्दनं यथा ||१|| करभा इव सद्वृक्षान् क्षीरान्नं रूकरा इव । अर्कस्य लोकवत् धूकः स्त्यक्त्वा यागं प्रयांति यत् ||२||' अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते अनुरूप एव संयोगः । तथापि नाहं एतस्य सर्वज्ञाटोपं सहे यतः " व्योम्नि सूर्यद्वयं किं स्यात् गुहायां केसरिद्वयम् । प्रत्याकारे च खड्गौ द्वौ किं सर्वज्ञावहं स च " ॥१॥ ततो भगवन्तं वंदित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ भो ! भो ! दृष्टः स सर्वज्ञः ? कीदृश्रूपः ? किंस्वरूपः ? इति । जनैस्तु “यदि त्रिलोकीगणनापरा स्यात्, तस्याः समाप्तियदि नायुषः स्थात् । पापराध्य गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् ॥ १ ॥ " इत्याद्युक्ते सति स दध्यौ “ नूनमेष महाधूर्तो मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि विभ्रमे पातितोऽमुना ॥ २ ॥ मया हि येन वादीन्द्रास्तूष्णीं संस्थापिताः समे । गेहे शूरतरः कोऽसौ सर्वज्ञो मत्पुरो भवेत् १ ||३|| " देवानां च दानवानां च पुरतोऽग्रे तथाविधप्रश्नजालैर्हतप्रतापं कृत्वा क्षणमात्रेण तस्य सर्वज्ञवादं निःशेषमहं नाशयामि । इत्युक्त्वा प्राप्तो भगवत्समीपं दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृतं चतुस्त्रिंशदतिशय ( प्र. मी. २२ पृष्ठे द्रष्टव्यम् ) निधिं सशंकितः पुरतोऽवस्थितः आभाषितो सर्वज्ञेन जिनेन हे इंद्रभूते ! गोतम स्वागतमिति जिनेोक्ते स चिन्तयति अहो नामापि मे विजानाति अथवा सर्वज्ञप्रसिद्धोऽहं को मां न जानाति यदि मे हृद्गतं संशयं जानीयात् अथवाऽपनयेत् ततो मे विस्मयो भवेत् इति चिंतयन् पुनरपि भगवता भणितः - " किमन्ने अत्थि जीवो, उयाहु नत्थित्ति संसओ तुज्जा । वेपयाण य अत्थं न याणसी तेसिमो अत्थो || 35 हे गौतम किं मन्यसे अस्ति जीव उत नास्तीति नन्वयमनुचित एव संशय यतोऽयं संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन इति । तान्यमूनि वेदपदानि Page #250 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका १८. " विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यादि " तथा स वै अयमात्मा ज्ञ.नमय इत्यादीनि च एतेषां च वेदपद.न.मयमों भवतश्चेतसि विपरिवर्तते । विज्ञानमेव घनानन्दादिरूपत्वात् विज्ञानघनः स एव एतेभ्योऽध्यक्षतः परिच्छिद्यम नस्वरूपेभ्यः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः समुत्थाय उत्पद्य पुनस्तान्येवानुविश्यति त न्येव भूतानि अनुसृत्य विनश्यति तत्रैवाव्यक्तरूपतया सलीनो भवतीति भावः । न प्रेत्य संज्ञास्ति मृत्वा पुनर्जन्म प्रेत्येत्युच्यते तत्संज्ञास्ति न परलंफसंज्ञास्तीति भावः । ततः कुतो जीवः युक्त्योपपन्नश्चायमर्थ इति ते मतिः । यतो नासो प्रत्यक्षेण परिगृह्यते अतीन्द्रियत्वात् । नाप्यनुम.नेन यतस्तल्लिङ्गलिङ्ग पूर्वकञ्च । न चात्र लिङ्गिना सह सम्बन्धः प्रत्यक्षगम्यो लिङ्गनाऽतीन्द्रियत्वात् । नाप्यनुमानगम्योऽनवस्थाप्रसक्तेस्तदपि हि लिंगलिंगिसम्बन्धग्रहणपूर्वकं तत्रापि चेयमेव वार्ता, इत्यनवस्थानुषङ्गः । नाध्यागमगम्यः परस्परविरुद्धार्थतया तथागमानां प्रमाणत्वाभावात् । तथाहि केचिदेवमाहुः " एतावानेव लोकोऽयं यावदिन्द्रियगोचरः। भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुताः ॥१॥ इत्यादि अपरे प्राहुर्न रूपमीक्षवः पुद्गला इत्यादि पुद्गले रूपं निषेधयन्ति । अन्तर्भूत आत्मेत्यर्थः । अन्ये पुनरेवम् " अकर्ता निर्गुणो भोक्ता " इत्यादि । अपरे एवम् " स वै अयमात्मा ज्ञानमय” इत्यादि । न चैते सर्व एव प्रमाणम् । परस्परविरोधात् । व्यर्थाभिधायकपरस्परविरुद्धवाक्यपुरुषव्रातवत् आत्मानं विद्मः किमस्ति नास्तीत्ययं तवाभिप्रायः । तत्र वेदपदानां चार्थ न जानासि च शब्दामुक्तिद्वयं च । तथाहि वेदपदानां अयमर्थः विज्ञानघन एवेति ज्ञाने,पयोगदईनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात आत्मा विज्ञानघनः प्रतिप्रदेशमनन्तविज्ञानपर्यायः संपातात्मकत्वात् वा विज्ञानघन एवशब्दोऽवधारणे विज्ञानघनादनन्यघनत्वात् विज्ञानघन एव एतेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः समुत्थाय कथंचिदुत्पद्येति घटविज्ञानपरिणतो हि आत्मा घटाद्भवति तद्विज्ञानक्षयोपशमनस्य तत्राक्षेपत्वात् अन्यथा निरालम्बनतया तस्य मिथ्यात्वप्रसक्तेरेवं सर्वत्र भावनीयम् । तत उक्तं तेभ्यः समुत्थाय कथंचिदुत्पद्येति पुनस्तानेव भूतानि अनुविनश्यति ते विवक्षितेषु भूतेषु व्यवहितेषु वा आत्मापि तद्विज्ञानघनात्मना उपरमते अन्यविज्ञानात्मना उत्पद्यते यदि वा सामान्यचैतन्यरूपतयाऽवतिष्टत इति न प्रेत्य संज्ञास्ति न प्राकृतिकघटादिविज्ञानसंज्ञाऽवतिष्ठते । सांप्रतविज्ञानोपयोग न नितत्वात् अथवा एवं व्याख्या विज्ञ नघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यतीत्येतन्न यतः प्रेत्य संज्ञास्ति परलोकसंज्ञास्ति यदप्युक्तं नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनमात्मनः प्रत्यक्षसिद्धात्तगुणस्य ज्ञानस्य स्वसंवेदनप्रमाणसिदत्वात्तथाहि स्वसं विदिता एवावग्रहहापायादय उदयन्ते लीयन्ते व ततम्लगस्त स्वसं निकला सम.त्मनः प्रत्यक्षत्वम् । रथ कट गुनगुण तो लगा बदायु - भूतभ्यरसा त्यायेत्य " तः :नस्य स्वसबिादतल्वे ते आत्मनः प्रत्यक्षत्वं ज्ञानस्यात्मत्राणत्वाभावात् तदयुक्तम् भूत Page #251 -------------------------------------------------------------------------- ________________ १८१ . स्याद्वादमञ्जरीसहिता श्लोक. २३ गुणत्वे सति पृथिव्याः काठिन्यस्यैव सर्वत्र सर्वदा चोपलम्भप्रसंगात् । न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं लोष्ठादौ मृतावस्थायां चानुपलम्भात् । अथ तत्रापि चैतन्यमस्ति । केवलं शक्तिरूपेण ततो नोपलभ्यते तदसम्यग्विकल्पद्वयानतिक्रमात् । साहि शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति न हि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति, वक्तुं शक्यं तथा चाहान्योऽपि " रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः। चैतन्यादन्यरूपस्य भावे तद्विद्यते कथम् ॥ १ ॥” अथ द्वितीयः पक्षस्तर्हि चैतन्यमेव तत्कथमनुपलम्भ आवृतत्वादनुपलम्भ इति चेत्तत्वावृत्तिरावरणं तच्च वरणं किं, भूतानां विवक्षितपरिणामानामुत परिणामान्तरमाहोस्विदन्यदेव भूतातिरिक्तं किंचित् । तत्र न तावद्विवक्षितपरिणामाभावः एकान्ततुच्छरूपतया तस्यावारकत्वायोगात् अन्यथा तस्याप्यतुच्छरूपतया भावरूपतापत्तिभ वत्वे पृथिव्यादीनामन्यतमो भावो भवेत् " पृथिव्यादीन्येव भूतानि तत्त्वमिति वचन त्" पृथिव्यादीनि च भूतानि चैतन्यस्य व्यंजकानि नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत् अथ परिणामान्तरं तदयुक्तं परिणामान्तरस्यापि भूतस्वभावतया भूतवद्व्यंजकत्वस्योपपत्ते वारकत्वस्य,अथान्यदेव भूतातिरिक्तं किंचित् तपतीवासमीचीनम्। भूतातिरिक्ताभ्युपगमे चत्व येव पृथिव्यानि भूतानि तत्त्वमिति तत्त्वसंख्याव्याघलप्रसंगात्। अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा न तावत्प्रत्येकमनुपलम्भात् । न हि प्रतिपरमाणुसंवदनमुपलभ्यते । अपि. च यदि प्रलिपरमाणुसंवेदनं भवेत्तर्हि. पुरुषसहस्रचैतन्यवृन्दमिव परस्परं भिन्नस्वभावमिति नैकरूपं भवेत् । अथ चैकरूपमुपलभ्यते अहं पश्याम्यहं करोमीत्येवं सकलशरीराधिष्टित नेकस्वरूपतया नुभवात् अथ समुदायस्य धमस्तदप्यसत्प्रत्येकमसत्समुदायेऽपि न भवति यथा रेणुषु तैलं स्यादेतन्मयाङ्गेषु प्रत्येक मदशक्तिरदृष्टांषि समुदायऽपि भवन्ती दृश्यते । तचैतन्यमपि भविष्यति को दोषः तदसम्यक् प्रत्येकमपि मद्याङ्ग मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात तथाहि दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पे च मनाक् विकलितोत्पादि, न चैवं चैतन्यं सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते ततः कथं समुदाये तद्भवितुमर्हति मा प्रापत्सर्वस्य सर्वत्राभावप्रसतातिप्रसंगात् । किं च यदि चैतन्यं भूतधर्मत्वेन प्रतिपन्नं ततोऽवश्यमस्यानुरूपो धर्म: प्रतिपत्तव्यः आनुरूप्याभावे जलकाठिन्ययोरिव परस्परधर्मधर्मिभावोऽनुपात्तः न च भूतानामनुरूपो धर्मी वैलक्षण्यात्तथाहि चैतन्यं बोधस्वरूपममूर्तं च भूतानि तद्विलक्षणानि ततः कथमेषां परस्परं धर्मधर्मिभावः । नापि चैतन्यमिदं भूतानां कायमत्यंतविलक्षणतया कारणभावस्याप्ययोगत् तथा चोक्तम् 'काठिन्याबोधरूपाणि भूतान्यध्यक्ष सद्धितः । चलनाभगतद्रूपा सा कथं तत्फल भवेत् ॥१॥" अपि च याद भूताक ये चैतन्यं तर्हि किं न सकलमपि जगत्प्राणमयंः भवति परिणतिविशेषसद्भावाभावात् इति चेन्ननु सोऽपि परिणाविशषसद्भावः सर्वत्रापि कस्मान्न भवति Page #252 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका १८२ सोऽपि हि भूतमात्रनिमित्तक एव ततः कथं तस्यापि वचित्कदाचिद्भावः। अन्यच्च स किंरूपः परिणतिविशेष इति वाच्यं कठिनत्वादिरूप इति चेत्तथाहि काष्ठदिषु दृश्यन्ते घूणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेषमिति तदप्यसत् व्यभिचारदर्शनात्तथाह्य विशिष्टेऽपि कठिनत्वादिविघे कचिद्भवन्ति कचिच्च कठिनत्वादिविशेषमन्तरेणापि संवदजा नभसि च मूच्छिता जायन्ते - किं च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिगे दृश्यन्ते । तथाहि-गोमयाद्येकयोनिसंभाविनी ऽपि केचिन्नीलजन्तवोऽपरे पीतकायाः अन्ये विचित्रवाः संस्थानमन्यतेषां परम्परं विभिन्नं तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुनभवन्ति तस्मादात्मन एव तत्तत्कर्मवशात्तथा तथोत्पद्यन्ते इति । स्यादेतत् आगच्छन् गच्छन् वा आत्मा नोपलभ्यते केवलं देहे सति संवेदनमुपलभामहे देहाभावे च तस्यामेवावस्थायां न, तस्मान्नात्मा किन्तु संवेदनमात्रमेवैकं तच्च देहकार्य देहे एव च समाश्रितं कुड्यचित्रवत् नहि चित्रं कुड्यविरहितमवतिष्टते नापि कुड्यान्तरं संक्र.मति अगमनं वा कुड्यान्तरात् किंतु कुड्य एवोत्पन्नं कुड्य एव च विलीयते एवं संवेदनमपि तदप्यसत् आत्माहि स्वरूपेणामूर्त आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुपियन्तदुक्त.मन्यैरपि "अन्तरा नवदेहेऽपि सूक्ष्मत्वान्नोपलभ्यते। निष्क्रामन् प्रविशन्वात्मा नामावोनीक्षणादपि"तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन्वा नोपलभ्यते लिंगतरतूपल यते । तथाहि व मेरीप जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्ध उपधातमुपलभ्य पलायनदर्शनात् यश्च यद्विषयप्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकस्तथादर्शनात् । न खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायतें ततो जन्म दौ शरीराग्रहः शरीरपरिशीलनाभ्य सनितसंस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तर दागमनं तथा च केचित्यठन्ति " शरीरग्रहरूपस्य नभसः सम्भवो यदा । जन्मादौ देहिनो दृष्टः किं न जन्मान्तरागतिः ॥” अथ गतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवस यत नंष दोषः अनुमेय विषये प्रत्यक्षवृत्तेरभ्युपगमात् परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवृत्तिरियते ततः कथं स एव दोषः । आह च " अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता । अध्यक्षस्यानुमानस्य विषयो विषयो नहि ।। ' अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदायतुमुत्सहते न खलु यस्यानिविषया प्रत्यक्षवृत्तिमहानसेऽपि नासीत्तस्या यत्र क्षितिधरादौ धूमालूमध्वजानुमानं भवति तदप्यसम्यक् अत्रापि तज्जातीये प्रत्यक्षवृत्तिभावात् तथा ह्याग्रहोऽन्यत्र परिशीलनाभ्यास प्रवृत्तः प्रत्यक्षत एवोपलब्धस्ततस्तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते उक्तं च " आग्रहस्तावदभ्य सत् प्रवृत्तमुपलभ्यते। अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम् ॥” योऽपि च दृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो वैषम्यात् तथाहि चित्रमचेतनं गमनस्वभावरहित आत्मा च चेतनः कमवशागत्यागती च कुरुते ततः कथं दृष्टान्तदाष्टान्तिकयोः साम्यं ततो यथा कश्चिद्देवदत्ता Page #253 -------------------------------------------------------------------------- ________________ .. स्याद्वादमञ्जरीसहिता श्लोक २३ विविक्षते ग्रामे कतिपयदिनानि गृहारंभं कृत्वा ग्रामान्तरे गृहान्तरे गृहान्तरमास्थायावतिष्ठते तद्वदात्मापि विवक्षिते भवे देहं परिहाय भवान्तरे देहान्तरमारचय्यावतिष्ठते । यच्चोक्तं तच्च संवेदनं देहकार्यमिति चाक्षुषादिकं संवेदनं देहाश्रितमपि कथंचिद्भवतु चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसंभवात् यत्तु मानसं तत्कथं न हि तदेहकार्यमुपपत्तिमत् युक्त्ययोगात् । तथाहि तन्मानसं ज्ञानं देहादुत्पद्यमान मन्द्रियरूपाद्वा समुद्घातानीन्द्रियरूपाद्वा केशनखादिलक्षणात्तत्र न तावदाद्यः पक्ष इन्द्रियरूपादुत्पत्ताविन्द्रियबुद्धिवद्वर्तमानार्थग्रहणप्रसक्तेः इंद्रियं हि वार्तमानिक एवार्थे व्याप्रियते तत्सामर्थ्यादुषजायमानं मानसमपि ज्ञानं इन्द्रियज्ञानमिव वर्तमानाथग्रहणपर्यवसितसत्ताकमेव भवेत् । अथ यदा चक्षू रूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयतिन शेषकालं ततस्तदपि विज्ञानं वर्तमानार्थविषयं वर्तमाने एवार्थे चक्षुषो व्यापारात् । रूपविषयव्यापीयभावे च मनोज्ञानं ततो न तत्प्रतिनियतकालविषयं एवं शेषेष्वपीन्द्रियेषु याच्यम् । ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिस्तदसाधीया यत इन्द्रियाश्रितं तदुच्यते यदीन्द्रियव्यापारमनुसृत्यापजायते इन्द्रियाणां च व्यापारः प्रतिनियते एवं बार्तमानिके स्वस्वविषये मनोज्ञानमपि यदीन्द्रियव्यापाराश्रितं तत इन्द्रियज्ञानमिव वार्तमानिकार्थग्राहकमेव भवेदन्यथा इन्द्रियाश्रितमेव तत्र स्यात् । तथा च केचित्पठन्ति "अक्षव्यापारमाश्रित्य भवदक्षजमिष्यते। तयापारो न तत्रेति कथमक्षभवं भवेत् ॥” अथानीन्द्रियरूपादिति पक्षस्तदप्ययुक्तस्तस्याचेतनत्वात् नन्वचेतनत्वादिति कोऽर्थः यदीन्द्रियविज्ञानरहितत्वादिति तदिष्यते एव यदि नामन्द्रियविज्ञानं ततो न भवति मनों विज्ञानं.तु कस्मान्न भवति अथ मनोविज्ञानं नोत्पादयतीत्यचेतनत्वं तदा तदेव विचार्यमाणमिति प्रतिज्ञाथैकदेशासिद्धो हेतुः तदप्यसत् अचेनत्वादिति किमुक्तं भवति स्वनिमित्त विज्ञानैः स्फुरच्चिद्रूपतयानुपलब्धेः स्पर्शादयो हि स्वस्वनिमित्तं विज्ञानैः स्फुरच्चिद्रूषानुपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यत इति । युक्तं केशनखादयस्तु न मनोज्ञानेन तथा स्फुरच्चिद्रूषा उपलभ्यन्ते कथं तेभ्यो मनोज्ञानं भवतीति प्रतिध्यायन्तु सुधियः आह च " चेतयन्तो न दृश्यन्ते केशश्मश्रुनखादयः । ततस्तेभ्यो मनोज्ञानं भवतीत्यतिसाहसम् " अपि च यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततस्तदुच्छेदे मूलत एव न स्यात् तदुपघाते चोपहतं भवेन्न च भवति तस्मान्नायं पक्षः क्षोदक्षमः । किं च मनोज्ञानस्य सूक्ष्मार्थनेतृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यां व्यत्यासपूर्वका दृष्टाः । तथाहि तदेव शास्त्रमाहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थावबोधे उल्लसति स्मृतिपाटवं चापूर्वमुज्जम्भते एवं चैकशास्त्रेऽभ्यासतः सूक्ष्मार्थनेतृत्वशक्तौ पाटवशक्तौ चोपजातायामन्येष्वपि शास्त्रान्तरेषु अनायासेनैव सूक्ष्मार्थावबोधः स्मृतिमाटवं चोसल्लति तदेवमभ्य सहेतुकाः सूक्ष्मार्थने त्वादयो मनोज्ञानस्य विशेषदृष्टाः । अथ च कस्यचिदिह जन्माभ्यासव्यतिरेकेणापि दृश्यन्ते ततोऽवश्यं पारलौकिकाभ्यासहेतुका इति प्रतिपत्तन्यं Page #254 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका कारणेन सह कार्यस्यान्यथानुपपन्नत्वप्रतिबन्धेन दृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चितः। ततः सिद्धः परलोकयायी जीवः । सिद्धे च तस्मिन् परलोकयायिनि यदि कथंचिदुपकारी चाक्षुष देविज्ञानस्य देहो भवेत् न कश्चिद्दोषः क्षयोपशमहेतुतया देहस्यापि कथंचिदुपकारित्वाभ्युपगमात् न चैतावता तनिवृत्ती सर्वथा तन्निवृत्तिः नहि वह्निर सादितविशेषो घटो वह्निनिवृत्तौ समूलच्छेदं निवर्तते केवलं विशेष एव कश्चनापि यथा सुवर्णस्य द्रक्ता एवमिहापि देहनिवृत्तौ ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्तते न पुनः समूलं ज्ञानमपि यदि पुनर्देहमात्रनिमित्तकमेव विज्ञानमिष्यते देह निवृत्तौ च निवृत्तिमर्हि देहस्य तस्य भस्मावस्थायां मा भूद्देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मान्न भवति प्राणापानयोरपि हेतुत्वात्तदभावेन भवतीति चेन्न प्राणापानयोञ्जनहेतुत्वायोगात् जानादेव च तयोरपि प्रवृतिस्तथाहि यदि मंदौ प्राणापानौ विसृष्टमिष्यते ततो मन्दौ भवतः दीर्घा चेत्तर्हि दीर्घाविति यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राणापान निमित्तं च विज्ञानं - तर्हि नेत्थमिच्छावशात् प्राणापानप्रवर्तमानादृष्टप्राणापाननिमित्तं च याद विज्ञानं ततः प्राणापाननिहाँसातिशयसभविज्ञानस्यापि निहसतिशयौ. स्यात.म् अवश्यं हि कारणे परिहीयमाने अभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान् अन्यथा कारणमेव तत्र स्यात् भवतः प्राणाभवतः प्राणापाननिहासातिशयसंभवे विज्ञानस्यापि विनिहस विश्.