SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्लोक ९ लप्य, तादृशकुशास्त्रशस्त्रसंपर्कविनष्टदृष्टयस्तस्य विभुत्वं मन्यन्ते, अत ५९ स्तत्रोपालम्भमाह स्याद्वादमञ्जरीसहिता यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवद् निष्प्रतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ ९ ॥ यत्रैव--देशे यः पदार्थः ; दृष्टगुणो, दृष्टाः - प्रत्यक्षादि - प्रमाणतोऽनुभूताः, गुणा धर्मा यस्य स तथा सं पदार्थः, तत्रैव-विवक्षितदेश एव । उपपद्यते इति क्रियाध्याहारो गम्यः । पूर्वस्यैवकारस्यावधारणार्थस्यात्त्राप्यभिसम्बन्धात् तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः । अमुमेवार्थ दृष्टान्तेन द्रढयति कुम्भादिवदिति-घटादिवत् ; यथा कुम्भादेर्यत्रैव देशे रूपादयो गुणा उपलभ्यन्ते तत्रैव तस्यास्तित्वं प्रतीयते, नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते, न बहिः, तस्मात् तत्प्रमाण एवायमिति । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गन्धादिगुण उपलभ्यते, तथापि तेन न व्यभिचारः ; तदाश्रया हि गन्धादिपुद्गलाः तेषां च वैश्रंसिक्या, प्रायोगिक्या वा गत्या गतिमत्त्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह-- निष्पतिपक्षमेतदितिः एतद् निष्पतिपक्षं - बाधकरहितम्ः “ न हि दृष्टेऽनुपपन्नं नाम " इति न्यायात् । 44 ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो 6 १ स' इति क पुस्तके नास्ति । २ स्वाभाविकया । ३ दृष्टे वस्तुनि उपपत्तेरनपेक्षेत्यर्थः ।
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy