________________
स्याद्वादमञ्जरीसाहिता
श्लोक ९ कारणानां सजातीयत्वम् पार्थिवादिपरमाणूनां विजातीयत्वात् तथा चात्मभिरात्मा आरभ्यत इत्यायातम् । तच्चायुक्तम् एकत्र शरीरेऽनेकात्मनामात्मारम्भकाणामसम्भवात्; सम्भवे वा प्रतिसन्धानानुपपात्तः; न हि अन्येन दृष्टमन्यः प्रतिसन्धातुमर्हति'; अतिप्रसङ्गात् । तदारभ्यत्वे चास्य घटवदवयवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात्। तस्माद् व्यापक एवात्मा युज्यते, कायप्रमाणतायामुक्तदोषसद्भावादिति चेत् । न; सावयत्वकार्यत्वयोः कथञ्चिदात्मन्यभ्युपगमात् । तत्र सावयत्वं तावद्-असंख्येयप्रदेशात्मकत्वात् । तथा च द्रव्यालङ्कारकारः--" आकाशोऽपि सदेशः, सकृत्सर्वमूर्ताभिसम्बन्धाहत्वात्" इति । यद्यप्यवयवदेशयोर्गन्धहस्त्यादिषु भेदोऽस्ति, तथापि नात्र सूक्ष्मक्षिका चिन्त्या । प्रदेशेष्ववयवव्यवहारात्-कार्यत्वं तु वक्ष्यामः ।
नन्वात्मनां कार्यत्वे घटादिवत्प्राक्प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसक्ति; अवयवा ह्यवयविनमारभन्ते, यथा-तन्तवः पटामिति चेत् न वाच्यम् । न खलु घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीयकपालसंयोगारभ्यत्वं दृष्टम्; कुम्भकारादिव्यापारान्विताद् मृत्पिण्डात् प्रथममेव पृथुबुध्नोदराद्याकारस्यास्योत्पत्तिप्रतीतेः। द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वम् तच्च बहिरि१ 'इति' पदमधिकं क, पुस्तके । २ 'वास्य इति घ. पुस्तके पाठः । ३ 'द्रव्यालंकारकारौं' इति रा. ह. क. ख. पुस्तकेषु पाठः। ४ तत्त्वार्थसूत्रोपरि श्रीसमन्तभद्रस्वामिविरचितं ८४००० श्लोकपरिमितं गन्धहस्तिसंज्ञकं महाभाष्यम् । अस्य मङ्गलाचरणं देवागमस्तोत्रसंज्ञकमाप्तमीमांसासंज्ञकं सपादशतश्लोकपरिमितमस्ति । अत्र मङ्गलाचरणे श्रीमदकलंकदेवनिर्मिता अष्टशतश्लोकप्रमाणा- तथा श्रीविद्यानन्दिस्वामिविरचिताष्टसहस्रश्लोकात्मिका चेति व्याख्याद्वयमस्ति भाष्यं त्वधुना नोपलभ्यते। ५ सुक्ष्मविचारः।