यौ विपर्ययस्यापि भावात् मरणावस्थायां प्राणापानातिशयसंभवेऽपि विज्ञानस्य ह सदर्शनात् । स्यादेतत्तत्तदानी वातपित्तादिभिर्दोषैदेहस्य विगुणीकृतत्वात् तदसमीचीनतरमेवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तेः । तथाहि मृतस्य दोषाः समीभवन्ति समीभवनं च दोषाणामसीयते ज्वरादिविकारादर्शनात् समत्वं चारोग्यं तथा चाहुवृद्धाः “ तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यय" इति। आरोग्यलाभत्वाद्देहस्य पुनरुज्जीवनं भवेत् अन्यथा चेह कारणमेव चेतसो न स्यात् तद्विकाराभावाभावान्नतु विधानादेवं हि देहकारणता विकारस्याश्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत स्यादेतदयुक्तमिदं पुनरुज्जीवनप्रसंगोपादानं यतो यद्यपि दोषा देहस्यावैगुण्यमाधाय निवृत्तास्तथापि न तत्कृतस्य वैगुण्यस्य निवृत्तिः न हि दहनकृतो विकारः काष्ठे दहननिर्वृत्तो निवर्तमानो दृष्टः तदयुक्तमिह हि क्वचि. त्किंचिदनिवर्त्य विकारारम्भकम् । यथा वह्निः काष्ठे श्यामतामात्रमपि वह्निना कृतं काठे वह्निनिवृत्तौ निवर्तते किंचित्पुनः क्वचिन्निवर्त्य विकारारम्भकं यथा स एवानिः सुवर्ण तथाहि अग्निना क्रमात्सुवर्ण भवति अमिनिवृत्तौ निवर्तते तत्र वातादयो दोषा निवर्त्य विकारारम्भकाश्चिकित्साप्रयोगदर्शन त् । यदि पुनरनिवर्त्य विकारारम्भका भवेयुस्तर्हि न तद्विकारनिवर्तनाय चिकित्सा विधीयेत वैफल्यप्रसंगात् । न च वाच्यं मरणात् प्राग्दोषा अनिवर्त्यविकारारम्भका मरणकाले च निवर्त्य विकारा इति Page #255 -------------------------------------------------------------------------- ________________ १८५ स्याद्वादमञ्जरीसहिता श्लोक २३ एकस्य एकत्रैव निवर्त्यनिवर्त्य विकारारम्भकत्वायोगात् नह्येकमेव तत्रैव निवर्त्य - कारारम्भकम् चानुभवितुमर्हति तथा दर्शनात् । ननु द्विविधोऽपि व्याधिः साध्योऽसाध्यश्च तत्र साध्यो निवर्त्यस्वभावस्तमेव चाधिकृत्य चिकित्सा फलवती असाध्योऽनिवर्तनीयः न च साध्यासाध्यभेदो न वा व्याधितैविध्यमप्रतीतं सकललोकप्रसिद्धत्वात् व्याधिश्च दोषेण कृतस्ततः कथं दोषाणां निवर्त्यानिवर्त्याविकारारम्भकत्वमनुपपन्नमिति तदप्यसत् भवन्मते साध्यासाध्यव्याध्यनुपपत्तेस्तथाह्यसाध्यता व्याधेः क्वचिदायुः क्षयाच्च तथाहि तस्मिन्नेव व्याधौ समानेऽप्योपधवैद्यकसंपर्के कश्चिम्रियते कश्चिन्न क्वचित्पुनः प्रतिकूलकर्मोंदयात् प्रतिकूलकर्मोदयजनितो हि श्वित्रादिव्याधिरौषधसहसैरपि कश्चिदसाध्यो भवति एतच्च द्विविधमपि व्याधेरसाध्यत्वमर्हतमेव मते संगच्छते न भवतो भूतमात्रतत्त्ववा दिनः क्वचित्पुनरसाध्यो व्याधिर्दोषकृतविकार निवर्तनसमर्थो निषधस्याभावात् वैद्यस्य वा वैद्यैौषधसंरकीभावे हि व्याधिः प्रसर्पन् सकलमप्यायुरुपक्रमते । नतु वैद्यौषधसंपर्काभावादेवास्माकमपि पुनरुज्जीवनं भविष्यति नहि तदस्ति किंचिदौषधं वैद्यो वा यत्पुनरुज्जीवयति तदप्ययुक्तं वैद्यौषधौ हि दोषविकारनिवर्तनार्थ मिष्येते न पुनरत्यन्तास तश्चैतन्यस्योत्पादनार्थ तथाभ्युपगमात् दोषकृताश्च विकारा मृतावस्थायां स्वयमेव निवृत्ता ज्वरादेरदर्शनात्ततः किं वैद्यौषध न्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसंगः। अपि कश्चिद्दोषाणामुपशमेऽप्येकस्मान्म्रियते कश्चिच्चातिदोषदुष्टत्वेऽपि जीवति तदेतद्भवन्मते कथमुपपत्तिमर्हति तथा च केचिद् ब्रुवते " दोषस्योपशमेऽप्यस्ति मरणं कस्यचित्पुनः । जीवनं दोषदुष्टत्वेऽप्येतन स्याद्भवन्मते ||" अहंतां तु शासने याव दायुः कर्म विजृम्भते तावद्दोषैरतिपीडितोऽपि जीवति आयुः कर्मक्षयेच दोषाणामधिकृतावपि म्रियते तन्न देहमात्रकारणं संवेदनम् । अन्यच्च देहः कारणं संवेदनस्य सहकारिभूतं वा भवेदुपादानभूतं वा यदि सहकारिभूतं तदिष्यत एव देहस्यापि क्षयोपशमहेतुतया कथचिद्रिज्ञानहेतुत्वाभ्युपगमात अथोपादानभूत तदयुक्तमुपादानं हि तत्तस्य यद्विकारणैव तस्य विकारो यथा मृदूघटस्य न च देहविकारेणैव विकारः संवेदनस्य देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शन. त् तत्र देहोप दानं संवेदनस्य तथा च पठत्युपादानलक्षणमपरे अधिकृत्य हि यद्वस्तुना यः पदार्थों विकार्यते उपादानं तत्तस्य युक्तं गेोगवयादिवत् एतेन यदुच्यते मातापितृचैतन्यमेतच्चेतनस्योपादानमिति तदपि प्रतिक्षितं तत्रापि तद्विकारे विकारित्वं तदविकारे वाविकारित्वमिति नियमादर्शनात् । अन्यच्च यद्यस्यापादानं तत्तस्माद् भेदेन व्यवस्थितं यदा मृदो घटः मातापितृचैतन्य सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितृ चैतन्य, दभेदेन व्यवतिष्ठते न व्यवतिष्ठेत तस्माद्यत्किंचिदेतत् तत्र भूतधर्मी भूतकार्य वा चैतन्यं किंचात्मनो गुण इति तद्गुणस्य प्रत्यक्षसिद्ध आत्मा अनुमानसिद्धश्च तच्चानुमानमिदं रूपादीन्द्रियाणि विद्यमानप्रयोजकानि कर्मकरणत्वे सति ग्राह्यग्राहकरूपत्वात् यः कर्मकरणे सति ग्राह्यग्राहकरूपस्सद्विद्यमानप्रयोजको यथा संदेशोयःपिण्डे कर्मकरणरूपाणि च सन्ति ग्राह्यग्राहकरूपाणि रूपादीन्द्र २४ Page #256 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका १८६ याणि ततो विद्यमानप्रयोजकानीति न चन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रति तेषां कर्तृत्वमेवोपगम्येत न करणत्वमचेतनत्वेन स्वत उपलम्भकत्वायोजनात् तथा चात्र प्रयोगः यदचेतनं तन्नोपलब्धं यथा घटोऽचेतनानि च द्रव्येन्द्रियाणि न चायमसिद्धो हेतुः यतः खलु द्रव्येन्द्रियाणि निर्वृत्युपकरणरूपाणि निवृत्युपकरणे च पुद्गलमयं च सर्वम वेतनं पुद्गलानां काठिन्य वबोधरूपतया चैतन्यं प्रति धर्मित्वायोगात् धर्मानुरूपो हि सर्वत्रापि धर्मी यथा काठिन्यं प्रति पृथिवी यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मभावो भवेत् ततः काठिन्यजलयोरपि सम्भवेत्तन्न भवति तस्माद चेतनाः पुद्गलाः तथा चोक्तं " वाहसनावममुत्तं विसयपरिच्छेयगं च चेयन्नं । विवरीयसहावाणि य वूयाण जगप्प सिद्धाणि ॥ १ ॥ ता धम्मधम्मिभावो कहमेएसिं अणुब्भवग,मेय । अणुरूपत्ताभावे काठिन्नं जलाण किं न भवे ॥२॥” ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणां करणभाव एव न कर्तृभाव इति स्थितम् । अथ चेदनुमानं सभोक्तकमिदं शरीरं भोग्यत्वात् स्थालस्थितोदनवत् भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात् द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धसिद्धदृष्टांते प्रत्यक्षप्रमाणसिद्धेति नोतलिंगालेगिसंबंध ग्रहरूपदोषावकाशः । आगमगम्योऽप्येष जीवः तथा चागमः " अणि दियगुणं जीवं दुनेयं मंसचक्खुणा । सिद्ध पस्संति सव्वन्नू , नाणसिद्धा य साहुणो ॥ १॥” अत्र ज्ञान से द्वाः सांधवो भवस्थकेवलिनः शेषं सुगमम् । न चागम नां परस्परविरुद्धार्थतया सर्वेषामप्यप्रामाण्यमभ्युपेयं सर्वज्ञमलस्यावश्यं प्रमाणत्वेनाभ्युपगमाहत्वादथाप्यसम्यक् प्रमाणाप्रमाणविभागापरिणतेः प्रेक्षावतां क्षितिप्रसंगात् । अथ कथमेतत्प्रत्येयं यथायमागमः सर्वज्ञमूल इत्युच्यते--यदुक्तोऽर्थः प्रत्यक्षेणानुमानेन वा न बाध्यते नापि पूर्वापरव्याहतः सोऽवस यसर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वासंभवात् । ततस्तस्माद्यत्सिद्धं तत्सर्व सुसिद्धं उक्तं च "दिहणं इतॄणय जम्मि विरोहो न हुज्जइ कहिं वि। सो आगमतत्तो जं नणं तं सम्मनाणं ति||१॥" ततः प्रत्यक्षानुमानागमप्रमाणसिद्धत्वाद्वेदपदप्रतिष्ठितत्वाच्च साम्य ! अस्ति जीव इति प्रतिपत्तव्यम् । आवश्यकमलयागिरि द्वितीयखंडे । ( इह वेदपदोपन्यासस्तेन वेद,नां प्रमाणत्वेनाङ्गीकृतत्वात् )। आहच--- ___“छिन्नमि समयंमि जाइजरामरणं विप्पमुक्केणं ।। सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥" उक्तप्रमाणेन जिनेन भगवता वर्द्धम नस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तः तेन छिन्ने निराकृते संशये स इन्द्रभूतिः पंचभिः खण्डिकशतैः छात्रशतैः सह श्रमणः प्रव्रजितः सन् साधुः संत इत्यर्थः ।। आवश्यकमलयगिरि दितीयखंडे ।। एवमन्येऽपि पराजिताः प्रव्रा जितश्च । एतच्च विस्तरेण विशेषावश्यकभाष्ये गणधरवक्तव्यतायामावश्यकचूर्णौ कल्पसूत्रषष्ठक्षणे श्रीहभिद्रसूरिणा धर्मसंग्रहण्यां षट्त्रंशद्गापामारभ्य त्रयोविंशत्याधिक गाथाशतके इत्यादि निरूपितं तत्तत एवावमेयम् । Page #257 -------------------------------------------------------------------------- ________________ १८७ . ___ स्याद्वादमञ्जरीसहिता श्लोक २३ " में मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला" ॥१॥ इति श्लोकं पठन्ति । अस्य च यथाश्रुतार्थव्याख्यानेऽसम्बद्धप्रलाप एव, यस्मिन् हि अनुष्ठीयमाने दोषो नास्त्येव । तस्मानिवृत्तिः कथमिव महाफला भविष्यति, इज्या-ध्ययन-दानादेरापि निवृत्तिप्रसङ्गात् । तस्माद् अन्यद् ऐदंपर्यमस्य श्लोकस्य, तथा हि-न मांसभक्षणे कृतेऽदोषः, अपि तु. दोष एव, एवं मद्यमैथुनयोरपि । कथं नादोषः ? इत्याह-यतः प्रवृत्तिरेषा भूतानाम्-प्रवर्तन्त उत्पद्यन्तेऽस्यामिति प्रत्तिरुत्पत्तिस्थानम्, भूतानां जीवानाम्, तत्तज्जीवसंसक्तिहेतुरित्यर्थः । प्रसिद्धं च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमागमे" आमासु य पक्कासु य विपच्चमाणासु मांसपेसीसु। आयंतियमुववाओ भणियो दुणिगोयजीवाणं ॥१॥ मज्जे महुमि मंसंमि णवणीयलि चउत्थए। उप्पज्जति अणंता तवण्णा तत्थ जंतूणो॥२॥ मेहुणसण्णारूढो णवलक्ख हणेइ सुहुमजीवाणं। केवलिणा पण्णत्ता सद्दहियव्वा सयाकालं ॥३॥" तथाहि १ मनुस्मृतिः.५।५६. २ ऐदंपर्य-तात्पर्यम् . ३ रत्नशेखरसूरिकृतसम्बोधसप्ततिका गाथा ६६।६५।६३. ४ " आमासु च पक्कासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपादो भणितस्तु निगोदजीवानाम् ॥ १ ॥ मद्ये मधुनि मांसे नवनीते चतुर्थके। उत्पद्यन्तेऽनन्ताः तद्वर्णास्तत्र जंतवः ॥ २ ॥ मैथुनसंज्ञारूढो नवलक्षं हन्ति सूक्ष्मजीवानाम् । केवलिना प्रज्ञापिताः श्रद्धातव्याः सदाकालम् ॥ ३ ॥इति छाया. Page #258 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका १८८ " इत्थीजोणीए संभवंति बेइंदिया उ जे जीवा । इको व दो व तिण्णि व सक्खषुहु उ उ.स्सं ॥४॥ पुरिसेण सह गयाए तेसिं जीवाण होइ उद्दवणं । वेणुगदिद्रुतेणं तत्तायसिलागणाएणं ॥५॥" संसक्तायां योनौ द्वीन्द्रिया एते शुक्रशोणितसंभवास्तु गर्भजपञ्चन्द्रिया इमे "पंचिदिया मणुस्सा एगणरभुत्तणारिगब्भमि । उकस्सं णवलक्खा जायंति एगवेलाए ॥६॥ णवलक्खाणं मज्झे जायइ एक्क दुण्हेय सम्मत्ती। सेसा पुण एमेव य विलयं वच्चंति तत्थेव ॥७॥ तदेवं जीवोपमर्दहेतुत्वाद् न मांसभक्षणादिकमदुष्टमिति प्रयोगः । अथवा भूतानां पिशाचप्रायाणामेषा प्रवृत्तिः–त एवात्र मांसभक्षणादौ प्रवर्तन्ते, न पुनर्विवेकिन इति भावः । तदेवं मांसभक्षणादेर्दुष्टतां स्पष्टीकृत्य यदुपदेष्टव्यं तदाह-"निवृत्तिस्तु महाफला"-तुरेवकारार्थः, "तुः स्याद् भेदेऽवधारणे” इति वचनात् । ततश्चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिरेव महाफला स्वर्गापवर्गफलप्रदा। न पुनः प्रातिप्पी यर्थः । अत एव स्थानान्तरे पठितम्" वर्षे वर्षेऽश्वमेधेन यो यजेत् शतं समाः। मांसानि च न खादेद् यस्तयोस्तुल्यं भवेत् फलम् ॥ १॥ एकरात्रोषितस्यापि या गतिब्रह्मचारिणः । न सा क्रतुसहस्रेण प्राप्तुं शक्या युधिष्ठिर !" ॥२॥ १ स्त्रीयोनौ सम्भवन्ति द्वीन्द्रियादिस्तु ये जीवाः । एको वा द्वौ वा त्रयो वा लक्षपृथुत्वं चोत्कृष्टम् ॥ ४ ॥ पुरुषेण सह गतायां तेषां जीवानां भवति उद्भवणम् । वेणुकदृष्टान्तेन तप्तायसशलाकाज्ञातेन ।। ५ ॥ पंचेन्द्रिया मनुष्या एकनरभुक्तनारगिभे । उत्कृष्टं नवलक्षा जायन्ते एकवेलायाम् ।। ६ ।। नवलक्षाणां मध्ये जायते एकस्य द्वयोर्वा समातिः । शेषःः पुनरेवमेव च विल्यं व्रजन्त तत्रैव ॥ ७ ॥ इति घ.या । .२ अमाकाशे तृतीयक ण्डे २३९ श्लोकः । ३ मनुस्मृतिः ५।५३. Page #259 -------------------------------------------------------------------------- ________________ १८९ . स्याद्वादमञ्जरीसहिता श्लोक २३ मद्यपाने तु कृतं सूत्रानुवादैः, तस्य सर्वविगर्हितत्वात्।तानेवं प्रकारानर्थान् कथमिव बुधाभासास्तीथिका वेदितुमर्हन्तीति कृतं प्रसङ्गेन । अथ केऽमी सप्तभङ्गाः, कश्चायमादेशभेद इति । उच्यते-एकत्र जीवादी वस्तुनि, एकैकसत्त्वादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षादिबाधापरिहारेण, पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैवचनविन्यासः सप्तभङ्गीति गीयते । तद्यथा- १ स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । २ स्यान्नारत्येव सर्वमिति निषेधकल्पनया द्वितीयः । ३स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । ४ स्यादवक्तव्यमेवेति युगपद्विधि-निषेधकल्पनया चतुर्थः। ५ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधि-निषेधकल्पनया च पञ्चमः। तस्यानास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधि-निषेधकल्पनया च षष्ठः। ७ स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधि-निषेधकल्पनया, युगपद्विधि-निषेधकल्पनया च सप्तमः । तत्र-स्यात्कथंचित् स्वद्रव्यक्षेत्रकालभावरूपेणारत्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण, तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनास्ति । नाप्यादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन । न कान्यकुब्जादित्वेन । कालतः शैशिरत्वेन । न वासन्तिकादित्वेन । भावतः श्यामत्वेन । न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् , इतरथानभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत । प्रतिनियतस्वार्थानभिधानात् । तदुक्तम्१ ' अतिप्रसङ्गेन' इति क. ह. पुस्तकयोः पाठः । २ पाटलिपुत्रं नाम नगर 'प्टणा' ख्यातम् । ३ कान्यकुब्जो देशः 'कनौन' इति ख्यातः । औत्तराहेषु प्रसिद्धः । Page #260 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका "वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात् तस्य कुत्रचित्" ॥१॥ __तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भा. द्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राः प्रतिनियतस्वरूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये स्याद् इति शब्दः प्रयुज्यते--स्यात् कथंचिद् स्वद्रव्यादिभिरेवायमास्ति । न परद्रव्यादिभिरपीत्यर्थः। यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदपलैवकारवद बुद्धिमाद्भः प्रतीयत एव । यदुक्तम्___ "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते। ____ यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः" ॥१॥ इति प्रथमो भङ्गः। स्यात्कथंचिद् नास्त्येव कुम्भादिः, स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियतस्वरूपाभावाद् वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमिति वक्तव्यम् । कथंचित् तस्य वस्तुनि युक्तिसिद्धत्वात् , साधनवत् । न हि क्वचिद् अनित्यत्वादी साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम् , तस्य साधनत्वाभावप्रसङ्गात् । तस्माद् वस्तुनोऽस्तित्वं नास्तित्वेनाविनाभूतम् , नास्तित्वं च । तेनेति । विवक्षावशाच्चानयोःप्रधानोपसर्जनभावः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्-"अर्पितानर्पितसिद्धेः" इति वाचकवचनात् । इति द्वितीयः । तृतीयः स्पष्ट एव । . द्वाभ्यामस्तित्व नास्तित्वधर्माभ्यां युगपत्प्रधानतयार्पिताभ्याम् एकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासम्भवाद् अवक्तव्यं १ तत्त्वार्थश्लोकवार्तिक १ अध्याय सू, ६ श्लो. ५३ । २ तत्त्वार्थश्लोकवार्तिक १ अध्याय सं. ६ श्लो. ५६ । Page #261 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक २३ जीवादिवस्तु, तथाहि-सदसत्त्वगुणद्वयं युगपद् एकत्र सदित्यनेन वक्तुमशक्यम् । तस्यासत्त्वप्रतिपादनासमर्थत्वात्, तथासदित्यनेनापि तस्य सत्त्वप्रत्यायनसामर्थ्याभावात् । न च पुष्पदन्तादिवत् साङ्केतिकमेकं पदं तद् वक्तुं समर्थम्, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामोपपत्तेः, शतृशानयोः संकेतितसैच्छन्दवत् । अत एव द्वन्द्व-कर्मधारयवृत्त्योर्वाक्यस्य च न तद्वाचकत्वम्, इति सकलवाचकरहितत्वाद् अवक्तव्यं वस्तु युगपत्सत्त्वा-सत्त्वाभ्यां प्रधानभावाप्तिाभ्यामानान्तं व्यवतिष्ठते । न च सर्वथा वक्तव्यम् अवक्तव्यशब्देनाप्यनभिधेयत्वप्रसङ्गात् इति चतुर्थः । शेषास्त्रयः सुगमाभिप्रायाः। न च वाच्यमेकत्र वस्तुनि विधीयमान-निषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गाद् असङ्गतैव सप्तभङ्गीति विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि अनन्तानामपि सप्तभ गीनामेव संभवात् । यथा हि सदसत्त्वाभ्याम्, एवं सामान्यविशेषाभ्यामपि सप्तभङ्येव स्यात् । तथाहि स्यात्सामान्यम्, स्याद् विशेषः, स्यादुभयम्, स्यादवक्तव्यम्, स्यात्सामान्यावक्तव्यम्, स्याद् विशेषावक्तव्यम्; स्यात्सामान्यविशेषावक्तव्यमिति । न चात्र विधि-निषेधप्रकारौ न स्त इति वाच्यम् । सामान्यस्य विधिरूपत्वाद्, विशेषस्य च व्यावृत्तिरूपतया निषेधात्मकत्वात् । अथवा प्रतिपक्षशब्दत्वाद् यदा सामान्यस्य प्राधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता। यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्य च निषेध. १ 'प्रत्यायमे' इति क. पुस्तके पाठः । २ पुष्पदन्ताख्यो गंधर्वविशेषः । तेन शिवमहिमस्तोत्रं व्यरचि । तत्र गन्धर्वविशेषे पुष्पदन्तशब्द एकपदात्मको रुढस्तत्संज्ञासंकेतेन । न तु तत्र पुष्याणीव दन्ता अस्येति विग्रहयुक्तसमासघटितपदद्वयेनार्थो बोध्यते । तद्वदत्र । ३ 'तौ सत्' इति पाणिनिसूत्र ३।२।