________________
श्लोक ९
अन्ययोगव्यवच्छेदिका एकतरस्य-पानादिक्रियान्यतरस्य न भवतीति युक्तं वक्तुम् । किञ्च, आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः । अथ भोगायतनाभ्युपगमाद् नायं दोष इति चेत्, ननु स भोगायतनं सर्वात्मना अवष्टनीयाद् , एकदेशेन वा ? । सर्वात्मना चेदअस्मदभिमताङ्गीकारः । एकदेशेन चेत् सावयवत्वप्रसङ्गः, परिपूर्णभोगाभावश्च । ___ अथात्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावाद्-आद्यकाभावः, तदभावाद्-अन्त्यसंयोगस्य, तन्निमित्तशरीरस्य, तेन तत्सम्बन्धस्य चाभावाद्- अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् । नैवम् ; 'यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमासम्भवात् । अयस्कान्तं प्रति-अयसस्तेनासंयुक्तस्याप्याकर्षणोपलब्धः। अथासंयुक्तस्याप्याकर्षणे--तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने तच्छरीरं कियत्प्रमाणं स्याद् ? इति चेत् , संयुक्तस्याप्याकर्षणे कथं स एव दोषो न भवेत् ? आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाविशेषेऽप्यदृष्टवशाद विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् ।
____ अथास्तु यथाकथञ्चिच्छरीरोत्पत्तिः; तथापि सावयवं शरीरम् ; प्रत्यवयवमनुप्रविशन्नात्मा सावयवः स्यात् । तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः, कार्यत्वे चासौ विजातीयैः सजातीयैर्वा कारणरारभ्येत ? ; न तावद्विजातीयैः-तेषामनारम्भकत्वात् । न हि तन्तवो घटमारभन्ते न च सजातीयैः। यत आत्मत्वाभिसम्बन्धादेव तेषां १ 'अन्युपगमे नायं दोषः' इति ख. पुस्तके पाठः । २ ' तत्संबंधस्याभावात्' इति क. पुस्तके पाठः। . ३ ' नियमाभावातू ' इति ख. पुस्तके पाठः ।