________________
स्याद्रादमञ्जरीसहिता
श्लोक ९ गुणिनं विहाय न वर्तते, अतोऽनुमीयते सर्वगत आत्मोत । नैवम् । अदृष्टस्य सर्वगतत्वे प्रमाणाभावात् । अथारत्येव प्रमाणं वह्नेरूद्धज्वलनं, वायोस्तिर्यपवनं चादृष्टकारितामति चेत् । न ; तयोस्तत्स्वभावत्वादेव तत्सिद्धेः दहनस्य दहनशक्तिवत् । साप्यदृष्टकारिता चेत्, तर्हि जगत्त्रयवैचित्रीसूत्रणेऽपि तदेव सूत्रधारायता, किमीश्वरकल्पनया ? तन्नायमासिद्धो हेतुः । न चानैकान्तिकः-साध्यसाधनयोाप्तिग्रहणेन व्यभिचाराभावात् । नापि विरुद्धः-अत्यन्तं विपक्षव्यावृत्तत्वात् । आत्मगुणाश्च बुध्द्यादयः शरीर एवोपलभ्यन्ते, ततो गुणिनापि तत्रैव भाव्यम् इति सिद्धः कायप्रमाण आत्मा । ____ अन्यच्च, त्वयात्मनां बहुत्वमिष्यते; "नानात्मानो व्यवस्थातः" इति वचनात् । ते च व्यापकाः, ततस्तेषां प्रदीपप्रभामण्डलानामिव परस्परानुवेधे तदाश्रितशुभाशुभकर्मणामपि परस्परं सङ्करः स्यात् । तथा चैकस्य शुभकर्मणा अन्यः सुखी भवेद्, इतरस्याशुभकर्मणा चान्यो दुःखीत्यसमञ्जसमापद्येत । अन्यच्च, एकस्यैवात्मनः स्वोपात्तशुभकर्मविपाकेन सुखित्वं, परोपार्जिताशुभकर्मविपाकसम्बन्धेन च दुःखित्वमिति युगपत्सुखदुःखसंवेदनप्रसङ्गः। अथ स्वावष्टब्धं भोगायतनमाश्रित्यैव शुभाशुभयोर्भोगः, तर्हि स्वोपार्जितमप्यदृष्टं कथं भोगायतनाद् बहिर्निष्क्रम्य वह्नरूप्रज्वलनादिकं करोति ? इति चिन्त्यमेतत् । __आत्मनां च सर्वगतत्वे एकैकस्य सृष्टिकर्तृत्वप्रसङ्गः ; सर्वगतत्वेनेश्वरान्तरनुप्रवेशस्य सम्भावनीयत्वात् । ईश्वरस्य वा तदन्तरनुभवेशे-तस्याप्यकर्तृत्वापत्तिः, न हि क्षीरनीरयोरन्योन्यसम्बन्धे, १ 'सर्वगतत्वसाधने' इति रा. ह. क. ख. घ. पुस्तकेषु पाठः । २ सूत्रधारवन्मुख्यतः कर्तृत्वं लभताम् । ईश्वरे कर्तृत्वं किमर्थ कल्प्यत इत्यर्थः । ३ 'कर्मविपाकेन' इति क, पुस्तके पाठः ।