१२७. ४ वृत्तिः-समासः । Page #262 -------------------------------------------------------------------------- ________________ श्लोक २३ अन्ययोगव्यवच्छेदिका रूपता । एवं सर्वत्र योज्यम् । अतः सुष्टुक्तं अनन्ता अपि सप्तभङ्गय एव संभवेयुरिति-प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् । तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात । तस्या अपि सप्तविधत्वं सप्तथैव तत्संदेहसमुत्तादात् । तस्यापि सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र-सकलादेशः प्रमाणवाक्यम् , तल्लक्षणं चेदम्-प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदत्तिप्राधान्याद् अभेदोपचाराद् वा । योगपद्येन प्रतिपादकं वचः सकलादेशः । अस्यार्थः-कालादिभिरशाभः कृत्वा यदभेदवृत्तेधर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद् वा समकालमभिधायकं वाक्यं सकलादेशः, तद्विपरीतस्तु विकलादेशो नयवाक्यमित्यर्थः । अयमाशयः-योगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदप्राधान्यवृत्याभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्यादा तदभिधत्ते तस्य नयात्मकत्वात् । . ___ कः पुनः क्रमः, किं च यौगपद्यम्-यदास्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः, यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्यानेकाशेपंधर्मरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् । __ के पुनः कालादयः-कालः, आत्मरूपम् , अर्थः, संबन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दः, । तत्र-- (१) स्याद् जीवादि१ 'भवेयुः' इति क. ख. घ. रा. ह. पुस्तकेषु पाठः । २ 'प्राधान्य' इति ख, घ. पुस्तकयो स्ति । Page #263 -------------------------------------------------------------------------- ________________ १९१ स्याद्वदमञ्जरीसहिंता श्लोक २३ वस्तु अस्त्येव इत्यत्र. यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकत्रति तेषां कालेनाभेदवृत्तिः । (२) यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेव अन्यानन्तगुणानामपीति आत्मरूपेणाभेदवृत्तिः। (३) य एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः । (४) य एव चाविष्वग्भावः कथंचित् तादात्म्यलक्षणः सम्बन्धोऽस्तित्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाभेदवृत्तिः (५) य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एव शेषैरपि गुणैरित्युपकारेणाभेदवृत्तिः । (६) य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्यगुणानामिति गाणिदेशेनाभेदवृत्तिः । (७) य एव चैकवस्त्वात्मनास्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसर्गेणाभेदवृत्तिः, अविष्वग्भावेऽभेदःप्रधानम्, भेदो गौणः, संसर्गे तु भेदः प्रधानम् , अभेदो गौण इति विशेषः । (८) य एव चास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः पर्यायाथिकनयगुणभावे द्रव्यार्थिकनयप्राधान्याद् उपपद्यते । द्रव्यार्थिक गुणभावे पर्यायार्थिकपाधान्ये तु न गुणानामभेदवृत्तिः सम्भवति । समकालमेकत्र नानागुणानामसम्भवात् । सम्भवे वा तदाश्रयस्य तावद्वा भेदप्रसङ्गात् । नानागुणानां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात् , आत्मरूपाभेदे तेषां भेदस्य विरोधात् । स्वाश्रयस्यास्यापि नानात्वाद् , अन्यथा नानागुणाश्रयत्वस्य विरोधात् । सम्बन्धस्य च सम्बन्धिभेदेन भेददर्शनाद नानासम्बन्धिभिरेकत्रसम्बन्धाघटनात्। तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात् अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् । गुणिदेशस्य प्रतिगुणं १ 'भावेन ' इति क. ह. पुस्तकयोः पाठः। २ 'एकस्य' इति क. ख. घ. रा. ह. पुस्तकेषु नास्ति । २५ Page #264 -------------------------------------------------------------------------- ________________ श्लोक २४ अन्ययोगव्यवच्छेदिका भेदात् तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गि भेदात् तदभेदे संसर्गिभेदविरोधात् । शब्दस्य प्रतिविषयं नानात्वात् सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेः शब्दान्तरवैकल्यांपत्तेः । तत्त्वतोऽस्तित्वादीनामेकत्र वस्तुन्येवमभेदवृत्तेरसंभवे कालादिभिर्भिन्नात्मनामभेदोपचारः क्रियते । तदेताभ्यामभेदवृत्त्य-भेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स . सकलादेशः प्रमाणवाक्यापरपर्यायः । नयविषयीकृतस्य वस्तुधर्मस्य भेदकृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेण यदभिधायकं वाक्यं स विकलाटे शो नयवाक्यापरपर्याय इति स्थितम् । ततः साधूक्तम् आदेशभेदोदितसप्तभङ्गम् । इति काव्यार्थः ॥ २३ ॥ - __ अनन्तरं भगवदर्शितस्यानेकान्तात्मनो वस्तुनो बुधरूपवेद्यत्वमुक्तम् । अनेकान्तात्मकत्वं च सप्तभङ्गीप्ररूपणेन सुखोन्नेयं स्यादिति सापि निरूपिता, तस्यां च विरुद्धधर्माध्यासितं वस्तु पश्यन्त एकान्तवादिनोऽबुधरूपा विरोधमुद्भावयन्ति, तेषां प्रमाणमार्गात् च्यवनमाह उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ १ 'वैकल्मापतेश्च ' इति रा. पुस्तके पाठः । २ 'अभेदप्रधान ' इति क, पुस्तके पाठः । ३ ' अतः ' इति क. पुस्तके पाठः । Page #265 -------------------------------------------------------------------------- ________________ सह विरोधं ना न विरुद्धम् सदवा स्याद्वादमञ्जरीसहिता श्लोक २४ अर्थेषु पदार्थेषु चेतनाचेतनेषु, असत्त्वं नास्तित्वं न विरुद्धं न विरोधावरुद्धम्--अस्तित्वेन सह विरोधं नानुभवतीत्यर्थः । न केवलमसत्त्वं न विरुद्धम् किं तु सदवाच्यते च-सच्चावाच्ये च सदवाच्ये, तयोर्भावौ सदवाच्यते--अस्तित्वावक्तव्यत्वे इत्यर्थः । ते अपि न विरुद्ध । __ तथाहि-अस्तित्वं नास्तित्वेन सह न विरुध्यते, अवक्तव्यत्वमाप विधि-निषेधात्मकमन्योन्यं न विरुध्यते । अथवा अवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधमुदहति । अनेन च नास्तित्वास्तित्वावक्तव्यत्वलक्षणभङ्गत्रयेण सकलसप्तभङ्गन्या निर्विरोधता उपलक्षिता। अमीषामेव त्रयाणां मुख्यत्वाच्छेषभङ्गानां च संयोगजत्वेनामीष्वेवान्तर्भावादिति। नन्वेते धर्माः परस्परं विरुद्धाः, तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति, इति. विशेषणद्वारेण हेतुमाह-उपाधिभेदोपहितम् इति-उपाययोऽवच्छेदका अंशप्रकाराः, लेषां भेदो नानात्वम् , तेनोपहितमर्पितम्-असत्त्वस्य विशेषणमेतत् उपाधिभेदोपहितं सदर्थेष्वसत्त्वं न विरुद्धम् , सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम्उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्धे । . अयमभिप्रायः-परस्परपरिहारेण ये वर्तेते तयोः शीतोष्णवत् सहानवस्थानलक्षणो विरोधः । न चात्रैवम् । सत्त्वासत्त्वयोरितरेतरमविष्वग्भावेन वर्तनात् । न हि घटादौ सत्त्वमसत्त्वं परिहत्य वर्तते, पररूपेणापि सत्त्वप्रसङ्गात् । तथा च तद्व्यतिरिक्तार्थान्तराणां नैरर्थक्यम् , तेनैव त्रिभुवनार्थसाध्यार्थक्रियाणां सिद्धेः। न चासत्त्वं सत्त्वं परिहत्य वर्तते, स्वरूपेणाप्यसत्वप्राप्तः, तथा च निरुपाख्य१ 'विरुध्येते' इति क. पुस्तके पाठः । २ तथापि' इति क. पुस्तके पाठः। Page #266 -------------------------------------------------------------------------- ________________ श्लोक २४ अन्ययोगव्यवच्छेदिका तात्र सर्व शून्यतेति । तदा हि विरोधः स्याद् , यद्येकोपाधिकं सत्त्वमसत्त्वं च स्यात् । न चैवम् । यतो न हि येनैवांशेन सत्त्वं तेनैवासत्त्वमपि । किं त्वन्योपाधिकं सत्त्वम् , अन्योपाधिकं पुनरसत्त्वम् स्वरूपेण हि सत्त्वं पररूपेण चासत्त्वम् ।। दृष्टं ह्येकास्मन्नेव चित्रपटावयविनि अन्योपाधिकं तु नीलत्वम् , अन्योपाधिकाश्थेतरे वर्णाः-नीलत्वं हि नीलीरागाद्युपाधिकम् , वर्णान्तगाणि च तत्तद्रञ्जनद्रव्योपाधिकानि । एवं मेचकरनेऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यमवसेयम् । न चैभिदृष्टान्तैः सत्त्वासत्त्वयोभिन्नदेशत्वप्राप्तिः चित्रपटाद्यवयविन एकत्वात् , तत्रापि भिन्नदेशत्वासिद्धेः । कथंचित्पक्षस्तु दृष्टान्ते दार्शन्तिके च स्यावादिनां न दुर्लभः। ___ एवमप्यपरितोपश्चेद् आयुष्मतः, तकस्यैव पुंसस्तत्तदुपाधिभेटान पितृत्व-पुत्रत्व-मातुलत्व-भागिनेयत्व-पितृव्यत्व-भ्रातृव्यत्वादिधर्माणां परस्परविरुद्धानामपि प्रसिद्धिदर्शनात् किं वाच्यम् । एवमवक्तव्यत्वादयोऽपि वाच्या इति । उक्तप्रकारेण उपाधिभेदेन वास्तवं विरोधाभावमप्रबुध्यैवाज्ञात्वैव । एवकारोऽवधारणे । स च तेषां सम्यग्ज्ञानस्याभाव एव, न पुनर्लेशतोऽपि भाव इति व्यनक्ति । ततस्ते विरोधभीताः-सत्त्वासत्त्वादिधर्माणां बहिर्मुखशेमुख्या संभावितो वा विरोधः सहानवस्थानादिः, तस्माद् भीतास्त्रस्तमानसाः अत एव जडाः । तात्त्विकभयहेतोरभावेऽपि तथाविधपशुवद् भीरुत्वान्मूखाः परवादिनः, तदेकान्तहताः-तेषां सत्त्वादिधर्माणां १ मेचकरत्नं रत्नजातिविशेषः अत्र विचित्रवर्णाः स्युः । ' मेचकरक्ते ' इति रा. ख. पुस्तकयोः पाठः । मेचकपदेन मयूरपिच्छगतनानावर्णविशिष्टवर्तुलाकृतिविशेषो बोध्यः। २ 'एकस्येव' इति क. ह. पुस्तकयोः पाठः । ३ 'अपि' इति क. पुस्तके नास्ति । ४ शेमुषी-बुद्धिः । . ... . . . ... . .. .. . Page #267 -------------------------------------------------------------------------- ________________ १९७ . सावादनअरीसहिता श्लोक २५. य एकान्त इतरधर्मनिषेधेन स्वाभिप्रेतधर्मव्यवस्थापननिश्चयस्तेन हता इव हताः, पतन्ति स्खलन्ति-पतिताश्च सन्तस्ते न्यायमार्गाक्रमणे ने समर्थाः, न्यायमार्गाध्वनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति भावः। ___ यद्वा पतन्तीति प्रमाणमार्गतः च्यवन्ते, लोकेहि सन्मार्गच्युतः पतित इति परिभाष्यते । अथवा यथा वज्रादिप्रहारेण हतः पतितो मूर्छामतुच्छामासाद्य विरुद्धवाझसरो भवति, एवं तेऽपि वादिनः स्वाभिमतैकान्तवादेन युक्तिसरणिमनुसरता वज्राशनिप्रायेण निहताः सन्तः, स्याद्वादिनां पुरतोऽकिश्चित्करा वाङ्मात्रमपि नोच्चारयितुमीशत इति । ___अत्र च विरोधस्योपलक्षणत्वात् वैयधिकरण्यम् , अनवस्था, संकरः, व्यतिकरः, संशयः अप्रतिपत्तिः, विषयव्यवस्थाहानिरित्येतेऽपि परोद्भाविता दोषा अभ्यूह्याः। तथाहि-सामान्य-विशेषात्मकं वस्तु इत्युपन्यस्ते परे उपालब्धारो भवन्ति, यथा सामान्य-विशेषयोविधिप्रतिषेधरूपयोर्विरुद्धधर्मयोरेकत्राभिन्ने वस्तुनि असंभवात् शीतोष्णवदिति विरोधः । न हि यदेव विधेरधिकरणं तदेव प्रतिषेधस्याधिकरणं भवितुमर्हति, एकरूपतापत्तेः, ततो वैयधिकरण्यमापि भवति । अपरं च येनात्मना सामान्यस्याधिकरणं येन च विशेषस्य तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति, द्वाभ्यां वा स्वभावाभ्याम् एकेनैव चेत् । तत्र पूर्ववद् विरोधः, द्वाभ्यां वा स्वभावाभ्यां सामान्य-विशेषाख्यं स्वभावद्वयमधिकरोति, तदानवस्था । १ 'क्रमणेनासमर्थाः' इति क. ख. घ. रा. पुस्तकेषु पाठः । २ अतुच्छा-न स्वल्पा । महतीत्यर्थः । ३ मूक इत्यर्थः । ४ 'परोद्भावनीयाः' इति घ. पुस्तके पाठः । ५ उपालब्धारः-निन्दका उपलम्मवादिनः । Page #268 -------------------------------------------------------------------------- ________________ श्लोक २५ अन्ययोगव्यवच्छेदिका तावपि स्वभावान्तराभ्याम् , तावपि स्वभावान्तराभ्यामिति । येनात्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च । येन च विशेषस्याधिकरणं तेन विशेषस्य सामान्यस्य चेति सङ्करदोषः । येन स्वभावेन सामान्यं तेन विशेषः, येन विशेषस्तेन सामान्यमिति व्यतिकरः । ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः। ततश्चाप्रतिपत्तिः । ततश्च प्रमाणविषयव्यवस्थाहानिरिति । एते च दोषाः स्याद्वादस्य जात्यन्तरत्वाद् निरवकाशा एव, अतः स्याद्वादमर्मवोदिभिरुद्धरणीयास्तत्तदुपपतिभिरिति । स्वतन्त्रतया निरपेक्षयोरेव सामान्य-विशेषयोविधि-प्रतिषेधरूपयोस्तेषामवकाशात् । अथवा विरोधब्दोऽत्रं दोषवाची, यथा विरुद्धमाचरतीति दुष्टमित्यर्थः । ततश्च विरोधेभ्यो विरोध-वैयधिकरण्यादिदोषेभ्यो भीता इति व्याख्येयम् । एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्ति । इति काव्यार्थः ॥ २४ ॥ अथानेकान्तवादस्य सर्वद्रव्यपयार्यव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विध्याभिधानद्वारेण भगवतस्तत्त्वामृतरसास्वादसौहित्यमुपवर्णयन्नाहस्याद् नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्व सुधोद्गतोद्गारपरम्रेयम् ।। २५ ॥ स्यादित्यव्ययमनेकान्तद्योतकमष्टास्वपि पदेषु योज्यम् , तदेव अधिकृतमेवैकं वस्तु, स्यात् कथञ्चिद नाशि-विनशनशीलम१ अथवेत्यादि श्लोकसमाप्तिपर्यन्तं क. पुस्तके नास्ति । २ 'सर्वपर्याय' इति क. ख. ह. पुस्तकेषु पाठः। Page #269 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक २५ नित्यमित्यर्थः, स्यान्नित्यम्-अविनाशिधर्मीत्यर्थः, एतावता नित्यानित्यलक्षणमेकं विधानम् । तथा स्यात् सदृशमनुवृत्तिहेतुसामान्यरूपम् , स्याद् विरूपं विविधरूपम्-विसदृशपरिणामात्मकं व्यावृत्तिहेतुविशेषरूपमित्यर्थः । अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः। तथा स्याद् वाच्यं वक्तव्यम् , स्याद् न वाच्यमवक्तव्यमित्यर्थः । अत्र च समासेऽवाच्यमिति युक्तम् , तथाप्यवाच्यपदं योन्यादौ रूढमित्यसभ्यतापरिहारार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः, एतेनाभिलाप्यानभिलाप्यस्वरूपस्तृतीयो भेदः। तथा स्यात्सद् विद्यमानमस्तिरूपमित्यर्थः, स्याद् असत् तद्विलक्षणमिति, अनेन सदसदाख्या चतुर्थी विधा । हे विपश्चितां नाथ ! संख्यावतां मुख्य ! इयमनन्तरोक्ता निपीततत्त्वसुधोद्गतोद्गारपरम्परा तवेति प्रकरणात् सामर्थ्याद्वा गम्यते-तत्त्वं यथावस्थितवस्तुस्वरूपपरिच्छेदः, तदेव जरामरणापहारित्वाद् , विबुधोपभोग्यत्वाद् , मिथ्यात्वविषोमिनिराकरिष्णुत्वाद्, आन्तराहादकांरित्वाच्च पीयूषं तत्त्वसुधा, नितरामनन्यसामान्यतया पीता आस्वादिता या तत्त्वसुधा तस्या उद्गता प्रादुर्भूता तत्कारणिका उद्गारपरम्परा उद्गारश्रेणिरिवेत्यर्थः। यथा हि कश्चिदाकण्ठं पीयूषरसमापीय तदनुविधायिनीमुद्गारपरम्परां मुञ्चति, तथा भगवानपि जरामरणापहारि तत्त्वामृतं स्वैरमास्वाद्य तद्रसानुविधायिनी प्रस्तुतानेकान्तवादभेदचतुष्टयीलक्षणामुद्गारपरम्परां देशनामुखेनोद्गीर्णवानित्याशयः। ___अथ वा यैरेकान्तवादिभिर्मिथ्यात्वगरलभोजनमातृप्ति भक्षितं तेषां तत्तद्वचनरूपा उद्गारप्रकाराः पारदर्शिताः। यैस्तु पंचेलिम१ अत्रेत्यारभ्य स्तुतिकार इत्यन्तं क. पुस्तके नास्ति । २ 'भेद ' इति ख. पुस्तके नास्ति । ३ पचेलिम-फलावस्थाप्राप्तम् । Page #270 -------------------------------------------------------------------------- ________________ श्लोक २६ अन्ययोगव्यवच्छेदिका २०० प्राचीनपुण्यप्राग्भारानुगृहीतैर्जगद्गुरुवदनेन्दुनिःस्यन्दि तत्त्वामृतं मनोहत्य पीतम्, तेषां विपश्चितां यथार्थवादविदुषां हे नाथ ! इयं पूर्वदलदर्शितोल्लेखशेखरा उद्गारपरम्परेति व्याख्येयम् । ___एते च चत्वारोऽपि वादास्तेषु तेषु स्थानेषु प्रागेव चर्चिताः। तथाहि 'आदीपमाव्योम समस्वभावम्' इति वृत्ते नित्यानित्यवादः प्रदार्शतः । 'अनेकमेकात्मकमेव वाच्यम्' इति काव्ये सामान्यविशेषवादः संसूचितः' सप्तभङ्गयामभिलाप्यानभिलाप्यवादः, सदसद्वादश्च चर्चितः। इति न भूयः प्रयासः। इति काव्यार्थः ॥२५॥ इदानीं नित्यानित्यप्रक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया वैरायमाणयोरितरेतरोदीरितविविधहेतुहेतिसंनिपातसंजातविनिपात-- योरयत्नसिद्धपतिपक्षप्रतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाह य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिनशासनं ते ॥२६॥ किलेति निश्चये य एव नित्यवादे नित्यैकान्तवादे, दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः क्रम-योगपद्याभ्यामर्थक्रिया पपत्यादयः, त एव विनाशवादेऽपि क्षणिकैकान्तवादेऽपि, समास्तुल्याः, १ मनोहत्य-श्रद्धाप्रतिघातेन । रुच्यपेक्षयाप्यधिकम् । २ पंचमश्लोकः। ३ चतुर्दशश्लोकः । ४ संसूचित इत्यारभ्य चर्चित इत्यन्तं क. पुस्तके नास्ति । ५ हेतिः-शस्त्रम् । ६ अष्टादशे श्लोके । Page #271 -------------------------------------------------------------------------- ________________ २.१ ... स्याद्वादमञ्जरीताहिता श्लोक २६ नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूनाधिकाः। तथाहि नित्यवादी प्रमाणयति-सर्व नित्यं सत्त्वात् क्षणिके सदसत्कालयोरर्थक्रियाविरोधात् तल्लक्षणं सत्त्वं नावस्थां बनातीति ततो निवर्तमानमनन्यशरणतया नित्यत्वेऽवतिष्ठते । तथाहि-क्षणिकोऽर्थः सन्वा कार्यं कुर्याद् , असन्वा । गत्यन्तराभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकारणभावप्राप्त्यातिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकारणशक्तिविकलत्वात् , अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन् , विशेषाभावात् इति । अनित्यवादी नित्यवादिनं प्रति पुनरेवं प्रमाणयति-सर्व क्षणिकं सत्त्वात् , अक्षणिके क्रम-योगपद्याभ्यामर्थक्रियाविरोधाद् अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् , ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्त्तयेदिति क्षणिकसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियां क्रमेण प्रवर्तयितुमुत्सहते , पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमणे प्रवृत्तेः । अन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात् , तत्स्वभावप्रच्यवे च नित्यता प्रयाति । अतादवस्थ्यस्यानित्यतालक्षणत्वात् । अथ नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थमुदीक्षमाणस्तावदासीत् , पश्चात् तमासाद्य क्रमेण कार्य कुर्यादिति चेत् । न, सहकारिकारणस्य नित्येऽकिञ्चित्करत्वात् अकिञ्चित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि यौगपद्येन नित्योऽर्थोऽर्थक्रियां कुरुते, अध्यक्षविरोधात्-न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते, करोतु वा तथाप्याद्यक्षण एव सकलक्रियापरिसमा१ 'समकालं भावानाम्' इति क. पुस्तके पाठः। २ 'क्रमेण' इति क. पुस्लके नास्ति । ३ 'अर्थे' इत्यधिकं ह. पुस्तके । २६ Page #272 -------------------------------------------------------------------------- ________________ श्लोक २६ ___ अन्ययोगव्यवच्छेदिका प्लेदितीयादिक्षणेषु अकुवार्णस्यानित्यता बलाद् आढौकते । करणाकरणयोरेकस्मिन् विरोधाद् इति । तदेवमेकान्तद्वयेऽपि ये हेतवस्ते युक्तिसाम्याद् विरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनस्य ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति । अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः । उपलक्षणत्वाच्चै सामान्यविशेषाद्यकान्तवादा अपि मिथस्तुल्यदोषतया विरुद्धा व्यभिचारिण एव हेतूनुपस्पृशन्तीति परिभावनीयम् । . अथोत्तरार्द्ध व्याख्यायते-परस्परेत्यादि-एवं च कण्टकेषु क्षुद्रशत्रुष्वेकान्तवादिषु, परस्परध्वंसिषु सत्सु परस्परस्मात् ध्वसन्ते विनाशमुपयान्तीत्येवंशीलाः सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु, हे जिन ! ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाभावाद् अधृष्यमपराभवनीयम् , "शक्तार्हे कृत्याश्च" । इति कृत्यविधानाद् धर्षितुमशक्यम् , धर्षितुमनर्ह वा-जयति सर्वोत्कर्पण वर्तते। यथा कश्चिन्महाराजः पीवरपुण्यपरीपाकः परस्परं विगृह्य स्वयमेव क्षयमुपेयिवत्सु द्विपत्सु अयत्नसिद्धनिष्कण्टकत्वं समृद्धं राज्यमुपभुञ्जानः सर्वोत्कृष्टो भवति एवं त्वच्छासनमपि । इति काव्यार्थः।२६।. १ आढौकते-प्राप्नोति । २ ध्यान्ध्यं-धियः बुद्धेरान्ध्य-मान्यम् । ३ 'उपलक्षणत्वात्तु' इति क. पुस्तके पाठः । ४ सुन्दोपसुन्दनामानौ राक्षसी द्वौ भ्रातरौ ब्रह्मणः सकाशात् वरं लब्धवन्तौ यत आवयोमृत्युः परस्परादस्तु नान्यस्मात् । तथेत्युक्ते ब्रह्मणा मत्तौ तौ त्रिलोकी पीडयामासतुः । अथ देवप्रेषितां तिलोत्तमामुपलभ्य तदर्थं मिथो युध्यमानावम्रियेताम् । एवमेकान्तवादिनः स्वतत्त्वसिद्धयर्थं परस्परं विवदमाना विनश्यन्ति । ततश्चानेकान्तवादो जयति । ५ हैमसूत्रम् '५।४।३५॥ ६ कृत्यः-कृत्यप्रत्ययः । Page #273 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता अनन्तरकाव्ये नित्यानित्याद्येकान्तवादे दोषसामान्यमभिहितम्, इदानीं कतिपयतद्विशेषान् नामग्राहं दर्शयंस्तत्प्ररूपकाणामसद्भूतोद्भावकतयोद्वृत्ततैथाविधरिषुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेत्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारितामाविष्करोतिनैकान्तवादे सुख-दुःखभोगौ न पुण्य-पापेन च बन्ध - मोक्षौ । २०३ दुर्नीतिवादव्यसनासिनैवं श्लोक २७ परैर्विलुप्तं जगदप्यशेषम् ॥ २७ ॥ एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे, न सुखदुःखभोगौ घटेते, न च पुण्यपापे घटेते, न च बन्धमोक्षौ घटेते । पुनः पुनर्नञः प्रयोगोऽत्यन्ताऽघटमानतादर्शनार्थः । तथाहि - एकान्तान - त्ये आत्मनि तावत् सुखदुःखभोगौ नोपपद्येते -- नित्यस्य हि लक्षणम् अप्रच्युतानुत्पन्नास्थिरैकरूपत्वम्, ततो यदा आत्मा सुखमनुभूय स्वकारणकलापसामग्रीवशाद् दुःखमुपभुङ्क्ते तदा स्वभावभेदाद् अनित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः । एवं दुःखमनुभूय सुखमुपभुञ्जानस्यापि वक्तव्यम् | अथ अवस्थाभेदाद अयं व्यवहारः, न चावस्थासु भिद्यमानास्वपि तद्वतो भेदः । सर्पस्येव कुण्डलार्जवाद्यवस्थासु इति चेत् न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा । व्यतिरेके, तास्तस्येति संबन्धाभावः, अतिप्रसङ्गात् । अव्यतिरेके तु तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वेऽवस्थाभेदोऽपि भवेदिति । १ नामग्रहणपूर्वकम् । २ ' उद्वृत्त' इति क . पुस्तके नास्ति । ३ आर्जवं सारल्यम् । Page #274 -------------------------------------------------------------------------- ________________ श्लोक २७ अन्ययोगव्यवच्छेदिका २०४ किंच, सुखदुःखभोगौ पुण्यपापनिर्वत्यौं, तन्निर्वर्तनं चार्थक्रिया, सा च कूटस्थनित्यस्य क्रमेण अक्रमेण वा नोपपद्यत इत्युक्तप्रायम् । अत एवोक्तं न पुण्यपापे इति पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म, पापं हिंसादिक्रियासाध्यमशुभं कर्म, ते अपि न घटेने प्रागुक्तनीतेः । तथा न बन्धमोक्षौ बन्धः कर्मपुद्गलैः सह प्रतिपदशमात्मनो वह्नययःपिण्डवद् अन्योऽन्यसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयः, तावप्येकान्तनित्ये न स्याताम् । वन्धो हि संयोगविशेषः म च “ अप्राप्तानां प्राप्तिः" इतिलक्षणः, प्राकालभाविनी अप्राप्तिरन्यावस्था,उत्तरकालभाविनी प्राप्तिश्चान्या। तदनयोरप्यवस्थाभेददोपो दुस्तरः। कथं चैकरूपत्वे सति तस्याकस्मिको बन्धनसंयोगः। बन्धनसंयोगाच्च प्राक् किं नायं मुक्तोऽभवत् । किंच तेन वन्धनेनामी विकृतिमनुभवति न वा । अनुभवति चेत्, चर्मादिवद् अनित्यः । नानुभवति चेत्, निर्विकारत्वे सता असता वा तेन गगनस्येव न कोऽप्यस्य विशेष इति बन्धवैफल्याद् नित्यमुक्त एव स्यात् । ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था । तथा च पठन्ति"वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ?। चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्फलः" ॥१॥ बन्धानुपपत्तौ मोक्षस्याप्यनुपपत्तिवन्धनविच्छेदपर्यायत्वाद् मुक्तिशब्दस्यति। एवमनित्यैकान्तवादेऽपि सुखदुःखाद्यनुपपत्तिः-अनित्यं हि अत्यन्तोच्छेदधर्मकम् तथाभूते चात्मनि, पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत् फलभूतसुखानुभवः, एवं पापोपादानक्रियाकारिणोऽपि निरवयवनाशे कस्य दुःश्वसंवेदनमस्तु । एवं चान्यः क्रियाकारी अन्यश्च तत्फलभोक्ता इति असमञ्जसमापद्यते । अथ १ अग्नेरयोगोलकस्य च संयोगः । Page #275 -------------------------------------------------------------------------- ________________ २०५ . स्याद्वादमञ्जरीसहिता श्लोक २७ “ यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कर्पासे रक्तता यथा"॥१॥ . इति वचनाद् । नासमञ्जसमित्यपि वाङ्मात्रम् , सन्तानवासनयोरवास्तवत्वेन प्रागेव निर्लोठितत्वात् । तथा पुण्यपापे अपि न घटेते-तयोहिं अर्थक्रिया सुखदुःखोपभोगः, तदनुपपत्तिश्चानन्तरमेवोक्ता ततोऽर्थक्रियाकारित्वाभावात् तयोरप्यघटमानत्वम् । किंचानित्यः क्षणमात्रस्थायी, तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्यपापोपादानक्रियार्जनम् द्वितीयादिक्षणेषु चावस्थातुमेव न लभते, पुण्यपापोपादानक्रियाभावे च पुण्यपापे कुतः । निर्मूलत्वात्, तदसत्त्वे च कुतस्तनः सुखदुःखभोगः। आस्तां वा कथंचिदेतत्, तथापि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम् । उपादानानुरूपत्वाद् उपादेयस्य । ततः पूर्वक्षणाद् दुःखितात् उत्तरक्षणः कथं सुखित उत्पद्येत, कथं च सुखितात् ततः स दुःखितः स्यात्, विसदृशभागतापत्तेः। एवं पुण्यपापादावपि, तस्माद्यत्किञ्चिदेतत् । . एवं बन्धमोक्षयोरप्यसंभवः-लोकेऽपि हि य एव बद्धः स एव मुच्यते, निरन्वयनाशाभ्युपगमे चैकाधिकरणत्वाभावात् सन्तानस्य चावास्तवत्वात् कुतस्तयोः संभावनामात्रमपीति । परिणामिनि चात्मनि स्वीक्रियमाणे सर्व निर्बाधमुपपद्यते"परिणामोऽवस्थान्तरगमनं न च सर्वथा ह्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः"॥१॥ इति वचनात् । पातञ्जलटीकाकारोऽप्याह Page #276 -------------------------------------------------------------------------- ________________ श्लोक २७ अन्ययोगव्यवच्छेदिका २०६ "अवस्थिस्तय द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः" इति । एवं सामान्यविशेषसदसदभिलाप्यानभिलाप्यैकान्तवादेष्वपि सुखदुःखाद्यभावः स्वयमभियुक्तैरभ्यूह्यः। अथोत्तरार्धव्याख्या-एवमनुपपद्यमानेऽपि सुख-दुःखभोगादिव्यवहारे परैः परतीर्थिकैरथ च परमार्थतः शत्रुभिः, परशब्दो हि शत्रुपर्यायोऽप्यस्ति, दुर्नीतिवादव्यसनासिना-नीयते एकदेशविशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्नीतयो दुर्नयाः, तेपां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः, तत्र यद् व्यसनम्-अत्यासक्तिः-औचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुर्नीतिवादव्यसनम्, तदेव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वाद् असिरिव असिः कृपाणो दुर्नीतिवादव्यसनासिः, तेन दुनीतिवादव्यसनासिना करणभूतेन दुर्नयप्ररूपणहेवाकखगेन, एवमित्यनुभवसिद्धं प्रकारमाह-अपिशब्दस्य भिन्नक्रमत्वाद् अशेपमपि जगदनिखिलमपि त्रैलोक्यम्-" तात्स्थ्यात् तव्यपदेशः" इति त्रैलोक्यगतजन्तुजातम्, विलुप्तं सम्यगजानादिभावप्राणव्यपरोपणेन व्यापादितम्, तत् त्रायस्व इत्याशयः । सम्यग्ज्ञानादयो हि भावप्राणाः प्राचनिकैर्गीयन्ते, अत एव सिद्धेप्वपि जीवव्यपदेशः । अन्यथा हि जीवैधातुः प्राणधारणार्थेऽभिधीयते, तेषां च दशविधप्राणधारणाभावाद् अजीवत्वप्राप्तिः, सा च विरुद्धा, तस्मात् संसारिणो १ पातञ्जलयोगसूत्रम् ३।१३। अत्र ग्रन्थकृता 'टीकाकारोऽप्याह' इति यदुनं तच्चिन्त्यम् । यत इदं पातञ्जलसूत्रम् । मन्मतं तु कस्यापि लिपिकारस्य भ्रान्तिरियम् । २ 'मञ्चाः कोशन्ति' इतिवत् । यथात्र मञ्चपदेन मञ्चम्था गृह्यन्ते लक्षणया तद्वदत्र त्रैलोक्यपदेन त्रैलोक्यस्थं जन्तुजातं गृह्यन्ते । व्यपदेशः-संज्ञा ।। ३ सम्यक्ज्ञानसम्यग्दर्शनसम्यक्चारित्रेत्यादयो ये जीवस्य गुणास्ते भावप्राणाः । इदं प्रज्ञापनासूत्रे प्रथमपदे । ४ प्रवचनकारिभिः पूर्वाचायः । ५ जीव् पाणधारणे हैमधातुपारायणे ग्वादिगणे धा, ४६५ । Page #277 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक २८ दशविधद्रव्यप्राणधारणाद् जीवाः, सिद्धाश्च ज्ञानादिभावप्राणधारणाद् इति सिद्धम् । दुर्जयस्वरूपं चोत्तरकाव्ये व्याख्यास्यामः । इति काव्यार्थः ॥२७॥ साम्प्रतं दुर्नय-नय-प्रमाणप्ररूपणद्वारेण "प्रमाणनयधिगमः" इति वचनाद् जीवाजीवादितत्त्वाधिगमनिबन्धनानां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्याद्वादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्यं वचनातिशयं स्तुवन्नाह सदेव सत् स्यात्सदिति त्रिधार्थों मीयेत दुर्नीति-नय-प्रमाणैः। यथार्थदर्शी तु नय-प्रमाण पथेन दुर्नीतिपथं त्वमास्थः॥२८॥ अर्यते परिच्छिद्यत इत्यर्थः, पदार्थः त्रिधा त्रिभिः प्रकारैःमीयेत परिच्छिद्येत, विधौ सप्तमी । कैत्रिभिः प्रकारैः, इत्याह-दुर्नीतिनय-प्रमाणैः नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ आभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्नीतयो दुर्नया इत्यर्थः। नया नैगमादयः, प्रमीयते परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेन इति प्रमाणम्-स्याद्वादात्मकं प्रत्यक्ष-परोक्षलक्षणम् । दुर्नीतयश्च नयाश्च प्रमाणे च दुर्नीतिनय-प्रमाणानि तैः। केनोल्लेखेन मीयेत, इत्याह-सदेव सत् स्यात्सद् इति । सदिति अवक्तव्यत्वाद् नपुंसकत्वम् यथा किं तस्या गर्भे जातमिति । सदेवेति दुर्नयः सदिति नयः, स्यात्सदिति प्रमा १ पञ्चेन्द्रियाणि ६ श्वासोच्छ्वास ७ आयुष्य ८ मनोबल ९ वचनबल १० शारीरबलानीति दश द्रव्यप्राणाः । शान्तिसूरिकृतजीवविचारः गाथा ४२ । २ तत्त्वार्थसूत्रप्रथमाध्यायसू. ६।। ३ अतःपरं 'तेषाम्' इत्याधिकं ह. पुस्तके । ४ इयं च हैमव्याकरणप्रसिद्धा लिङ्लकारस्य संज्ञा । Page #278 -------------------------------------------------------------------------- ________________ २०८ श्लोक २८ अन्ययोगव्यवच्छेदिका णम् । तथाहि -दुर्नयस्तावत्सदेव इति ब्रवीति--'अस्त्येव घटः' इति, अयं वस्तुनि एकान्तास्तित्वमेव अभ्युपगच्छन् इतरधर्माणां तिरस्कारेण स्वाभिप्रेतमेव धर्म व्यवस्थापयति, दुर्नयत्वं चास्य मिथ्यारूपत्वात्, मिथ्यारूपत्वं च तत्र धर्मान्तराणां सतामपि निह्नवात् । तथा 'सद्' इति उल्लेखनात् नयः, स हि 'अस्ति घटः' इति घटे स्वाभिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मेषु गजनिमीलिका १ 'अपलापस्तु निह्नवः' इति अभिधानचिन्तामणौ द्वितीयकाण्डे १९० श्लोकः । निह्नवाः सप्त-१ बहुरताः २ जीवप्रादेशिकाः ३ व्यक्तिकाः ४ सामुच्छेदिकाः ५ क्रियाः ६ त्रैराशिकाः ७ अबध्दिकाः ।। १ एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बपु समयेषु रताः सक्ता बहुरताः दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । ते च श्रीवारकेवलात् १४ वर्जमालिप्रभृतयः श्रावस्तीनगरे समुत्पन्नाः। २ जीवः प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः। अथवा--जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते, तथा चरमप्रदेशजीवप्ररूपिण इति हृदयम् । ते च श्रीवीरकेवलात् १६ वर्षैस्तिष्यगुप्तप्रभृतयः ऋषभपुरे समुत्पन्नाः । ३ अव्यक्तमस्फुटं वस्तु अभ्युपगमतो विद्यते येषां ते अव्यक्तिकाः, संयंताद्यवगमे सन्दिग्धबुद्धय इति भावना । अव्यक्तवादी । ते श्रीवीरनिर्वाणात् २१४ वराषाढप्रभृतयः श्वेतविकानगरे समुत्पन्नाः ४ समुच्छेदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो विनाशः समुच्छेद ब्रुवत इति सामुच्छेदिकाः क्षणक्षयिकभावप्ररूपकाः-शून्यवादीत्यर्थः । ते श्रीवीरनिर्वाणात् २२० वर्षेः अश्वमित्रादयः मिथिलानगयो समुत्पन्नाः। ५ द्वे क्रिये समुदिते द्विक्रियं, तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिणः-एकस्मिन् समये द्विक्रियावेदकाः । ते श्रीवीरनिर्वाणात् २२८ वर्षेः गङ्गादयः उल्लुकातीरे समुत्पन्नाः। ६ जीवाजीवनोजीवभेदात् त्रयो राशयः समादृताः त्रिराशिः, तत्प्रयोजनं येषां ते त्रैराशिकाः-राशित्रयाख्यापकाः नोजीवस्थापका इत्यर्थः। ते श्रीवीरनिर्वाणात् ५४४ वर्षेः रोहगुप्तप्रभृतयः पुरमन्तरंजिकायां समुत्पन्नाः । ७ स्पृष्टं जीवेन कर्म न स्कन्धबन्धबद्धद्रुमबद्धं, तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम् । ते श्रीवीरनिर्वाणात् ५.८४ वर्षेः गोष्टामाहिलाः दशपुरे समुत्पन्नाः। २ गजनिमीलका ( १५३ ) पृष्ठे द्रष्टव्या । Page #279 -------------------------------------------------------------------------- ________________ २०९ स्याद्वादमञ्जरीसहिता श्लोक २८. मालम्बते । न चास्य दुर्नयत्वं धर्मान्तरातिरस्कारात्, न च प्रमाणत्वं स्याच्छब्देन अलाञ्छितत्वात् । स्यात्सदिति-'स्यात्कथञ्चित्, सद् वस्तु', इति प्रमाणम् । प्रमाणत्वं चास्य दृष्टेष्टाबाधितत्वाद् विपक्षे बाधकसद्भावाच्च । सर्व हि वस्तु स्वरूपेण सत् , पररूपेण चासद् इति असकृदुक्तम् । सदिति दिङ्मात्रदर्शनार्थम्, अनया दिशा असत्त्व-नित्यत्वा-नित्यत्ववक्तव्यत्वा-वक्तव्यत्व-सामान्य-विशेषादि अपि बोद्धव्यम् । इत्थं वस्तुस्वरूपमाख्याय स्तुतिमाह-यथार्थदर्शी इत्यादि । दुर्नीतिपथं दुर्नयमार्गम्, तुशब्दस्य अवधारणार्थस्य भिन्नक्रमत्वात् त्वमेव आस्थः त्वमेव निराकृतवान्, न तीर्थान्तरदैवतानि । केन कृत्वा, नय-प्रमाणपथेन, नय-प्रमाणे उक्तस्वरूपे तयोर्मार्गेण प्रचारेण । यतस्त्वं यथार्थदशी-यथार्थोऽस्ति तथैव पश्यतीत्येवंशीलो यथार्थदर्शी विमलकेवलज्योतिषा यथावस्थितवस्तुदर्शी, तीर्थान्तरशास्तारस्तु रागादिदोषकालुष्यकलङ्कितत्वेन यथाविधज्ञानाभावाद् न यथार्थदर्शिनः, ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विनः। न हि स्वयमनयप्रवृत्तः परेषामनयं निषेदुमुद्धरतां धत्ते । इदमुक्तं भवति-यथा कश्चित् सन्मार्गवेदी परोपकारदुर्ललितः पुरुषश्चौरश्वापद-कण्टकाद्याकीर्ण मार्ग परित्याज्य पथिकानां गुणदोषोभयविकलं दोषास्पृष्टं गुणयुक्तं च मार्गमुपदर्शयति, एवं जगन्नाथोऽपि दुर्नयतिरस्करणेन भव्येभ्यो नयप्रमाणमार्ग प्ररूपयतीति । आस्थः १ लांच्छितं-चिह्नितम् । २ तपस्विनः-वराकाः । ३ उद्भुरता-प्रागल्भ्यम् । ४ भवति परमपदयोग्यतामासादयतीति भव्यः सिद्धिगमनयोग्यः । Page #280 -------------------------------------------------------------------------- ________________ श्लोक २८ इति अस्यतेरयैतन्या “शास्त्येसूवक्तिख्यातेरङ” इत्यङि " श्वयत्यस्वचपतः श्वास्थवोचपप्तम्" इति अस्थादेशे " स्वरादेस्ताँसु” इति वृद्धौ रूपम् । मुख्यवृत्त्या च प्रमाणस्यैव प्रामाण्यम् । यच्च अत्र नयानां प्रमाणतुल्यकक्षताख्यापनं तत् तेषामनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वज्ञापनार्थम् । चत्वारि हि प्रवचनायोगमहानगरस्य द्वाराणि - उपक्रमः, निक्षेपः, अनुगमः, नयचेति एतेषां च स्वरूपमावश्यकभष्यादेर्निरूपणीयम्, इह तु नोच्यते ग्रन्थगौरवभयात् । अत्र चैकत्र कृतसमासान्तः पथिन्शब्दः, अन्यत्र चाव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्रयोगो न दुष्यति । अथ दुर्नय-नय-प्रमाणस्वरूपं किश्चिन्निरूप्यते तत्रापि प्रथमं नयस्वरूपं तदनधिगमे दुर्नयस्वरूपस्य दुष्परिज्ञानत्वात् । अत्र च आचार्येण प्रथमं दुर्नयनिर्देशो यथोत्तरं प्राधान्यावबोधनार्थः कृतः । तत्र प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः - अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनकोटिमारोहयति इति नयः - प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः । अन्ययोगव्यवच्छेदिका १ हैमधातुपारायणे दिवादिगणे ७८ धातुः । २ अद्यतनीति हैमव्याकरणे ललकारस्य संज्ञा । ३ हैमसूत्रं ३|४|६० ४ हैमसूत्रं ४ | ३ | १०३ २१० ५ हैमसूत्रम् ४।