________________
श्लोक ८
अन्ययोगव्यवच्छेदिका
क्षायोपशमिकत्वात् केवलज्ञानाविर्भावकाल एव प्रलीनम् " - मि य छाउमत्थिए नाणे " इत्यागमात् । केवलं तु सर्वद्रव्यपर्यायगतं क्षायिकत्वेन निष्कलङ्कात्मस्वरूपत्वाद- अस्त्येव मोक्षावस्थायाम्, सुखं तु वैषयिकं तत्र नास्तिं तद्धेतोर्वेदनीयकर्मणोऽभावात् । यत्तु निरतिशयक्षयमनपेक्षमनन्तं च सुखं तद वाढं विद्यते दुःखस्य चाधर्ममूलत्वात् तदुच्छेदादुच्छेदः ।
नन्वेवं सुखस्यापि धर्ममूलत्वाद् धर्मस्य चोच्छेदात् तदपि न युज्यते; " पुण्यपापक्षयो मोक्षः " इत्यागमवचनात् । नैवम् । वैषयिकसुखस्यैव धर्ममूलत्वाद् भवतु तदुच्छेदः, न पुनरनपेक्षस्यापि सुखस्योच्छेदः । इच्छाद्वेषयोः पुनर्मोहभेदत्वात् तस्य च समूलकार्षकषितत्वादभावः । प्रयत्नश्च क्रियाव्यापारगोचरो नास्त्येवः कृतकृत्यत्वात् । वीर्यान्तरायक्षयोपनतस्त्वस्त्येव प्रयत्नः, दानादि - लैब्धिवत् ; न च कचिदुपयुज्यतेः कृतार्थत्वात् । धर्माधर्मयोस्तु पुण्यपापापरपर्याययोरुच्छेदोऽस्त्येव; तदभावे मोक्षस्यैवायोगात् । संस्कारस्य मतिज्ञानविशेष एव तस्य च मोहर्यांनन्तरं क्षीणत्वादभाव इति । तदेवं न संविदानन्दमयी च मुक्तिरिति युक्तिरिक्तेयमुक्तिः । इति काव्यार्थः ॥ ८ ॥
अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमानमप
५८
१ 'विलीनम्' इति घ. पुस्तके पाठः ।
२ उप्पण्णंम अनंते नछंमि य छाउमत्थिए नाणे । राईए संपत्तो महसेणवर्णमि उज्जाणे ॥, छाया-- उत्पन्नेऽनन्ते नष्टे च छाद्मस्थिके ज्ञाने । रात्र्यां संप्राप्तो महसेनवनं उद्यानं ॥ ५३९ ॥ आवश्यकपूर्वविभागः ।
" नास्त्येव ' इति घ. पुस्तके पाठः ।
४ बलवता यूना रोगरहितेनापि पुंसा यस्य कर्मण - उदयात्तृणमपि न तिर्यक्कर्तुं पार्यते तत्कर्म वीर्यान्तरायाख्यम् ।
५ लब्धयः पञ्च । तथाहि - दानलाभभोगोपभोगवीर्यभेदात्पञ्चधा । सूत्रकृताङ्गप्रथमश्रुतस्कन्धे १२ अ. । तत्त्वार्थसू. २--५ ।
6
६
' एव ' इत्यधिकं रा. ह. क. ख. घ. पुस्तकेषु ।