________________
श्लोक ९
अन्ययोगव्यवच्छेदिका योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चेत् । मैवं वोचः । स हि न खलु मन्त्रादीनां गुणः, किन्तु तदधिष्ठातृदेवतानाम्; तासां चाकर्षणीयोच्चाटनीयादिदेशगमने कौतस्कुतोऽयमुपालम्भः। न जातु गुणा गुणिनमतिरिच्य वर्तन्त इति । अथोत्तरार्द्ध व्याख्यायते--तथापीत्यादि । तथापि एवं निःसपत्नं व्यवस्थितेऽपि तत्त्वे; अतत्त्ववादोपहताः । अनाचार इत्यत्रेव नत्रः कुत्सार्थत्वात् । कुत्सिततत्त्ववादेन तदभिमताप्ताभासपुरुषविशेषप्रणीतेन तत्त्वाभासप्ररूपणेनोपहताः-व्यामोहिताः, देहाद् बहिः-शरीरव्यतिरिक्तेऽपि देशे, आत्मतत्त्वम्-आत्मरूपम्। पठन्ति शास्त्ररूपतया. प्रणयन्ते । इत्यक्षरार्थः।
भावार्थस्त्वयम्-आत्मा सर्वगतो न भवति, सर्वत्र तद्गुणानुपलब्धः। यो यः सर्वत्रानुपलभ्यमानगुणः स स सर्वगतो न भवति, यथा घटः । तथा चायम् । तस्मात् तथा। व्यतिरेके-व्योमादि। न चायमासिद्धो हेतुः-कायव्यतिरिक्तदेशे तद्गुणानां बुद्धयादीनां वादिना, प्रतिवादिना वानभ्युपगमात् । तथा च भट्टः श्रीधरः-“ सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वम् । नान्यत्र । शरीररस्योपभोगायतनत्वात् । अन्यथा तस्य वैयादिति"।
अथास्त्यदृष्टमात्मनो विशेषगुणः; तच्च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापकं च; कथमितरथा द्वीपान्तरादिष्वपि प्रतिनियतदेशवर्तिपुरुषोपभोग्यानि कनकरत्नचन्दनाङ्गनादीनि तेनोत्पाद्यन्ते ? । गुणश्च
१ निर्विवादमित्यर्थः। २ 'अपि' इति ख. पुस्तके नास्ति । ३ 'आत्मस्वरूपम्' इति क. ख. पुस्तकयोः पाठः। ४ 'स्वरूपतया' इति घ. पुस्तके पाठः । ५ 'अन्यथा' इति क. पुस्तके पाठः।