४।३१ ६ विशेषावश्यकभाष्य गाथा ९११।९१२।९१३ ।९१४ तथा गाथा १५०५ तः परम्। (चतुर्षु मूलसूत्रेष्विदं प्रथममावश्यक सूत्रं - तन्मूलसंख्या १२५ तत्राध्ययनषटुंतत्र प्रथमाध्ययनं सामायिकाख्यं तद्भाष्यं विशेषावश्यकभाष्यं श्रीजिनभद्रगणिक्षमाश्रमण कृतं श्लोकसंख्या ५००० तत्र मलधारिश्रीहेमचन्द्रसूरिकृता बृहद्वृत्तिः । ग्रन्थसंख्या १८००० तत्र वृत्तौ जैनस्थापनाचार्यकृता टीका । तथा भाष्योपरि द्रोणाचार्यकृता लघुवृत्तिः । ग्रन्थसंख्या १४००० ) ७ ' अवसेयम्' इति क . पुस्तके पाठः । Page #281 -------------------------------------------------------------------------- ________________ २११ स्याद्वादमञ्जरीसहिता श्लोक २८ नयाथानन्ता अनन्तधर्मत्वात् वस्तुनः, तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् । तथा च वृद्धाः "जावईआ वयणपहा तावइआ चेव हुँति नयवाया" इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः। तद्यथा-नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूद्वैवंभूता इति । कथमेषां सर्वसंग्राहकत्वमिति चेत्, उच्यते अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराभावात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽपि आये नयचतुष्टयेऽन्तर्भवन्ति । ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति । ___तत्र नैगमः सत्तालक्षणं महासामान्यम्, अवान्तरसामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्वादीनि । तथान्त्यान् विशेषान् सकलासाधारणरूपलक्षणान्, 'अवान्तरविशेषांश्चापेक्षया पररूपव्यावर्तनक्षमान् सामान्यात् अत्यन्तविनि ठितस्वरूपानभिप्रैति । इदं च स्वतन्त्रसामान्यविशेषवादे क्षुण्णमिति न पृथक्प्रयत्नः। प्रवचनप्रसिद्धनिलयनप्रस्थदृष्टान्तद्वयगम्यश्चायम् । संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वमुपादत्ते । एतच्च सामान्यैकान्तवादे प्रोक् प्रपश्चितम् । व्यवहारस्त्वेवमाह-यथा लोकग्राहमेव वस्तु अस्तु, किमनया अदृष्टाव्यवन्हियमाणवस्तुपरिकल्पनकष्टपिष्टिकया, यदेव च लोकव्यवहारपथमवतरति तस्यैवानुग्राहकं प्रमाणमुपलभ्यते । नेतरस्य । १ यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । इति छाया । २ चतुर्थश्लोकः । ३ 'जल्पितम्' इति क. पुस्तके पाठः । ४ अनुयोगद्वारसूत्र १४५ व्याख्या श्रीमलयागरिकता पृ. २२३ । २२५ ५ चतुर्थपञ्चमश्लोकयोः । ६ लोके यथा प्रसिद्धं तथा । Page #282 -------------------------------------------------------------------------- ________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २१२ न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमाणभूमिः, तथानुभवाभावात् , सर्वस्य सर्वदर्शित्वप्रसङ्गाच्च । नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचराः, तथा प्रवृत्तेरभावात् । तस्माद इदमेव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूलतामाविभ्राणमुदकाद्याहरणाद्यर्थक्रियानिवर्तनक्षमं घटादिकं वस्तुरूपं पारमार्थिकम् । पूर्वोत्तरकालभावितपर्यायपालोचना पुनरज्यायसी। तत्र प्रमाणप्रसराभावात् । प्रमाणमन्तरेण विचारस्य कर्तुमशक्यत्वात् । अवस्तुत्वाच्च तेषां किं तद्गोचरपर्यालोचनेन, तथाहि पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः, क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कथंचन लोकव्यवहारमुपरचयन्ति । तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात्, अत एव 'पन्था गच्छति, कुण्डिका स्रवति, गिरिदह्यते, मञ्चाः क्रोशन्ति' इत्यादिव्यवहाराणां प्रामाण्यम् । तथा च वाचकमुख्यः-"लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः” इति । ऋजुसूत्रः पुनरिदं मन्यते-वर्तमानक्षणविवत्यैव वस्तुरूपम् , नातीतमनागतं च । अतीतस्य विनष्टत्वाद् , अनागतस्यालब्धात्मलाभत्वात् खरविषाणादिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वात् नार्थक्रियानिवर्तनक्षमत्वम् , तदभावाच न वस्तुत्वं “यदवार्थक्रियाकारि तदेव परमार्थसत्" इति वचनात् । वर्तमानक्षणालिङ्गितं पुनर्वस्तुरूपं समस्ताक्रियासु व्याप्रियत इति तदेव पारमा र्थिकम् । तदापे च निरंशमभ्युपगन्तव्यम् । अंशव्याप्तेयुक्तिरिक्तत्वात् । एकस्य अनेकस्वभावतामन्तरेण अनेकस्यावयवव्यापनायोगात् । अनेकस्वभावता एवास्तु इति चेत् । न, विरोधव्याघ्राघ्रातत्वात् । १ अश्रेयसी। २ उमास्वातिः। तत्त्वार्थाधिगमसूत्र १।३५ भाष्ये । Page #283 -------------------------------------------------------------------------- ________________ २१३ . स्याद्वादमञ्जरीसहिता श्लोक २८ तथाहि-यदि एकः स्वभावः कथमनेकः, अनेकश्चेत्कथमेकः, एकानेकयोः परस्परपरिहारेणावस्थानात् । तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंनिचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं, न स्थूलतां धारयत् पारमार्थिकमिति । एवमस्याभिप्रायेण यदेव स्वकीयं तदेव वस्तु, न परकीयम् , अनुपयोगित्वादिति। ___ शब्दस्तु-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते । यथा इन्द्र-शक्रपुरन्दरादयः सुरपतौ, तेषां सर्वेषामष्येकमर्थमभिप्रति किल प्रतीतिवशाद् । यथा शब्दाव्यतिरेकोऽर्थस्य प्रतिपाद्यते, तथैव तस्यैकत्वमनेकत्वं वा प्रतिपादनीयम् । न च इन्द्र-शक्र-पुरन्दरादयः पर्यायशब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते । तेभ्यः सर्वदा एकाकारपरामर्शोत्पत्तेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् । तस्माद् एक एव पर्यायशब्दानामर्थ इति । शब्द्यते आहूयतेऽनेनाभिप्रायेणार्थः, इति निरुक्तात् एकार्थप्रतिपादनाभिप्रायेणैव पर्यायध्वनीनां प्रयोगात् । यथा चायं पर्यायशब्दानामेकमर्थमभिप्रैति तथा 'तटस्तटी तटम्' इति विरुद्धलिङ्गलक्षणधर्माभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि विरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्मायोगो युक्तः । एवं सङ्ख्याकाल-कारक-पुरुषादिभेदाद् अपि भेदोऽभ्युपगन्तव्यः। तत्र सङ्ख्या एकत्वादिः, कालोऽतीतादिः, कारक कादि, पुरुषः प्रथमपुरुषादिः। समभिरूढस्तु-पर्यायशब्दानां प्रविभक्तमेवार्थमभिमन्यते । तद्यथा-इन्दनात् इन्द्रः, परमैश्वर्यम्-इन्द्रशब्दवाच्यं परमार्थतस्तदत्यर्थे, अतद्वत्यर्थे पुनरुपचारतो वर्तते, न वा कश्चित् तद्वान् । सर्वशब्दानां परस्परविभक्तार्थप्रतिपादितया आश्रयाश्रयिभावेन प्रवृत्त्यसिद्धः। एवं शकनात् शक्रः पूर्दारणात् पुरन्दर इत्यादि भिन्नार्थत्वं Page #284 -------------------------------------------------------------------------- ________________ लोक २८ अन्ययोगव्यवच्छेदिका २१४ सर्वशब्दानां दर्शयति, प्रमाणयति च-पर्यायशब्दा आप भिन्नार्थाः, प्रविभक्तव्युत्पत्तिनिमित्तकत्वात्, इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थकाः, यथा इन्द्र-पशु-पुरुषशब्दाः, विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अप, अतो भिन्नार्था इति । ___ एवंभूतः पुनरेवं भाषते-यास्मिन् अर्थे, शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव प्रवर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति, न सामान्येन । यथा उदकाद्याहरणवेलायां योपिदादिमस्तकारूढो विशिष्टचेष्टावान् एव घटोऽभिधीयते, न शेषः घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात्, पटादिवद् इति । अतीतां भाविनी वा चेष्टामङ्गीकृत्य सामान्येनैवोच्यत इति चेत् । न, तयोर्विनष्टानुत्पन्नतया शशविषाणकल्पत्वात्, तथापि तवारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यः, विशेषाभावात् । किंच याद अतीत-वय॑च्चेटापेक्षया घटशब्दोऽचेष्टावत्यापि प्रयुज्येत तदा कपालमृत्पिण्डादावपि तत्पवर्तनं दुर्निवारं स्याद्, विशेषाभावात् । तस्माद यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन् एव सोऽर्थस्तच्छन्दवाच्य इति । अत्र संग्रहश्लोकाः“अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमी नयः ।। १ ।। सद्रूपतानतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संग्रहन् संग्रहो मतः ॥ २॥" व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । • तथैव दृश्यमानत्वाद् व्यापारयति देहिनः।।३॥ तत्रर्जुसूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः ॥४॥ १ 'चेष्टावत्यपि प्रयुज्यते' इति क, पुस्तके पाठः । २ 'व्यवस्थितिम्' इति क. ख. रा. पुस्तके पाठः । Page #285 -------------------------------------------------------------------------- ________________ २१५ स्याद्वादमञ्जरीसाहता श्लोक २८ -विरोधलिङ्ग-संख्यादिभेदाद भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥५॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥६॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद् एवंभूतोऽभिमन्यते ॥७॥ एत एव च परामर्शा अभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारण प्रवर्तमाना दुर्नयसंज्ञामश्नुवते । तद्बलप्रभावितसत्ताका हि खल्वेते परप्रवादाः, तथाहि-नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिको।संग्रहाभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः,सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसूत्राकूतप्रवृत्तबुद्धयस्ताथागताः । शब्दादिनयावलम्बिनो वैयाकरणादयः। उक्तं च सोदाहरणं नय--दुर्नयस्वरूपं श्रीदेवसूरिपादैः । तथा च तद्ग्रेन्थः- . - " नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य अर्थस्य अंशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः" ॥१॥ इति । १ प्रागुवन्ति । २ अतःपरं । सप्तभङ्गीमनुव्रजति' इत्यन्तं त्रयःपश्चाशत्सूत्राणि प्रमाणनयतत्त्वालोकालङ्कारे सप्तमपरिच्छेदे । एभिरेव त्रयःपञ्चशद्भिः सूत्रैः सूत्रकारः श्रीवादिदेवसूरिपादस्तत्र नयलक्षणसङ्ख्याविषयान् व्यवस्थापितवान् । ३ सूत्रोपरि ग्रन्थकारेण स्वयमेव स्याद्वादरत्नाकराख्या ८४००० श्लोकपरिमिता बृहट्टीका कृता । सा सप्तमाध्यायपर्यन्ताधुना उपलब्धास्ति किन्तु विस्तृतत्वात्किञ्चित्त्रुटितत्वाच्च अत्र न निर्देशीकृता । श्रीरत्नप्रभाचार्यकृता रत्नाकरावतारिकाख्या द्वितीया संक्षिप्ता टीका विषयविशदार्थ मुद्रिता । "एतावता प्रमाणतत्त्वं व्यवस्थाप्येदानी नयतत्त्वं व्यवस्थापयन्तिनीयते येन श्रुताख्यप्रमाणाविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ।। १॥ Page #286 -------------------------------------------------------------------------- ________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २१६ अत्रैकवचनमतन्त्रं तेनांशावंशा वा, येन परामर्शविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्यापेक्षया स नयोऽभिधीयते । तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते । प्रत्यपादयाम च स्तुतिद्वात्रिंशति-- अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते! . स्वकीयानामेषां विविधविषयव्याप्तिवाशिनाम् । विपक्षापेक्षाणां कथयास नयानां सुनयतां विपक्षक्षेप्तॄणां पुनरिह विभो ! दुष्टनयताम् ॥ १ ॥ पञ्चाशति च--- निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां : वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः। औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया श्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ।। १॥ ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तम् । स्वार्थव्यवसायात्मकत्वेन तस्य प्रमाणस्वरूपत्वात्। तथाहि-नयः प्रमाणमेव, स्वार्थव्यवसायकत्वादिष्टप्रमाणवत् स्वार्थव्यवसायकस्याप्यस्य प्रमाणत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् । तदसत् । नयस्य स्वार्थैकदेशनिर्णातिलक्षणत्वेन स्यार्थव्यवसायकत्वासिद्धेः । ननु नयविषयतया संमतोऽर्थैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी नयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य । स न चेद्वस्तु तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात् , तस्यावस्तुविषयत्वलक्षणत्वादिति चेत् । तदवद्यम्। अर्थैकदेशस्य वस्तुत्वावस्तुत्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात् । तथा चावाचि नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्र: समुद्रो वा समुद्रांशो यथैव हि ।। १ ।। तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता। समुद्रबहुता वा स्यात् तत्त्वे वास्तु समुद्रवित् ?।। २ ॥ यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसङ्गात् समुद्रबहुत्वापत्तेा; तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रत्वे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् क्वचिदपि समुद्रव्यवहारायोगात् । समुद्रांश: समुद्रांश . एवोच्यते, तथा स्वार्थेकदेशो नयस्य न वस्तु, स्वार्थंकदेशान्तराणामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषक्तेर्वा; नाप्यवस्तु, शेषांशानामप्यवस्तुत्वेन वचिदपि वस्तुव्यवस्थाऽनुपपत्तेः । किं तर्हि वस्त्वंश एवासौ तादृक्प्रतीतेबांधकाभावात् ? ततो वस्त्वंशे प्रवर्तमानो नयः स्वार्थेकदेशव्यवसायलक्षणो न प्रमाणं; नापि मिथ्याज्ञानमिति ॥ १ ।। Page #287 -------------------------------------------------------------------------- ________________ २१७ स्याद्वदमञ्जरीसहिता श्लोक-२८ “स्वाभिप्रेताद् अंशाद् इतरांशापलापी पुनर्नयाभासः॥२॥ स व्याससमासाभ्यां द्विप्रकारः॥३॥ व्यासतोऽनेकविकल्पः॥४॥ समासतस्तु विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ५॥" १ नयसामान्यलक्षणमुक्त्वा नयाभासस्य तद्दर्शयितुमाहुः स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः॥२॥ पुनःशब्दो नयात् व्यतिरेकं द्योतयति । नयाभासो नयप्रतिबिम्बात्मा दुर्नय इत्यर्थः यथा तीथिकानां नित्यानित्याद्यकान्तप्रदर्शकं सकलं वाक्यमिति ॥ २ ॥ नयप्रकारसूचनायाहुः-- स व्याससमासाभ्यां द्विप्रकारः ॥ ३ ॥ स प्रकृतो नयः व्यासो विस्तरः समासः संक्षेपस्ताभ्यां द्विभेदः; व्यासनयः समासनयश्चेति ॥ ३ ॥ व्यासनयप्रकारान् प्रकाशयन्ति व्यासतोऽनेकविकल्पः ॥४॥ एकांशगोचरस्य हि प्रतिपत्त्रभिप्रायविशेषस्य नयस्वरूपत्वमुक्तं, ततश्चानन्तांशामके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तूणामभिप्रायास्तावन्तो नयाः, ते च नियतसंख्यया संख्यातुं न शक्यन्त इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम् ॥४॥ - समासंनयं भेदतो दर्शयन्ति समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ।। ५॥ नय इत्मनुवर्तते । द्रवति द्रोष्यति अदुद्रुवत् तांस्ता पर्यायानिति द्रव्यं तदेवार्थः, सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः। पर्येत्युत्पादविनाशी प्राप्नोतीति पर्यायः स एवार्थः, सोऽस्ति यस्यासौ पर्यायार्थिकः । एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति, द्रव्यस्थितपर्यायस्थिताविति, द्रव्यार्थपर्यायाविति च प्रोच्यते । ननु गुणविषयस्तृतीयो गुणार्थिकोऽपि किमिति नोक्त इति चेत्, गुणस्य पर्याय एवान्तभूतत्वेन पर्यायार्थिकेनैव तत्संग्रहात् । पर्यायो. हि द्विविधः-क्रमभावी सहभावी च। तत्र सहभावी गुण इत्यभिधीयते । पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्याक्तिव्यापिनोऽभिधानान्न दोषः। ननु द्रव्यपर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्यते ततस्तद्गोचरमपरमपि नयद्वयं प्राप्नोतीति चेत् । नैतदनुपद्रवम् । द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोरप्रसिद्धेः । तथाहि, द्विप्रकारं सामान्यमुक्तम्-ऊर्द्धतासामान्यं तिर्यक्सामान्यं च । तत्रोद्धतासामान्यं द्रव्यमेव । तिर्यक्सामान्यं तु प्रतिव्यक्तिसदृशपरिणामलक्षणं व्यञ्जनपर्याय एव । स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धः। विशेषोऽपि बैसदृश्यविवर्तलक्षणः पर्याय एवान्तर्भवतीति नैताभ्यामाधकनयावकाशः ॥ ५ ॥ २८ Page #288 -------------------------------------------------------------------------- ________________ लोक २८ अन्ययोगव्यवच्छेदिका २१८ आयो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥६॥ धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः ॥७॥ सत् चैतन्यमात्मनीति धर्मयोः ।।८। वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥ १० ॥द्रव्यार्थिकभेदानाहुः आद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥ ६॥ आद्यो द्रव्यार्थिकः ॥ ६ ॥ तत्र नैगमं प्ररूपयन्ति धर्मयोधर्मिणोधर्मर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो, नैगमः ।।७।। पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया द्विवक्षणं स एवरूपो नके गमा बोधमार्गा यस्यासौ नैगमो नाम नयो ज्ञेयः ॥ ७ ॥ . अथास्योदाहरणाय सूत्रत्रयीमाहुः सच्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥ प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् । विशेष्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन । तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ॥ ८॥ वस्तु पयर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ अत्र हि पर्यायवद् द्रव्यं वस्तु वर्त्तत इति विवक्षायां पर्यायवद् द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा । कि वस्तु पर्यायवद् द्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम् , पर्यायवद् द्रव्यस्य • तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ।। १० ।। ___अत्र हि विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात् सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्मधालम्बनोऽयं नैगमस्य तृतीयो भेदः । न चास्यैवं प्रमाणात्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञतेरसंभवात् तयोरेन्यतर एव हि नैगमनयेन प्रधानतयानुभूयते । प्राधान्यन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान्यत् ॥ १० ॥ Page #289 -------------------------------------------------------------------------- ________________ २१९ स्याद्वादमञ्जरीसहिता श्लोक २८ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ॥ ११ ॥ यथा आत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः॥१२॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३ ॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अशेषविशेषेषु औदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ॥१५॥ विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ अथ नैगमाभासमाहुःधर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ॥ ११ ॥ आदिशब्दाधर्मिद्वयधर्मिद्वययोः परिग्रहः । ऐकान्तिकपार्थक्याभिसन्धिरैकान्तिक भेदाभिप्रायो नैगमाभासो नैगमदुर्नय इत्यर्थः ॥ ११ ॥ अत्रोदाहरन्तियथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः॥ १२॥ आदिशब्दाद्वस्त्वाख्यपर्यायवद्रव्याख्ययोधर्मिणोः सुखजीवलक्षणयोर्धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम्। नैयायिकवैशेषिकदर्शनं चैतदाभासतया शेयम् ॥ १२॥ अथ संग्रहस्वरूपमुपवर्णयन्ति- . . सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३॥ सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः, समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रहः। अयमर्थः स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स संग्रह इति ॥ १३ ॥ अमुं भेदतो दर्शयन्ति __ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ तत्र परसंग्रहमाहुः- . अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ॥१५॥ परामर्श इत्यग्रेतनेऽपि योजनीयम् ॥ १५ ॥ उदाहरन्ति विश्वमेकं सदविशेषादिति यथा ॥१६॥ अस्मिन् उक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषाथांनां संगृह्यते॥१६॥ Page #290 -------------------------------------------------------------------------- ________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२. सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभासः॥१७॥ यथा सत्तैव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥१८॥ द्रव्यत्वादीनि अवान्तरसामान्यान मन्वानस्तद्भदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९ ॥ .. धर्मा-धर्मा-काश-काल-पुद्गल-जीव--द्रव्याणामैक्यं द्रव्यत्वाभेदात् इत्यादियेथा ॥ २० ॥ एतदाभासमाहुः-- सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ॥ १७ ॥ अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः संग्रहाख्यां लभते, न चायं तथेति तदाभासः ॥ १७ ॥ उदाहरन्तियथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८ ॥ अद्वैतवादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् । अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ॥ १८ ॥ अथापरसंग्रहमाहुःद्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ।। १९ ।। द्रव्यत्वमादियैषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्याः यादिषु गजनिमीलिकामुपेक्षाम् ।। १९॥ . उदाहरन्तिधर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥२०॥ ___ अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाच्चेतनाचेतनपर्यायाणां सर्वेषामेकत्वम् ; पर्यायत्वाविशेषादित्यादि दृश्यम् ।। २० ॥ १ (१११ ) पृष्ठे द्रष्टव्या. Page #291 -------------------------------------------------------------------------- ________________ २२१ . स्याद्वादमजरीसहिता श्लोक २८ तेद्रव्यत्वादिकं प्रतिजानानस्तविशेषानिह्नवानस्तदाभासः ॥२१॥ यथा द्रव्यत्वमेव तत्त्वम् । ततोऽान्तरभूतानां द्रव्याणामनुपलब्धोरत्यादि ॥ २२॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः॥ २३ ॥ यथा यत् सत् तद् द्रव्यं पर्यायो वेत्यादिः ॥ २४ ॥ एतदाभासमाहुःद्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिह्नवानस्तदाभासः ॥२१॥ तदाभासोऽपरसंग्रहाभासः ॥ २१ ॥ उदाहरन्ति__ यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्या- णामनुपलब्धेरित्यादिः ॥२२॥ अयं हि द्रव्यत्वस्यैष तात्त्विकतां प्रख्यापयति, तद्विशेषभूतानि तु धर्मादिद्रव्याण्यपह्नत इत्यपरसंग्रहाभासनिदर्शनम्। सर्वत्र संग्रहाभासत्वे कारणं प्रमाणविरोध एवं, सामान्यविशेषात्मनो वस्तुनस्तेन प्रतीतेरभिहितत्वात् ॥ २२ ॥ अथ व्यवहारनयं व्याहरन्ति संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं .. येनाभिसन्धिना क्रियते स व्यवहारः ।। २३॥ संग्रहगृहीतान् सत्त्वाद्यर्थान् विधाय न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते, स व्यवहारनयस्तज्ज्ञैः कीर्त्यते ॥ २३ ॥ उदाहरन्तियथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादिः ।। २४ ॥ आदिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं दृश्यम् । यद् द्रव्यं तज्जीवादि षडिधं, यः पर्यायः स द्विविधः-क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेत्यादि ॥ २४ ॥ १ 'सत्' इति क. पुस्तके पाठः । २ 'प्रतिपद्यमानः' इति क. पुस्तके पाठः। Page #292 -------------------------------------------------------------------------- ________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२२ यः पुनरपारमार्थिकद्रव्य--पर्यायविभागमभिप्रैति स __ व्यवहाराभासः ॥ २५॥ यथा चावोकदर्शनम् ॥ २६ ॥ पर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः शब्दः समभिरूढः एवंभूतश्च ॥२७॥ ऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ॥२८॥ यथा सुखविवर्तः सम्पति अस्तीत्यादिः ॥२९॥ . एतदाभासं वर्णयन्तियः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ॥ २५ ॥ यः पुनः परामर्शविशेषः कल्पनारोपितद्रव्यपर्यायप्रविवेकं मन्यते सोऽत्र व्यवहारदुर्नयः प्रत्येयः ॥ २५ ॥ | उदाहरन्ति यथा चार्वाकदर्शनम् ॥ २६॥ . चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापह्नते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्यस्य दर्शनं व्यवहारनयाभासतयोपदर्शितम् ॥ २६ ॥ द्रव्यार्थिकं त्रेधाभिधाय पोयार्थिकं प्रपञ्चयन्तिपर्यायार्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ।। २७ ।। एषु ऋजुसूत्रं तावद्वितन्वन्तिऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्र यन्नभिप्राय ऋजुसूत्रः ॥ २८ ।। ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राञ्जलम् । अयं हि द्रव्यं सदपि गुणीभावान्नार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ।। २८ ॥ उदाहरन्ति___ यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ २९॥ .. अनेन हि वाक्येन क्षणस्थायिसुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्म्यते । आदिशब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् ॥ २९ ॥ Page #293 -------------------------------------------------------------------------- ________________ २२३ स्याद्वादमञ्जरीसहितां सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ तथागतमेतम् ॥ ३१ ॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥ ३२ ॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ॥ ३३ ॥ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४ ॥ ऋजुसूत्राभासं ब्रुवते — सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राभासः ॥ ३० ॥ उदाहरन्ति - यथा तथागतमतम् ॥ ३१ ॥ तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं तु प्रत्यभिज्ञादिप्रमाणप्रसिद्धं त्रिकालस्थायि द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ - शब्दनयं शब्दयन्ति - कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥ ३२ ॥ कालादिभेदेन कालकारकलिङ्ग संख्या पुरुषोपसर्गभेदेन ॥ ३२ ॥ उदाहरन्ति २८ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ।। ३३ । 'अत्रातीतवर्त्तमानभविष्यल्लक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रति पद्यते । द्रव्यरूपतया पुनरभेदममुष्योपेक्षते । एतच्च कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठत इत्युपसर्गभेदे, ॥ ३३॥ एतदाभासं ब्रुवते - तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४ ॥ तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव । तदाभासः शब्दाभासः ॥ ३४ ॥ ( १ तदाभास' इति क. ह. पुस्तकयोः पाठः । Page #294 -------------------------------------------------------------------------- ________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२४ यथा बभूव भवति भविष्यात सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेव अर्थमाभदधाति भिन्नकालशब्दत्वात् तादृसिद्धान्यशब्द. वद् इत्यादिः ॥३५॥ पर्यायशब्देषु निरुक्तभेदेन भिन्नमर्थ समाभिरोहन् समभिरूढः॥३६॥ इन्दनाद् इन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥३८॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करि-कुरङ्ग-तुरङ्गशब्दवद् इत्यादिः ॥३९॥ उदाहरन्तियथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः . शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक् सिद्धान्यशब्दवदित्यादिः ॥ ३५ ॥ अनेन हि तथाविधपरामर्शोत्थेन वचनेन कालादिभेदाद्भिन्नस्यैवार्थस्याभिधायकत्वं शब्दानां व्यञ्जितम् । एतच्च प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाभासत्वम् । आदिशब्देन करोति क्रियते कट इत्यादिशब्दनयाभासोदाहरणं सूचितम् ॥ ३५ ॥ समभिरूढनयं वर्णयन्तिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन समभिरूढः ।। ३६ ।। शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रैति, समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति ।। ३६ ॥ उदाहरन्तिइन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।। ३७ ।। इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमथ समभिरोहन्नभिप्रायविशेषः समभिरूटस्तथान्येष्वपि घटकुटकुम्भादिषु द्रष्टव्यः ॥ ३७ ।। एतदाभासमाभाषन्तेपर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।। ३८ ।। तदाभासः समभिरूढाभासः ॥ ३८ ॥ उदाहरान्तयथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥ ३९ ॥ Page #295 -------------------------------------------------------------------------- ________________ २२५ - स्याद्वादमञ्जरीसहिता श्लोक २८ शब्दानां स्वप्रवृत्तिनिमित्तभूताक्रियाविशिष्टमर्थ वाच्यत्वेनाभ्युपगच्छन् एवंभूतः ॥ ४०॥ यथेन्दनमनुभवन् इन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः ॥ ४२ ॥ एवंभूतनयं प्रकाशयन्ति शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥ ४०॥ - समभिरूढनयो इन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् । एवंभूतः पुनरिन्दनादिक्रियापरिणतमथ तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । नहि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात्-गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो नीलनान्नील इति । देवदत्तो यशदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात् , यश एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव-दण्डोंsस्यास्तीति दण्डी; विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शन्दानां व्यवहारमांत्राट'न निश्चयादित्ययं नयः स्वीकुरुते ॥ ४० ॥ उदाहरन्तियथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ एवंभूताभासामाचक्षतेक्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंन्तु तदाभासः ॥ ४२ ॥ क्रियांविष्टं वस्तु ध्वनीनामभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं लत्तेषां तथा प्रतिक्षिपति नतूपेक्षते स एवंभूतनयाभासः, प्रतीतिविघातात् ॥ ४२॥ १ क्रियाविष्ट ' इति क, ख. पुस्तकयोः पाठः। Page #296 -------------------------------------------------------------------------- ________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२६ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् । घटशब्दपवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवद् इत्यादि ॥४३॥ एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वाद् अर्थनयाः ॥४४॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४५॥ पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ॥ ४६॥ - सन्मात्रगोचरात् संग्रहाद् नैगमो भावाभावभूमिकत्वाद् भूमविषयः॥४७॥ सविशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः॥४८॥ उदाहरन्ति यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥ अनेन हि वचसा क्रियानाविष्टस्य . घटादेवस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इति तद्वचनमेवंभूतनयाभासोदाहरणतयोक्तम् || ४३ ।। . के पुनरेषु नयेष्वर्थप्रधानाः के च शब्दनया इति दर्शयन्ति-- एतेषु चत्वारः प्रथमेऽथेनिरूपणप्रवणत्वादर्थनयाः ॥ ४४ ॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥ ४५ ॥ कः पुनरत्र बहुविषयः को वाल्पविषयो नय इति विवेचयन्ति-- पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।। ४६॥ तत्र नैगमसंग्रहयोस्तावन्न संग्रहो बहुविषयो नैगमात्परः किं तर्हि नैगम एक संग्रहात्पूर्व इत्याहुःसन्मात्रगोचरात्संग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः॥४७॥ भावाभावभूमिकत्वाद्भावाभावाविषयत्वात् , भूमविषयो बहुविषयः ॥ ४७ ॥ संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकाव्द्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वात् बहुविषयः ॥ ४८॥ व्यवहारो हि कतिषयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकल सत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ।। ४८ ॥ Page #297 -------------------------------------------------------------------------- ________________ २२७ स्याद्वादमञ्जरीसहिता श्लोक २८ वर्तमानविषयाद् ऋजुमूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वाद् अनल्पार्थः ॥ ४९ ॥ कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तविपरीतवेदकत्वाद् महार्थः ॥५०॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः॥५१॥ प्रतिक्रियं विभिन्नमर्थ प्रतिजानानाद् एवंभूतात् समभिरूढस्तदन्यथार्थस्थापकत्वाद् महागोचरः॥५२॥ व्यवहारात् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यन्ति- ... वर्त्तमानविषयादृजुसूत्राद्व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥४९।। वर्त्तमानक्षणमात्रस्थायिनमर्थमृजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तु कालत्रितयवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति ॥ ४९॥ . . ऋजुसूत्राच्छब्दो बहुविषय इत्याशङ्कामपसारयन्ति कालादिभेदेन भिन्नार्थीपदार्शनः शब्दाजुसूत्रस्तद्वि. . परीतवेदकत्वान्महार्थः ॥ ५० ॥ शब्दनयो. हि कालादिभेदाद्भिन्नमर्थमुपदर्शयतीति स्तोकविषयः, ऋजुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थ सूचयतीति बहु विषय इति ॥ ५० ॥ शब्दात्समभिरूढो महार्थ इत्यारेका पराकुर्वन्तिप्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्त द्विपर्ययानुयायित्वात् प्रभूतविषयः ॥५१॥ समभिरूढनयो हि पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामर्थयत इति तनुगोचरोऽसौ, शब्दनयस्तु तेषां तभेदेनाप्येकार्थतां समर्थयत इति समधिकविषयः ।। ५१ ॥ समभिरूढादेवंभूतो भूमविषय इत्यप्याकृतं प्रतिक्षिपन्तिप्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवंभूतात्समभिरूढ-. . स्तदन्यथार्थस्थापकत्वान्महागोचरः ।। ५२॥ एवंभूतनयो हि क्रियाभेदेन भिन्नमर्थ प्रतिजानीत इति तुच्छविषयोऽसौ, समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रैतीति प्रभूतविषयः ॥ ५२ ॥ Page #298 -------------------------------------------------------------------------- ________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२८ नयवाक्यमपि स्वविषये प्रवर्तमानं विधि-प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ इति । विशेषार्थिना नयानां नामान्वर्थविशेषलक्षणाक्षेपपरिहारादिचर्चस्तु भाष्यमहोदधि-गन्धहस्तिटीका-न्यायावतारादिग्रन्थेभ्यो निरीक्षणीयः। प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकम्, स्याच्छब्दलाञ्छितानां नयानामेव प्रमाणव्यपदेशभाक्न्वात् तथा च श्रीविमलनाथस्तवे श्रीसमन्तभद्रः अथ यथा नयवाक्यं प्रवर्त्तते तथा प्रकाशयन्ति-- . नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रातेषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ।। नयवाक्यं प्राक्लक्षितविकलादेशस्वरूपं, न केवलं सकलादेशस्वभावं प्रमाणबाक्यमित्यपि शब्दार्थः। स्वविषये स्वाभिधेये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनययुग्मसमुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति, प्रमाणसप्तभङ्गीवदेतद्विचारः कर्त्तव्यः । नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोग सद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तमङ्गी वस्त्वंशमात्रप्ररूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तमङ्गी संपूर्णवस्तुस्वरूपप्ररूपकत्वादिति ।। ५३ ।। १ 'विशेषार्थिनयानाम्' इति क. पुस्तके पालः। २ तत्त्वार्थाधिगमभाष्यम् । तदेव गन्धहस्तिटीका । ग्रन्थसंख्या ८४००० । इयं श्रीसमन्तभद्राचार्यकृता । एतन्मङ्गलं सपादशतश्लोकात्मकं तदेव केवलमधुनोपलभ्यते न संपूर्णो ग्रन्थः । अयमेव मङ्गलग्रंथ बातमीमांसा देवागमस्तोत्रं वेत्यभिधीयते । अत्र - श्रीमदकलंकदेवविरचिता अष्टशती। श्रीमद्विद्य नन्दस्वामिविरचिता- अष्टसहस्री चास्ति। न्यायावतारः-श्रीसिद्धसेनदिवाकरकृतः। अनेन द्वात्रिंशद्वात्रिंशिकारूपः स्तुनिसंग्रहः कृतः । तत्र प्रत्येकं द्वात्रिंशत्श्लोकाः। तत्रैव न्यायावतारनाम्न्येका द्वात्रिंशिका । अत्र श्रीसिद्धर्षिगणिकृत व्याख्या श्रीराजशेखरसूरिविरचिता टिप्पनी चास्ति । न्या. श्लो. ३०।३१।३२ ३ बृहत्स्वयंभुस्तोत्रावल्यां श्रीसमन्तभद्रकृतायां श्रीविमलनाथस्तवे श्लो. ६५ । Page #299 -------------------------------------------------------------------------- ________________ २२९ स्याद्वादमञ्जरीसहिता "नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफली यतस्ततो भवन्तमार्याः प्रणता हितैषिणः " ॥ १ ॥ इति श्लोक २८ तच्चै द्विविधम् - प्रत्यक्षं परोक्षं च । तत्र प्रत्यक्षं द्विधा - सांव्यावहारिकं पारमार्थिकं च । सांव्यावहारिकं द्विविधम्-इन्द्रियानिन्द्रियनिमित्तभेदात् । " तद् द्वितयम् अवग्रहेहावायधारणाभेदाद् एकशश्चतुर्विकल्पम् || ६ ||" अवग्रहादीनां स्वरूपं सुप्रतीतत्वाद् न प्रतन्यते । " पारमार्थिकं पुनरुत्पत्तौ आत्ममात्रापेक्षम् ||१८|| " तद् द्विविधम्- क्षायोपशमिक क्षायिकं च । आद्यम्-अवधि- मनःपर्यायभेदाद द्विधा क्षायिकं तु केवलज्ञानमिति । परोक्षं च स्मृति — प्रत्यभिज्ञानो — हानुमाना - गमभेदात् पञ्चप्रकारम् । तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मृतिः ॥ ३ ॥ तते तीर्थकर विम्बमिति यथा ॥ ४ ॥ अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५ ॥ यथा तजातीय एवायं गोपिण्डः, गोसदृशो गवयः, स एवायं जिनदत्त इत्यादि ॥६॥ उपलम्भानुपलम्भसम्भवं त्रिकालीकलित साध्यसाधनसम्बन्धाद्यालम्बनं - -- इदमस्मिन् १ 'सत्यलाञ्छना' इति बृहत्स्वयंभुस्तोत्रावल्यामुपलभ्यते । २" गुणा' इति बृहत्स्वयंभुस्तोत्रावल्यामुपलभ्यते । ३ प्र. न. लो. परि. २ सू. १, २, ३४, ५. ४ एतत्स्वरूपं प्रमाणनयतत्त्वालोकालङ्कारे द्वितीयपरिच्छेदे सू. ५/६ इत्यत्र द्रष्टव्यम् । ५ प्र. न. लो. परि. २ सू. १८. ६ क्षयेणोदयप्राप्तकर्मणो विनाशेन सहोपशमे विष्कम्भितोदयत्वं क्षयोपशमः । ७ एतल्लक्षणं भेदानि च प्र. न. लो. परि. ३ सू. १/२ ३ ८ प्र. न. लो. परि. ३ सू. ९ प्र. न. लो. परि. ३ सू. ४। Page #300 -------------------------------------------------------------------------- ________________ २३० श्लोक २८ अन्ययोगव्यवच्छेदिका सत्येव भवतीत्याद्याकारं संवेदनमूहस्तांपरपर्यायः॥७॥ यथा यावान् कश्चिद् धूमःस सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येवेति वा ॥ ८॥ अनुमानं द्विधा-स्वार्थं परार्थं च ॥ ९ ॥तंत्रान्यथानुपपत्त्येकलक्षणहेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ।१०। पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ २३ ॥ आ. तवचनाद् आविर्भूतमर्थसंवेदनमागमः ॥१॥ उपचाराद् आप्तवचनं च ॥२॥ इति । स्मृत्यादीनां च विशेषस्वरूपं स्याद्वादरत्नाकरात् साक्षेपपरिहारं ज्ञेयमिति । . प्रमाणान्तराणां पुनर्स्थापत्त्युपमानसंभवप्रातिभैतिह्यादीनामंत्रैव अन्तर्भावः । सन्निकर्षादीनां तु जडत्वाद एव न प्रामाण्यामिति । तदेवंविधेन नयप्रमाणोपन्यासेन दुर्नयमार्गस्त्वया खिलीकृतः । इति काव्यार्थः ॥२८॥ इदानीं सप्तद्वीपसमुद्रमात्रो लोक इति वावर्दूकानां तन्मात्रलोके परिमितानामेव सत्त्वानां संभवात् । परिमितात्मवादिनां दोषदर्शनमुखेन भगवत्प्रणीतं जीवानन्त्यवाद निर्दोपतयाभिष्टुवन्नाह १ ऊहापरनामा लर्क' इति ह. पुस्तके पाठः । २ 'तत्र हेतुग्रहणसम्बन्धस्मरणकारकं साध्यविज्ञानं स्वार्थम् ' इति प्र. न. लो. परि, ३ सू. १० ३ प्र. न, लो. परि. ३ सू. २३. ४ प्र, न, लो, परि. ४ सू. ११२ ६ वावदूकः--अतिवक्ता । Page #301 -------------------------------------------------------------------------- ________________ स्याद्वादमञ्जरीसहिता श्लोक २९ मुक्तोऽपि वाभ्येतु भवम् भवो वा भवस्थशून्योऽस्तु मितात्मवादे। षड्जीवकायं त्वमनन्तसंख्य- माख्यस्तथा नाथ! यथा न दोषः॥२९॥ मितात्मवादे संख्यातानामात्मनामभ्युपगमे, दूषणद्वयमुपतिष्ठते, तत्क्रमेण दर्शयति-मुक्तोऽपि वाभ्येतु भवमिति-मुक्तो नितिमाप्तः, सोऽपि वा-अपिर्विस्मये, वाशब्द उत्तरदोषापेक्षया समुच्चयार्थः--यथा देवो वा दानवो वेति, भवमभ्येतु संसारमभ्यागच्छतु, इत्येको दोषप्रसङ्गः । भवो वा भवस्थशून्योऽस्तु-भवः संसारः, स वा भवस्थशून्यः संसारिभिजींवैर्विरहितोऽस्तु भवतु। इति द्वितीयो दोषप्रसङ्गः। . - इदमत्र आकूतम्-यदि परिमिता एव आत्मानो मन्यन्ते तदा तत्त्वज्ञानाभ्यासप्रकर्षादिक्रमेणापवर्ग गच्छत्सु तेषु संभाव्यते खलु स कश्चित्कालो यत्र तेषां सर्वेषां निवृतिः, कालस्यानादिनिधनत्वाद् आत्मनां च परिमितत्वात् संसारस्य रिक्तता भवन्ती केन वार्यताम्, समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनातपनजनोदञ्चनादिना कालान्तरे रिक्तता । न चायमर्थः प्रामाणिकस्य कस्यचिद् प्रसिद्धः, संसारस्य स्वरूपहानिप्रसङ्गात् । तत्स्वरूपं हि एतद्-यत्र कर्मवशवर्तिनः, प्राणिनः संसरन्ति, समासार्युः, संसरिष्यन्ति चेति । सर्वेषां च निवृतत्वे संसारस्य वा रिक्तत्वं हठादभ्युपगन्तव्यम् मुक्तैर्वा पुनर्भवे आगन्तव्यम् । न च क्षीणकर्मणां भवाधिकारः१ जनोदञ्चनं--लोकैर्जलाहरणम् । Page #302 -------------------------------------------------------------------------- ________________ २३२ श्लोक २९ अन्ययोगव्यवच्छेदिका "दग्धे बीजे यथात्यन्तं प्रादुर्भवति ना कर्मबीजे तथा दग्धे न रोहति भवाङ्करः॥" इति वचनात् । ___ आह च "पतञ्जलिः–“संति मले तद्विपाको जात्यायुर्भोगाः" इति । एतट्टींका च "सत्सु क्लेशेषु कर्माशयो विपाकारम्भी: भवति नोच्छिन्नक्लेशमूलायथा तुषावनद्वा शालितण्डुला अदग्धवीजभावाः प्ररोहसमर्था भवन्ति, नापनीततुषा दग्धबीजभावा वा । तथा क्लैशावनद्धः कमाशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधी जातिरायुर्भोगः" इति । अक्षपादोऽप्याह-"न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य” इति । एवं विभङ्गज्ञानिशिवराजर्षिमतानुसारिणो दृषयित्वा उत्तरार्द्धन भगवदुपज्ञमपरिमितात्मवादं निर्दोषतया स्तौति-पड्जीवेत्यादि । त्वं तु हे नाथ ! तथा तेन प्रकारेण, अनन्तसंख्यमनन्ताव्यसं याविशेषयुक्तं पड्जीवकायम्-अजीवन् , जीवन्ति, जीविष्यन्ति चेति जीवा इन्द्रियादिज्ञानादिद्रव्यभावप्राणधारणयुक्ताः, तेषां “सङ्घऽनूचे" इति चिनोतेञि आदेश्व कत्वे कायः समूहः जीवकायः पृथिव्यादिः, पण्णां जीवकायानां समाहारः षड्जीवकायम् , पात्रादिदर्शनाद नपुंसकत्वम्। अथवा षण्णां जीवानां कायः प्रत्येकं सातः षड्जीवकायस्तं पड़जीवकायम्-पृथिव्यप्-तेजो-वायु-वनस्पति-त्रसलक्षणषर्जावानकायम् , तथा तेन प्रकारेण, आख्यः मयादया प्ररूपितवान , १ पातञ्जलसूत्रम् २।१३ २ वात्स्यायनभाष्यम् । २।१३ ३ गौतमसूत्र ४।१।६४ ४ हैमसूत्र ५।३।८० ५ 'पात्राद्यन्तस्य न' का. बा. Page #303 -------------------------------------------------------------------------- ________________ २३३ स्याद्वादमञ्जरीसहिता श्लोक २९ यथा येन प्रकारेण, न दोषो दूषणमिति जात्यपेक्षमेकवचनम्प्रागुक्तदोषद्वयजातीया अन्येऽपि दोषा यथा न प्रादुःष्यन्ति तथा त्वं जीवानन्त्यमुपदिष्टवानित्यर्थः। आख्यः . इति. आयूर्वस्य ख्यातेरैङि सिद्धिः। त्वमित्येकवचनं चेदं ज्ञापयति-यद् जगद्गुरोरेव एकस्य ईदृक्प्ररूपणसामर्थ्य, न तीर्थान्तरशास्तृणामिति । . पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयम्-यथा सात्मिका विद्रुमाशिलादिरूपा पृथिवी, छेदे समानधातूत्थानाद् , अर्शोऽङ्करवत् । भौममम्भोऽपि सात्मकम् , क्षतभूसजातीयस्य स्वभावस्य सम्भवात् , शालूरवत् । आन्तरिक्षमाप सात्मकम् , अभ्रादिविकारे स्वतः सम्भूय पातात् , मत्स्यादिवत् । 'तेजोऽपि सात्मकम् , आहारोपादानेन वृद्धयादिविकारोपलम्भात् , पुरुषाङ्गवत् । वायुरपि सात्मकः, अपरप्रेरितत्वे तिर्यग्गतिमत्वाद गोवत् । वनस्पतिरपि सात्मकः, छेदादिभिर्लान्यादिदर्शनात् , पुरुषाङ्गवत् , केषाञ्चित् स्वापागनोपश्लेषादिविकाराच्च । अपकर्षवतश्चैतन्याद् वा सर्वेषां सात्मकत्वसिद्धिः आप्तवचनाच्च । त्रसेषु च कृमिपिपीलिकाभ्रमरमनुष्यादिषु न केषाश्चित् सात्मकत्वे विगानमिति । यथा च भगवदुपक्रमे जीवानन्त्ये न दोषस्तथा दिग्मात्रं भाव्यते-भगवन्मते हि षण्णां जीवनिकायानामेतद् अल्पबहुत्वम्-सर्वस्तोकास्त्रसकायिकाः, तेभ्यः संख्यातगुणाः तेजस्कायिकाः, तेभ्यो विशेषाधिकाः पृथ्वीकायिकाः तेभ्यो विशेषाधिका अप्कायिकाः, तेभ्योऽपि विशेषाधिका वायुका १ 'शास्त्यसूवक्तिख्यातेरङ्' इति हैमसूत्रे ३।४।६० २ अर्शः-दुर्नामपर्यायो रोगविशेषः । तदङ्करे छिन्नेऽपि पुनः स प्ररोहति । अत्र 'दर्भाङ्करवत्' इति रा. घ. पुस्तकयोः पाठः । ३ भौम-भूमिगतम् । ४ शालूरः-मण्डूकः। Page #304 -------------------------------------------------------------------------- ________________ श्लोक २९ अन्ययोगव्यवच्छेदिका २३४ यिकाः, तेभ्योऽनन्तगुणा वनस्पतिकायिकाः, ते च व्यावहारिका अव्यावहारिकाश्चगोला य असंखिजा असंखणिग्गोय गोलओ भणिओ। इकिक्कणिगोयम्हि अणन्तजीवा मुणेयव्वा ॥१॥ सिज्झन्ति जत्तिया खल इह संववहारजीवरासीदो। एंति अणाइवणस्सइ रासीदो तत्तिआ तम्हि ॥२॥" इति वचनाद् यावन्तश्च यतो मुक्तिं गच्छन्ति जीवास्तावन्तोऽनादिनिगोदवनस्पतिराशेस्तत्रागच्छन्ति । न च तावता तस्य काचित् परिहाणिनिगादीवानन्त्यस्याक्षयत्वात् । निगोदस्वरूपं च समयसागराद् अवगन्तव्यम् । अनाद्यनन्तेऽपि काले ये कॅचिनिर्वृत्ताः, निर्वान्ति, निर्वास्यन्ति च ते निगोदानामनन्तभागेऽपि न वर्त्तन्ते, नावर्तिषत, न वय॑न्ति । ततश्च कथं मुक्तानां भवागमनप्रसङ्गः, कथं च संसारस्य रिक्तताप्रसक्तिरिति, अभिप्रेतं चैतद अन्ययथ्यानामपि । यथा चोक्तं वार्तिककारेण"अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् । बह्माण्डलोकजीवानामनन्तत्वाद् अशून्यता ॥१॥ अत्यन्यूनातिरिक्तत्वैयुज्यते परिणामवत् । वस्तुन्यपरिमेये तु नूनं तेषामसम्भवः॥२॥" इति काव्यार्थः ।। २९ ॥ ___ अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरित्वं गोलाश्च असंख्येयाः असंख्यनिगोदो गोलको भणितः । एकैकस्मिस् निगोदे अनन्तजीवा ज्ञातव्याः ।। १ ।। सिध्यन्ति यावन्तः खलु इह संव्यवहारजीवराशेः । आयान्ति अनादिवनस्पतिराशेस्तावन्तस्तस्मिन || || इति छाया २ अयं ग्रन्थो न विज्ञायते । Page #305 -------------------------------------------------------------------------- ________________ स्थाद्वादमरीसहिता प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्यान्योन्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयति अन्योऽन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः॥ नयानशेषानविशेषामिच्छन् न पक्षपाती समयस्तथा ते ॥३०॥ प्रकर्षेण उद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति प्रवादाः) यथा येन प्रकारेण, परे भवच्छासनाद् अन्ये, प्रवादा दर्शनानि, मत्सरिण:-अतिशायने मत्वर्थीयविधानात् सातिशयासहनताशालिनः क्रोधकषायकलुषितान्तःकरणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनमवणा वर्तन्ते । कस्माद् हेतोर्मत्सरिणः, इत्याह-अन्योऽन्यपंक्षप्रतिपक्षभावात् । पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्टयेन हेत्वादिभिरिति पक्षः-कक्षीकृतधर्मप्रतिछापनाय साधनोपन्यासः, तस्य प्रतिकूल पक्षः प्रतिपक्ष:--पक्षस्य प्रतिपक्षो विरोधी पक्षः, तस्य भावः पक्षप्रतिपक्षभावः, अन्योऽन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्षत्वमन्योऽन्यपक्षप्रतिपक्षमावस्तस्मात् । तथा हि-य एव मीमांसकानां नित्यः शब्द इति पक्षः, स एव सौगतानां प्रतिपक्षः, तन्मते शब्दस्यानित्यत्वात् । य एव सौगतानामनित्यः शब्द इति पक्षः, स एव मीमांसकानां पतिपक्षः। एवं सर्वप्रयोगेषु योज्यम् । तथा तेन प्रकारेण, ते तव, सम्यक् १ सर्वनयस्वरूपयुक्ततयेत्यर्थः । २ 'परदर्शनानि' इति क. ख. पुस्तकयोः पाठः। ३ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः । इत्युक्तेः। Page #306 -------------------------------------------------------------------------- ________________ श्लोक ३० अन्ययोगव्यवच्छेदिका ___२३६ एति गच्छति शब्दोऽर्थमनेन इति "पुन्नाम्नि घः।" समयः संकेतः, यद्वा सम्यग अवैपरीत्येन अय्यन्ते ज्ञायन्ते जीवा-जीवादयोऽर्था अनेन, इति समयः सिद्धान्तः, अथवा सम्यग् अयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन् इति समय आगमः, न पक्षपाती नैकपक्षानुरागी। पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषु उक्तम्, त्वत्समयस्य च मत्सरित्वाभावाद् न पक्षपातित्वम् । पक्षपातित्वं हि मत्सरित्वेन व्याप्तम्, 'व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयति'इति मत्सारित्वे निवर्तमाने पक्षपातित्वमाप निवर्तत •इति भावः । तव समय इति. वाच्यवाचकभावलक्षणे सम्बन्धे षष्ठी । मूत्रापेक्षया गणधरकर्तृकत्वेऽपि समयस्य अर्थापेक्षया भगवत्कर्तृकत्वाद वाच्यवाचकभावो न विरुध्यते "अत्थं भासइअरहा सुत्तं गंथंतिगणहरा णिउणं" इति वचनात्,अथवा उत्पाद-व्यय-ध्रौव्यप्रपञ्च :समयः तेषां च भगवता साक्षान्मातृकापदरूपतयाभिधानात् । तथा चार्षम्-"उपनेइ वा, विगमेइ वा धुवेइ वा" इत्यदोषः। मत्सरित्वाभावमेव विशेषणद्वारेण समर्थयति-नयानशेषानविशेषमिच्छन् इति । अशेषान् समस्तान् नयान नैगमादीन्, अविशेषं निर्विशेषं यथा भवति एवम् इच्छन् आकाइन् , सर्वनयात्मकत्वाद अनेकान्तवादस्य । यथा विशकलितानां मुक्तामणीनामेकसूत्रानुस्यूतानां हारव्यपदेशः, एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणैकमूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेश इति । ननु १ हैमसूत्रम् ५।३।१३०. २ विशेषावश्यकभाष्य गाथा १११९ । अर्थ भाषतेऽर्हर सूत्र प्रश्नन्ति गणधरा निपुणम् । इति छाया। ३ मातृका-लिपिर्मूलाक्षराणि । ४ उत्पद्यते वा विगच्छति ( नश्यति) वा ध्रुवयति वा । इति छाया। . Page #307 -------------------------------------------------------------------------- ________________ २३७ स्याद्वदमञ्जरीसहिता श्लोक ३० प्रत्येकं नयानां विरुद्धत्वे कथं समुदितानां निर्विरोधिता। उच्यतेयथा हि समीचीनं मध्यस्थं न्यायनिर्णेतारमासाद्य परस्परं विवदमाना अपि वादिनो विवादाद् विरमन्ति, एवं नया अन्योऽन्य वैरायमाणा-अपि सर्वज्ञशासनमुपेत्य स्याच्छब्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः परस्परमत्यन्तं सुहृ यावतिष्ठन्ते । एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद् दर्शनानाम् । न च वाच्यं तर्हि भगवत्समयस्तेषु कथं नोपलभ्यते इति । समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तासु अनुपलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाः "उद्धाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः "॥१॥ अन्ये त्वेवं व्याचक्षते-तथा अन्योन्यपक्षप्रतिपक्षभावात् परे प्रवादा मत्सरिणस्तथा तव समयः सर्वनयान् मध्यस्थतयाङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः, पक्षपाती-पक्षमेकपक्षाभिनिवेशम् , पातयति तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम् , पूर्वस्मिंश्च पक्षपातीति विशेषः। अत्र च क्लिष्टाक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः। इति काव्यार्थः ॥ ३०॥ इत्थङ्कारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादा१ 'सार्वश्यं शासनम्' इति क. ख, घ. रा. पुस्तकेषु पाठः। . २ 'सुहृद्रूपतया' इति घ. रा. पुस्तकयोः पाठः । ३ द्वात्रिंशद्वात्रिंशिकास्तोत्रे चतुर्थद्वात्रिंशिकायां १५ श्लोकः। ... ४ जीवनाश-संपूर्णतयेत्यर्थः। रागस्येत्यारभ्य नष्टत्वादित्यन्तं ख. पुस्तके नास्ति । Page #308 -------------------------------------------------------------------------- ________________ लोक ३१ अन्ययोगव्यवच्छोदिका ख्यं गुणमभिष्टुत्य समग्रवचनातिशयव्यावर्णने स्वस्यासामर्थ्य दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भङ्ग्यन्तरतिरोहितं स्वाभिधानं च प्रकाशयन् निगमनमाह वाग्वैभवं ते निखिलं विवेक्तु माशास्महे चेद् महनीयमुख्य !। लड्धेम जङ्घालतया समुद्र वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१॥ विभव एव वैभवं प्रज्ञादित्वात् स्वार्थेऽण, विभोर्भावः कर्म चेति वा वैभवम् । वाचां वैभवं वाग्वैभवं वचनसंपत्यकर्षम्, विभोर्भाव इति पक्षे तु सर्वनयव्यापकत्वम् । विभुशब्दस्य व्यापकपर्यायतया रूढत्वात् । ते तव संबन्धिनं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेद् यदि वयमाशास्महे इच्छामः, हे महनीयमुख्य ! महनीयाः पूज्याः पञ्चपरमेष्ठिनस्तेषु मुख्यः प्रधानभूतः,आद्यत्वात्,तस्य संबोधनम् । ननु सिद्धेभ्यो हीनगुणत्वाद् अर्हतां कथं वागतिशयशालिनामपितेषां मुख्यत्वम्, न च हीनगुणत्वमसिद्धम् । प्रव्रज्यावसरे सिद्धेभ्यस्तेषां नमस्कारकरणश्रवणात्-" काऊण नमुक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे” इति श्रुतकेवलिवचनात् । मैवम् १ 'स्वाभिधानं च प्रकाशयन् इति प्रक्षिप्तमिव भाति । यतः 'बहेम' इति शब्दान्तगतहेमशब्दग्रहणं न सुसंगतम् । किंच स्याद्वादमञ्जरीकृद्भिः स्वयं तथा व्याख्यानं न कृतम् । २ 'प्रज्ञादिभ्योऽण्' इति हैमसूत्रम् ७।२।१६५. ३ 'पर्यायरूपतया' इति घ. रा. पुस्तकयोः पाठः । ४ कृत्वा नमस्कारं सिद्धेभ्योऽभिग्रहं तु सोऽग्रहीत् । इति छाया। Page #309 -------------------------------------------------------------------------- ________________ २३९ स्याद्वादमञ्जरीसहिता श्लोक ३१ अहंदुपदेशेनैव सिद्धानामपि परिज्ञानात् । तथा चार्षम्-" अरहन्तुवएसेणं सिद्धा.नजंति तेण अरहाऽऽई " इति । ततः सिद्धं भगवत एव मुख्यत्वम् । यदि तव वाग्वैभवं निखिलं विवेत्तुमाशास्महे ततः किमित्याह-लङ्घम इत्यादि । तदा इत्यध्याहार्यम् । तदा जङालतया जाङिकतया वेगवत्तया, समुद्रं लड़ेम किल समुद्रमिव अतिक्रमामः। तथा वहेम धारयेम, चन्द्रद्युतीनां चन्द्रमरीचीनां पानं चन्द्रद्युतिपानम्, तत्र तृष्णा तर्षोऽभिलाष इति यावत् । चन्द्रद्युतिपानतृष्णा, ताम् । उभयत्रापि सम्भावने सप्तमी । यथा कश्चिञ्चरणचङ्क्रमणवेगवत्तया यानपात्रादि अन्तरेणापि समुद्रं लङितुमीहते, यथा च कश्चिश्चन्द्रमरीचीरमृतमयीः श्रुत्वा चुलुकादिना पातुमिच्छति, न चैतद् द्वयमपि शक्यसाधनम् । तथा न्यक्षेणे भवदीयवाग्वैभववर्णनाकाङ्क्षापि अशक्यारम्भप्रवृत्तितुल्या, आस्तां तावत् तावकीनवचनविभवानां सामस्त्येन विवेचनविधानम् , तद्विषयाकाङ्क्षापि महत् साहसमिति भावार्थः । ___ अथवा 'लघु शोषणे, इति धातोर्लङम शोषयेम, समुद्रं जड़ालतया अतिरंहसा, अतिक्रमणार्थलोस्तु प्रयोगे दुर्लभं परस्मैपदमनित्यं वा आत्मनेपदमिति । अत्र च औद्धत्यपरिहारेऽधिकृतेऽपि यद् 'आशास्महे' इत्यात्मनि बहुवचनमाचार्यः प्रयुक्तवास्तदिति सूचयात-यद् विद्यन्ते जगति मादृशा मन्दमेधसो भूयांसास्तोतारः, इति बहुवचनमात्रेण न खलु अहङ्कारः स्तोतरि प्रभो शनीयः। प्रत्युत निराभिमानताप्रासादोपरि पताकारोप एवावधारणीयः । इति काव्यार्थः॥३१॥ एषु एकात्रिंशति वृत्तेषु उपजातिच्छन्दः। १ अहंदुपदेशेन सिद्धा शायन्ते तेनाईदादिः ॥ इति छाया विशेषावश्यकभावगाथा ३२१३॥ २ पूर्णतया । ३ हैमधातुपारायणे भ्वादिगणे धा. ९८. ४ 'अहंकारविकारः प्रढौकनीयः' इति क. पुस्तके पाठः। ५ इन्द्रवज्रोपेन्द्रवज्रयोः संकरोऽन्योन्यपादमीलनमुपजातिः । Page #310 -------------------------------------------------------------------------- ________________ श्लोक ३१ अन्ययोगव्यवच्छेदिका एवं विप्रतारकैः परतीर्थिकैर्व्यामोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणेऽव्यभिचारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्यं दर्शयन् तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति २४० इदं तत्त्वातत्त्वव्यतिकर कर लेऽन्धतमसे जगन्मायाकारैरिव हतपरैर्हा विनिहितम् । तदुद्धर्तुं शक्तो नियतम विसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥ इदं प्रत्यक्षोपलभ्यमानं जगद् विश्वम् — उपचाराद जगद्वती जनः । हतपरै: - हता अधमा ये परे तीर्थान्तरीया हतपरे, तैर्मायाकारैरिव ऐन्द्रजालिकैरिव - शाम्बरीयप्रयोगनिपुणैरिव इति यावत् । अन्धतमसे निविडान्धकारे, हा इति खेदे विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः । अन्धं करोतीत्यन्धयति, अन्धयतीत्यन्धं तच्च तत्तमश्चेत्यन्धतमसम् "समवान्धात् तमस" इत्यत्प्रत्ययः. तस्मिन् अन्धतमसे । कथंभूतेऽन्धतमसे इति द्रव्यान्धकारव्यवच्छेदार्थमाह-- तत्त्वातत्त्वव्यतिकरकराले । तत्त्वं चातत्त्वं च तत्त्वातत्त्वं तयोर्व्यतिकरो व्यतिकीर्णता व्यामिश्रता स्वभावविनिमयस्तत्त्वातत्त्वव्यतिकरस्तेन कराले भयङ्करे । यत्रान्धतमसे तत्त्वेतत्त्वाभिनिवेश: । अतत्त्वे च तत्त्वाभिनिवेश इत्येवंरूपो व्यतिकरः संजायत इत्यर्थः । अनेन च विशेषणेन परमार्थतो मिथ्यात्वमोहनीयमेव अन्धतमसम्, तस्यैव ईक्षलक्षणत्वात् । तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः १ हैमसूत्रम् ७|३|८० २ हेमचन्द्रकृतयोगशास्त्रे द्वितीयप्रकाशे तृतीयः श्लोकः। Page #311 -------------------------------------------------------------------------- ________________ - स्याद्वादमञ्जरीसहिता श्लोक ३२ "अदेवे देवबुद्भिर्या गुरुधीरगुरौ च या अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात्" ॥१॥ ततोऽयमर्थः-यथा किल ऐन्द्रजालिकास्तथाविधसुशिक्षितपरव्यामोहनकलाप्रपञ्चाः तथाविधमौषधीमन्त्रहस्तलाघवादिप्रायं किश्चित्प्रयुज्य परिषजनं मायामये तमास मजयन्ति, तथा परतीर्थिकैरपि तादृप्रकारदुरधीतकुतर्कयुक्तीरुपदिश्य जगदिदं व्यामोहमहान्धकारे निक्षिप्तमिति । तज्जगदुद्धर्तुं मोहमहान्धकारोपप्लवात् क्रष्टुम्, नियतं निश्चितम् , त्वमेव, नान्यः शक्तः समर्थः । किमर्थमित्येमेकस्यैव भगवतः सामर्थ्यमुपवर्ण्यते, इति विशेषणद्वारेण कारणमाहअविसंवादिवचनः । कष-च्छेद-तापलक्षणपरीक्षात्रयविशुद्धत्वेन फलप्राप्तौ न विसंवदतीत्येवंशीलमविसंवादि, तथाभूतं वचनमुपदेशो यस्यासावविसंवादिवचनः अव्यभिचारिवागित्यर्थः । यथा च पारमेश्वरी वाग् न विसंवादमासादयति यथा तत्र तत्र स्याद्वादसाधने दर्शितम् । कषादिस्वरूपं चेत्थमाचक्षते प्रावचनिकाः " पाणबहाईआणं पावटाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो य विहहिास धम्मकसो ॥१॥ बज्झाणुठाणेणं जेण ण वाहिज्जए तयं णियमा । संभवइ य परिशुद्धं सो पुण धम्मम्हि छेउत्ति ॥२॥ १ 'उपदी' इति ह.पुस्तके पाठः। २ हरीभद्रसूरिकृतपञ्चवस्तुकचतुर्थद्वारे प्राणवधादीनां पापस्थानानां यस्तु प्रतिषेधः । ध्याना-ध्ययनादीनां यश्च विधिरेष धर्मकषः ॥ १॥ बाह्यानुष्ठानेन येन न बाध्यते तन्नियमात् । संभवति च परिशुद्धः स पुनर्धमें छेद इति ॥ २ ॥ ‘जीनादिभाववादो बन्धादिप्रसाधक इह तापः । .. एतैः परिशुद्धो धर्मो धर्मत्वमुपैति ॥ ३॥ इति छाया । Page #312 -------------------------------------------------------------------------- ________________ श्लोक ३२ अन्ययोगव्यवच्छेदिका २४२ जीवाइ भामुखी धान प्रकृतपा समर्थाः जीवाइ भाववाओ बंधाइ पसागहो इहं तावो। एएहिं परिसुद्धो धम्मो धम्मत्तणमुवेइ ॥३॥" तीर्थान्तरीयाप्ता हि न प्रकृतपरीक्षात्रयविशुद्धवादिन इति ते महामोहान्धतमस एव जगत् पातयितुं समर्थाः, न पुनस्तदुद्धतुम्, अतःकारणात् । कुतः कारणात् कुमतध्वान्तार्णवान्तःपतितभुवनाभ्युद्धारणासाधारणसामर्थ्यलक्षणात् , हे त्रातत्रिभुवनपरित्राणप्रवीण ! त्वयि काव्कावधारणस्य गम्यमानत्वात् त्वय्येव विषये न देवान्तरे, कृतधियः-करोतिरत्र परिकर्मणि वर्तते, यथा हस्तौ कुरु पादौ कुरु इति, कृता परिकर्मिता तत्त्वोपदेशपेशलतत्तच्छास्त्राभ्यासप्रकर्षण संस्कृता धीवुद्धिर्येषां ते कृतधियश्चिद्रूपाः पुरुषाः, कृत्तसपर्याःप्रादिकं विनाप्यादिकर्मणो गम्यमानत्वात् कृता कर्तुमारब्धा सपर्या सेवाविधियैस्ते कृतसपर्या आराध्यान्तरपरित्यागेन त्वय्येव सेवाहेवाकितां परिशीलयन्ति । इति शिखरिणीच्छन्दोऽलंकृतकाव्यार्थः ॥३२॥ ॥समाप्ता चेयमन्ययोगव्यवच्छेदद्वात्रिंशिकास्तवन का ॥ टीकाकारस्य प्रशस्तिः । येषामुज्ज्वलहेतुहेतिरुचिरः प्रामाणिकाध्वस्पृशां हेमाचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा । तेषां दुनेयदस्युसम्भवभयास्पृष्टात्मनां सम्भवत्यायासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा ॥१॥ चातुर्विद्यमहोदधेर्भगवतः श्रीहेमसूरेगिरां . गम्भीरार्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम । द्राघीयः समयादराग्रहपराभूतप्रभूतावमं तन्नूनं गुरुपादरेणुकणिकासिद्धाञ्जनस्योर्जितम् ॥ २॥ १ अत्यष्टौ यम्नसभल्गाः शिखरिणी चैः।। यमनसभलगा चैरिति षड्भियतिः । हैमछन्दोऽनुशासनं अ. २ सू. २८७, Page #313 -------------------------------------------------------------------------- ________________ २४३ स्याद्वादमञ्जरीसहिता श्लोक २२ अन्यान्यशास्त्रतरुसंगतचित्तहारिपुष्पोपमेयकतिचिनिचितप्रमेयैः। दृब्धां मयान्तिमाजिनस्तुतिवृत्तिमेनां मालामिवामलहृदो हृदये वहन्तु।३। प्रमाणसिद्धान्तविरुद्धमत्र यत्किचिदुक्तं मतिमान्द्यदोषात् । .. मात्सर्यमुत्सार्य तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ॥ ४॥ उामेष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणे यत्रेयं प्रतिभाभरादनुमितिर्निर्दम्भमु जम्भते । किं चामी विबुधाः सुधेति वचनोद्गारं यदीयं मुदा शंसन्तः प्रथयन्ति तामतितमां संवादमेवस्विनीम् ॥ ५ ॥ नागेन्द्रगच्छगोविन्दवक्षोऽलंकारकौस्तुभाः। ते विश्ववन्द्या नन्द्यासुंरुदयप्रभसूरयः ॥ ६॥ युग्मम् ॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरियं मनुरंविमितशाकॉन्दे दीपमहसि शनौ ॥७॥ श्रीजिनप्रभसूरीणां साहायोद्भिन्नसौरभा । . श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ॥ ८ ॥ १ 'ये ह्युदयप्रभजीवदेवसूरिसन्तानीया वस्तुपालमन्त्रीश्वरवन्दितामयः' इति घ. पुस्तकटिप्पन्याम् । २. अकानां वामतो गतिः । १२१४ मिते शाके । .३ :जिनप्रभः सन्देहविषौषधीसंज्ञितकल्पवृत्तिकारकः यतो लभ्यते सूरीन्द्रस्यान्वये जातो नवाड़ीवृत्तिवेधसः । श्रीजिनेश्वरसूरीणां पौत्रःपात्रमवेधसः ॥ १॥ पुत्रः श्रीमज्जिनसिंहसूरीणां रीणरेफसां । जग्रन्थ ग्रन्थमेतं श्रीजिनप्रभमुनिप्रभुः ॥ २ ॥ वैक्रमेऽस्ति कलाविश्वदेवसङ्ख्येऽनुवत्सरे । इत्यादि अत एव इहापि विक्रमतः सं. १३४९ इति मन्तव्यम् ॥' इति घ, पुस्तकटिप्पन्याम् । ४ दीपावल्याम् । ५ श्रेयोऽस्तु पा ख्यपरमेश्वरप्रसादात् । इत्यनादिमिथ्यामततापापोहच्छायारुचिरस्याद्वादसहकारतरुमंजरीसंपूर्तिमंजुलतामध्यारोहत् ॥ ध्वस्तात्यन्तकुतर्कतंत्रतिमिराः स्व Page #314 -------------------------------------------------------------------------- ________________ श्लोक ३२ अन्ययोगव्यवच्छेदिका विभ्राणे केलि निर्ज्जयाज्जिनतुलां श्रीहेमचन्द्रप्रभौतद्दृब्धस्तुतिवृत्तिनिर्मितिमिषाद् भक्तिर्मया विस्तृता । निर्णेतुं गुण-दूषणे निजगिरां तन्नार्थये सज्जनान् तस्यास्तत्त्वमकृत्रिमं बहुमति: सास्त्यत्र सम्यग् यतः ॥ ९.. समाप्तम्. २४४ त्वावकाशात्विषा । ये जैनागमतत्त्वलाभललिताः- संसारपारैषिणः । भूयासुर्भुवि हेमचन्द्रगुरवस्तेद्वादशांगीद्विषां । पापोल्लापजुषामशेषमसतां भूकत्वजीवातवः । १ । दि दयित धर्मध्यानसंतानशर्म । त्रिभुवनमुकुटाईत्पाद पूजापरीतं । समयनयगमार्थज्ञानगाथाभिरुच्चैः । कुमतमथनमलो मलिषेणोमुनींद्रः ॥ २ ॥ नानारूपविकल्पजल्पविपिनप्लोषानलः केवलं, सम्यक्त्वामृतसागरोज्वलकलाकल्लोलकोलाहलः । साम्यानंदपदप्रवेशनपटुः सर्वत्र नः सर्वदा । भूयादक्षयचन्द्रवाचकपदां भोजप्रसादोदयः ॥ ३ ॥ ÷श्रीवीरमुक्तिकल्याणात् सं. २२६३ वत्सरे विक्रमनृषतः संवत् १७९३ कार्त्तिकप्रथमपंचम्यां बुधे । श्रीचिंतामणिपार्श्वदेवालयविराजितकृष्णदुर्गाहवपुरे । रत्नेन रत्नत्रयैषिणा दुःकर्मपरिक्षयार्थं । लिखितेयं । ॐ नमो वामेयाय ॥' इत्यधिकं घ. पुस्तके | १ ख. पुस्तके प्रथमपञ्च श्लोकाः नवमश्च नास्ति । २ ' राजिष्णौ कलिनिर्जयाज्जिन इव श्रीहेमचन्द्रप्रभौ ।' इति क . पुस्तकपाठः । ३ 'किल' इति रा. ह. पुस्तकयोः पाठः । ४ ' मयाविष्कृता' इति ख. पुस्तके पाठः । *विक्रमतः सं. ११३८ हेमाचार्याणां जन्म । सं. ११९९ कुमारपालभूपालतः प्रकाशः। सं.१२१३ देहांतरम् । ये हि देवचंद्राचार्यगुरुकाः सार्द्धत्रिकोटिग्रन्थकर्तारः ॥ ÷सप्तत्युत्तरमुल्लंघ्य शरच्छतचतुष्टयं । श्रीवीर जिननिर्वाणाद्विक्रमो राज्यमासदत् ॥ १ ॥ इति । Page #315 -------------------------------------------------------------------------- ________________ शुद्धम् . पृष्ठे पवतो खण्डनम् विद्वद्वशंवदः धर्मिणि कारण वार्तिके संशितं शुद्धिपत्रकम् । अशुद्धम् (प्रस्तावनायाम् ) खण्डनम विद्वद्वशवंदः धाणि कारणा वार्तिके संज्जितं १० १३ मत्वात् मत्त्वात् २३,२४,२५ भेद सङ्ख्येयम् , भेदो * * * * * * * * * * * * * * * * * * * स्याद्वाद सङ्ख्येम् स्याद्वाद कृतकां. स्तथा। कोचत्तु कृतका स्तथा केचित् . मुपलभ्य बलवत लङ्घयामि भूतो मुलमन्य बलवत् लझ्यामि . नातिशय रूसउ सर्व नातितशय रूसऊ सर्व पर्यात्मक प्रतीयमा * * * * * पर्यायात्मक प्रतीयमान Page #316 -------------------------------------------------------------------------- ________________ (२) व्यययो तदप्यानपंचाशतौ प्येकत्र चित्रपटी प्रकाराः शूलमभव्यस्य ॥ स चायं वान्ध्ययादि तस्मादपहर श्लो. ३६ भिन्नत्वेऽङ्गी हानेधर्मधर्म एषां नपरैः व्ययो . तदप्यनि पचाशती प्येकत्रचित्रपटी .. प्रकारः शूलमभव्यस्य सचायं वान्धयादि तस्माषहर • सूत्र ३६ भिन्नत्वेडी व्यावृत्ति अन्तेषु तत्त्वज्ञाना न ह वै रस्ति । अशररिं शोकाद्य योगात् पुस्तकयोः न ह वै अपहतिः हानेधर्मधर्म . येषां व्यावृत्ति अन्त्येषु तत्वज्ञाना न वै रस्त्यशरीरं केशाद्य योगात पुस्तकयो न वै ये अपि अपहति येऽपि ते अपि सिद्धो द्रष्टव्यम् शरीरस्योप तेऽपि सिद्धोः दृष्टव्यम् .. शरीररस्योप . " .. . . 2.- Page #317 -------------------------------------------------------------------------- ________________ सावयवत्व सावयवत्वं समुद्घातः समुद्घा १२ सर्गे सावयत्व सावयत्वं समुद्धातः समुद्धा २२ सर्गे vr : MA: " : 2 हेत्वर्था विप्रतिप्रत्ति निरवयव सब्रह्मचारि दुपयाचितश्राद्धा सौनिका सौनिकः . सम्यक्त्वं प्रेत्य जिन श्रीजिनेश्वरसूरिः । जिनालयादिभ्यः। इत्याशय - प्रतीम इत्यत . 'इमाणं' ति जिनालयादि कारयितु (७५) पृष्ठे १ टिप्पन्यां विस्तरस्तु समवधानआरनालः भक्तादि पचनीय विशुद्धाहार पानादि याच्यम् हेत्वार्था विप्रविपत्ति निखय स ब्रह्मचारी दुपयाचित्तश्रद्धा सौनका सौनकः , समक्त्वं प्रेत्यजिन श्रीजिनपतिसूरिः जिनालयादिभ्यः इत्याशङक्य प्रतीमेत्यत इमानन्ति जिनालयादिकारयितु (७९) पृष्ठे टिप्पन्यां विस्तस्तु समवधान आरनलः भक्तादिपचनीय विशुद्धहार पानादियोज्यम् व्कश्चिद व्यापाराः ति 012 ८९ . • काश्चद । व्यापारा . Page #318 -------------------------------------------------------------------------- ________________ श्लो. लम्भातू लम्भात् ९६ १०३ १०६ हेतुः दूषणदिक् निर्विकल्पक निर्विल्पकं १०५ कर्मद्वैतं कर्मद्वैत लघ्वक्षरा लध्वक्षरा . १०७ . . दूषणादिक् १०८. परमाणुभिः सह परमाणुभिःसह . ११ " अपोह एव शब्दार्थः” . अपोह एव शब्दार्थ ११ समाम्ना समाम्रा १२३ .. इत्यर्थः १२९ तत्प्रवृत्ते तप्रवृत्ते . १३५ दतीतानागत दतीनागत कारत्व काराकारत्व इत्यर्थः Sabattimillilull.nl ख. १३८ अलङ्कारे अलङ्कार , १३९ वयवधार वयवाधार हृत्पूरा सच्चन्द्रः तयार्थेऽनुभूय प्रमाण सचन्द्रः तयार्थेनुभूय. प्रमाण १४१ १४२ १४२ दृष्टान्तः दृष्टान्त प्रमाणनगी १४५ १४५ नवेनुधातु १४८ प्रमाणानगी नुवेधात्तु भग्न देष्टव्यम् जन्मान्तरे न्धानस्य जनन भग्र देष्टव्यम् जन्मातरे न्धानस्यजनन १४९ १५२ १५४ . १५५ Page #319 -------------------------------------------------------------------------- ________________ (५) १५९ पृथक् कल्पना षड्वि धं मात्रया हाद भूतानम् द्रब्य स्याद भिन्नानि १६६ 0 rur OM वृतो 9 ११ ० १७२ पृथक्कल्पना षड्विधं मात्रग्राहठाद् भूतानाम् द्रव्य स्यादभिन्नानि व्रतो र्गतत्वे वह्नयोः निमित्तद्वया बन्धनतानिर्विशेष द्वादशाङ्गस्य नवाध्ययना सप्तमाध्ययनम् . सङ्ख्याकाः श्लोकाः . . संपूर्णसंख्या तद्धे-. . ३७७६। . देवसूसंपूर्ण दशापि गच्छतः .. आभाषितः १७५ १७ " गत्वे वह्नयो निमित्तशद्वया . बन्धनता निर्विशेष द्वादस्याङ्गस्य नवाध्यायना सप्तमाध्यायनम् संख्याकाश्लोकाः संपूर्णणंख्या तद्धे । ३७७६देवसूः सपूर्ण देशापि गच्छतः । आभाषितो स्तानेव १७६ १७७ १७९ १७९ २६ स्तान्येव १८० २४ वेदेप्युक्तम् ३२.. १८१ ३२ वेदेऽप्युक्तम् भूतकार्य भावोऽनीक्षणा त्तस्य भूताकार्य भावोनीक्षणा त्तस्या १८२ Page #320 -------------------------------------------------------------------------- ________________ (6) नाथ 183 183 एवं संभवि 184 एव सभवि भवतः प्राणा साविशयौ भवेत सातिशयौ भवेत् रभ्भक 185 189 नारत्येव . .9 रम्भक नास्त्येव पुद्गलानां पुद्गलाः गिरीद्वितीय पुष्पाणीव विरोधशब्दोऽत्र उद्गार तस्य पुद्गलानां घुद्गलाः गिरी द्वितीय पुष्याणीव विरोधब्दोऽत्र उद्गार .186. 186 191 . 198 . 31 . 24 वः वर्षेः / दी दर्शी 208 209 214 संगृह्णन् संग्रहन् प्राप्नुवन्ति 215 प्रागुवन्ति पश्चाश पञ्चाश पञ्च पञ्चा इत्यर्थः / पतृणा इत्यर्थः 217 पतृणा नय 225 प्रपञ्चः समयः भूयांसः स्तोतारः, नयो प्रपञ्च :समयः भूयांस :स्तोतारः, - 236 239